स तद्विवृत्य शिखरं महागिरे; स्तुल्यद्युतींश्चतुरोऽन्यान्ददर्श । स तानभिप्रेक्ष्य बभूव दुःखितः; कच्चिन्नाहं भविता वै यथेमे ॥२०॥
PADACHEDA
स तत् विवृत्य शिखरम् महा-गिरे; स्तुल्य-द्युतीन् चतुरः अन्यान् ददर्श । स तान् अभिप्रेक्ष्य बभूव दुःखितः; कच्चित् न अहम् भविता वै यथा इमे ॥२०॥
TRANSLITERATION
sa tat vivṛtya śikharam mahā-gire; stulya-dyutīn caturaḥ anyān dadarśa . sa tān abhiprekṣya babhūva duḥkhitaḥ; kaccit na aham bhavitā vai yathā ime ..20..
स च अपि केशौ हरिः उद्बबर्ह ह; शुक्लम् एकम् अपरम् च अपि कृष्णम् । तौ च अपि केशौ विशताम् यदूनाम्; कुले स्त्रियौ रोहिणीम् देवकीम् च ॥३१॥ ( तयोः एकः बलदेवः बभूव; कृष्णः द्वितीयः केशवः सम्बभूव ॥३१॥ )
TRANSLITERATION
sa ca api keśau hariḥ udbabarha ha; śuklam ekam aparam ca api kṛṣṇam . tau ca api keśau viśatām yadūnām; kule striyau rohiṇīm devakīm ca ..31.. ( tayoḥ ekaḥ baladevaḥ babhūva; kṛṣṇaḥ dvitīyaḥ keśavaḥ sambabhūva ..31.. )
इदं चान्यत्प्रीतिपूर्वं नरेन्द्र; ददामि ते वरमत्यद्भुतं च । दिव्यं चक्षुः पश्य कुन्तीसुतांस्त्वं; पुण्यैर्दिव्यैः पूर्वदेहैरुपेतान् ॥३५॥
PADACHEDA
इदम् च अन्यत् प्रीति-पूर्वम् नरेन्द्र; ददामि ते वरम् अति अद्भुतम् च । दिव्यम् चक्षुः पश्य कुन्ती-सुतान् त्वम्; पुण्यैः दिव्यैः पूर्व-देहैः उपेतान् ॥३५॥
TRANSLITERATION
idam ca anyat prīti-pūrvam narendra; dadāmi te varam ati adbhutam ca . divyam cakṣuḥ paśya kuntī-sutān tvam; puṇyaiḥ divyaiḥ pūrva-dehaiḥ upetān ..35..
divyām māyām tām avāpya aprameyām; tām ca eva agryām śriyam iva rūpiṇīm ca . yogyām teṣām rūpa-tejaḥ-yaśobhiḥ; patnīm ṛddhām dṛṣṭavān pārthiva-indraḥ ..39..
Participate in traditional Shiva Pūjā performed with authentic mantras, their meanings, and prescribed rituals for matrimony harmony, stability and longevity.
Welcome
Begin your learning journey
Gyaandweep's eGurukuls bring Vedic knowledge to structured, guided learning paths.
✓
You're all set
Head to your chosen Gurukula and begin your first Learning Path.