| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
ततस्तथोक्तः परिहृष्टरूपः; पित्रे शशंसाथ स राजपुत्रः । धृष्टद्युम्नः सोमकानां प्रबर्हो; वृत्तं यथा येन हृता च कृष्णा ॥१॥
ततस् तथा उक्तः परिहृष्ट-रूपः; पित्रे शशंस अथ स राज-पुत्रः । धृष्टद्युम्नः सोमकानाम् प्रबर्हो; वृत्तम् यथा येन हृता च कृष्णा ॥१॥
tatas tathā uktaḥ parihṛṣṭa-rūpaḥ; pitre śaśaṃsa atha sa rāja-putraḥ . dhṛṣṭadyumnaḥ somakānām prabarho; vṛttam yathā yena hṛtā ca kṛṣṇā ..1..
योऽसौ युवा स्वायतलोहिताक्षः; कृष्णाजिनी देवसमानरूपः । यः कार्मुकाग्र्यं कृतवानधिज्यं; लक्ष्यं च तत्पातितवान्पृथिव्याम् ॥२॥
यः असौ युवा सु आयत-लोहित-अक्षः; कृष्णाजिनी देव-समान-रूपः । यः कार्मुक-अग्र्यम् कृतवान् अधिज्यम्; लक्ष्यम् च तत् पातितवान् पृथिव्याम् ॥२॥
yaḥ asau yuvā su āyata-lohita-akṣaḥ; kṛṣṇājinī deva-samāna-rūpaḥ . yaḥ kārmuka-agryam kṛtavān adhijyam; lakṣyam ca tat pātitavān pṛthivyām ..2..
असज्जमानश्च गतस्तरस्वी; वृतो द्विजाग्र्यैरभिपूज्यमानः । चक्राम वज्रीव दितेः सुतेषु; सर्वैश्च देवैरृषिभिश्च जुष्टः ॥३॥
अ सज्जमानः च गतः तरस्वी; वृतः द्विजाग्र्यैः अभिपूज्यमानः । चक्राम वज्री इव दितेः सुतेषु; सर्वैः च देवैः ऋषिभिः च जुष्टः ॥३॥
a sajjamānaḥ ca gataḥ tarasvī; vṛtaḥ dvijāgryaiḥ abhipūjyamānaḥ . cakrāma vajrī iva diteḥ suteṣu; sarvaiḥ ca devaiḥ ṛṣibhiḥ ca juṣṭaḥ ..3..
कृष्णा च गृह्याजिनमन्वयात्तं; नागं यथा नागवधूः प्रहृष्टा । अमृष्यमाणेषु नराधिपेषु; क्रुद्धेषु तं तत्र समापतत्सु ॥४॥
कृष्णा च गृह्य अजिनम् अन्वयात् तम्; नागम् यथा नाग-वधूः प्रहृष्टा । अ मृष्यमाणेषु नराधिपेषु; क्रुद्धेषु तम् तत्र समापतत्सु ॥४॥
kṛṣṇā ca gṛhya ajinam anvayāt tam; nāgam yathā nāga-vadhūḥ prahṛṣṭā . a mṛṣyamāṇeṣu narādhipeṣu; kruddheṣu tam tatra samāpatatsu ..4..
ततोऽपरः पार्थिवराजमध्ये; प्रवृद्धमारुज्य महीप्ररोहम् । प्रकालयन्नेव स पार्थिवौघा; न्क्रुद्धोऽन्तकः प्राणभृतो यथैव ॥५॥
ततस् अपरः पार्थिव-राज-मध्ये; प्रवृद्धम् आरुज्य महीप्ररोहम् । प्रकालयन् एव स पार्थिव-ओघा; न् क्रुद्धः अन्तकः प्राणभृतः यथा एव ॥५॥
tatas aparaḥ pārthiva-rāja-madhye; pravṛddham ārujya mahīpraroham . prakālayan eva sa pārthiva-oghā; n kruddhaḥ antakaḥ prāṇabhṛtaḥ yathā eva ..5..
तौ पार्थिवानां मिषतां नरेन्द्र; कृष्णामुपादाय गतौ नराग्र्यौ । विभ्राजमानाविव चन्द्रसूर्यौ; बाह्यां पुराद्भार्गवकर्मशालाम् ॥६॥
तौ पार्थिवानाम् मिषताम् नरेन्द्र; कृष्णाम् उपादाय गतौ नर-अग्र्यौ । विभ्राजमानौ इव चन्द्र-सूर्यौ; बाह्याम् पुरात् भार्गव-कर्मशालाम् ॥६॥
tau pārthivānām miṣatām narendra; kṛṣṇām upādāya gatau nara-agryau . vibhrājamānau iva candra-sūryau; bāhyām purāt bhārgava-karmaśālām ..6..
तत्रोपविष्टार्चिरिवानलस्य; तेषां जनित्रीति मम प्रतर्कः । तथाविधैरेव नरप्रवीरै; रुपोपविष्टैस्त्रिभिरग्निकल्पैः ॥७॥
तत्र उपविष्टा अर्चिः इव अनलस्य; तेषाम् जनित्री इति मम प्रतर्कः । तथाविधैः एव नर-प्रवीरैः; रुपोपविष्टैः त्रिभिः अग्नि-कल्पैः ॥७॥
tatra upaviṣṭā arciḥ iva analasya; teṣām janitrī iti mama pratarkaḥ . tathāvidhaiḥ eva nara-pravīraiḥ; rupopaviṣṭaiḥ tribhiḥ agni-kalpaiḥ ..7..
तस्यास्ततस्तावभिवाद्य पादा; वुक्त्वा च कृष्णामभिवादयेति । स्थितौ च तत्रैव निवेद्य कृष्णां; भैक्षप्रचाराय गता नराग्र्याः ॥८॥
तस्याः ततस् तौ अभिवाद्य पादा; वुक्त्वा च कृष्णाम् अभिवादय इति । स्थितौ च तत्र एव निवेद्य कृष्णाम्; भैक्ष-प्रचाराय गताः नर-अग्र्याः ॥८॥
tasyāḥ tatas tau abhivādya pādā; vuktvā ca kṛṣṇām abhivādaya iti . sthitau ca tatra eva nivedya kṛṣṇām; bhaikṣa-pracārāya gatāḥ nara-agryāḥ ..8..
तेषां तु भैक्षं प्रतिगृह्य कृष्णा; कृत्वा बलिं ब्राह्मणसाच्च कृत्वा । तां चैव वृद्धां परिविष्य तांश्च; नरप्रवीरान्स्वयमप्यभुङ्क्त ॥९॥
तेषाम् तु भैक्षम् प्रतिगृह्य कृष्णा; कृत्वा बलिम् ब्राह्मणसात् च कृत्वा । ताम् च एव वृद्धाम् परिविष्य तान् च; नर-प्रवीरान् स्वयम् अपि अभुङ्क्त ॥९॥
teṣām tu bhaikṣam pratigṛhya kṛṣṇā; kṛtvā balim brāhmaṇasāt ca kṛtvā . tām ca eva vṛddhām pariviṣya tān ca; nara-pravīrān svayam api abhuṅkta ..9..
सुप्तास्तु ते पार्थिव सर्व एव; कृष्णा तु तेषां चरणोपधानम् । आसीत्पृथिव्यां शयनं च तेषां; दर्भाजिनाग्र्यास्तरणोपपन्नम् ॥१०॥
सुप्ताः तु ते पार्थिव सर्वे एव; कृष्णा तु तेषाम् चरण-उपधानम् । आसीत् पृथिव्याम् शयनम् च तेषाम्; दर्भ-अजिन-अग्र्य-आस्तरण-उपपन्नम् ॥१०॥
suptāḥ tu te pārthiva sarve eva; kṛṣṇā tu teṣām caraṇa-upadhānam . āsīt pṛthivyām śayanam ca teṣām; darbha-ajina-agrya-āstaraṇa-upapannam ..10..
ते नर्दमाना इव कालमेघाः; कथा विचित्राः कथयां बभूवुः । न वैश्यशूद्रौपयिकीः कथास्ता; न च द्विजातेः कथयन्ति वीराः ॥११॥
ते नर्दमानाः इव काल-मेघाः; कथाः विचित्राः कथयाम् बभूवुः । न वैश्य-शूद्र-औपयिकीः; न च द्विजातेः कथयन्ति वीराः ॥११॥
te nardamānāḥ iva kāla-meghāḥ; kathāḥ vicitrāḥ kathayām babhūvuḥ . na vaiśya-śūdra-aupayikīḥ; na ca dvijāteḥ kathayanti vīrāḥ ..11..
निःसंशयं क्षत्रियपुङ्गवास्ते; यथा हि युद्धं कथयन्ति राजन् । आशा हि नो व्यक्तमियं समृद्धा; मुक्तान्हि पार्थाञ्शृणुमोऽग्निदाहात् ॥१२॥
निःसंशयम् क्षत्रिय-पुङ्गवाः ते; यथा हि युद्धम् कथयन्ति राजन् । आशा हि नः व्यक्तम् इयम् समृद्धा; मुक्तान् हि पार्थान् शृणुमः अग्नि-दाहात् ॥१२॥
niḥsaṃśayam kṣatriya-puṅgavāḥ te; yathā hi yuddham kathayanti rājan . āśā hi naḥ vyaktam iyam samṛddhā; muktān hi pārthān śṛṇumaḥ agni-dāhāt ..12..
यथा हि लक्ष्यं निहतं धनुश्च; सज्यं कृतं तेन तथा प्रसह्य । यथा च भाषन्ति परस्परं ते; छन्ना ध्रुवं ते प्रचरन्ति पार्थाः ॥१३॥
यथा हि लक्ष्यम् निहतम् धनुः च; सज्यम् कृतम् तेन तथा प्रसह्य । यथा च भाषन्ति परस्परम् ते; छन्नाः ध्रुवम् ते प्रचरन्ति पार्थाः ॥१३॥
yathā hi lakṣyam nihatam dhanuḥ ca; sajyam kṛtam tena tathā prasahya . yathā ca bhāṣanti parasparam te; channāḥ dhruvam te pracaranti pārthāḥ ..13..
ततः स राजा द्रुपदः प्रहृष्टः; पुरोहितं प्रेषयां तत्र चक्रे । विद्याम युष्मानिति भाषमाणो; महात्मनः पाण्डुसुताः स्थ कच्चित् ॥१४॥
ततस् स राजा द्रुपदः प्रहृष्टः; पुरोहितम् प्रेषयाम् तत्र चक्रे । विद्याम युष्मान् इति भाषमाणः; महात्मनः पाण्डु-सुताः स्थ कच्चित् ॥१४॥
tatas sa rājā drupadaḥ prahṛṣṭaḥ; purohitam preṣayām tatra cakre . vidyāma yuṣmān iti bhāṣamāṇaḥ; mahātmanaḥ pāṇḍu-sutāḥ stha kaccit ..14..
गृहीतवाक्यो नृपतेः पुरोधा; गत्वा प्रशंसामभिधाय तेषाम् । वाक्यं यथावन्नृपतेः समग्र; मुवाच तान्स क्रमवित्क्रमेण ॥१५॥
gṛhītavākyo nṛpateḥ purodhā; gatvā praśaṃsāmabhidhāya teṣām |vākyaṃ yathāvannṛpateḥ samagra; muvāca tānsa kramavitkrameṇa ||15||
gṛhītavākyo nṛpateḥ purodhā; gatvā praśaṃsāmabhidhāya teṣām |vākyaṃ yathāvannṛpateḥ samagra; muvāca tānsa kramavitkrameṇa ||15||
विज्ञातुमिच्छत्यवनीश्वरो वः; पाञ्चालराजो द्रुपदो वरार्हाः । लक्ष्यस्य वेद्धारमिमं हि दृष्ट्वा; हर्षस्य नान्तं परिपश्यते सः ॥१६॥
विज्ञातुम् इच्छति अवनीश्वरः वः; पाञ्चाल-राजः द्रुपदः वर-अर्हाः । लक्ष्यस्य वेद्धारम् इमम् हि दृष्ट्वा; हर्षस्य न अन्तम् परिपश्यते सः ॥१६॥
vijñātum icchati avanīśvaraḥ vaḥ; pāñcāla-rājaḥ drupadaḥ vara-arhāḥ . lakṣyasya veddhāram imam hi dṛṣṭvā; harṣasya na antam paripaśyate saḥ ..16..
तदाचड्ढ्वं ज्ञातिकुलानुपूर्वीं; पदं शिरःसु द्विषतां कुरुध्वम् । प्रह्लादयध्वं हृदयं ममेदं; पाञ्चालराजस्य सहानुगस्य ॥१७॥
तदा आचड्ढ्वम् ज्ञाति-कुल-आनुपूर्वीम्; पदम् शिरःसु द्विषताम् कुरुध्वम् । प्रह्लादयध्वम् हृदयम् मम इदम्; पाञ्चाल-राजस्य सह अनुगस्य ॥१७॥
tadā ācaḍḍhvam jñāti-kula-ānupūrvīm; padam śiraḥsu dviṣatām kurudhvam . prahlādayadhvam hṛdayam mama idam; pāñcāla-rājasya saha anugasya ..17..
पाण्डुर्हि राजा द्रुपदस्य राज्ञः; प्रियः सखा चात्मसमो बभूव । तस्यैष कामो दुहिता ममेयं; स्नुषा यदि स्यादिति कौरवस्य ॥१८॥
पाण्डुः हि राजा द्रुपदस्य राज्ञः; प्रियः सखा च आत्म-समः बभूव । तस्य एष कामः दुहिता मम इयम्; स्नुषा यदि स्यात् इति कौरवस्य ॥१८॥
pāṇḍuḥ hi rājā drupadasya rājñaḥ; priyaḥ sakhā ca ātma-samaḥ babhūva . tasya eṣa kāmaḥ duhitā mama iyam; snuṣā yadi syāt iti kauravasya ..18..
अयं च कामो द्रुपदस्य राज्ञो; हृदि स्थितो नित्यमनिन्दिताङ्गाः । यदर्जुनो वै पृथुदीर्घबाहु; र्धर्मेण विन्देत सुतां ममेति ॥१९॥
अयम् च कामः द्रुपदस्य राज्ञः; हृदि स्थितः नित्यम् अनिन्दित-अङ्गाः । यत् अर्जुनः वै पृथु-दीर्घ-बाहु; र्धर्मेण विन्देत सुताम् मम इति ॥१९॥
ayam ca kāmaḥ drupadasya rājñaḥ; hṛdi sthitaḥ nityam anindita-aṅgāḥ . yat arjunaḥ vai pṛthu-dīrgha-bāhu; rdharmeṇa vindeta sutām mama iti ..19..
तथोक्तवाक्यं तु पुरोहितं तं; स्थितं विनीतं समुदीक्ष्य राजा । समीपस्थं भीममिदं शशास; प्रदीयतां पाद्यमर्घ्यं तथास्मै ॥२०॥
तथा उक्त-वाक्यम् तु पुरोहितम् तम्; स्थितम् विनीतम् समुदीक्ष्य राजा । समीप-स्थम् भीमम् इदम् शशास; प्रदीयताम् पाद्यम् अर्घ्यम् तथा अस्मै ॥२०॥
tathā ukta-vākyam tu purohitam tam; sthitam vinītam samudīkṣya rājā . samīpa-stham bhīmam idam śaśāsa; pradīyatām pādyam arghyam tathā asmai ..20..
मान्यः पुरोधा द्रुपदस्य राज्ञ; स्तस्मै प्रयोज्याभ्यधिकैव पूजा । भीमस्तथा तत्कृतवान्नरेन्द्र; तां चैव पूजां प्रतिसङ्गृहीत्वा ॥२१॥
मान्यः पुरोधाः द्रुपदस्य राज्ञ; प्रयोज्या अभ्यधिका एव पूजा । भीमः तथा तत् कृतवान् नरेन्द्र; ताम् च एव पूजाम् प्रतिसङ्गृहीत्वा ॥२१॥
mānyaḥ purodhāḥ drupadasya rājña; prayojyā abhyadhikā eva pūjā . bhīmaḥ tathā tat kṛtavān narendra; tām ca eva pūjām pratisaṅgṛhītvā ..21..
सुखोपविष्टं तु पुरोहितं तं; युधिष्ठिरो ब्राह्मणमित्युवाच । पाञ्चालराजेन सुता निसृष्टा; स्वधर्मदृष्टेन यथानुकामम् ॥२२॥
सुख-उपविष्टम् तु पुरोहितम् तम्; युधिष्ठिरः ब्राह्मणम् इति उवाच । पाञ्चाल-राजेन सुता निसृष्टा; स्वधर्म-दृष्टेन यथा अनुकामम् ॥२२॥
sukha-upaviṣṭam tu purohitam tam; yudhiṣṭhiraḥ brāhmaṇam iti uvāca . pāñcāla-rājena sutā nisṛṣṭā; svadharma-dṛṣṭena yathā anukāmam ..22..
प्रदिष्टशुल्का द्रुपदेन राज्ञा; सानेन वीरेण तथानुवृत्ता । न तत्र वर्णेषु कृता विवक्षा; न जीवशिल्पे न कुले न गोत्रे ॥२३॥
प्रदिष्ट-शुल्काः द्रुपदेन राज्ञा; सा अनेन वीरेण तथा अनुवृत्ता । न तत्र वर्णेषु कृता विवक्षा; न जीव-शिल्पे न कुले न गोत्रे ॥२३॥
pradiṣṭa-śulkāḥ drupadena rājñā; sā anena vīreṇa tathā anuvṛttā . na tatra varṇeṣu kṛtā vivakṣā; na jīva-śilpe na kule na gotre ..23..
कृतेन सज्येन हि कार्मुकेण; विद्धेन लक्ष्येण च संनिसृष्टा । सेयं तथानेन महात्मनेह; कृष्णा जिता पार्थिवसङ्घमध्ये ॥२४॥
कृतेन सज्येन हि कार्मुकेण; विद्धेन लक्ष्येण च संनिसृष्टा । सा इयम् तथा अनेन महात्मना इह; कृष्णा जिता पार्थिव-सङ्घ-मध्ये ॥२४॥
kṛtena sajyena hi kārmukeṇa; viddhena lakṣyeṇa ca saṃnisṛṣṭā . sā iyam tathā anena mahātmanā iha; kṛṣṇā jitā pārthiva-saṅgha-madhye ..24..
नैवङ्गते सौमकिरद्य राजा; सन्तापमर्हत्यसुखाय कर्तुम् । कामश्च योऽसौ द्रुपदस्य राज्ञः; स चापि सम्पत्स्यति पार्थिवस्य ॥२५॥
न एवङ्गते सौमकिः अद्य राजा; सन्तापम् अर्हति असुखाय कर्तुम् । कामः च यः असौ द्रुपदस्य राज्ञः; स च अपि सम्पत्स्यति पार्थिवस्य ॥२५॥
na evaṅgate saumakiḥ adya rājā; santāpam arhati asukhāya kartum . kāmaḥ ca yaḥ asau drupadasya rājñaḥ; sa ca api sampatsyati pārthivasya ..25..
अप्राप्यरूपां हि नरेन्द्रकन्या; मिमामहं ब्राह्मण साधु मन्ये । न तद्धनुर्मन्दबलेन शक्यं; मौर्व्या समायोजयितुं तथा हि ॥२६॥
अ प्राप्य-रूपाम् हि नरेन्द्र-कन्या; मिमाम् अहम् ब्राह्मण साधु मन्ये । न तत् धनुः मन्द-बलेन शक्यम्; मौर्व्या समायोजयितुम् तथा हि ॥२६॥
a prāpya-rūpām hi narendra-kanyā; mimām aham brāhmaṇa sādhu manye . na tat dhanuḥ manda-balena śakyam; maurvyā samāyojayitum tathā hi ..26..
न चाकृतास्त्रेण न हीनजेन; लक्ष्यं तथा पातयितुं हि शक्यम् ॥२६॥
न च अ कृतास्त्रेण न हीनजेन; लक्ष्यम् तथा पातयितुम् हि शक्यम् ॥२६॥
na ca a kṛtāstreṇa na hīnajena; lakṣyam tathā pātayitum hi śakyam ..26..
तस्मान्न तापं दुहितुर्निमित्तं; पाञ्चालराजोऽर्हति कर्तुमद्य । न चापि तत्पातनमन्यथेह; कर्तुं विषह्यं भुवि मानवेन ॥२७॥
तस्मात् न तापम् दुहितुः निमित्तम्; पाञ्चाल-राजः अर्हति कर्तुम् अद्य । न च अपि तद्-पातनम् अन्यथा इह; कर्तुम् विषह्यम् भुवि मानवेन ॥२७॥
tasmāt na tāpam duhituḥ nimittam; pāñcāla-rājaḥ arhati kartum adya . na ca api tad-pātanam anyathā iha; kartum viṣahyam bhuvi mānavena ..27..
एवं ब्रुवत्येव युधिष्ठिरे तु; पाञ्चालराजस्य समीपतोऽन्यः । तत्राजगामाशु नरो द्वितीयो; निवेदयिष्यन्निह सिद्धमन्नम् ॥२८॥ 1.192.29
एवम् ब्रुवति एव युधिष्ठिरे तु; पाञ्चाल-राजस्य समीपतस् अन्यः । तत्र आजगाम आशु नरः; निवेदयिष्यन् इह सिद्धम् अन्नम् ॥२८॥ १।१९२।२९
evam bruvati eva yudhiṣṭhire tu; pāñcāla-rājasya samīpatas anyaḥ . tatra ājagāma āśu naraḥ; nivedayiṣyan iha siddham annam ..28.. 1.192.29

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In