| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच॥
एतत्ते सर्वमाख्यातममृतं मथितं यथा । यत्र सोऽश्वः समुत्पन्नः श्रीमानतुलविक्रमः ॥१॥
एतत् ते सर्वम् आख्यातम् अमृतम् मथितम् यथा । यत्र सः अश्वः समुत्पन्नः श्रीमान् अतुल-विक्रमः ॥१॥
etat te sarvam ākhyātam amṛtam mathitam yathā . yatra saḥ aśvaḥ samutpannaḥ śrīmān atula-vikramaḥ ..1..
यं निशाम्य तदा कद्रूर्विनतामिदमब्रवीत् । उच्चैःश्रवा नु किंवर्णो भद्रे जानीहि माचिरम् ॥२॥
यम् निशाम्य तदा कद्रूः विनताम् इदम् अब्रवीत् । उच्चैःश्रवाः नु किंवर्णः भद्रे जानीहि माचिरम् ॥२॥
yam niśāmya tadā kadrūḥ vinatām idam abravīt . uccaiḥśravāḥ nu kiṃvarṇaḥ bhadre jānīhi māciram ..2..
विनतोवाच॥
श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे । ब्रूहि वर्णं त्वमप्यस्य ततोऽत्र विपणावहे ॥३॥
श्वेतः एव अश्वराजः अयम् किम् वा त्वम् मन्यसे शुभे । ब्रूहि वर्णम् त्वम् अपि अस्य ततस् अत्र विपण-आवहे ॥३॥
śvetaḥ eva aśvarājaḥ ayam kim vā tvam manyase śubhe . brūhi varṇam tvam api asya tatas atra vipaṇa-āvahe ..3..
कद्रूरुवाच॥
कृष्णवालमहं मन्ये हयमेनं शुचिस्मिते । एहि सार्धं मया दीव्य दासीभावाय भामिनि ॥४॥
कृष्ण-वालम् अहम् मन्ये हयम् एनम् शुचि-स्मिते । एहि सार्धम् मया दीव्य दासी-भावाय भामिनि ॥४॥
kṛṣṇa-vālam aham manye hayam enam śuci-smite . ehi sārdham mayā dīvya dāsī-bhāvāya bhāmini ..4..
सूत उवाच॥
एवं ते समयं कृत्वा दासीभावाय वै मिथः । जग्मतुः स्वगृहानेव श्वो द्रक्ष्याव इति स्म ह ॥५॥
एवम् ते समयम् कृत्वा दासी-भावाय वै मिथस् । जग्मतुः स्व-गृहान् एव श्वस् द्रक्ष्यावः इति स्म ह ॥५॥
evam te samayam kṛtvā dāsī-bhāvāya vai mithas . jagmatuḥ sva-gṛhān eva śvas drakṣyāvaḥ iti sma ha ..5..
ततः पुत्रसहस्रं तु कद्रूर्जिह्मं चिकीर्षती । आज्ञापयामास तदा वाला भूत्वाञ्जनप्रभाः ॥६॥
ततस् पुत्र-सहस्रम् तु कद्रूः जिह्मम् चिकीर्षती । आज्ञापयामास तदा वालाः भूत्वा अञ्जन-प्रभाः ॥६॥
tatas putra-sahasram tu kadrūḥ jihmam cikīrṣatī . ājñāpayāmāsa tadā vālāḥ bhūtvā añjana-prabhāḥ ..6..
आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा । तद्वाक्यं नान्वपद्यन्त ताञ्शशाप भुजङ्गमान् ॥७॥
आविशध्वम् हयम् क्षिप्रम् दासी न स्याम् अहम् यथा । तत् वाक्यम् न अन्वपद्यन्त तान् शशाप भुजङ्गमान् ॥७॥
āviśadhvam hayam kṣipram dāsī na syām aham yathā . tat vākyam na anvapadyanta tān śaśāpa bhujaṅgamān ..7..
सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति । जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः ॥८॥
सर्प-सत्रे वर्तमाने पावकः वः प्रधक्ष्यति । जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः ॥८॥
sarpa-satre vartamāne pāvakaḥ vaḥ pradhakṣyati . janamejayasya rājarṣeḥ pāṇḍaveyasya dhīmataḥ ..8..
शापमेनं तु शुश्राव स्वयमेव पितामहः । अतिक्रूरं समुद्दिष्टं कद्र्वा दैवादतीव हि ॥९॥
शापम् एनम् तु शुश्राव स्वयम् एव पितामहः । अति क्रूरम् समुद्दिष्टम् कद्र्वाः दैवात् अतीव हि ॥९॥
śāpam enam tu śuśrāva svayam eva pitāmahaḥ . ati krūram samuddiṣṭam kadrvāḥ daivāt atīva hi ..9..
सार्धं देवगणैः सर्वैर्वाचं तामन्वमोदत । बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया ॥१०॥
सार्धम् देव-गणैः सर्वैः वाचम् ताम् अन्वमोदत । बहु-त्वम् प्रेक्ष्य सर्पाणाम् प्रजानाम् हित-काम्यया ॥१०॥
sārdham deva-gaṇaiḥ sarvaiḥ vācam tām anvamodata . bahu-tvam prekṣya sarpāṇām prajānām hita-kāmyayā ..10..
तिग्मवीर्यविषा ह्येते दन्दशूका महाबलाः । तेषां तीक्ष्णविषत्वाद्धि प्रजानां च हिताय वै ॥११॥ ( प्रादाद्विषहणीं विद्यां काश्यपाय महात्मने ॥११॥ )
तिग्म-वीर्य-विषाः हि एते दन्दशूकाः महा-बलाः । तेषाम् तीक्ष्ण-विष-त्वात् हि प्रजानाम् च हिताय वै ॥११॥ ( प्रादात् विद्याम् काश्यपाय महात्मने ॥११॥ )
tigma-vīrya-viṣāḥ hi ete dandaśūkāḥ mahā-balāḥ . teṣām tīkṣṇa-viṣa-tvāt hi prajānām ca hitāya vai ..11.. ( prādāt vidyām kāśyapāya mahātmane ..11.. )

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In