| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
गत्वा तु तां भार्गवकर्मशालां; पार्थौ पृथां प्राप्य महानुभावौ । तां याज्ञसेनीं परमप्रतीतौ; भिक्षेत्यथावेदयतां नराग्र्यौ ॥१॥
गत्वा तु ताम् भार्गव-कर्मशालाम्; पार्थौ पृथाम् प्राप्य महा-अनुभावौ । ताम् याज्ञसेनीम् परम-प्रतीतौ; भिक्षा इति अथ अवेदयताम् नर-अग्र्यौ ॥१॥
gatvā tu tām bhārgava-karmaśālām; pārthau pṛthām prāpya mahā-anubhāvau . tām yājñasenīm parama-pratītau; bhikṣā iti atha avedayatām nara-agryau ..1..
कुटीगता सा त्वनवेक्ष्य पुत्रा; नुवाच भुङ्क्तेति समेत्य सर्वे । पश्चात्तु कुन्ती प्रसमीक्ष्य कन्यां; कष्टं मया भाषितमित्युवाच ॥२॥
कुटी-गता सा तु अन् अवेक्ष्य पुत्रा; नुवाच भुङ्क्त इति समेत्य सर्वे । पश्चात् तु कुन्ती प्रसमीक्ष्य कन्याम्; कष्टम् मया भाषितम् इति उवाच ॥२॥
kuṭī-gatā sā tu an avekṣya putrā; nuvāca bhuṅkta iti sametya sarve . paścāt tu kuntī prasamīkṣya kanyām; kaṣṭam mayā bhāṣitam iti uvāca ..2..
साधर्मभीता हि विलज्जमाना; तां याज्ञसेनीं परमप्रतीताम् । पाणौ गृहीत्वोपजगाम कुन्ती; युधिष्ठिरं वाक्यमुवाच चेदम् ॥३॥
सा अधर्म-भीता हि विलज्जमाना; ताम् याज्ञसेनीम् परम-प्रतीताम् । पाणौ गृहीत्वा उपजगाम कुन्ती; युधिष्ठिरम् वाक्यम् उवाच च इदम् ॥३॥
sā adharma-bhītā hi vilajjamānā; tām yājñasenīm parama-pratītām . pāṇau gṛhītvā upajagāma kuntī; yudhiṣṭhiram vākyam uvāca ca idam ..3..
इयं हि कन्या द्रुपदस्य राज्ञ; स्तवानुजाभ्यां मयि संनिसृष्टा । यथोचितं पुत्र मयापि चोक्तं; समेत्य भुङ्क्तेति नृप प्रमादात् ॥४॥
इयम् हि कन्या द्रुपदस्य राज्ञः; स्तव-अनुजाभ्याम् मयि संनिसृष्टा । यथोचितम् पुत्र मया अपि च उक्तम्; समेत्य भुङ्क्त इति नृप प्रमादात् ॥४॥
iyam hi kanyā drupadasya rājñaḥ; stava-anujābhyām mayi saṃnisṛṣṭā . yathocitam putra mayā api ca uktam; sametya bhuṅkta iti nṛpa pramādāt ..4..
कथं मया नानृतमुक्तमद्य; भवेत्कुरूणामृषभ ब्रवीहि । पाञ्चालराजस्य सुतामधर्मो; न चोपवर्तेत नभूतपूर्वः ॥५॥
कथम् मया न अनृतम् उक्तम् अद्य; भवेत् कुरूणाम् ऋषभ ब्रवीहि । पाञ्चाल-राजस्य सुताम् अधर्मो; न च उपवर्तेत न भूत-पूर्वः ॥५॥
katham mayā na anṛtam uktam adya; bhavet kurūṇām ṛṣabha bravīhi . pāñcāla-rājasya sutām adharmo; na ca upavarteta na bhūta-pūrvaḥ ..5..
मुहूर्तमात्रं त्वनुचिन्त्य राजा; युधिष्ठिरो मातरमुत्तमौजाः । कुन्तीं समाश्वास्य कुरुप्रवीरो; धनञ्जयं वाक्यमिदं बभाषे ॥६॥
मुहूर्त-मात्रम् तु अनुचिन्त्य राजा; युधिष्ठिरः मातरम् उत्तम-ओजाः । कुन्तीम् समाश्वास्य कुरु-प्रवीरो; धनञ्जयम् वाक्यम् इदम् बभाषे ॥६॥
muhūrta-mātram tu anucintya rājā; yudhiṣṭhiraḥ mātaram uttama-ojāḥ . kuntīm samāśvāsya kuru-pravīro; dhanañjayam vākyam idam babhāṣe ..6..
त्वया जिता पाण्डव याज्ञसेनी; त्वया च तोषिष्यति राजपुत्री । प्रज्वाल्यतां हूयतां चापि वह्नि; र्गृहाण पाणिं विधिवत्त्वमस्याः ॥७॥
त्वया जिता पाण्डव याज्ञसेनी; त्वया च तोषिष्यति राज-पुत्री । प्रज्वाल्यताम् हूयताम् च अपि वह्नि; र्गृहाण पाणिम् विधिवत् त्वम् अस्याः ॥७॥
tvayā jitā pāṇḍava yājñasenī; tvayā ca toṣiṣyati rāja-putrī . prajvālyatām hūyatām ca api vahni; rgṛhāṇa pāṇim vidhivat tvam asyāḥ ..7..
अर्जुन उवाच॥
मा मां नरेन्द्र त्वमधर्मभाजं; कृथा न धर्मो ह्ययमीप्सितोऽन्यैः । भवान्निवेश्यः प्रथमं ततोऽयं; भीमो महाबाहुरचिन्त्यकर्मा ॥८॥
मा माम् नरेन्द्र त्वम् अधर्म-भाजम्; कृथाः न धर्मः हि अयम् ईप्सितः अन्यैः । भवान् निवेश्यः प्रथमम् ततस् अयम्; भीमः महा-बाहुः अचिन्त्य-कर्मा ॥८॥
mā mām narendra tvam adharma-bhājam; kṛthāḥ na dharmaḥ hi ayam īpsitaḥ anyaiḥ . bhavān niveśyaḥ prathamam tatas ayam; bhīmaḥ mahā-bāhuḥ acintya-karmā ..8..
अहं ततो नकुलोऽनन्तरं मे; माद्रीसुतः सहदेवो जघन्यः । वृकोदरोऽहं च यमौ च राज; न्नियं च कन्या भवतः स्म सर्वे ॥९॥
अहम् ततस् नकुलः अनन्तरम् मे; माद्री-सुतः सहदेवः जघन्यः । वृकोदरः अहम् च यमौ च राज; च कन्या भवतः स्म सर्वे ॥९॥
aham tatas nakulaḥ anantaram me; mādrī-sutaḥ sahadevaḥ jaghanyaḥ . vṛkodaraḥ aham ca yamau ca rāja; ca kanyā bhavataḥ sma sarve ..9..
एवङ्गते यत्करणीयमत्र; धर्म्यं यशस्यं कुरु तत्प्रचिन्त्य । पाञ्चालराजस्य च यत्प्रियं स्या; त्तद्ब्रूहि सर्वे स्म वशे स्थितास्ते ॥१०॥
एवङ्गते यत् करणीयम् अत्र; धर्म्यम् यशस्यम् कुरु तत् प्रचिन्त्य । पाञ्चाल-राजस्य च यत् प्रियम् स्याः; त् ब्रूहि सर्वे स्म वशे स्थिताः ते ॥१०॥
evaṅgate yat karaṇīyam atra; dharmyam yaśasyam kuru tat pracintya . pāñcāla-rājasya ca yat priyam syāḥ; t brūhi sarve sma vaśe sthitāḥ te ..10..
वैशम्पायन उवाच॥
ते दृष्ट्वा तत्र तिष्ठन्तीं सर्वे कृष्णां यशस्विनीम् । सम्प्रेक्ष्यान्योन्यमासीना हृदयैस्तामधारयन् ॥११॥
ते दृष्ट्वा तत्र तिष्ठन्तीम् सर्वे कृष्णाम् यशस्विनीम् । सम्प्रेक्ष्य अन्योन्यम् आसीनाः हृदयैः ताम् अधारयन् ॥११॥
te dṛṣṭvā tatra tiṣṭhantīm sarve kṛṣṇām yaśasvinīm . samprekṣya anyonyam āsīnāḥ hṛdayaiḥ tām adhārayan ..11..
तेषां हि द्रौपदीं दृष्ट्वा सर्वेषाममितौजसाम् । सम्प्रमथ्येन्द्रियग्रामं प्रादुरासीन्मनोभवः ॥१२॥
तेषाम् हि द्रौपदीम् दृष्ट्वा सर्वेषाम् अमित-ओजसाम् । सम्प्रमथ्य इन्द्रिय-ग्रामम् प्रादुरासीत् मनोभवः ॥१२॥
teṣām hi draupadīm dṛṣṭvā sarveṣām amita-ojasām . sampramathya indriya-grāmam prādurāsīt manobhavaḥ ..12..
काम्यं रूपं हि पाञ्चाल्या विधात्रा विहितं स्वयम् । बभूवाधिकमन्याभ्यः सर्वभूतमनोहरम् ॥१३॥
काम्यम् रूपम् हि पाञ्चाल्याः विधात्रा विहितम् स्वयम् । बभूव अधिकम् अन्याभ्यः सर्व-भूत-मनोहरम् ॥१३॥
kāmyam rūpam hi pāñcālyāḥ vidhātrā vihitam svayam . babhūva adhikam anyābhyaḥ sarva-bhūta-manoharam ..13..
तेषामाकारभावज्ञः कुन्तीपुत्रो युधिष्ठिरः । द्वैपायनवचः कृत्स्नं संस्मरन्वै नरर्षभ ॥१४॥
तेषाम् आकार-भाव-ज्ञः कुन्ती-पुत्रः युधिष्ठिरः । द्वैपायन-वचः कृत्स्नम् संस्मरन् वै नर-ऋषभ ॥१४॥
teṣām ākāra-bhāva-jñaḥ kuntī-putraḥ yudhiṣṭhiraḥ . dvaipāyana-vacaḥ kṛtsnam saṃsmaran vai nara-ṛṣabha ..14..
अब्रवीत्स हि तान्भ्रातृन्मिथोभेदभयान्नृपः । सर्वेषां द्रौपदी भार्या भविष्यति हि नः शुभा ॥१५॥1.190.16
अब्रवीत् स हि तान् भ्रातृन् मिथस् भेद-भयात् नृपः । सर्वेषाम् द्रौपदी भार्या भविष्यति हि नः शुभा ॥१५॥१।१९०।१६
abravīt sa hi tān bhrātṛn mithas bheda-bhayāt nṛpaḥ . sarveṣām draupadī bhāryā bhaviṣyati hi naḥ śubhā ..15..1.190.16

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In