दूत उवाच॥
जन्यार्थमन्नं द्रुपदेन राज्ञा; विवाहहेतोरुपसंस्कृतं च । तदाप्नुवध्वं कृतसर्वकार्याः; कृष्णा च तत्रैव चिरं न कार्यम् ॥१॥
janyārthamannaṃ drupadena rājñā; vivāhahetorupasaṃskṛtaṃ ca |tadāpnuvadhvaṃ kṛtasarvakāryāḥ; kṛṣṇā ca tatraiva ciraṃ na kāryam ||1||
इमे रथाः काञ्चनपद्मचित्राः; सदश्वयुक्ता वसुधाधिपार्हाः । एतान्समारुह्य परैत सर्वे; पाञ्चालराजस्य निवेशनं तत् ॥२॥
ime rathāḥ kāñcanapadmacitrāḥ; sadaśvayuktā vasudhādhipārhāḥ |etānsamāruhya paraita sarve; pāñcālarājasya niveśanaṃ tat ||2||
वैशम्पायन उवाच॥
ततः प्रयाताः कुरुपुङ्गवास्ते; पुरोहितं तं प्रथमं प्रयाप्य । आस्थाय यानानि महान्ति तानि; कुन्ती च कृष्णा च सहैव याते ॥३॥
tataḥ prayātāḥ kurupuṅgavāste; purohitaṃ taṃ prathamaṃ prayāpya |āsthāya yānāni mahānti tāni; kuntī ca kṛṣṇā ca sahaiva yāte ||3||
श्रुत्वा तु वाक्यानि पुरोहितस्य; यान्युक्तवान्भारत धर्मराजः । जिज्ञासयैवाथ कुरूत्तमानां; द्रव्याण्यनेकान्युपसञ्जहार ॥४॥
śrutvā tu vākyāni purohitasya; yānyuktavānbhārata dharmarājaḥ |jijñāsayaivātha kurūttamānāṃ; dravyāṇyanekānyupasañjahāra ||4||
फलानि माल्यानि सुसंस्कृतानि; चर्माणि वर्माणि तथासनानि । गाश्चैव राजन्नथ चैव रज्जू; र्द्रव्याणि चान्यानि कृषीनिमित्तम् ॥५॥
phalāni mālyāni susaṃskṛtāni; carmāṇi varmāṇi tathāsanāni |gāścaiva rājannatha caiva rajjū; rdravyāṇi cānyāni kṛṣīnimittam ||5||
अन्येषु शिल्पेषु च यान्यपि स्युः; सर्वाणि कॢप्तान्यखिलेन तत्र । क्रीडानिमित्तानि च यानि तानि; सर्वाणि तत्रोपजहार राजा ॥६॥
anyeṣu śilpeṣu ca yānyapi syuḥ; sarvāṇi kḷptānyakhilena tatra |krīḍānimittāni ca yāni tāni; sarvāṇi tatropajahāra rājā ||6||
रथाश्ववर्माणि च भानुमन्ति; खड्गा महान्तोऽश्वरथाश्च चित्राः । धनूंषि चाग्र्याणि शराश्च मुख्याः; शक्त्यृष्टयः काञ्चनभूषिताश्च ॥७ - त॥
rathāśvavarmāṇi ca bhānumanti; khaḍgā mahānto'śvarathāśca citrāḥ |dhanūṃṣi cāgryāṇi śarāśca mukhyāḥ; śaktyṛṣṭayaḥ kāñcanabhūṣitāśca ||7||
प्रासा भुशुण्ड्यश्च परश्वधाश्च; साङ्ग्रामिकं चैव तथैव सर्वम् । शय्यासनान्युत्तमसंस्कृतानि; तथैव चासन्विविधानि तत्र ॥८॥
prāsā bhuśuṇḍyaśca paraśvadhāśca; sāṅgrāmikaṃ caiva tathaiva sarvam |śayyāsanānyuttamasaṃskṛtāni; tathaiva cāsanvividhāni tatra ||8||
कुन्ती तु कृष्णां परिगृह्य साध्वी; मन्तःपुरं द्रुपदस्याविवेष । स्त्रियश्च तां कौरवराजपत्नीं; प्रत्यर्चयां चक्रुरदीनसत्त्वाः ॥९॥
kuntī tu kṛṣṇāṃ parigṛhya sādhvī; mantaḥpuraṃ drupadasyāviveṣa |striyaśca tāṃ kauravarājapatnīṃ; pratyarcayāṃ cakruradīnasattvāḥ ||9||
तान्सिंहविक्रान्तगतीनवेक्ष्य; महर्षभाक्षानजिनोत्तरीयान् । गूढोत्तरांसान्भुजगेन्द्रभोग; प्रलम्बबाहून्पुरुषप्रवीरान् ॥१०॥
tānsiṃhavikrāntagatīnavekṣya; maharṣabhākṣānajinottarīyān |gūḍhottarāṃsānbhujagendrabhoga; pralambabāhūnpuruṣapravīrān ||10||
राजा च राज्ञः सचिवाश्च सर्वे; पुत्राश्च राज्ञः सुहृदस्तथैव । प्रेष्याश्च सर्वे निखिलेन राज; न्हर्षं समापेतुरतीव तत्र ॥११॥
rājā ca rājñaḥ sacivāśca sarve; putrāśca rājñaḥ suhṛdastathaiva |preṣyāśca sarve nikhilena rāja; nharṣaṃ samāpeturatīva tatra ||11||
ते तत्र वीराः परमासनेषु; सपादपीठेष्वविशङ्कमानाः । यथानुपूर्व्या विविशुर्नराग्र्या; स्तदा महार्हेषु न विस्मयन्तः ॥१२॥
te tatra vīrāḥ paramāsaneṣu; sapādapīṭheṣvaviśaṅkamānāḥ |yathānupūrvyā viviśurnarāgryā; stadā mahārheṣu na vismayantaḥ ||12||
उच्चावचं पार्थिवभोजनीयं; पात्रीषु जाम्बूनदराजतीषु । दासाश्च दास्यश्च सुमृष्टवेषाः; भोजापकाश्चाप्युपजह्रुरन्नम् ॥१३॥
uccāvacaṃ pārthivabhojanīyaṃ; pātrīṣu jāmbūnadarājatīṣu |dāsāśca dāsyaśca sumṛṣṭaveṣāḥ; bhojāpakāścāpyupajahrurannam ||13||
ते तत्र भुक्त्वा पुरुषप्रवीरा; यथानुकामं सुभृशं प्रतीताः । उत्क्रम्य सर्वाणि वसूनि तत्र; साङ्ग्रामिकान्याविविशुर्नृवीराः ॥१४॥
te tatra bhuktvā puruṣapravīrā; yathānukāmaṃ subhṛśaṃ pratītāḥ |utkramya sarvāṇi vasūni tatra; sāṅgrāmikānyāviviśurnṛvīrāḥ ||14||
तल्लक्षयित्वा द्रुपदस्य पुत्रो; राजा च सर्वैः सह मन्त्रिमुख्यैः । समर्चयामासुरुपेत्य हृष्टाः; कुन्तीसुतान्पार्थिवपुत्रपौत्रान् ॥१५॥ 1.193.15
tallakṣayitvā drupadasya putro; rājā ca sarvaiḥ saha mantrimukhyaiḥ |samarcayāmāsurupetya hṛṣṭāḥ; kuntīsutānpārthivaputrapautrān ||15|| 1.193.15
ॐ श्री परमात्मने नमः