| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
ततस्ते पाण्डवाः सर्वे पाञ्चाल्यश्च महायशाः । प्रत्युत्थाय महात्मानं कृष्णं दृष्ट्वाभ्यपूजयन् ॥१॥
ततस् ते पाण्डवाः सर्वे पाञ्चाल्यः च महा-यशाः । प्रत्युत्थाय महात्मानम् कृष्णम् दृष्ट्वा अभ्यपूजयन् ॥१॥
tatas te pāṇḍavāḥ sarve pāñcālyaḥ ca mahā-yaśāḥ . pratyutthāya mahātmānam kṛṣṇam dṛṣṭvā abhyapūjayan ..1..
प्रतिनन्द्य स तान्सर्वान्पृष्ट्वा कुशलमन्ततः । आसने काञ्चने शुभ्रे निषसाद महामनाः ॥२॥
प्रतिनन्द्य स तान् सर्वान् पृष्ट्वा कुशलम् अन्ततस् । आसने काञ्चने शुभ्रे निषसाद महा-मनाः ॥२॥
pratinandya sa tān sarvān pṛṣṭvā kuśalam antatas . āsane kāñcane śubhre niṣasāda mahā-manāḥ ..2..
अनुज्ञातास्तु ते सर्वे कृष्णेनामिततेजसा । आसनेषु महार्हेषु निषेदुर्द्विपदां वराः ॥३॥
अनुज्ञाताः तु ते सर्वे कृष्णेन अमित-तेजसा । आसनेषु महार्हेषु निषेदुः द्विपदाम् वराः ॥३॥
anujñātāḥ tu te sarve kṛṣṇena amita-tejasā . āsaneṣu mahārheṣu niṣeduḥ dvipadām varāḥ ..3..
ततो मुहूर्तान्मधुरां वाणीमुच्चार्य पार्षतः । पप्रच्छ तं महात्मानं द्रौपद्यर्थे विशां पतिः ॥४॥
ततस् मुहूर्तात् मधुराम् वाणीम् उच्चार्य पार्षतः । पप्रच्छ तम् महात्मानम् द्रौपदी-अर्थे विशाम् पतिः ॥४॥
tatas muhūrtāt madhurām vāṇīm uccārya pārṣataḥ . papraccha tam mahātmānam draupadī-arthe viśām patiḥ ..4..
कथमेका बहूनां स्यान्न च स्याद्धर्मसङ्करः । एतन्नो भगवान्सर्वं प्रब्रवीतु यथातथम् ॥५॥
कथम् एका बहूनाम् स्यात् न च स्यात् धर्म-सङ्करः । एतत् नः भगवान् सर्वम् प्रब्रवीतु यथातथम् ॥५॥
katham ekā bahūnām syāt na ca syāt dharma-saṅkaraḥ . etat naḥ bhagavān sarvam prabravītu yathātatham ..5..
व्यास उवाच॥
अस्मिन्धर्मे विप्रलम्भे लोकवेदविरोधके । यस्य यस्य मतं यद्यच्छ्रोतुमिच्छामि तस्य तत् ॥६॥
अस्मिन् धर्मे विप्रलम्भे लोक-वेद-विरोधके । यस्य यस्य मतम् यत् यत् श्रोतुम् इच्छामि तस्य तत् ॥६॥
asmin dharme vipralambhe loka-veda-virodhake . yasya yasya matam yat yat śrotum icchāmi tasya tat ..6..
द्रुपद उवाच॥
अधर्मोऽयं मम मतो विरुद्धो लोकवेदयोः । न ह्येका विद्यते पत्नी बहूनां द्विजसत्तम ॥७॥
अधर्मः अयम् मम मतः विरुद्धः लोक-वेदयोः । न हि एका विद्यते पत्नी बहूनाम् द्विजसत्तम ॥७॥
adharmaḥ ayam mama mataḥ viruddhaḥ loka-vedayoḥ . na hi ekā vidyate patnī bahūnām dvijasattama ..7..
न चाप्याचरितः पूर्वैरयं धर्मो महात्मभिः । न च धर्मोऽप्यनेकस्थश्चरितव्यः सनातनः ॥८॥
न च अपि आचरितः पूर्वैः अयम् धर्मः महात्मभिः । न च धर्मः अपि अनेक-स्थः चरितव्यः सनातनः ॥८॥
na ca api ācaritaḥ pūrvaiḥ ayam dharmaḥ mahātmabhiḥ . na ca dharmaḥ api aneka-sthaḥ caritavyaḥ sanātanaḥ ..8..
अतो नाहं करोम्येवं व्यवसायं क्रियां प्रति । धर्मसंदेहसंदिग्धं प्रतिभाति हि मामिदम् ॥९॥
अतस् न अहम् करोमि एवम् व्यवसायम् क्रियाम् प्रति । धर्म-संदेह-संदिग्धम् प्रतिभाति हि माम् इदम् ॥९॥
atas na aham karomi evam vyavasāyam kriyām prati . dharma-saṃdeha-saṃdigdham pratibhāti hi mām idam ..9..
धृष्टद्युम्न उवाच॥
यवीयसः कथं भार्यां ज्येष्ठो भ्राता द्विजर्षभ । ब्रह्मन्समभिवर्तेत सद्वृत्तः संस्तपोधन ॥१०॥
यवीयसः कथम् भार्याम् ज्येष्ठः भ्राता द्विजर्षभ । ब्रह्मन् समभिवर्तेत सत्-वृत्तः सन् तपोधन ॥१०॥
yavīyasaḥ katham bhāryām jyeṣṭhaḥ bhrātā dvijarṣabha . brahman samabhivarteta sat-vṛttaḥ san tapodhana ..10..
न तु धर्मस्य सूक्ष्मत्वाद्गतिं विद्मः कथञ्चन । अधर्मो धर्म इति वा व्यवसायो न शक्यते ॥११॥
न तु धर्मस्य सूक्ष्म-त्वात् गतिम् विद्मः कथञ्चन । अधर्मः धर्मः इति वा व्यवसायः न शक्यते ॥११॥
na tu dharmasya sūkṣma-tvāt gatim vidmaḥ kathañcana . adharmaḥ dharmaḥ iti vā vyavasāyaḥ na śakyate ..11..
कर्तुमस्मद्विधैर्ब्रह्मंस्ततो न व्यवसाम्यहम् । पञ्चानां महिषी कृष्णा भवत्विति कथञ्चन ॥१२॥
कर्तुम् अस्मद्विधैः ब्रह्मन् ततस् न । पञ्चानाम् महिषी कृष्णा भवतु इति कथञ्चन ॥१२॥
kartum asmadvidhaiḥ brahman tatas na . pañcānām mahiṣī kṛṣṇā bhavatu iti kathañcana ..12..
युधिष्ठिर उवाच॥
न मे वागनृतं प्राह नाधर्मे धीयते मतिः । वर्तते हि मनो मेऽत्र नैषोऽधर्मः कथञ्चन ॥१३॥
न मे वाच् अनृतम् प्राह न अधर्मे धीयते मतिः । वर्तते हि मनः मे अत्र न एषः अधर्मः कथञ्चन ॥१३॥
na me vāc anṛtam prāha na adharme dhīyate matiḥ . vartate hi manaḥ me atra na eṣaḥ adharmaḥ kathañcana ..13..
श्रूयते हि पुराणेऽपि जटिला नाम गौतमी । ऋषीनध्यासितवती सप्त धर्मभृतां वर ॥१४॥
श्रूयते हि पुराणे अपि जटिला नाम गौतमी । ऋषीन् अध्यासितवती सप्त धर्म-भृताम् वर ॥१४॥
śrūyate hi purāṇe api jaṭilā nāma gautamī . ṛṣīn adhyāsitavatī sapta dharma-bhṛtām vara ..14..
गुरोश्च वचनं प्राहुर्धर्मं धर्मज्ञसत्तम । गुरूणां चैव सर्वेषां जनित्री परमो गुरुः ॥१५॥
गुरोः च वचनम् प्राहुः धर्मम् धर्म-ज्ञ-सत्तम । गुरूणाम् च एव सर्वेषाम् जनित्री परमः गुरुः ॥१५॥
guroḥ ca vacanam prāhuḥ dharmam dharma-jña-sattama . gurūṇām ca eva sarveṣām janitrī paramaḥ guruḥ ..15..
सा चाप्युक्तवती वाचं भैक्षवद्भुज्यतामिति । तस्मादेतदहं मन्ये धर्मं द्विजवरोत्तम ॥१६॥
सा च अपि उक्तवती वाचम् भैक्ष-वत् भुज्यताम् इति । तस्मात् एतत् अहम् मन्ये धर्मम् द्विजवर-उत्तम ॥१६॥
sā ca api uktavatī vācam bhaikṣa-vat bhujyatām iti . tasmāt etat aham manye dharmam dvijavara-uttama ..16..
कुन्त्युवाच॥
एवमेतद्यथाहायं धर्मचारी युधिष्ठिरः । अनृतान्मे भयं तीव्रं मुच्येयमनृतात्कथम् ॥१७॥
एवम् एतत् यथा आह अयम् धर्म-चारी युधिष्ठिरः । अनृतात् मे भयम् तीव्रम् मुच्येयम् अनृतात् कथम् ॥१७॥
evam etat yathā āha ayam dharma-cārī yudhiṣṭhiraḥ . anṛtāt me bhayam tīvram mucyeyam anṛtāt katham ..17..
व्यास उवाच॥
अनृतान्मोक्ष्यसे भद्रे धर्मश्चैष सनातनः । न तु वक्ष्यामि सर्वेषां पाञ्चाल शृणु मे स्वयम् ॥१८॥
अनृतात् मोक्ष्यसे भद्रे धर्मः च एष सनातनः । न तु वक्ष्यामि सर्वेषाम् पाञ्चाल शृणु मे स्वयम् ॥१८॥
anṛtāt mokṣyase bhadre dharmaḥ ca eṣa sanātanaḥ . na tu vakṣyāmi sarveṣām pāñcāla śṛṇu me svayam ..18..
यथायं विहितो धर्मो यतश्चायं सनातनः । यथा च प्राह कौन्तेयस्तथा धर्मो न संशयः ॥१९॥
यथा अयम् विहितः धर्मः यतस् च अयम् सनातनः । यथा च प्राह कौन्तेयः तथा धर्मः न संशयः ॥१९॥
yathā ayam vihitaḥ dharmaḥ yatas ca ayam sanātanaḥ . yathā ca prāha kaunteyaḥ tathā dharmaḥ na saṃśayaḥ ..19..
वैशम्पायन उवाच॥
तत उत्थाय भगवान्व्यासो द्वैपायनः प्रभुः । करे गृहीत्वा राजानं राजवेश्म समाविशत् ॥२०॥
ततस् उत्थाय भगवान् व्यासः द्वैपायनः प्रभुः । करे गृहीत्वा राजानम् राज-वेश्म समाविशत् ॥२०॥
tatas utthāya bhagavān vyāsaḥ dvaipāyanaḥ prabhuḥ . kare gṛhītvā rājānam rāja-veśma samāviśat ..20..
पाण्डवाश्चापि कुन्ती च धृष्टद्युम्नश्च पार्षतः । विचेतसस्ते तत्रैव प्रतीक्षन्ते स्म तावुभौ ॥२१॥
पाण्डवाः च अपि कुन्ती च धृष्टद्युम्नः च पार्षतः । विचेतसः ते तत्र एव प्रतीक्षन्ते ते स्म तौ उभौ ॥२१॥
pāṇḍavāḥ ca api kuntī ca dhṛṣṭadyumnaḥ ca pārṣataḥ . vicetasaḥ te tatra eva pratīkṣante te sma tau ubhau ..21..
ततो द्वैपायनस्तस्मै नरेन्द्राय महात्मने । आचख्यौ तद्यथा धर्मो बहूनामेकपत्निता ॥२२॥1.195.23
ततस् द्वैपायनः तस्मै नरेन्द्राय महात्मने । आचख्यौ तत् यथा धर्मः बहूनाम् एकपत्निता ॥२२॥१।१९५।२३
tatas dvaipāyanaḥ tasmai narendrāya mahātmane . ācakhyau tat yathā dharmaḥ bahūnām ekapatnitā ..22..1.195.23

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In