| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
भ्रातुर्वचस्तत्प्रसमीक्ष्य सर्वे; ज्येष्ठस्य पाण्डोस्तनयास्तदानीम् । तमेवार्थं ध्यायमाना मनोभि; रासां चक्रुरथ तत्रामितौजाः ॥१॥ 1.190.17
भ्रातुः वचः तत् प्रसमीक्ष्य सर्वे; ज्येष्ठस्य पाण्डोः तनयाः तदानीम् । तम् एव अर्थम् ध्यायमानाः; रासाम् चक्रुः अथ तत्र अमित-ओजाः ॥१॥ १।१९०।१७
bhrātuḥ vacaḥ tat prasamīkṣya sarve; jyeṣṭhasya pāṇḍoḥ tanayāḥ tadānīm . tam eva artham dhyāyamānāḥ; rāsām cakruḥ atha tatra amita-ojāḥ ..1.. 1.190.17
वृष्णिप्रवीरस्तु कुरुप्रवीरा; नाशङ्कमानः सहरौहिणेयः । जगाम तां भार्गवकर्मशालां; यत्रासते ते पुरुषप्रवीराः ॥२॥
वृष्णि-प्रवीरः तु कुरु-प्रवीरा; न आशङ्कमानः सहरौहिणेयः । जगाम ताम् भार्गव-कर्मशालाम्; यत्र आसते ते पुरुष-प्रवीराः ॥२॥
vṛṣṇi-pravīraḥ tu kuru-pravīrā; na āśaṅkamānaḥ saharauhiṇeyaḥ . jagāma tām bhārgava-karmaśālām; yatra āsate te puruṣa-pravīrāḥ ..2..
तत्रोपविष्टं पृथुदीर्घबाहुं; ददर्श कृष्णः सहरौहिणेयः । अजातशत्रुं परिवार्य तांश्च; उपोपविष्टाञ्ज्वलनप्रकाशान् ॥३॥
तत्र उपविष्टम् पृथु-दीर्घ-बाहुम्; ददर्श कृष्णः सह रौहिणेयः । अजातशत्रुम् परिवार्य तान् च; उपोपविष्टान् ज्वलन-प्रकाशान् ॥३॥
tatra upaviṣṭam pṛthu-dīrgha-bāhum; dadarśa kṛṣṇaḥ saha rauhiṇeyaḥ . ajātaśatrum parivārya tān ca; upopaviṣṭān jvalana-prakāśān ..3..
ततोऽब्रवीद्वासुदेवोऽभिगम्य; कुन्तीसुतं धर्मभृतां वरिष्ठम् । कृष्णोऽहमस्मीति निपीड्य पादौ; युधिष्ठिरस्याजमीढस्य राज्ञः ॥४॥
ततस् अब्रवीत् वासुदेवः अभिगम्य; कुन्ती-सुतम् धर्म-भृताम् वरिष्ठम् । कृष्णः अहम् अस्मि इति निपीड्य पादौ; युधिष्ठिरस्य अजमीढस्य राज्ञः ॥४॥
tatas abravīt vāsudevaḥ abhigamya; kuntī-sutam dharma-bhṛtām variṣṭham . kṛṣṇaḥ aham asmi iti nipīḍya pādau; yudhiṣṭhirasya ajamīḍhasya rājñaḥ ..4..
तथैव तस्याप्यनु रौहिणेय; स्तौ चापि हृष्टाः कुरवोऽभ्यनन्दन् । पितृष्वसुश्चापि यदुप्रवीरा; वगृह्णतां भारतमुख्य पादौ ॥५॥
तथा एव तस्य अपि अनु रौहिणेय; स्तौ च अपि हृष्टाः कुरवः अभ्यनन्दन् । पितृष्वसुः च अपि यदु-प्रवीरा; वगृह्णताम् भारत-मुख्य पादौ ॥५॥
tathā eva tasya api anu rauhiṇeya; stau ca api hṛṣṭāḥ kuravaḥ abhyanandan . pitṛṣvasuḥ ca api yadu-pravīrā; vagṛhṇatām bhārata-mukhya pādau ..5..
अजातशत्रुश्च कुरुप्रवीरः; पप्रच्छ कृष्णं कुशलं निवेद्य । कथं वयं वासुदेव त्वयेह; गूढा वसन्तो विदिताः स्म सर्वे ॥६॥
अजातशत्रुः च कुरु-प्रवीरः; पप्रच्छ कृष्णम् कुशलम् निवेद्य । कथम् वयम् वासुदेव त्वया इह; गूढाः वसन्तः विदिताः स्म सर्वे ॥६॥
ajātaśatruḥ ca kuru-pravīraḥ; papraccha kṛṣṇam kuśalam nivedya . katham vayam vāsudeva tvayā iha; gūḍhāḥ vasantaḥ viditāḥ sma sarve ..6..
तमब्रवीद्वासुदेवः प्रहस्य; गूढोऽप्यग्निर्ज्ञायत एव राजन् । तं विक्रमं पाण्डवेयानतीत्य; कोऽन्यः कर्ता विद्यते मानुषेषु ॥७॥
तम् अब्रवीत् वासुदेवः प्रहस्य; गूढः अपि अग्निः ज्ञायते एव राजन् । तम् विक्रमम् पाण्डवेयान् अतीत्य; कः अन्यः कर्ता विद्यते मानुषेषु ॥७॥
tam abravīt vāsudevaḥ prahasya; gūḍhaḥ api agniḥ jñāyate eva rājan . tam vikramam pāṇḍaveyān atītya; kaḥ anyaḥ kartā vidyate mānuṣeṣu ..7..
दिष्ट्या तस्मात्पावकात्सम्प्रमुक्ता; यूयं सर्वे पाण्डवाः शत्रुसाहाः । दिष्ट्या पापो धृतराष्ट्रस्य पुत्रः; सहामात्यो न सकामोऽभविष्यत् ॥८॥
दिष्ट्या तस्मात् पावकात् सम्प्रमुक्ता; यूयम् सर्वे पाण्डवाः शत्रु-साहाः । दिष्ट्या पापः धृतराष्ट्रस्य पुत्रः; सहामात्यः न स कामः अभविष्यत् ॥८॥
diṣṭyā tasmāt pāvakāt sampramuktā; yūyam sarve pāṇḍavāḥ śatru-sāhāḥ . diṣṭyā pāpaḥ dhṛtarāṣṭrasya putraḥ; sahāmātyaḥ na sa kāmaḥ abhaviṣyat ..8..
भद्रं वोऽस्तु निहितं यद्गुहायां; विवर्धध्वं ज्वलन इवेध्यमानः । मा वो विद्युः पार्थिवाः केचनेह; यास्यावहे शिबिरायैव तावत् ॥९॥
भद्रम् वः अस्तु निहितम् यत् गुहायाम्; विवर्धध्वम् ज्वलनः इव इध्यमानः । मा वः विद्युः पार्थिवाः केचन इह; यास्यावहे शिबिराय एव तावत् ॥९॥
bhadram vaḥ astu nihitam yat guhāyām; vivardhadhvam jvalanaḥ iva idhyamānaḥ . mā vaḥ vidyuḥ pārthivāḥ kecana iha; yāsyāvahe śibirāya eva tāvat ..9..
सोऽनुज्ञातः पाण्डवेनाव्ययश्रीः; प्रायाच्छीघ्रं बलदेवेन सार्धम् ॥९॥ 1.190.25
सः अनुज्ञातः पाण्डवेन अव्यय-श्रीः; प्रायात् शीघ्रम् बलदेवेन सार्धम् ॥९॥ १।१९०।२५
saḥ anujñātaḥ pāṇḍavena avyaya-śrīḥ; prāyāt śīghram baladevena sārdham ..9.. 1.190.25

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In