| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
धृष्टद्युम्नस्तु पाञ्चाल्यः पृष्ठतः कुरुनन्दनौ । अन्वगच्छत्तदा यान्तौ भार्गवस्य निवेशनम् ॥१॥
धृष्टद्युम्नः तु पाञ्चाल्यः पृष्ठतस् कुरु-नन्दनौ । अन्वगच्छत् तदा यान्तौ भार्गवस्य निवेशनम् ॥१॥
dhṛṣṭadyumnaḥ tu pāñcālyaḥ pṛṣṭhatas kuru-nandanau . anvagacchat tadā yāntau bhārgavasya niveśanam ..1..
सोऽज्ञायमानः पुरुषानवधाय समन्ततः । स्वयमारान्निविष्टोऽभूद्भार्गवस्य निवेशने ॥२॥
सः अज्ञायमानः पुरुषान् अवधाय समन्ततः । स्वयम् आरात् निविष्टः अभूत् भार्गवस्य निवेशने ॥२॥
saḥ ajñāyamānaḥ puruṣān avadhāya samantataḥ . svayam ārāt niviṣṭaḥ abhūt bhārgavasya niveśane ..2..
सायेऽथ भीमस्तु रिपुप्रमाथी; जिष्णुर्यमौ चापि महानुभावौ । भैक्षं चरित्वा तु युधिष्ठिराय; निवेदयां चक्रुरदीनसत्त्वाः ॥३॥
साये अथ भीमः तु रिपु-प्रमाथी; जिष्णुः यमौ च अपि महा-अनुभावौ । भैक्षम् चरित्वा तु युधिष्ठिराय; चक्रुः अदीन-सत्त्वाः ॥३॥
sāye atha bhīmaḥ tu ripu-pramāthī; jiṣṇuḥ yamau ca api mahā-anubhāvau . bhaikṣam caritvā tu yudhiṣṭhirāya; cakruḥ adīna-sattvāḥ ..3..
ततस्तु कुन्ती द्रुपदात्मजां ता; मुवाच काले वचनं वदान्या । अतोऽग्रमादाय कुरुष्व भद्रे; बलिं च विप्राय च देहि भिक्षाम् ॥४॥
ततस् तु कुन्ती द्रुपद-आत्मजाम् ता; मुवाच काले वचनम् वदान्या । अतस् अग्रम् आदाय कुरुष्व भद्रे; बलिम् च विप्राय च देहि भिक्षाम् ॥४॥
tatas tu kuntī drupada-ātmajām tā; muvāca kāle vacanam vadānyā . atas agram ādāya kuruṣva bhadre; balim ca viprāya ca dehi bhikṣām ..4..
ये चान्नमिच्छन्ति ददस्व तेभ्यः; परिश्रिता ये परितो मनुष्याः । ततश्च शेषं प्रविभज्य शीघ्र; मर्धं चतुर्णां मम चात्मनश्च ॥५॥
ये च अन्नम् इच्छन्ति ददस्व तेभ्यः; परिश्रिताः ये परितस् मनुष्याः । ततस् च शेषम् प्रविभज्य शीघ्र; मा अर्धम् चतुर्णाम् मम च आत्मनः च ॥५॥
ye ca annam icchanti dadasva tebhyaḥ; pariśritāḥ ye paritas manuṣyāḥ . tatas ca śeṣam pravibhajya śīghra; mā ardham caturṇām mama ca ātmanaḥ ca ..5..
अर्धं च भीमाय ददाहि भद्रे; य एष मत्तर्षभतुल्यरूपः । श्यामो युवा संहननोपपन्न; एषो हि वीरो बहुभुक्सदैव ॥६॥
अर्धम् च भीमाय ददाहि भद्रे; यः एष मत्त-ऋषभ-तुल्य-रूपः । श्यामः युवा संहनन-उपपन्न; एषः हि वीरः बहु-भुज् सदा एव ॥६॥
ardham ca bhīmāya dadāhi bhadre; yaḥ eṣa matta-ṛṣabha-tulya-rūpaḥ . śyāmaḥ yuvā saṃhanana-upapanna; eṣaḥ hi vīraḥ bahu-bhuj sadā eva ..6..
सा हृष्टरूपैव तु राजपुत्री; तस्या वचः साध्वविशङ्कमाना । यथावदुक्तं प्रचकार साध्वी; ते चापि सर्वेऽभ्यवजह्रुरन्नम् ॥७॥
सा हृष्ट-रूपा एव तु राज-पुत्री; तस्याः वचः साधु अ विशङ्कमाना । यथावत् उक्तम् प्रचकार साध्वी; ते च अपि सर्वे अभ्यवजह्रुः अन्नम् ॥७॥
sā hṛṣṭa-rūpā eva tu rāja-putrī; tasyāḥ vacaḥ sādhu a viśaṅkamānā . yathāvat uktam pracakāra sādhvī; te ca api sarve abhyavajahruḥ annam ..7..
कुशैस्तु भूमौ शयनं चकार; माद्रीसुतः सहदेवस्तरस्वी । यथात्मीयान्यजिनानि सर्वे; संस्तीर्य वीराः सुषुपुर्धरण्याम् ॥८॥
कुशैः तु भूमौ शयनम् चकार; माद्री-सुतः सहदेवः तरस्वी । यथा आत्मीयानि अजिनानि सर्वे; संस्तीर्य वीराः सुषुपुः धरण्याम् ॥८॥
kuśaiḥ tu bhūmau śayanam cakāra; mādrī-sutaḥ sahadevaḥ tarasvī . yathā ātmīyāni ajināni sarve; saṃstīrya vīrāḥ suṣupuḥ dharaṇyām ..8..
अगस्त्यशास्तामभितो दिशं तु; शिरांसि तेषां कुरुसत्तमानाम् । कुन्ती पुरस्तात्तु बभूव तेषां; कृष्णा तिरश्चैव बभूव पत्तः ॥९॥
अगस्त्य-शास्ताम् अभितस् दिशम् तु; शिरांसि तेषाम् कुरु-सत्तमानाम् । कुन्ती पुरस्तात् तु बभूव तेषाम्; कृष्णा तिरस् च एव बभूव पत्तः ॥९॥
agastya-śāstām abhitas diśam tu; śirāṃsi teṣām kuru-sattamānām . kuntī purastāt tu babhūva teṣām; kṛṣṇā tiras ca eva babhūva pattaḥ ..9..
अशेत भूमौ सह पाण्डुपुत्रैः; पादोपधानेव कृता कुशेषु । न तत्र दुःखं च बभूव तस्या; न चावमेने कुरुपुङ्गवांस्तान् ॥१०॥
अशेत भूमौ सह पाण्डु-पुत्रैः; पाद-उपधाना इव कृता कुशेषु । न तत्र दुःखम् च बभूव तस्याः; न च अवमेने कुरु-पुङ्गवान् तान् ॥१०॥
aśeta bhūmau saha pāṇḍu-putraiḥ; pāda-upadhānā iva kṛtā kuśeṣu . na tatra duḥkham ca babhūva tasyāḥ; na ca avamene kuru-puṅgavān tān ..10..
ते तत्र शूराः कथयां बभूवुः; कथा विचित्राः पृतनाधिकाराः । अस्त्राणि दिव्यानि रथांश्च नागा; न्खड्गान्गदाश्चापि परश्वधांश्च ॥११॥
ते तत्र शूराः कथयाम् बभूवुः; कथा विचित्राः पृतना-अधिकाराः । अस्त्राणि दिव्यानि रथान् च नागा; न् खड्गान् गदाः च अपि परश्वधान् च ॥११॥
te tatra śūrāḥ kathayām babhūvuḥ; kathā vicitrāḥ pṛtanā-adhikārāḥ . astrāṇi divyāni rathān ca nāgā; n khaḍgān gadāḥ ca api paraśvadhān ca ..11..
तेषां कथास्ताः परिकीर्त्यमानाः; पाञ्चालराजस्य सुतस्तदानीम् । शुश्राव कृष्णां च तथा निषण्णां; ते चापि सर्वे ददृशुर्मनुष्याः ॥१२॥
तेषाम् कथाः ताः परिकीर्त्यमानाः; पाञ्चाल-राजस्य सुतः तदानीम् । शुश्राव कृष्णाम् च तथा निषण्णाम्; ते च अपि सर्वे ददृशुः मनुष्याः ॥१२॥
teṣām kathāḥ tāḥ parikīrtyamānāḥ; pāñcāla-rājasya sutaḥ tadānīm . śuśrāva kṛṣṇām ca tathā niṣaṇṇām; te ca api sarve dadṛśuḥ manuṣyāḥ ..12..
धृष्टद्युम्नो राजपुत्रस्तु सर्वं; वृत्तं तेषां कथितं चैव रात्रौ । सर्वं राज्ञे द्रुपदायाखिलेन; निवेदयिष्यंस्त्वरितो जगाम ॥१३॥
धृष्टद्युम्नः राज-पुत्रः तु सर्वम्; वृत्तम् तेषाम् कथितम् च एव रात्रौ । सर्वम् राज्ञे द्रुपदाय अखिलेन; निवेदयिष्यन् त्वरितः जगाम ॥१३॥
dhṛṣṭadyumnaḥ rāja-putraḥ tu sarvam; vṛttam teṣām kathitam ca eva rātrau . sarvam rājñe drupadāya akhilena; nivedayiṣyan tvaritaḥ jagāma ..13..
पाञ्चालराजस्तु विषण्णरूप; स्तान्पाण्डवानप्रतिविन्दमानः । धृष्टद्युम्नं पर्यपृच्छन्महात्मा; क्व सा गता केन नीता च कृष्णा ॥१४॥
पाञ्चाल-राजः तु विषण्ण-रूप; स्तान् पाण्डवान् अ प्रतिविन्दमानः । धृष्टद्युम्नम् पर्यपृच्छत् महात्मा; क्व सा गता केन नीता च कृष्णा ॥१४॥
pāñcāla-rājaḥ tu viṣaṇṇa-rūpa; stān pāṇḍavān a prativindamānaḥ . dhṛṣṭadyumnam paryapṛcchat mahātmā; kva sā gatā kena nītā ca kṛṣṇā ..14..
कच्चिन्न शूद्रेण न हीनजेन; वैश्येन वा करदेनोपपन्ना । कच्चित्पदं मूर्ध्नि न मे निदिग्धं; कच्चिन्माला पतिता न श्मशाने ॥१५॥
कच्चित् न शूद्रेण न हीनजेन; वैश्येन वा कर-देन उपपन्ना । कच्चित् पदम् मूर्ध्नि न मे निदिग्धम्; कच्चित् माला पतिता न श्मशाने ॥१५॥
kaccit na śūdreṇa na hīnajena; vaiśyena vā kara-dena upapannā . kaccit padam mūrdhni na me nidigdham; kaccit mālā patitā na śmaśāne ..15..
कच्चित्सवर्णप्रवरो मनुष्य; उद्रिक्तवर्णोऽप्युत वेह कच्चित् । कच्चिन्न वामो मम मूर्ध्नि पादः; कृष्णाभिमर्शेन कृतोऽद्य पुत्र ॥१६॥
कच्चित् सवर्ण-प्रवरः मनुष्य; उद्रिक्त-वर्णः अपि उत वा इह कच्चित् । कच्चित् न वामः मम मूर्ध्नि पादः; कृष्ण-अभिमर्शेन कृतः अद्य पुत्र ॥१६॥
kaccit savarṇa-pravaraḥ manuṣya; udrikta-varṇaḥ api uta vā iha kaccit . kaccit na vāmaḥ mama mūrdhni pādaḥ; kṛṣṇa-abhimarśena kṛtaḥ adya putra ..16..
कच्चिच्च यक्ष्ये परमप्रतीतः; संयुज्य पार्थेन नरर्षभेण । ब्रवीहि तत्त्वेन महानुभावः; कोऽसौ विजेता दुहितुर्ममाद्य ॥१७॥
कच्चित् च यक्ष्ये परम-प्रतीतः; संयुज्य पार्थेन नर-ऋषभेण । ब्रवीहि तत्त्वेन महा-अनुभावः; कः असौ विजेता दुहितुः मम अद्य ॥१७॥
kaccit ca yakṣye parama-pratītaḥ; saṃyujya pārthena nara-ṛṣabheṇa . bravīhi tattvena mahā-anubhāvaḥ; kaḥ asau vijetā duhituḥ mama adya ..17..
विचित्रवीर्यस्य तु कच्चिदद्य; कुरुप्रवीरस्य धरन्ति पुत्राः । कच्चित्तु पार्थेन यवीयसाद्य; धनुर्गृहीतं निहतं च लक्ष्यम् ॥१८॥ 1.192.18
विचित्रवीर्यस्य तु कच्चित् अद्य; कुरु-प्रवीरस्य धरन्ति पुत्राः । कच्चित् तु पार्थेन यवीयसा अद्य; धनुः गृहीतम् निहतम् च लक्ष्यम् ॥१८॥ १।१९२।१८
vicitravīryasya tu kaccit adya; kuru-pravīrasya dharanti putrāḥ . kaccit tu pārthena yavīyasā adya; dhanuḥ gṛhītam nihatam ca lakṣyam ..18.. 1.192.18

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In