| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
तस्मै दित्सति कन्यां तु ब्राह्मणाय महात्मने । कोप आसीन्महीपानामालोक्यान्योन्यमन्तिकात् ॥१॥
तस्मै दित्सति कन्याम् तु ब्राह्मणाय महात्मने । कोपः आसीत् महीपानाम् आलोक्य अन्योन्यम् अन्तिकात् ॥१॥
tasmai ditsati kanyām tu brāhmaṇāya mahātmane . kopaḥ āsīt mahīpānām ālokya anyonyam antikāt ..1..
अस्मानयमतिक्रम्य तृणीकृत्य च सङ्गतान् । दातुमिच्छति विप्राय द्रौपदीं योषितां वराम् ॥२॥
अस्मान् अयम् अतिक्रम्य तृणीकृत्य च सङ्गतान् । दातुम् इच्छति विप्राय द्रौपदीम् योषिताम् वराम् ॥२॥
asmān ayam atikramya tṛṇīkṛtya ca saṅgatān . dātum icchati viprāya draupadīm yoṣitām varām ..2..
निहन्मैनं दुरात्मानं योऽयमस्मान्न मन्यते । न ह्यर्हत्येष सत्कारं नापि वृद्धक्रमं गुणैः ॥३॥
निहन्म एनम् दुरात्मानम् यः अयम् अस्मान् न मन्यते । न हि अर्हति एष सत्कारम् ना अपि वृद्ध-क्रमम् गुणैः ॥३॥
nihanma enam durātmānam yaḥ ayam asmān na manyate . na hi arhati eṣa satkāram nā api vṛddha-kramam guṇaiḥ ..3..
हन्मैनं सह पुत्रेण दुराचारं नृपद्विषम् । अयं हि सर्वानाहूय सत्कृत्य च नराधिपान् ॥४॥ ( गुणवद्भोजयित्वा च ततः पश्चाद्विनिन्दति ॥४॥ )
हन्म एनम् सह पुत्रेण दुराचारम् नृप-द्विषम् । अयम् हि सर्वान् आहूय सत्कृत्य च नराधिपान् ॥४॥ ( गुणवत् भोजयित्वा च ततस् पश्चात् विनिन्दति ॥४॥ )
hanma enam saha putreṇa durācāram nṛpa-dviṣam . ayam hi sarvān āhūya satkṛtya ca narādhipān ..4.. ( guṇavat bhojayitvā ca tatas paścāt vinindati ..4.. )
अस्मिन्राजसमावाये देवानामिव संनये । किमयं सदृशं कञ्चिन्नृपतिं नैव दृष्टवान् ॥५॥
अस्मिन् राज-समावाये देवानाम् इव संनये । किम् अयम् सदृशम् कञ्चिद् नृपतिम् ना एव दृष्टवान् ॥५॥
asmin rāja-samāvāye devānām iva saṃnaye . kim ayam sadṛśam kañcid nṛpatim nā eva dṛṣṭavān ..5..
न च विप्रेष्वधीकारो विद्यते वरणं प्रति । स्वयंवरः क्षत्रियाणामितीयं प्रथिता श्रुतिः ॥६॥
न च विप्रेषु अधीकारः विद्यते वरणम् प्रति । स्वयंवरः क्षत्रियाणाम् इति इयम् प्रथिता श्रुतिः ॥६॥
na ca vipreṣu adhīkāraḥ vidyate varaṇam prati . svayaṃvaraḥ kṣatriyāṇām iti iyam prathitā śrutiḥ ..6..
अथ वा यदि कन्येयं नेह कञ्चिद्बुभूषति । अग्नावेनां परिक्षिप्य याम राष्ट्राणि पार्थिवाः ॥७॥
अथ वा यदि कन्या इयम् न इह कञ्चिद् बुभूषति । अग्नौ एनाम् परिक्षिप्य याम राष्ट्राणि पार्थिवाः ॥७॥
atha vā yadi kanyā iyam na iha kañcid bubhūṣati . agnau enām parikṣipya yāma rāṣṭrāṇi pārthivāḥ ..7..
ब्राह्मणो यदि वा बाल्याल्लोभाद्वा कृतवानिदम् । विप्रियं पार्थिवेन्द्राणां नैष वध्यः कथञ्चन ॥८॥
ब्राह्मणः यदि वा बाल्यात् लोभात् वा कृतवान् इदम् । विप्रियम् पार्थिव-इन्द्राणाम् न एष वध्यः कथञ्चन ॥८॥
brāhmaṇaḥ yadi vā bālyāt lobhāt vā kṛtavān idam . vipriyam pārthiva-indrāṇām na eṣa vadhyaḥ kathañcana ..8..
ब्राह्मणार्थं हि नो राज्यं जीवितं च वसूनि च । पुत्रपौत्रं च यच्चान्यदस्माकं विद्यते धनम् ॥९॥
ब्राह्मण-अर्थम् हि नः राज्यम् जीवितम् च वसूनि च । पुत्र-पौत्रम् च यत् च अन्यत् अस्माकम् विद्यते धनम् ॥९॥
brāhmaṇa-artham hi naḥ rājyam jīvitam ca vasūni ca . putra-pautram ca yat ca anyat asmākam vidyate dhanam ..9..
अवमानभयादेतत्स्वधर्मस्य च रक्षणात् । स्वयंवराणां चान्येषां मा भूदेवंविधा गतिः ॥१०॥
अवमान-भयात् एतत् स्वधर्मस्य च रक्षणात् । स्वयंवराणाम् च अन्येषाम् मा भूत् एवंविधा गतिः ॥१०॥
avamāna-bhayāt etat svadharmasya ca rakṣaṇāt . svayaṃvarāṇām ca anyeṣām mā bhūt evaṃvidhā gatiḥ ..10..
इत्युक्त्वा राजशार्दूला हृष्टाः परिघबाहवः । द्रुपदं सञ्जिघृक्षन्तः सायुधाः समुपाद्रवन् ॥११॥
इति उक्त्वा राज-शार्दूलाः हृष्टाः परिघ-बाहवः । द्रुपदम् सञ्जिघृक्षन्तः स आयुधाः समुपाद्रवन् ॥११॥
iti uktvā rāja-śārdūlāḥ hṛṣṭāḥ parigha-bāhavaḥ . drupadam sañjighṛkṣantaḥ sa āyudhāḥ samupādravan ..11..
तान्गृहीतशरावापान्क्रुद्धानापततो नृपान् । द्रुपदो वीक्ष्य सन्त्रासाद्ब्राह्मणाञ्शरणं गतः ॥१२॥
तान् गृहीत-शरावापान् क्रुद्धान् आपततः नृपान् । द्रुपदः वीक्ष्य सन्त्रासात् ब्राह्मणान् शरणम् गतः ॥१२॥
tān gṛhīta-śarāvāpān kruddhān āpatataḥ nṛpān . drupadaḥ vīkṣya santrāsāt brāhmaṇān śaraṇam gataḥ ..12..
वेगेनापततस्तांस्तु प्रभिन्नानिव वारणान् । पाण्डुपुत्रौ महावीर्यौ प्रतीयतुररिंदमौ ॥१३॥
वेगेन आपततः तान् तु प्रभिन्नान् इव वारणान् । पाण्डु-पुत्रौ महा-वीर्यौ प्रतीयतुः अरिंदमौ ॥१३॥
vegena āpatataḥ tān tu prabhinnān iva vāraṇān . pāṇḍu-putrau mahā-vīryau pratīyatuḥ ariṃdamau ..13..
ततः समुत्पेतुरुदायुधास्ते; महीक्षितो बद्धतलाङ्गुलित्राः । जिघांसमानाः कुरुराजपुत्रा; वमर्षयन्तोऽर्जुनभीमसेनौ ॥१४॥
ततस् समुत्पेतुः उदायुधाः ते; महीक्षितः बद्ध-तल-अङ्गुलित्राः । जिघांसमानाः कुरु-राज-पुत्रा; वमर्षयन्तः अर्जुन-भीमसेनौ ॥१४॥
tatas samutpetuḥ udāyudhāḥ te; mahīkṣitaḥ baddha-tala-aṅgulitrāḥ . jighāṃsamānāḥ kuru-rāja-putrā; vamarṣayantaḥ arjuna-bhīmasenau ..14..
ततस्तु भीमोऽद्भुतवीर्यकर्मा; महाबलो वज्रसमानवीर्यः । उत्पाट्य दोर्भ्यां द्रुममेकवीरो; निष्पत्रयामास यथा गजेन्द्रः ॥१५॥
ततस् तु भीमः अद्भुत-वीर्य-कर्मा; महा-बलः वज्र-समान-वीर्यः । उत्पाट्य दोर्भ्याम् द्रुमम् एक-वीरः; निष्पत्रयामास यथा गज-इन्द्रः ॥१५॥
tatas tu bhīmaḥ adbhuta-vīrya-karmā; mahā-balaḥ vajra-samāna-vīryaḥ . utpāṭya dorbhyām drumam eka-vīraḥ; niṣpatrayāmāsa yathā gaja-indraḥ ..15..
तं वृक्षमादाय रिपुप्रमाथी; दण्डीव दण्डं पितृराज उग्रम् । तस्थौ समीपे पुरुषर्षभस्य; पार्थस्य पार्थः पृथुदीर्घबाहुः ॥१६॥
तम् वृक्षम् आदाय रिपु-प्रमाथी; दण्डी इव दण्डम् पितृराजे उग्रम् । तस्थौ समीपे पुरुष-ऋषभस्य; पार्थस्य पार्थः पृथु-दीर्घ-बाहुः ॥१६॥
tam vṛkṣam ādāya ripu-pramāthī; daṇḍī iva daṇḍam pitṛrāje ugram . tasthau samīpe puruṣa-ṛṣabhasya; pārthasya pārthaḥ pṛthu-dīrgha-bāhuḥ ..16..
तत्प्रेक्ष्य कर्मातिमनुष्यबुद्धे; र्जिष्णोः सहभ्रातुरचिन्त्यकर्मा । दामोदरो भ्रातरमुग्रवीर्यं; हलायुधं वाक्यमिदं बभाषे ॥१७॥
तत् प्रेक्ष्य कर्म अति मनुष्य-बुद्धे; र्जिष्णोः सहभ्रातुः अचिन्त्य-कर्मा । दामोदरः भ्रातरम् उग्र-वीर्यम्; हलायुधम् वाक्यम् इदम् बभाषे ॥१७॥
tat prekṣya karma ati manuṣya-buddhe; rjiṣṇoḥ sahabhrātuḥ acintya-karmā . dāmodaraḥ bhrātaram ugra-vīryam; halāyudham vākyam idam babhāṣe ..17..
य एष मत्तर्षभतुल्यगामी; महद्धनुः कर्षति तालमात्रम् । एषोऽर्जुनो नात्र विचार्यमस्ति; यद्यस्मि सङ्कर्षण वासुदेवः ॥१८॥
यः एष मत्त-ऋषभ-तुल्य-गामी; महत् धनुः कर्षति ताल-मात्रम् । एषः अर्जुनः न अत्र विचार्यम् अस्ति; यदि अस्मि सङ्कर्षण वासुदेवः ॥१८॥
yaḥ eṣa matta-ṛṣabha-tulya-gāmī; mahat dhanuḥ karṣati tāla-mātram . eṣaḥ arjunaḥ na atra vicāryam asti; yadi asmi saṅkarṣaṇa vāsudevaḥ ..18..
य एष वृक्षं तरसावरुज्य; राज्ञां विकारे सहसा निवृत्तः । वृकोदरो नान्य इहैतदद्य; कर्तुं समर्थो भुवि मर्त्यधर्मा ॥१९॥
यः एष वृक्षम् तरसा अवरुज्य; राज्ञाम् विकारे सहसा निवृत्तः । वृकोदरः न अन्यः इह एतत् अद्य; कर्तुम् समर्थः भुवि मर्त्य-धर्मा ॥१९॥
yaḥ eṣa vṛkṣam tarasā avarujya; rājñām vikāre sahasā nivṛttaḥ . vṛkodaraḥ na anyaḥ iha etat adya; kartum samarthaḥ bhuvi martya-dharmā ..19..
योऽसौ पुरस्तात्कमलायताक्ष; स्तनुर्महासिंहगतिर्विनीतः । गौरः प्रलम्बोज्ज्वलचारुघोणो; विनिःसृतः सोऽच्युत धर्मराजः ॥२०॥
यः असौ पुरस्तात् कमल-आयत-अक्ष; स्तनुः महा-सिंह-गतिः विनीतः । गौरः; विनिःसृतः सः अच्युत धर्मराजः ॥२०॥
yaḥ asau purastāt kamala-āyata-akṣa; stanuḥ mahā-siṃha-gatiḥ vinītaḥ . gauraḥ; viniḥsṛtaḥ saḥ acyuta dharmarājaḥ ..20..
यौ तौ कुमाराविव कार्त्तिकेयौ; द्वावश्विनेयाविति मे प्रतर्कः । मुक्ता हि तस्माज्जतुवेश्मदाहा; न्मया श्रुताः पाण्डुसुताः पृथा च ॥२१॥
यौ तौ कुमारौ इव कार्त्तिकेयौ; द्वौ अश्विनेयौ इति मे प्रतर्कः । मुक्ता हि तस्मात् जतु-वेश्म-दाहा; न् मया श्रुताः पाण्डु-सुताः पृथा च ॥२१॥
yau tau kumārau iva kārttikeyau; dvau aśvineyau iti me pratarkaḥ . muktā hi tasmāt jatu-veśma-dāhā; n mayā śrutāḥ pāṇḍu-sutāḥ pṛthā ca ..21..
तमब्रवीन्निर्मलतोयदाभो; हलायुधोऽनन्तरजं प्रतीतः । प्रीतोऽस्मि दिष्ट्या हि पितृष्वसा नः; पृथा विमुक्ता सह कौरवाग्र्यैः ॥२२॥ 1.188.24
तम् अब्रवीत् निर्मल-तोयद-आभो; हलायुधः अनन्तर-जम् प्रतीतः । प्रीतः अस्मि दिष्ट्या हि पितृष्वसा नः; पृथा विमुक्ता सह कौरव-अग्र्यैः ॥२२॥ १।१८८।२४
tam abravīt nirmala-toyada-ābho; halāyudhaḥ anantara-jam pratītaḥ . prītaḥ asmi diṣṭyā hi pitṛṣvasā naḥ; pṛthā vimuktā saha kaurava-agryaiḥ ..22.. 1.188.24

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In