| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

व्यास उवाच॥
पुरा वै नैमिषारण्ये देवाः सत्रमुपासते । तत्र वैवस्वतो राजञ्शामित्रमकरोत्तदा ॥१॥
पुरा वै नैमिष-अरण्ये देवाः सत्रम् उपासते । तत्र वैवस्वतः राजन् शामित्रम् अकरोत् तदा ॥१॥
purā vai naimiṣa-araṇye devāḥ satram upāsate . tatra vaivasvataḥ rājan śāmitram akarot tadā ..1..
ततो यमो दीक्षितस्तत्र राज; न्नामारयत्किञ्चिदपि प्रजाभ्यः । ततः प्रजास्ता बहुला बभूवुः; कालातिपातान्मरणात्प्रहीणाः ॥२॥
ततस् यमः दीक्षितः तत्र राज; न अमारयत् किञ्चिद् अपि प्रजाभ्यः । ततस् प्रजाः ताः बहुलाः बभूवुः; काल-अतिपातात् मरणात् प्रहीणाः ॥२॥
tatas yamaḥ dīkṣitaḥ tatra rāja; na amārayat kiñcid api prajābhyaḥ . tatas prajāḥ tāḥ bahulāḥ babhūvuḥ; kāla-atipātāt maraṇāt prahīṇāḥ ..2..
ततस्तु शक्रो वरुणः कुबेरः; साध्या रुद्रा वसवश्चाश्विनौ च । प्रणेतारं भुवनस्य प्रजापतिं; समाजग्मुस्तत्र देवास्तथान्ये ॥३॥
ततस् तु शक्रः वरुणः कुबेरः; साध्याः रुद्राः वसवः च अश्विनौ च । प्रणेतारम् भुवनस्य प्रजापतिम्; समाजग्मुः तत्र देवाः तथा अन्ये ॥३॥
tatas tu śakraḥ varuṇaḥ kuberaḥ; sādhyāḥ rudrāḥ vasavaḥ ca aśvinau ca . praṇetāram bhuvanasya prajāpatim; samājagmuḥ tatra devāḥ tathā anye ..3..
ततोऽब्रुवँल्लोकगुरुं समेता; भयं नस्तीव्रं मानुषाणां विवृद्ध्या । तस्माद्भयादुद्विजन्तः सुखेप्सवः; प्रयाम सर्वे शरणं भवन्तम् ॥४॥
ततस् अब्रुवन् लोकगुरुम् समेता; भयम् नः तीव्रम् मानुषाणाम् विवृद्ध्या । तस्मात् भयात् उद्विजन्तः सुख-ईप्सवः; प्रयाम सर्वे शरणम् भवन्तम् ॥४॥
tatas abruvan lokagurum sametā; bhayam naḥ tīvram mānuṣāṇām vivṛddhyā . tasmāt bhayāt udvijantaḥ sukha-īpsavaḥ; prayāma sarve śaraṇam bhavantam ..4..
ब्रह्मोवाच॥
किं वो भयं मानुषेभ्यो यूयं सर्वे यदामराः । मा वो मर्त्यसकाशाद्वै भयं भवतु कर्हिचित् ॥५॥
किम् वः भयम् मानुषेभ्यः यूयम् सर्वे यदा अमराः । मा वः मर्त्य-सकाशात् वै भयम् भवतु कर्हिचित् ॥५॥
kim vaḥ bhayam mānuṣebhyaḥ yūyam sarve yadā amarāḥ . mā vaḥ martya-sakāśāt vai bhayam bhavatu karhicit ..5..
देवा ऊचुः॥
मर्त्या ह्यमर्त्याः संवृत्ता न विशेषोऽस्ति कश्चन । अविशेषादुद्विजन्तो विशेषार्थमिहागताः ॥६॥
मर्त्याः हि अमर्त्याः संवृत्ताः न विशेषः अस्ति कश्चन । अविशेषात् उद्विजन्तः विशेष-अर्थम् इह आगताः ॥६॥
martyāḥ hi amartyāḥ saṃvṛttāḥ na viśeṣaḥ asti kaścana . aviśeṣāt udvijantaḥ viśeṣa-artham iha āgatāḥ ..6..
ब्रह्मोवाच॥
वैवस्वतो व्यापृतः सत्रहेतो; स्तेन त्विमे न म्रियन्ते मनुष्याः । तस्मिन्नेकाग्रे कृतसर्वकार्ये; तत एषां भवितैवान्तकालः ॥७॥
वैवस्वतः व्यापृतः सत्र-हेतो; स्तेन तु इमे न म्रियन्ते मनुष्याः । तस्मिन् एकाग्रे कृत-सर्व-कार्ये; ततस् एषाम् भविता एव अन्त-कालः ॥७॥
vaivasvataḥ vyāpṛtaḥ satra-heto; stena tu ime na mriyante manuṣyāḥ . tasmin ekāgre kṛta-sarva-kārye; tatas eṣām bhavitā eva anta-kālaḥ ..7..
वैवस्वतस्यापि तनुर्विभूता; वीर्येण युष्माकमुत प्रयुक्ता । सैषामन्तो भविता ह्यन्तकाले; तनुर्हि वीर्यं भविता नरेषु ॥८॥
वैवस्वतस्य अपि तनुः विभूता; वीर्येण युष्माकम् उत प्रयुक्ता । सा एषाम् अन्तः भविता हि अन्त-काले; तनुः हि वीर्यम् भविता नरेषु ॥८॥
vaivasvatasya api tanuḥ vibhūtā; vīryeṇa yuṣmākam uta prayuktā . sā eṣām antaḥ bhavitā hi anta-kāle; tanuḥ hi vīryam bhavitā nareṣu ..8..
व्यास उवाच॥
ततस्तु ते पूर्वजदेववाक्यं; श्रुत्वा देवा यत्र देवा यजन्ते । समासीनास्ते समेता महाबला; भागीरथ्यां ददृशुः पुण्डरीकम् ॥९॥
ततस् तु ते पूर्वजदेव-वाक्यम्; श्रुत्वा देवाः यत्र देवाः यजन्ते । समासीनाः ते समेता महा-बला; भागीरथ्याम् ददृशुः पुण्डरीकम् ॥९॥
tatas tu te pūrvajadeva-vākyam; śrutvā devāḥ yatra devāḥ yajante . samāsīnāḥ te sametā mahā-balā; bhāgīrathyām dadṛśuḥ puṇḍarīkam ..9..
दृष्ट्वा च तद्विस्मितास्ते बभूवु; स्तेषामिन्द्रस्तत्र शूरो जगाम । सोऽपश्यद्योषामथ पावकप्रभां; यत्र गङ्गा सततं सम्प्रसूता ॥१०॥
दृष्ट्वा च तद्-विस्मिताः ते बभूवुः; स्तेषाम् इन्द्रः तत्र शूरः जगाम । सः अपश्यत् योषाम् अथ पावक-प्रभाम्; यत्र गङ्गा सततम् सम्प्रसूता ॥१०॥
dṛṣṭvā ca tad-vismitāḥ te babhūvuḥ; steṣām indraḥ tatra śūraḥ jagāma . saḥ apaśyat yoṣām atha pāvaka-prabhām; yatra gaṅgā satatam samprasūtā ..10..
सा तत्र योषा रुदती जलार्थिनी; गङ्गां देवीं व्यवगाह्यावतिष्ठत् । तस्याश्रुबिन्दुः पतितो जले वै; तत्पद्ममासीदथ तत्र काञ्चनम् ॥११॥
सा तत्र योषा रुदती जल-अर्थिनी; गङ्गाम् देवीम् व्यवगाह्य अवतिष्ठत् । तस्य अश्रु-बिन्दुः पतितः जले वै; तत् पद्मम् आसीत् अथ तत्र काञ्चनम् ॥११॥
sā tatra yoṣā rudatī jala-arthinī; gaṅgām devīm vyavagāhya avatiṣṭhat . tasya aśru-binduḥ patitaḥ jale vai; tat padmam āsīt atha tatra kāñcanam ..11..
तदद्भुतं प्रेक्ष्य वज्री तदानी; मपृच्छत्तां योषितमन्तिकाद्वै । का त्वं कथं रोदिषि कस्य हेतो; र्वाक्यं तथ्यं कामयेह ब्रवीहि ॥१२॥
तत् अद्भुतम् प्रेक्ष्य वज्री तदानी; मपृच्छत् ताम् योषितम् अन्तिकात् वै । का त्वम् कथम् रोदिषि कस्य हेतो; र्वाक्यम् तथ्यम् कामया इह ब्रवीहि ॥१२॥
tat adbhutam prekṣya vajrī tadānī; mapṛcchat tām yoṣitam antikāt vai . kā tvam katham rodiṣi kasya heto; rvākyam tathyam kāmayā iha bravīhi ..12..
स्त्र्युवाच॥
त्वं वेत्स्यसे मामिह यास्मि शक्र; यदर्थं चाहं रोदिमि मन्दभाग्या । आगच्छ राजन्पुरतोऽहं गमिष्ये; द्रष्टासि तद्रोदिमि यत्कृतेऽहम् ॥१३॥
त्वम् वेत्स्यसे माम् इह या अस्मि शक्र; यद्-अर्थम् च अहम् रोदिमि मन्दभाग्या । आगच्छ राजन् पुरतस् अहम् गमिष्ये; द्रष्टासि तत् रोदिमि यद्-कृते अहम् ॥१३॥
tvam vetsyase mām iha yā asmi śakra; yad-artham ca aham rodimi mandabhāgyā . āgaccha rājan puratas aham gamiṣye; draṣṭāsi tat rodimi yad-kṛte aham ..13..
व्यास उवाच॥
तां गच्छन्तीमन्वगच्छत्तदानीं; सोऽपश्यदारात्तरुणं दर्शनीयम् । सिंहासनस्थं युवतीसहायं; क्रीडन्तमक्षैर्गिरिराजमूर्ध्नि ॥१४॥
ताम् गच्छन्तीम् अन्वगच्छत् तदानीम्; सः अपश्यत् आरात् तरुणम् दर्शनीयम् । सिंहासन-स्थम् युवती-सहायम्; क्रीडन्तम् अक्षैः गिरिराज-मूर्ध्नि ॥१४॥
tām gacchantīm anvagacchat tadānīm; saḥ apaśyat ārāt taruṇam darśanīyam . siṃhāsana-stham yuvatī-sahāyam; krīḍantam akṣaiḥ girirāja-mūrdhni ..14..
तमब्रवीद्देवराजो ममेदं; त्वं विद्धि विश्वं भुवनं वशे स्थितम् । ईशोऽहमस्मीति समन्युरब्रवी; द्दृष्ट्वा तमक्षैः सुभृशं प्रमत्तम् ॥१५॥
तम् अब्रवीत् देवराजः मम इदम्; त्वम् विद्धि विश्वम् भुवनम् वशे स्थितम् । ईशः अहम् अस्मि इति समन्युः अब्रवीत्; दृष्ट्वा तम् अक्षैः सु भृशम् प्रमत्तम् ॥१५॥
tam abravīt devarājaḥ mama idam; tvam viddhi viśvam bhuvanam vaśe sthitam . īśaḥ aham asmi iti samanyuḥ abravīt; dṛṣṭvā tam akṣaiḥ su bhṛśam pramattam ..15..
क्रुद्धं तु शक्रं प्रसमीक्ष्य देवो; जहास शक्रं च शनैरुदैक्षत । संस्तम्भितोऽभूदथ देवराज; स्तेनेक्षितः स्थाणुरिवावतस्थे ॥१६॥
क्रुद्धम् तु शक्रम् प्रसमीक्ष्य; जहास शक्रम् च शनैस् उदैक्षत । संस्तम्भितः अभूत् अथ देवराज; स्तेन-ईक्षितः स्थाणुः इव अवतस्थे ॥१६॥
kruddham tu śakram prasamīkṣya; jahāsa śakram ca śanais udaikṣata . saṃstambhitaḥ abhūt atha devarāja; stena-īkṣitaḥ sthāṇuḥ iva avatasthe ..16..
यदा तु पर्याप्तमिहास्य क्रीडया; तदा देवीं रुदतीं तामुवाच । आनीयतामेष यतोऽहमारा; न्मैनं दर्पः पुनरप्याविशेत ॥१७॥
यदा तु पर्याप्तम् इह अस्य क्रीडया; तदा देवीम् रुदतीम् ताम् उवाच । आनीयताम् एष यतस् अहम् आरा; न्मा एनम् दर्पः पुनर् अपि आविशेत ॥१७॥
yadā tu paryāptam iha asya krīḍayā; tadā devīm rudatīm tām uvāca . ānīyatām eṣa yatas aham ārā; nmā enam darpaḥ punar api āviśeta ..17..
ततः शक्रः स्पृष्टमात्रस्तया तु; स्रस्तैरङ्गैः पतितोऽभूद्धरण्याम् । तमब्रवीद्भगवानुग्रतेजा; मैवं पुनः शक्र कृथाः कथञ्चित् ॥१८॥
ततस् शक्रः स्पृष्ट-मात्रः तया तु; स्रस्तैः अङ्गैः पतितः अभूत् हरण्याम् । तम् अब्रवीत् भगवान् उग्र-तेजाः; मा एवम् पुनर् शक्र कृथाः कथञ्चिद् ॥१८॥
tatas śakraḥ spṛṣṭa-mātraḥ tayā tu; srastaiḥ aṅgaiḥ patitaḥ abhūt haraṇyām . tam abravīt bhagavān ugra-tejāḥ; mā evam punar śakra kṛthāḥ kathañcid ..18..
विवर्तयैनं च महाद्रिराजं; बलं च वीर्यं च तवाप्रमेयम् । विवृत्य चैवाविश मध्यमस्य; यत्रासते त्वद्विधाः सूर्यभासः ॥१९॥
विवर्तय एनम् च महा-अद्रि-राजम्; बलम् च वीर्यम् च तव अप्रमेयम् । विवृत्य च एव आविश मध्यमस्य; यत्र आसते त्वद्विधाः सूर्य-भासः ॥१९॥
vivartaya enam ca mahā-adri-rājam; balam ca vīryam ca tava aprameyam . vivṛtya ca eva āviśa madhyamasya; yatra āsate tvadvidhāḥ sūrya-bhāsaḥ ..19..
स तद्विवृत्य शिखरं महागिरे; स्तुल्यद्युतींश्चतुरोऽन्यान्ददर्श । स तानभिप्रेक्ष्य बभूव दुःखितः; कच्चिन्नाहं भविता वै यथेमे ॥२०॥
स तत् विवृत्य शिखरम् महा-गिरे; स्तुल्य-द्युतीन् चतुरः अन्यान् ददर्श । स तान् अभिप्रेक्ष्य बभूव दुःखितः; कच्चित् न अहम् भविता वै यथा इमे ॥२०॥
sa tat vivṛtya śikharam mahā-gire; stulya-dyutīn caturaḥ anyān dadarśa . sa tān abhiprekṣya babhūva duḥkhitaḥ; kaccit na aham bhavitā vai yathā ime ..20..
ततो देवो गिरिशो वज्रपाणिं; विवृत्य नेत्रे कुपितोऽभ्युवाच । दरीमेतां प्रविश त्वं शतक्रतो; यन्मां बाल्यादवमंस्थाः पुरस्तात् ॥२१॥
ततस् देवः गिरिशः वज्रपाणिम्; विवृत्य नेत्रे कुपितः अभ्युवाच । दरीम् एताम् प्रविश त्वम् शतक्रतो; यत् माम् बाल्यात् अवमंस्थाः पुरस्तात् ॥२१॥
tatas devaḥ giriśaḥ vajrapāṇim; vivṛtya netre kupitaḥ abhyuvāca . darīm etām praviśa tvam śatakrato; yat mām bālyāt avamaṃsthāḥ purastāt ..21..
उक्तस्त्वेवं विभुना देवराजः; प्रवेपमानो भृशमेवाभिषङ्गात् । स्रस्तैरङ्गैरनिलेनेव नुन्न; मश्वत्थपत्रं गिरिराजमूर्ध्नि ॥२२॥
उक्तः तु एवम् विभुना देवराजः; प्रवेपमानः भृशम् एव अभिषङ्गात् । स्रस्तैः अङ्गैः अनिलेन इव नुन्न; मश्वत्थ-पत्रम् गिरिराज-मूर्ध्नि ॥२२॥
uktaḥ tu evam vibhunā devarājaḥ; pravepamānaḥ bhṛśam eva abhiṣaṅgāt . srastaiḥ aṅgaiḥ anilena iva nunna; maśvattha-patram girirāja-mūrdhni ..22..
स प्राञ्जलिर्विनतेनाननेन; प्रवेपमानः सहसैवमुक्तः । उवाच चेदं बहुरूपमुग्रं; द्रष्टा शेषस्य भगवंस्त्वं भवाद्य ॥२३॥
स प्राञ्जलिः विनतेन आननेन; प्रवेपमानः सहसा एवम् उक्तः । उवाच च इदम् बहु-रूपम् उग्रम्; द्रष्टा शेषस्य भगवन् त्वम् भव अद्य ॥२३॥
sa prāñjaliḥ vinatena ānanena; pravepamānaḥ sahasā evam uktaḥ . uvāca ca idam bahu-rūpam ugram; draṣṭā śeṣasya bhagavan tvam bhava adya ..23..
तमब्रवीदुग्रधन्वा प्रहस्य; नैवंशीलाः शेषमिहाप्नुवन्ति । एतेऽप्येवं भवितारः पुरस्ता; त्तस्मादेतां दरिमाविश्य शेध्वम् ॥२४॥
तम् अब्रवीत् उग्रधन्वा प्रहस्य; न एवंशीलाः शेषम् इह आप्नुवन्ति । एते अपि एवम् भवितारः पुरस्ता; त्तस्मात् एताम् दरिम् आविश्य शेध्वम् ॥२४॥
tam abravīt ugradhanvā prahasya; na evaṃśīlāḥ śeṣam iha āpnuvanti . ete api evam bhavitāraḥ purastā; ttasmāt etām darim āviśya śedhvam ..24..
शेषोऽप्येवं भविता वो न संशयो; योनिं सर्वे मानुषीमाविशध्वम् । तत्र यूयं कर्म कृत्वाविषह्यं; बहूनन्यान्निधनं प्रापयित्वा ॥२५॥
शेषः अपि एवम् भविता वः न संशयो; योनिम् सर्वे मानुषीम् आविशध्वम् । तत्र यूयम् कर्म कृत्वा अविषह्यम्; बहून् अन्यान् निधनम् प्रापयित्वा ॥२५॥
śeṣaḥ api evam bhavitā vaḥ na saṃśayo; yonim sarve mānuṣīm āviśadhvam . tatra yūyam karma kṛtvā aviṣahyam; bahūn anyān nidhanam prāpayitvā ..25..
आगन्तारः पुनरेवेन्द्रलोकं; स्वकर्मणा पूर्वजितं महार्हम् । सर्वं मया भाषितमेतदेवं; कर्तव्यमन्यद्विविधार्थवच्च ॥२६॥
आगन्तारः पुनर् एव इन्द्र-लोकम्; स्व-कर्मणा पूर्व-जितम् महार्हम् । सर्वम् मया भाषितम् एतत् एवम्; कर्तव्यम् अन्यत् विविध-अर्थवत् च ॥२६॥
āgantāraḥ punar eva indra-lokam; sva-karmaṇā pūrva-jitam mahārham . sarvam mayā bhāṣitam etat evam; kartavyam anyat vividha-arthavat ca ..26..
पूर्वेन्द्रा ऊचुः॥
गमिष्यामो मानुषं देवलोका; द्दुराधरो विहितो यत्र मोक्षः । देवास्त्वस्मानादधीरञ्जनन्यां; धर्मो वायुर्मघवानश्विनौ च ॥२७॥
गमिष्यामः मानुषम् देव-लोका; विहितः यत्र मोक्षः । देवाः तु अस्मान् आदधीरन् जनन्याम्; धर्मः वायुः मघवान् अश्विनौ च ॥२७॥
gamiṣyāmaḥ mānuṣam deva-lokā; vihitaḥ yatra mokṣaḥ . devāḥ tu asmān ādadhīran jananyām; dharmaḥ vāyuḥ maghavān aśvinau ca ..27..
व्यास उवाच॥
एतच्छ्रुत्वा वज्रपाणिर्वचस्तु; देवश्रेष्ठं पुनरेवेदमाह । वीर्येणाहं पुरुषं कार्यहेतो; र्दद्यामेषां पञ्चमं मत्प्रसूतम् ॥२८॥
एतत् श्रुत्वा वज्रपाणिः वचः तु; देव-श्रेष्ठम् पुनर् एव इदम् आह । वीर्येण अहम् पुरुषम् कार्य-हेतो; र्दद्याम् एषाम् पञ्चमम् मद्-प्रसूतम् ॥२८॥
etat śrutvā vajrapāṇiḥ vacaḥ tu; deva-śreṣṭham punar eva idam āha . vīryeṇa aham puruṣam kārya-heto; rdadyām eṣām pañcamam mad-prasūtam ..28..
तेषां कामं भगवानुग्रधन्वा; प्रादादिष्टं सन्निसर्गाद्यथोक्तम् । तां चाप्येषां योषितं लोककान्तां; श्रियं भार्यां व्यदधान्मानुषेषु ॥२९॥
तेषाम् कामम् भगवान् उग्र-धन्वा; प्रादादिष्टम् सत्-निसर्गात् यथा उक्तम् । ताम् च अपि एषाम् योषितम् लोक-कान्ताम्; श्रियम् भार्याम् व्यदधात् मानुषेषु ॥२९॥
teṣām kāmam bhagavān ugra-dhanvā; prādādiṣṭam sat-nisargāt yathā uktam . tām ca api eṣām yoṣitam loka-kāntām; śriyam bhāryām vyadadhāt mānuṣeṣu ..29..
तैरेव सार्धं तु ततः स देवो; जगाम नारायणमप्रमेयम् । स चापि तद्व्यदधात्सर्वमेव; ततः सर्वे सम्बभूवुर्धरण्याम् ॥३०॥
तैः एव सार्धम् तु ततस् स; जगाम नारायणम् अप्रमेयम् । स च अपि तत् व्यदधात् सर्वम् एव; ततस् सर्वे सम्बभूवुः धरण्याम् ॥३०॥
taiḥ eva sārdham tu tatas sa; jagāma nārāyaṇam aprameyam . sa ca api tat vyadadhāt sarvam eva; tatas sarve sambabhūvuḥ dharaṇyām ..30..
स चापि केशौ हरिरुद्बबर्ह; शुक्लमेकमपरं चापि कृष्णम् । तौ चापि केशौ विशतां यदूनां; कुले स्त्रियौ रोहिणीं देवकीं च ॥३१॥ ( तयोरेको बलदेवो बभूव; कृष्णो द्वितीयः केशवः सम्बभूव ॥३१॥ )
स च अपि केशौ हरिः उद्बबर्ह ह; शुक्लम् एकम् अपरम् च अपि कृष्णम् । तौ च अपि केशौ विशताम् यदूनाम्; कुले स्त्रियौ रोहिणीम् देवकीम् च ॥३१॥ ( तयोः एकः बलदेवः बभूव; कृष्णः द्वितीयः केशवः सम्बभूव ॥३१॥ )
sa ca api keśau hariḥ udbabarha ha; śuklam ekam aparam ca api kṛṣṇam . tau ca api keśau viśatām yadūnām; kule striyau rohiṇīm devakīm ca ..31.. ( tayoḥ ekaḥ baladevaḥ babhūva; kṛṣṇaḥ dvitīyaḥ keśavaḥ sambabhūva ..31.. )
ये ते पूर्वं शक्ररूपा निरुद्धा; स्तस्यां दर्यां पर्वतस्योत्तरस्य । इहैव ते पाण्डवा वीर्यवन्तः; शक्रस्यांशः पाण्डवः सव्यसाची ॥३२॥
ये ते पूर्वम् शक्र-रूपाः निरुद्धा; स्तस्याम् दर्याम् पर्वतस्य उत्तरस्य । इह एव ते पाण्डवाः वीर्यवन्तः; शक्रस्य अंशः पाण्डवः सव्यसाची ॥३२॥
ye te pūrvam śakra-rūpāḥ niruddhā; stasyām daryām parvatasya uttarasya . iha eva te pāṇḍavāḥ vīryavantaḥ; śakrasya aṃśaḥ pāṇḍavaḥ savyasācī ..32..
एवमेते पाण्डवाः सम्बभूवु; र्ये ते राजन्पूर्वमिन्द्रा बभूवुः । लक्ष्मीश्चैषां पूर्वमेवोपदिष्टा; भार्या यैषा द्रौपदी दिव्यरूपा ॥३३॥
एवम् एते पाण्डवाः सम्बभूवुः; र्ये ते राजन् पूर्वम् इन्द्राः बभूवुः । लक्ष्मीः च एषाम् पूर्वम् एव उपदिष्टा; भार्या या एषा द्रौपदी दिव्य-रूपा ॥३३॥
evam ete pāṇḍavāḥ sambabhūvuḥ; rye te rājan pūrvam indrāḥ babhūvuḥ . lakṣmīḥ ca eṣām pūrvam eva upadiṣṭā; bhāryā yā eṣā draupadī divya-rūpā ..33..
कथं हि स्त्री कर्मणोऽन्ते महीतला; त्समुत्तिष्ठेदन्यतो दैवयोगात् । यस्या रूपं सोमसूर्यप्रकाशं; गन्धश्चाग्र्यः क्रोशमात्रात्प्रवाति ॥३४॥
कथम् हि स्त्री कर्मणः अन्ते मही-तला; त्समुत्तिष्ठेत् अन्यतस् दैव-योगात् । यस्याः रूपम् सोम-सूर्य-प्रकाशम्; गन्धः च अग्र्यः क्रोश-मात्रात् प्रवाति ॥३४॥
katham hi strī karmaṇaḥ ante mahī-talā; tsamuttiṣṭhet anyatas daiva-yogāt . yasyāḥ rūpam soma-sūrya-prakāśam; gandhaḥ ca agryaḥ krośa-mātrāt pravāti ..34..
इदं चान्यत्प्रीतिपूर्वं नरेन्द्र; ददामि ते वरमत्यद्भुतं च । दिव्यं चक्षुः पश्य कुन्तीसुतांस्त्वं; पुण्यैर्दिव्यैः पूर्वदेहैरुपेतान् ॥३५॥
इदम् च अन्यत् प्रीति-पूर्वम् नरेन्द्र; ददामि ते वरम् अति अद्भुतम् च । दिव्यम् चक्षुः पश्य कुन्ती-सुतान् त्वम्; पुण्यैः दिव्यैः पूर्व-देहैः उपेतान् ॥३५॥
idam ca anyat prīti-pūrvam narendra; dadāmi te varam ati adbhutam ca . divyam cakṣuḥ paśya kuntī-sutān tvam; puṇyaiḥ divyaiḥ pūrva-dehaiḥ upetān ..35..
वैशम्पायन उवाच॥
ततो व्यासः परमोदारकर्मा; शुचिर्विप्रस्तपसा तस्य राज्ञः । चक्षुर्दिव्यं प्रददौ तान्स सर्वा; न्राजापश्यत्पूर्वदेहैर्यथावत् ॥३६॥
ततस् व्यासः परम-उदार-कर्मा; शुचिः विप्रः तपसा तस्य राज्ञः । चक्षुः दिव्यम् प्रददौ तान् स सर्वा; न् राजा अपश्यत् पूर्व-देहैः यथावत् ॥३६॥
tatas vyāsaḥ parama-udāra-karmā; śuciḥ vipraḥ tapasā tasya rājñaḥ . cakṣuḥ divyam pradadau tān sa sarvā; n rājā apaśyat pūrva-dehaiḥ yathāvat ..36..
ततो दिव्यान्हेमकिरीटमालिनः; शक्रप्रख्यान्पावकादित्यवर्णान् । बद्धापीडांश्चारुरूपांश्च यूनो; व्यूढोरस्कांस्तालमात्रान्ददर्श ॥३७॥
ततस् दिव्यान् हेम-किरीट-मालिनः; शक्र-प्रख्यान् पावक-आदित्य-वर्णान् । बद्ध-आपीडान् चारु-रूपान् च यूनः; व्यूढ-उरस्कान् ताल-मात्रान् ददर्श ॥३७॥
tatas divyān hema-kirīṭa-mālinaḥ; śakra-prakhyān pāvaka-āditya-varṇān . baddha-āpīḍān cāru-rūpān ca yūnaḥ; vyūḍha-uraskān tāla-mātrān dadarśa ..37..
दिव्यैर्वस्त्रैररजोभिः सुवर्णै; र्माल्यैश्चाग्र्यैः शोभमानानतीव । साक्षात्त्र्यक्षान्वसवो वाथ दिव्या; नादित्यान्वा सर्वगुणोपपन्नान् ॥३८॥ ( तान्पूर्वेन्द्रानेवमीक्ष्याभिरूपा; न्प्रीतो राजा द्रुपदो विस्मितश्च ॥३८॥ )
दिव्यैः वस्त्रैः अरजोभिः सुवर्णैः; र्माल्यैः च अग्र्यैः शोभमानान् अतीव । साक्षात् त्र्यक्षान् वसवः वा अथ दिव्या; न आदित्यान् वा सर्व-गुण-उपपन्नान् ॥३८॥ ( तान् पूर्वा इन्द्रान् एवम् ईक्ष्य अभिरूपा; राजा द्रुपदः विस्मितः च ॥३८॥ )
divyaiḥ vastraiḥ arajobhiḥ suvarṇaiḥ; rmālyaiḥ ca agryaiḥ śobhamānān atīva . sākṣāt tryakṣān vasavaḥ vā atha divyā; na ādityān vā sarva-guṇa-upapannān ..38.. ( tān pūrvā indrān evam īkṣya abhirūpā; rājā drupadaḥ vismitaḥ ca ..38.. )
दिव्यां मायां तामवाप्याप्रमेयां; तां चैवाग्र्यां श्रियमिव रूपिणीं च । योग्यां तेषां रूपतेजोयशोभिः; पत्नीमृद्धां दृष्टवान्पार्थिवेन्द्रः ॥३९॥
दिव्याम् मायाम् ताम् अवाप्य अप्रमेयाम्; ताम् च एव अग्र्याम् श्रियम् इव रूपिणीम् च । योग्याम् तेषाम् रूप-तेजः-यशोभिः; पत्नीम् ऋद्धाम् दृष्टवान् पार्थिव-इन्द्रः ॥३९॥
divyām māyām tām avāpya aprameyām; tām ca eva agryām śriyam iva rūpiṇīm ca . yogyām teṣām rūpa-tejaḥ-yaśobhiḥ; patnīm ṛddhām dṛṣṭavān pārthiva-indraḥ ..39..
स तद्दृष्ट्वा महदाश्चर्यरूपं; जग्राह पादौ सत्यवत्याः सुतस्य । नैतच्चित्रं परमर्षे त्वयीति; प्रसन्नचेताः स उवाच चैनम् ॥४०॥
स तत् दृष्ट्वा महत् आश्चर्य-रूपम्; जग्राह पादौ सत्यवत्याः सुतस्य । न एतत् चित्रम् परम-ऋषे त्वयि इति; प्रसन्न-चेताः सः उवाच च एनम् ॥४०॥
sa tat dṛṣṭvā mahat āścarya-rūpam; jagrāha pādau satyavatyāḥ sutasya . na etat citram parama-ṛṣe tvayi iti; prasanna-cetāḥ saḥ uvāca ca enam ..40..
व्यास उवाच॥
आसीत्तपोवने काचिदृषेः कन्या महात्मनः । नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती ॥४१॥
आसीत् तपः-वने काचिद् ऋषेः कन्या महात्मनः । न अध्यगच्छत् पतिम् सा तु कन्या रूपवती सती ॥४१॥
āsīt tapaḥ-vane kācid ṛṣeḥ kanyā mahātmanaḥ . na adhyagacchat patim sā tu kanyā rūpavatī satī ..41..
तोषयामास तपसा सा किलोग्रेण शङ्करम् । तामुवाचेश्वरः प्रीतो वृणु काममिति स्वयम् ॥४२॥
तोषयामास तपसा सा किल उग्रेण शङ्करम् । ताम् उवाच ईश्वरः प्रीतः वृणु कामम् इति स्वयम् ॥४२॥
toṣayāmāsa tapasā sā kila ugreṇa śaṅkaram . tām uvāca īśvaraḥ prītaḥ vṛṇu kāmam iti svayam ..42..
सैवमुक्ताब्रवीत्कन्या देवं वरदमीश्वरम् । पतिं सर्वगुणोपेतमिच्छामीति पुनः पुनः ॥४३॥
सा एवम् उक्ता अब्रवीत् कन्या देवम् वर-दम् ईश्वरम् । पतिम् सर्व-गुण-उपेतम् इच्छामि इति पुनर् पुनर् ॥४३॥
sā evam uktā abravīt kanyā devam vara-dam īśvaram . patim sarva-guṇa-upetam icchāmi iti punar punar ..43..
ददौ तस्यै स देवेशस्तं वरं प्रीतिमांस्तदा । पञ्च ते पतयः श्रेष्ठा भविष्यन्तीति शङ्करः ॥४४॥
ददौ तस्यै स देवेशः तम् वरम् प्रीतिमान् तदा । पञ्च ते पतयः श्रेष्ठाः भविष्यन्ति इति शङ्करः ॥४४॥
dadau tasyai sa deveśaḥ tam varam prītimān tadā . pañca te patayaḥ śreṣṭhāḥ bhaviṣyanti iti śaṅkaraḥ ..44..
सा प्रसादयती देवमिदं भूयोऽभ्यभाषत । एकं पतिं गुणोपेतं त्वत्तोऽर्हामीति वै तदा ॥४५॥ ( तां देवदेवः प्रीतात्मा पुनः प्राह शुभं वचः ॥४५॥ )
सा प्रसादयती देवम् इदम् भूयस् अभ्यभाषत । एकम् पतिम् गुण-उपेतम् त्वत्तः अर्हामि इति वै तदा ॥४५॥ ( ताम् देवदेवः प्रीत-आत्मा पुनर् प्राह शुभम् वचः ॥४५॥ )
sā prasādayatī devam idam bhūyas abhyabhāṣata . ekam patim guṇa-upetam tvattaḥ arhāmi iti vai tadā ..45.. ( tām devadevaḥ prīta-ātmā punar prāha śubham vacaḥ ..45.. )
पञ्चकृत्वस्त्वया उक्तः पतिं देहीत्यहं पुनः । तत्तथा भविता भद्रे तव तद्भद्रमस्तु ते ॥४६॥
पञ्च-कृत्वस् त्वया उक्तः पतिम् देहि इति अहम् पुनर् । तत् तथा भविता भद्रे तव तत् भद्रम् अस्तु ते ॥४६॥
pañca-kṛtvas tvayā uktaḥ patim dehi iti aham punar . tat tathā bhavitā bhadre tava tat bhadram astu te ..46..
देहमन्यं गतायास्ते यथोक्तं तद्भविष्यति ॥४६॥
देहम् अन्यम् गतायाः ते यथा उक्तम् तत् भविष्यति ॥४६॥
deham anyam gatāyāḥ te yathā uktam tat bhaviṣyati ..46..
द्रुपदैषा हि सा जज्ञे सुता ते देवरूपिणी । पञ्चानां विहिता पत्नी कृष्णा पार्षत्यनिन्दिता ॥४७॥
द्रुपद एषा हि सा जज्ञे सुता ते देव-रूपिणी । पञ्चानाम् विहिता पत्नी कृष्णा पार्षती अनिन्दिता ॥४७॥
drupada eṣā hi sā jajñe sutā te deva-rūpiṇī . pañcānām vihitā patnī kṛṣṇā pārṣatī aninditā ..47..
स्वर्गश्रीः पाण्डवार्थाय समुत्पन्ना महामखे । सेह तप्त्वा तपो घोरं दुहितृत्वं तवागता ॥४८॥
स्वर्ग-श्रीः पाण्डव-अर्थाय समुत्पन्ना महा-मखे । सा इह तप्त्वा तपः घोरम् दुहितृ-त्वम् तव आगता ॥४८॥
svarga-śrīḥ pāṇḍava-arthāya samutpannā mahā-makhe . sā iha taptvā tapaḥ ghoram duhitṛ-tvam tava āgatā ..48..
सैषा देवी रुचिरा देवजुष्टा; पञ्चानामेका स्वकृतेन कर्मणा । सृष्टा स्वयं देवपत्नी स्वयम्भुवा; श्रुत्वा राजन्द्रुपदेष्टं कुरुष्व ॥४९॥ 1.196.53
सा एषा देवी रुचिरा देव-जुष्टा; पञ्चानाम् एका स्व-कृतेन कर्मणा । सृष्टा स्वयम् देव-पत्नी स्वयम्भुवा; श्रुत्वा राजन् द्रुपद-इष्टम् कुरुष्व ॥४९॥ १।१९६।५३
sā eṣā devī rucirā deva-juṣṭā; pañcānām ekā sva-kṛtena karmaṇā . sṛṣṭā svayam deva-patnī svayambhuvā; śrutvā rājan drupada-iṣṭam kuruṣva ..49.. 1.196.53

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In