| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
अजिनानि विधुन्वन्तः करकांश्च द्विजर्षभाः । ऊचुस्तं भीर्न कर्तव्या वयं योत्स्यामहे परान् ॥१॥
अजिनानि विधुन्वन्तः करकान् च द्विजर्षभाः । ऊचुः तम् भीः न कर्तव्या वयम् योत्स्यामहे परान् ॥१॥
ajināni vidhunvantaḥ karakān ca dvijarṣabhāḥ . ūcuḥ tam bhīḥ na kartavyā vayam yotsyāmahe parān ..1..
तानेवं वदतो विप्रानर्जुनः प्रहसन्निव । उवाच प्रेक्षका भूत्वा यूयं तिष्ठत पार्श्वतः ॥२॥
तान् एवम् वदतः विप्रान् अर्जुनः प्रहसन् इव । उवाच प्रेक्षकाः भूत्वा यूयम् तिष्ठत पार्श्वतस् ॥२॥
tān evam vadataḥ viprān arjunaḥ prahasan iva . uvāca prekṣakāḥ bhūtvā yūyam tiṣṭhata pārśvatas ..2..
अहमेनानजिह्माग्रैः शतशो विकिरञ्शरैः । वारयिष्यामि सङ्क्रुद्धान्मन्त्रैराशीविषानिव ॥३॥
अहम् एनान् अ जिह्म-अग्रैः शतशस् विकिरन् शरैः । वारयिष्यामि सङ्क्रुद्धान् मन्त्रैः आशीविषान् इव ॥३॥
aham enān a jihma-agraiḥ śataśas vikiran śaraiḥ . vārayiṣyāmi saṅkruddhān mantraiḥ āśīviṣān iva ..3..
इति तद्धनुरादाय शुल्कावाप्तं महारथः । भ्रात्रा भीमेन सहितस्तस्थौ गिरिरिवाचलः ॥४॥
इति तत् धनुः आदाय शुल्क-अवाप्तम् महा-रथः । भ्रात्रा भीमेन सहितः तस्थौ गिरिः इव अचलः ॥४॥
iti tat dhanuḥ ādāya śulka-avāptam mahā-rathaḥ . bhrātrā bhīmena sahitaḥ tasthau giriḥ iva acalaḥ ..4..
ततः कर्णमुखान्क्रुद्धान्क्षत्रियांस्तान्रुषोत्थितान् । सम्पेततुरभीतौ तौ गजौ प्रतिगजानिव ॥५॥
ततस् कर्ण-मुखान् क्रुद्धान् क्षत्रियान् तान् रुषा उत्थितान् । सम्पेततुः अभीतौ तौ गजौ प्रतिगजान् इव ॥५॥
tatas karṇa-mukhān kruddhān kṣatriyān tān ruṣā utthitān . sampetatuḥ abhītau tau gajau pratigajān iva ..5..
ऊचुश्च वाचः परुषास्ते राजानो जिघांसवः । आहवे हि द्विजस्यापि वधो दृष्टो युयुत्सतः ॥६॥
ऊचुः च वाचः परुषाः ते राजानः जिघांसवः । आहवे हि द्विजस्य अपि वधः दृष्टः युयुत्सतः ॥६॥
ūcuḥ ca vācaḥ paruṣāḥ te rājānaḥ jighāṃsavaḥ . āhave hi dvijasya api vadhaḥ dṛṣṭaḥ yuyutsataḥ ..6..
ततो वैकर्तनः कर्णो जगामार्जुनमोजसा । युद्धार्थी वाशिताहेतोर्गजः प्रतिगजं यथा ॥७॥
ततस् वैकर्तनः कर्णः जगाम अर्जुनम् ओजसा । युद्ध-अर्थी वाशिता-हेतोः गजः प्रतिगजम् यथा ॥७॥
tatas vaikartanaḥ karṇaḥ jagāma arjunam ojasā . yuddha-arthī vāśitā-hetoḥ gajaḥ pratigajam yathā ..7..
भीमसेनं ययौ शल्यो मद्राणामीश्वरो बली । दुर्योधनादयस्त्वन्ये ब्राह्मणैः सह सङ्गताः ॥८॥ ( मृदुपूर्वमयत्नेन प्रत्ययुध्यंस्तदाहवे ॥८॥ )
भीमसेनम् ययौ शल्यः मद्राणाम् ईश्वरः बली । दुर्योधन-आदयः तु अन्ये ब्राह्मणैः सह सङ्ग-ताः ॥८॥ ( मृदु-पूर्वम् अयत्नेन प्रत्ययुध्यन् तदा आहवे ॥८॥ )
bhīmasenam yayau śalyaḥ madrāṇām īśvaraḥ balī . duryodhana-ādayaḥ tu anye brāhmaṇaiḥ saha saṅga-tāḥ ..8.. ( mṛdu-pūrvam ayatnena pratyayudhyan tadā āhave ..8.. )
ततोऽर्जुनः प्रत्यविध्यदापतन्तं त्रिभिः शरैः । कर्णं वैकर्तनं धीमान्विकृष्य बलवद्धनुः ॥९॥
ततस् अर्जुनः प्रत्यविध्यत् आपतन्तम् त्रिभिः शरैः । कर्णम् वैकर्तनम् धीमान् विकृष्य बलवत् धनुः ॥९॥
tatas arjunaḥ pratyavidhyat āpatantam tribhiḥ śaraiḥ . karṇam vaikartanam dhīmān vikṛṣya balavat dhanuḥ ..9..
तेषां शराणां वेगेन शितानां तिग्मतेजसाम् । विमुह्यमानो राधेयो यत्नात्तमनुधावति ॥१०॥
तेषाम् शराणाम् वेगेन शितानाम् तिग्म-तेजसाम् । विमुह्यमानः राधेयः यत्नात् तम् अनुधावति ॥१०॥
teṣām śarāṇām vegena śitānām tigma-tejasām . vimuhyamānaḥ rādheyaḥ yatnāt tam anudhāvati ..10..
तावुभावप्यनिर्देश्यौ लाघवाज्जयतां वरौ । अयुध्येतां सुसंरब्धावन्योन्यविजयैषिणौ ॥११॥
तौ उभौ अपि अनिर्देश्यौ लाघवात् जयताम् वरौ । अयुध्येताम् सु संरब्धौ अन्योन्य-विजय-एषिणौ ॥११॥
tau ubhau api anirdeśyau lāghavāt jayatām varau . ayudhyetām su saṃrabdhau anyonya-vijaya-eṣiṇau ..11..
कृते प्रतिकृतं पश्य पश्य बाहुबलं च मे । इति शूरार्थवचनैराभाषेतां परस्परम् ॥१२॥
कृते प्रतिकृतम् पश्य पश्य बाहु-बलम् च मे । इति शूर-अर्थ-वचनैः आभाषेताम् परस्परम् ॥१२॥
kṛte pratikṛtam paśya paśya bāhu-balam ca me . iti śūra-artha-vacanaiḥ ābhāṣetām parasparam ..12..
ततोऽर्जुनस्य भुजयोर्वीर्यमप्रतिमं भुवि । ज्ञात्वा वैकर्तनः कर्णः संरब्धः समयोधयत् ॥१३॥
ततस् अर्जुनस्य भुजयोः वीर्यम् अप्रतिमम् भुवि । ज्ञात्वा वैकर्तनः कर्णः संरब्धः समयोधयत् ॥१३॥
tatas arjunasya bhujayoḥ vīryam apratimam bhuvi . jñātvā vaikartanaḥ karṇaḥ saṃrabdhaḥ samayodhayat ..13..
अर्जुनेन प्रयुक्तांस्तान्बाणान्वेगवतस्तदा । प्रतिहत्य ननादोच्चैः सैन्यास्तमभिपूजयन् ॥१४॥
अर्जुनेन प्रयुक्तान् तान् बाणान् वेगवतः तदा । प्रतिहत्य ननाद उच्चैस् सैन्याः तम् अभिपूजयन् ॥१४॥
arjunena prayuktān tān bāṇān vegavataḥ tadā . pratihatya nanāda uccais sainyāḥ tam abhipūjayan ..14..
कर्ण उवाच॥
तुष्यामि ते विप्रमुख्य भुजवीर्यस्य संयुगे । अविषादस्य चैवास्य शस्त्रास्त्रविनयस्य च ॥१५॥
तुष्यामि ते विप्र-मुख्य भुज-वीर्यस्य संयुगे । अविषादस्य च एव अस्य शस्त्र-अस्त्र-विनयस्य च ॥१५॥
tuṣyāmi te vipra-mukhya bhuja-vīryasya saṃyuge . aviṣādasya ca eva asya śastra-astra-vinayasya ca ..15..
किं त्वं साक्षाद्धनुर्वेदो रामो वा विप्रसत्तम । अथ साक्षाद्धरिहयः साक्षाद्वा विष्णुरच्युतः ॥१६॥
किम् त्वम् साक्षात् धनुर्वेदः रामः वा विप्र-सत्तम । अथ साक्षात् हरिहयः साक्षात् वा विष्णुः अच्युतः ॥१६॥
kim tvam sākṣāt dhanurvedaḥ rāmaḥ vā vipra-sattama . atha sākṣāt harihayaḥ sākṣāt vā viṣṇuḥ acyutaḥ ..16..
आत्मप्रच्छादनार्थं वै बाहुवीर्यमुपाश्रितः । विप्ररूपं विधायेदं ततो मां प्रतियुध्यसे ॥१७॥
आत्म-प्रच्छादन-अर्थम् वै बाहु-वीर्यम् उपाश्रितः । विप्र-रूपम् विधाय इदम् ततस् माम् प्रतियुध्यसे ॥१७॥
ātma-pracchādana-artham vai bāhu-vīryam upāśritaḥ . vipra-rūpam vidhāya idam tatas mām pratiyudhyase ..17..
न हि मामाहवे क्रुद्धमन्यः साक्षाच्छचीपतेः । पुमान्योधयितुं शक्तः पाण्डवाद्वा किरीटिनः ॥१८॥
न हि माम् आहवे क्रुद्धम् अन्यः साक्षात् शचीपतेः । पुमान् योधयितुम् शक्तः पाण्डवात् वा किरीटिनः ॥१८॥
na hi mām āhave kruddham anyaḥ sākṣāt śacīpateḥ . pumān yodhayitum śaktaḥ pāṇḍavāt vā kirīṭinaḥ ..18..
वैशम्पायन उवाच॥
तमेवंवादिनं तत्र फल्गुनः प्रत्यभाषत । नास्मि कर्ण धनुर्वेदो नास्मि रामः प्रतापवान् ॥१९॥ ( ब्राह्मणोऽस्मि युधां श्रेष्ठः सर्वशस्त्रभृतां वरः ॥१९॥ )
तम् एवंवादिनम् तत्र फल्गुनः प्रत्यभाषत । न अस्मि कर्ण धनुर्वेदः न अस्मि रामः प्रतापवान् ॥१९॥ ( ब्राह्मणः अस्मि युधाम् श्रेष्ठः सर्व-शस्त्रभृताम् वरः ॥१९॥ )
tam evaṃvādinam tatra phalgunaḥ pratyabhāṣata . na asmi karṇa dhanurvedaḥ na asmi rāmaḥ pratāpavān ..19.. ( brāhmaṇaḥ asmi yudhām śreṣṭhaḥ sarva-śastrabhṛtām varaḥ ..19.. )
ब्राह्मे पौरंदरे चास्त्रे निष्ठितो गुरुशासनात् । स्थितोऽस्म्यद्य रणे जेतुं त्वां वीराविचलो भव ॥२०॥
ब्राह्मे पौरंदरे च अस्त्रे निष्ठितः गुरु-शासनात् । स्थितः अस्मि अद्य रणे जेतुम् त्वाम् वीर अविचलः भव ॥२०॥
brāhme pauraṃdare ca astre niṣṭhitaḥ guru-śāsanāt . sthitaḥ asmi adya raṇe jetum tvām vīra avicalaḥ bhava ..20..
एवमुक्तस्तु राधेयो युद्धात्कर्णो न्यवर्तत । ब्रह्मं तेजस्तदाजय्यं मन्यमानो महारथः ॥२१॥
एवम् उक्तः तु राधेयः युद्धात् कर्णः न्यवर्तत । ब्रह्मम् तेजः तदा अजय्यम् मन्यमानः महा-रथः ॥२१॥
evam uktaḥ tu rādheyaḥ yuddhāt karṇaḥ nyavartata . brahmam tejaḥ tadā ajayyam manyamānaḥ mahā-rathaḥ ..21..
युद्धं तूपेयतुस्तत्र राजञ्शल्यवृकोदरौ । बलिनौ युगपन्मत्तौ स्पर्धया च बलेन च ॥२२॥
युद्धम् तु उपेयतुः तत्र राजन् शल्य-वृकोदरौ । बलिनौ युगपद् मत्तौ स्पर्धया च बलेन च ॥२२॥
yuddham tu upeyatuḥ tatra rājan śalya-vṛkodarau . balinau yugapad mattau spardhayā ca balena ca ..22..
अन्योन्यमाह्वयन्तौ तौ मत्ताविव महागजौ । मुष्टिभिर्जानुभिश्चैव निघ्नन्तावितरेतरम् ॥२३॥ ( मुहूर्तं तौ तथान्योन्यं समरे पर्यकर्षताम् ॥२३॥ )
अन्योन्यम् आह्वयन्तौ तौ मत्तौ इव महा-गजौ । मुष्टिभिः जानुभिः च एव निघ्नन्तौ इतरेतरम् ॥२३॥ ( मुहूर्तम् तौ तथा अन्योन्यम् समरे पर्यकर्षताम् ॥२३॥ )
anyonyam āhvayantau tau mattau iva mahā-gajau . muṣṭibhiḥ jānubhiḥ ca eva nighnantau itaretaram ..23.. ( muhūrtam tau tathā anyonyam samare paryakarṣatām ..23.. )
ततो भीमः समुत्क्षिप्य बाहुभ्यां शल्यमाहवे । न्यवधीद्बलिनां श्रेष्ठो जहसुर्ब्राह्मणास्ततः ॥२४॥
ततस् भीमः समुत्क्षिप्य बाहुभ्याम् शल्यम् आहवे । न्यवधीत् बलिनाम् श्रेष्ठः जहसुः ब्राह्मणाः ततस् ॥२४॥
tatas bhīmaḥ samutkṣipya bāhubhyām śalyam āhave . nyavadhīt balinām śreṣṭhaḥ jahasuḥ brāhmaṇāḥ tatas ..24..
तत्राश्चर्यं भीमसेनश्चकार पुरुषर्षभः । यच्छल्यं पतितं भूमौ नाहनद्बलिनं बली ॥२५॥
तत्र आश्चर्यम् भीमसेनः चकार पुरुष-ऋषभः । यत् शल्यम् पतितम् भूमौ न अहनत् बलिनम् बली ॥२५॥
tatra āścaryam bhīmasenaḥ cakāra puruṣa-ṛṣabhaḥ . yat śalyam patitam bhūmau na ahanat balinam balī ..25..
पातिते भीमसेनेन शल्ये कर्णे च शङ्किते । शङ्किताः सर्वराजानः परिवव्रुर्वृकोदरम् ॥२६॥
पातिते भीमसेनेन शल्ये कर्णे च शङ्किते । शङ्किताः सर्व-राजानः परिवव्रुः वृकोदरम् ॥२६॥
pātite bhīmasenena śalye karṇe ca śaṅkite . śaṅkitāḥ sarva-rājānaḥ parivavruḥ vṛkodaram ..26..
ऊचुश्च सहितास्तत्र साध्विमे ब्राह्मणर्षभाः । विज्ञायन्तां क्वजन्मानः क्वनिवासास्तथैव च ॥२७॥
ऊचुः च सहिताः तत्र साधु इमे ब्राह्मण-ऋषभाः । विज्ञायन्ताम् क्वजन्मानः क्वनिवासाः तथा एव च ॥२७॥
ūcuḥ ca sahitāḥ tatra sādhu ime brāhmaṇa-ṛṣabhāḥ . vijñāyantām kvajanmānaḥ kvanivāsāḥ tathā eva ca ..27..
को हि राधासुतं कर्मं शक्तो योधयितुं रणे । अन्यत्र रामाद्द्रोणाद्वा कृपाद्वापि शरद्वतः ॥२८॥
कः हि राधा-सुतम् कर्मम् शक्तः योधयितुम् रणे । अन्यत्र रामात् द्रोणात् वा कृपात् वा अपि शरद्वतः ॥२८॥
kaḥ hi rādhā-sutam karmam śaktaḥ yodhayitum raṇe . anyatra rāmāt droṇāt vā kṛpāt vā api śaradvataḥ ..28..
कृष्णाद्वा देवकीपुत्रात्फल्गुनाद्वा परन्तपात् । को वा दुर्योधनं शक्तः प्रतियोधयितुं रणे ॥२९॥
कृष्णात् वा देवकीपुत्रात् फल्गुनात् वा परन्तपात् । कः वा दुर्योधनम् शक्तः प्रतियोधयितुम् रणे ॥२९॥
kṛṣṇāt vā devakīputrāt phalgunāt vā parantapāt . kaḥ vā duryodhanam śaktaḥ pratiyodhayitum raṇe ..29..
तथैव मद्रराजानं शल्यं बलवतां वरम् । बलदेवादृते वीरात्पाण्डवाद्वा वृकोदरात् ॥३०॥
तथा एव मद्र-राजानम् शल्यम् बलवताम् वरम् । बलदेवात् ऋते वीरात् पाण्डवात् वा वृकोदरात् ॥३०॥
tathā eva madra-rājānam śalyam balavatām varam . baladevāt ṛte vīrāt pāṇḍavāt vā vṛkodarāt ..30..
क्रियतामवहारोऽस्माद्युद्धाद्ब्राह्मणसंयुतात् । अथैनानुपलभ्येह पुनर्योत्स्यामहे वयम् ॥३१॥
क्रियताम् अवहारः अस्मात् युद्धात् ब्राह्मण-संयुतात् । अथ एनान् उपलभ्य इह पुनर् योत्स्यामहे वयम् ॥३१॥
kriyatām avahāraḥ asmāt yuddhāt brāhmaṇa-saṃyutāt . atha enān upalabhya iha punar yotsyāmahe vayam ..31..
तत्कर्म भीमस्य समीक्ष्य कृष्णः; कुन्तीसुतौ तौ परिशङ्कमानः । निवारयामास महीपतींस्ता; न्धर्मेण लब्धेत्यनुनीय सर्वान् ॥३२॥
तत् कर्म भीमस्य समीक्ष्य कृष्णः; कुन्ती-सुतौ तौ परिशङ्कमानः । निवारयामास महीपतीन् ता; न् धर्मेण लब्धा इति अनुनीय सर्वान् ॥३२॥
tat karma bhīmasya samīkṣya kṛṣṇaḥ; kuntī-sutau tau pariśaṅkamānaḥ . nivārayāmāsa mahīpatīn tā; n dharmeṇa labdhā iti anunīya sarvān ..32..
त एवं संनिवृत्तास्तु युद्धाद्युद्धविशारदाः । यथावासं ययुः सर्वे विस्मिता राजसत्तमाः ॥३३॥
ते एवम् संनिवृत्ताः तु युद्धात् युद्ध-विशारदाः । यथावासम् ययुः सर्वे विस्मिताः राज-सत्तमाः ॥३३॥
te evam saṃnivṛttāḥ tu yuddhāt yuddha-viśāradāḥ . yathāvāsam yayuḥ sarve vismitāḥ rāja-sattamāḥ ..33..
वृत्तो ब्रह्मोत्तरो रङ्गः पाञ्चाली ब्राह्मणैर्वृता । इति ब्रुवन्तः प्रययुर्ये तत्रासन्समागताः ॥३४॥
वृत्तः ब्रह्म-उत्तरः रङ्गः पाञ्चाली ब्राह्मणैः वृता । इति ब्रुवन्तः प्रययुः ये तत्र आसन् समागताः ॥३४॥
vṛttaḥ brahma-uttaraḥ raṅgaḥ pāñcālī brāhmaṇaiḥ vṛtā . iti bruvantaḥ prayayuḥ ye tatra āsan samāgatāḥ ..34..
ब्राह्मणैस्तु प्रतिच्छन्नौ रौरवाजिनवासिभिः । कृच्छ्रेण जग्मतुस्तत्र भीमसेनधनञ्जयौ ॥३५॥
ब्राह्मणैः तु प्रतिच्छन्नौ रौरव-अजिन-वासिभिः । कृच्छ्रेण जग्मतुः तत्र भीमसेन-धनञ्जयौ ॥३५॥
brāhmaṇaiḥ tu praticchannau raurava-ajina-vāsibhiḥ . kṛcchreṇa jagmatuḥ tatra bhīmasena-dhanañjayau ..35..
विमुक्तौ जनसम्बाधाच्छत्रुभिः परिविक्षतौ । कृष्णयानुगतौ तत्र नृवीरौ तौ विरेजतुः ॥३६॥
विमुक्तौ जन-सम्बाधात् शत्रुभिः परिविक्षतौ । कृष्णया अनुगतौ तत्र नृ-वीरौ तौ विरेजतुः ॥३६॥
vimuktau jana-sambādhāt śatrubhiḥ parivikṣatau . kṛṣṇayā anugatau tatra nṛ-vīrau tau virejatuḥ ..36..
तेषां माता बहुविधं विनाशं पर्यचिन्तयत् । अनागच्छत्सु पुत्रेषु भैक्षकालेऽतिगच्छति ॥३७॥
तेषाम् माता बहुविधम् विनाशम् पर्यचिन्तयत् । अन् आगच्छत्सु पुत्रेषु भैक्ष-काले अतिगच्छति ॥३७॥
teṣām mātā bahuvidham vināśam paryacintayat . an āgacchatsu putreṣu bhaikṣa-kāle atigacchati ..37..
धार्तराष्ट्रैर्हता न स्युर्विज्ञाय कुरुपुङ्गवाः । मायान्वितैर्वा रक्षोभिः सुघोरैर्दृढवैरिभिः ॥३८॥
धार्तराष्ट्रैः हताः न स्युः विज्ञाय कुरु-पुङ्गवाः । माया-अन्वितैः वा रक्षोभिः सु घोरैः दृढ-वैरिभिः ॥३८॥
dhārtarāṣṭraiḥ hatāḥ na syuḥ vijñāya kuru-puṅgavāḥ . māyā-anvitaiḥ vā rakṣobhiḥ su ghoraiḥ dṛḍha-vairibhiḥ ..38..
विपरीतं मतं जातं व्यासस्यापि महात्मनः । इत्येवं चिन्तयामास सुतस्नेहान्विता पृथा ॥३९॥
विपरीतम् मतम् जातम् व्यासस्य अपि महात्मनः । इति एवम् चिन्तयामास सुत-स्नेह-अन्विता पृथा ॥३९॥
viparītam matam jātam vyāsasya api mahātmanaḥ . iti evam cintayāmāsa suta-sneha-anvitā pṛthā ..39..
महत्यथापराह्णे तु घनैः सूर्य इवावृतः । ब्राह्मणैः प्राविशत्तत्र जिष्णुर्ब्रह्मपुरस्कृतः ॥४०॥ 1.189.47
महति अथ अपराह्णे तु घनैः सूर्यः इव आवृतः । ब्राह्मणैः प्राविशत् तत्र जिष्णुः ब्रह्म-पुरस्कृतः ॥४०॥ १।१८९।४७
mahati atha aparāhṇe tu ghanaiḥ sūryaḥ iva āvṛtaḥ . brāhmaṇaiḥ prāviśat tatra jiṣṇuḥ brahma-puraskṛtaḥ ..40.. 1.189.47

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In