| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
तत आहूय पाञ्चाल्यो राजपुत्रं युधिष्ठिरम् । परिग्रहेण ब्राह्मेण परिगृह्य महाद्युतिः ॥१॥
ततस् आहूय पाञ्चाल्यः राज-पुत्रम् युधिष्ठिरम् । परिग्रहेण ब्राह्मेण परिगृह्य महा-द्युतिः ॥१॥
tatas āhūya pāñcālyaḥ rāja-putram yudhiṣṭhiram . parigraheṇa brāhmeṇa parigṛhya mahā-dyutiḥ ..1..
पर्यपृच्छददीनात्मा कुन्तीपुत्रं सुवर्चसम् । कथं जानीम भवतः क्षत्रियान्ब्राह्मणानुत ॥२॥
पर्यपृच्छत् अदीन-आत्मा कुन्ती-पुत्रम् सुवर्चसम् । कथम् जानीम भवतः क्षत्रियान् ब्राह्मणान् उत ॥२॥
paryapṛcchat adīna-ātmā kuntī-putram suvarcasam . katham jānīma bhavataḥ kṣatriyān brāhmaṇān uta ..2..
वैश्यान्वा गुणसम्पन्नानुत वा शूद्रयोनिजान् । मायामास्थाय वा सिद्धांश्चरतः सर्वतोदिशम् ॥३॥
वैश्यान् वा गुण-सम्पन्नान् उत वा शूद्र-योनि-जान् । मायाम् आस्थाय वा सिद्धान् चरतः सर्वतोदिशम् ॥३॥
vaiśyān vā guṇa-sampannān uta vā śūdra-yoni-jān . māyām āsthāya vā siddhān carataḥ sarvatodiśam ..3..
कृष्णाहेतोरनुप्राप्तान्दिवः संदर्शनार्थिनः । ब्रवीतु नो भवान्सत्यं संदेहो ह्यत्र नो महान् ॥४॥
कृष्णा-हेतोः अनुप्राप्तान् दिवः संदर्शन-अर्थिनः । ब्रवीतु नः भवान् सत्यम् संदेहः हि अत्र नः महान् ॥४॥
kṛṣṇā-hetoḥ anuprāptān divaḥ saṃdarśana-arthinaḥ . bravītu naḥ bhavān satyam saṃdehaḥ hi atra naḥ mahān ..4..
अपि नः संशयस्यान्ते मनस्तुष्टिरिहाविशेत् । अपि नो भागधेयानि शुभानि स्युः परन्तप ॥५॥
अपि नः संशयस्य अन्ते मनः तुष्टिः इह आविशेत् । अपि नः भागधेयानि शुभानि स्युः परन्तप ॥५॥
api naḥ saṃśayasya ante manaḥ tuṣṭiḥ iha āviśet . api naḥ bhāgadheyāni śubhāni syuḥ parantapa ..5..
कामया ब्रूहि सत्यं त्वं सत्यं राजसु शोभते । इष्टापूर्तेन च तथा वक्तव्यमनृतं न तु ॥६॥
कामया ब्रूहि सत्यम् त्वम् सत्यम् राजसु शोभते । इष्टापूर्तेन च तथा वक्तव्यम् अनृतम् न तु ॥६॥
kāmayā brūhi satyam tvam satyam rājasu śobhate . iṣṭāpūrtena ca tathā vaktavyam anṛtam na tu ..6..
श्रुत्वा ह्यमरसङ्काश तव वाक्यमरिंदम । ध्रुवं विवाहकरणमास्थास्यामि विधानतः ॥७॥
श्रुत्वा हि अमर-सङ्काश तव वाक्यम् अरिंदम । ध्रुवम् विवाह-करणम् आस्थास्यामि विधानतः ॥७॥
śrutvā hi amara-saṅkāśa tava vākyam ariṃdama . dhruvam vivāha-karaṇam āsthāsyāmi vidhānataḥ ..7..
युधिष्ठिर उवाच॥
मा राजन्विमना भूस्त्वं पाञ्चाल्य प्रीतिरस्तु ते । ईप्सितस्ते ध्रुवः कामः संवृत्तोऽयमसंशयम् ॥८॥
मा राजन् विमनाः भूः त्वम् पाञ्चाल्य प्रीतिः अस्तु ते । ईप्सितः ते ध्रुवः कामः संवृत्तः अयम् असंशयम् ॥८॥
mā rājan vimanāḥ bhūḥ tvam pāñcālya prītiḥ astu te . īpsitaḥ te dhruvaḥ kāmaḥ saṃvṛttaḥ ayam asaṃśayam ..8..
वयं हि क्षत्रिया राजन्पाण्डोः पुत्रा महात्मनः । ज्येष्ठं मां विद्धि कौन्तेयं भीमसेनार्जुनाविमौ ॥९॥ ( याभ्यां तव सुता राजन्निर्जिता राजसंसदि ॥९॥ )
वयम् हि क्षत्रियाः राजन् पाण्डोः पुत्राः महात्मनः । ज्येष्ठम् माम् विद्धि कौन्तेयम् भीमसेन-अर्जुनौ इमौ ॥९॥ ( याभ्याम् तव सुता राजन् निर्जिता राज-संसदि ॥९॥ )
vayam hi kṣatriyāḥ rājan pāṇḍoḥ putrāḥ mahātmanaḥ . jyeṣṭham mām viddhi kaunteyam bhīmasena-arjunau imau ..9.. ( yābhyām tava sutā rājan nirjitā rāja-saṃsadi ..9.. )
यमौ तु तत्र राजेन्द्र यत्र कृष्णा प्रतिष्ठिता । व्येतु ते मानसं दुःखं क्षत्रियाः स्मो नरर्षभ ॥१०॥ ( पद्मिनीव सुतेयं ते ह्रदादन्यं ह्रदं गता ॥१०॥ )
यमौ तु तत्र राज-इन्द्र यत्र कृष्णा प्रतिष्ठिता । व्येतु ते मानसम् दुःखम् क्षत्रियाः स्मः नर-ऋषभ ॥१०॥ ( पद्मिनी इव सुता इयम् ते ह्रदात् अन्यम् ह्रदम् गता ॥१०॥ )
yamau tu tatra rāja-indra yatra kṛṣṇā pratiṣṭhitā . vyetu te mānasam duḥkham kṣatriyāḥ smaḥ nara-ṛṣabha ..10.. ( padminī iva sutā iyam te hradāt anyam hradam gatā ..10.. )
इति तथ्यं महाराज सर्वमेतद्ब्रवीमि ते । भवान्हि गुरुरस्माकं परमं च परायणम् ॥११॥
इति तथ्यम् महा-राज सर्वम् एतत् ब्रवीमि ते । भवान् हि गुरुः अस्माकम् परमम् च परायणम् ॥११॥
iti tathyam mahā-rāja sarvam etat bravīmi te . bhavān hi guruḥ asmākam paramam ca parāyaṇam ..11..
वैशम्पायन उवाच॥
ततः स द्रुपदो राजा हर्षव्याकुललोचनः । प्रतिवक्तुं तदा युक्तं नाशकत्तं युधिष्ठिरम् ॥१२॥
ततस् स द्रुपदः राजा हर्ष-व्याकुल-लोचनः । प्रतिवक्तुम् तदा युक्तम् न अशकत् तम् युधिष्ठिरम् ॥१२॥
tatas sa drupadaḥ rājā harṣa-vyākula-locanaḥ . prativaktum tadā yuktam na aśakat tam yudhiṣṭhiram ..12..
यत्नेन तु स तं हर्षं संनिगृह्य परन्तपः । अनुरूपं ततो राजा प्रत्युवाच युधिष्ठिरम् ॥१३॥
यत्नेन तु स तम् हर्षम् संनिगृह्य परन्तपः । अनुरूपम् ततस् राजा प्रत्युवाच युधिष्ठिरम् ॥१३॥
yatnena tu sa tam harṣam saṃnigṛhya parantapaḥ . anurūpam tatas rājā pratyuvāca yudhiṣṭhiram ..13..
पप्रच्छ चैनं धर्मात्मा यथा ते प्रद्रुताः पुरा । स तस्मै सर्वमाचख्यावानुपूर्व्येण पाण्डवः ॥१४॥
पप्रच्छ च एनम् धर्म-आत्मा यथा ते प्रद्रुताः पुरा । स तस्मै सर्वम् आचख्यौ आनुपूर्व्येण पाण्डवः ॥१४॥
papraccha ca enam dharma-ātmā yathā te pradrutāḥ purā . sa tasmai sarvam ācakhyau ānupūrvyeṇa pāṇḍavaḥ ..14..
तच्छ्रुत्वा द्रुपदो राजा कुन्तीपुत्रस्य भाषितम् । विगर्हयामास तदा धृतराष्ट्रं जनेश्वरम् ॥१५॥
तत् श्रुत्वा द्रुपदः राजा कुन्ती-पुत्रस्य भाषितम् । विगर्हयामास तदा धृतराष्ट्रम् जनेश्वरम् ॥१५॥
tat śrutvā drupadaḥ rājā kuntī-putrasya bhāṣitam . vigarhayāmāsa tadā dhṛtarāṣṭram janeśvaram ..15..
आश्वासयामास च तं कुन्तीपुत्रं युधिष्ठिरम् । प्रतिजज्ञे च राज्याय द्रुपदो वदतां वरः ॥१६॥
आश्वासयामास च तम् कुन्ती-पुत्रम् युधिष्ठिरम् । प्रतिजज्ञे च राज्याय द्रुपदः वदताम् वरः ॥१६॥
āśvāsayāmāsa ca tam kuntī-putram yudhiṣṭhiram . pratijajñe ca rājyāya drupadaḥ vadatām varaḥ ..16..
ततः कुन्ती च कृष्णा च भीमसेनार्जुनावपि । यमौ च राज्ञा संदिष्टौ विविशुर्भवनं महत् ॥१७॥
ततस् कुन्ती च कृष्णा च भीमसेन-अर्जुनौ अपि । यमौ च राज्ञा संदिष्टौ विविशुः भवनम् महत् ॥१७॥
tatas kuntī ca kṛṣṇā ca bhīmasena-arjunau api . yamau ca rājñā saṃdiṣṭau viviśuḥ bhavanam mahat ..17..
तत्र ते न्यवसन्राजन्यज्ञसेनेन पूजिताः । प्रत्याश्वस्तांस्ततो राजा सह पुत्रैरुवाच तान् ॥१८॥
तत्र ते न्यवसन् राजन् यज्ञसेनेन पूजिताः । प्रत्याश्वस्तान् ततस् राजा सह पुत्रैः उवाच तान् ॥१८॥
tatra te nyavasan rājan yajñasenena pūjitāḥ . pratyāśvastān tatas rājā saha putraiḥ uvāca tān ..18..
गृह्णातु विधिवत्पाणिमद्यैव कुरुनन्दनः । पुण्येऽहनि महाबाहुरर्जुनः कुरुतां क्षणम् ॥१९॥
गृह्णातु विधिवत् पाणिम् अद्य एव कुरु-नन्दनः । पुण्ये अहनि महा-बाहुः अर्जुनः कुरुताम् क्षणम् ॥१९॥
gṛhṇātu vidhivat pāṇim adya eva kuru-nandanaḥ . puṇye ahani mahā-bāhuḥ arjunaḥ kurutām kṣaṇam ..19..
ततस्तमब्रवीद्राजा धर्मपुत्रो युधिष्ठिरः । ममापि दारसम्बन्धः कार्यस्तावद्विशां पते ॥२०॥
ततस् तम् अब्रवीत् राजा धर्मपुत्रः युधिष्ठिरः । मम अपि दार-सम्बन्धः कार्यः तावत् विशाम् पते ॥२०॥
tatas tam abravīt rājā dharmaputraḥ yudhiṣṭhiraḥ . mama api dāra-sambandhaḥ kāryaḥ tāvat viśām pate ..20..
द्रुपद उवाच॥
भवान्वा विधिवत्पाणिं गृह्णातु दुहितुर्मम । यस्य वा मन्यसे वीर तस्य कृष्णामुपादिश ॥२१॥
भवान् वा विधिवत् पाणिम् गृह्णातु दुहितुः मम । यस्य वा मन्यसे वीर तस्य कृष्णाम् उपादिश ॥२१॥
bhavān vā vidhivat pāṇim gṛhṇātu duhituḥ mama . yasya vā manyase vīra tasya kṛṣṇām upādiśa ..21..
युधिष्ठिर उवाच॥
सर्वेषां द्रौपदी राजन्महिषी नो भविष्यति । एवं हि व्याहृतं पूर्वं मम मात्रा विशां पते ॥२२॥
सर्वेषाम् द्रौपदी राजन् महिषी नः भविष्यति । एवम् हि व्याहृतम् पूर्वम् मम मात्रा विशाम् पते ॥२२॥
sarveṣām draupadī rājan mahiṣī naḥ bhaviṣyati . evam hi vyāhṛtam pūrvam mama mātrā viśām pate ..22..
अहं चाप्यनिविष्टो वै भीमसेनश्च पाण्डवः । पार्थेन विजिता चैषा रत्नभूता च ते सुता ॥२३॥
अहम् च अपि अनिविष्टः वै भीमसेनः च पाण्डवः । पार्थेन विजिता च एषा रत्न-भूता च ते सुता ॥२३॥
aham ca api aniviṣṭaḥ vai bhīmasenaḥ ca pāṇḍavaḥ . pārthena vijitā ca eṣā ratna-bhūtā ca te sutā ..23..
एष नः समयो राजन्रत्नस्य सहभोजनम् । न च तं हातुमिच्छामः समयं राजसत्तम ॥२४॥
एष नः समयः राजन् रत्नस्य सहभोजनम् । न च तम् हातुम् इच्छामः समयम् राज-सत्तम ॥२४॥
eṣa naḥ samayaḥ rājan ratnasya sahabhojanam . na ca tam hātum icchāmaḥ samayam rāja-sattama ..24..
सर्वेषां धर्मतः कृष्णा महिषी नो भविष्यति । आनुपूर्व्येण सर्वेषां गृह्णातु ज्वलने करम् ॥२५॥
सर्वेषाम् धर्मतः कृष्णा महिषी नः भविष्यति । आनुपूर्व्येण सर्वेषाम् गृह्णातु ज्वलने करम् ॥२५॥
sarveṣām dharmataḥ kṛṣṇā mahiṣī naḥ bhaviṣyati . ānupūrvyeṇa sarveṣām gṛhṇātu jvalane karam ..25..
द्रुपद उवाच॥
एकस्य बह्व्यो विहिता महिष्यः कुरुनन्दन । नैकस्या बहवः पुंसो विधीयन्ते कदाचन ॥२६॥
एकस्य बह्व्यः विहिताः महिष्यः कुरु-नन्दन । न एकस्याः बहवः पुंसः विधीयन्ते कदाचन ॥२६॥
ekasya bahvyaḥ vihitāḥ mahiṣyaḥ kuru-nandana . na ekasyāḥ bahavaḥ puṃsaḥ vidhīyante kadācana ..26..
लोकवेदविरुद्धं त्वं नाधर्मं धार्मिकः शुचिः । कर्तुमर्हसि कौन्तेय कस्मात्ते बुद्धिरीदृशी ॥२७॥
लोक-वेद-विरुद्धम् त्वम् न अधर्मम् धार्मिकः शुचिः । कर्तुम् अर्हसि कौन्तेय कस्मात् ते बुद्धिः ईदृशी ॥२७॥
loka-veda-viruddham tvam na adharmam dhārmikaḥ śuciḥ . kartum arhasi kaunteya kasmāt te buddhiḥ īdṛśī ..27..
युधिष्ठिर उवाच॥
सूक्ष्मो धर्मो महाराज नास्य विद्मो वयं गतिम् । पूर्वेषामानुपूर्व्येण यातं वर्त्मानुयामहे ॥२८॥
सूक्ष्मः धर्मः महा-राज न अस्य विद्मः वयम् गतिम् । पूर्वेषाम् आनुपूर्व्येण यातम् वर्त्म अनुयामहे ॥२८॥
sūkṣmaḥ dharmaḥ mahā-rāja na asya vidmaḥ vayam gatim . pūrveṣām ānupūrvyeṇa yātam vartma anuyāmahe ..28..
न मे वागनृतं प्राह नाधर्मे धीयते मतिः । एवं चैव वदत्यम्बा मम चैव मनोगतम् ॥२९॥
न मे वाच् अनृतम् प्राह न अधर्मे धीयते मतिः । एवम् च एव वदति अम्बा मम च एव मनोगतम् ॥२९॥
na me vāc anṛtam prāha na adharme dhīyate matiḥ . evam ca eva vadati ambā mama ca eva manogatam ..29..
एष धर्मो ध्रुवो राजंश्चरैनमविचारयन् । मा च तेऽत्र विशङ्का भूत्कथञ्चिदपि पार्थिव ॥३०॥
एष धर्मः ध्रुवः राजन् चर एनम् अविचारयान् । मा च ते अत्र विशङ्का भूत् कथञ्चिद् अपि पार्थिव ॥३०॥
eṣa dharmaḥ dhruvaḥ rājan cara enam avicārayān . mā ca te atra viśaṅkā bhūt kathañcid api pārthiva ..30..
द्रुपद उवाच॥
त्वं च कुन्ती च कौन्तेय धृष्टद्युम्नश्च मे सुतः । कथयन्त्वितिकर्तव्यं श्वः काले करवामहे ॥३१॥
त्वम् च कुन्ती च कौन्तेय धृष्टद्युम्नः च मे सुतः । कथयन्तु इतिकर्तव्यम् श्वस् काले करवामहे ॥३१॥
tvam ca kuntī ca kaunteya dhṛṣṭadyumnaḥ ca me sutaḥ . kathayantu itikartavyam śvas kāle karavāmahe ..31..
वैशम्पायन उवाच॥
ते समेत्य ततः सर्वे कथयन्ति स्म भारत । अथ द्वैपायनो राजन्नभ्यागच्छद्यदृच्छया ॥३२॥1.194.33
ते समेत्य ततस् सर्वे कथयन्ति स्म भारत । अथ द्वैपायनः राजन् अभ्यागच्छत् यदृच्छया ॥३२॥१।१९४।३३
te sametya tatas sarve kathayanti sma bhārata . atha dvaipāyanaḥ rājan abhyāgacchat yadṛcchayā ..32..1.194.33

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In