| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच॥
ततो रजन्यां व्युष्टायां प्रभात उदिते रवौ । कद्रूश्च विनता चैव भगिन्यौ ते तपोधन ॥१॥
ततस् रजन्याम् व्युष्टायाम् प्रभाते उदिते रवौ । कद्रूः च विनता च एव भगिन्यौ ते तपोधन ॥१॥
tatas rajanyām vyuṣṭāyām prabhāte udite ravau . kadrūḥ ca vinatā ca eva bhaginyau te tapodhana ..1..
अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा । जग्मतुस्तुरगं द्रष्टुमुच्छैःश्रवसमन्तिकात् ॥२॥
अमर्षिते सु संरब्धे दास्ये कृत-पणे तदा । जग्मतुः तुरगम् द्रष्टुम् उच्छैःश्रवसम् अन्तिकात् ॥२॥
amarṣite su saṃrabdhe dāsye kṛta-paṇe tadā . jagmatuḥ turagam draṣṭum ucchaiḥśravasam antikāt ..2..
ददृशाते तदा तत्र समुद्रं निधिमम्भसाम् । तिमिङ्गिलझषाकीर्णं मकरैरावृतं तथा ॥३॥
ददृशाते तदा तत्र समुद्रम् निधिम् अम्भसाम् । तिमिङ्गिल-झष-आकीर्णम् मकरैः आवृतम् तथा ॥३॥
dadṛśāte tadā tatra samudram nidhim ambhasām . timiṅgila-jhaṣa-ākīrṇam makaraiḥ āvṛtam tathā ..3..
सत्त्वैश्च बहुसाहस्रैर्नानारूपैः समावृतम् । उग्रैर्नित्यमनाधृष्यं कूर्मग्राहसमाकुलम् ॥४॥
सत्त्वैः च बहु-साहस्रैः नाना रूपैः समावृतम् । उग्रैः नित्यम् अनाधृष्यम् कूर्म-ग्राह-समाकुलम् ॥४॥
sattvaiḥ ca bahu-sāhasraiḥ nānā rūpaiḥ samāvṛtam . ugraiḥ nityam anādhṛṣyam kūrma-grāha-samākulam ..4..
आकरं सर्वरत्नानामालयं वरुणस्य च । नागानामालयं रम्यमुत्तमं सरितां पतिम् ॥५॥
आकरम् सर्व-रत्नानाम् आलयम् वरुणस्य च । नागानाम् आलयम् रम्यम् उत्तमम् सरिताम् पतिम् ॥५॥
ākaram sarva-ratnānām ālayam varuṇasya ca . nāgānām ālayam ramyam uttamam saritām patim ..5..
पातालज्वलनावासमसुराणां च बन्धनम् । भयङ्करं च सत्त्वानां पयसां निधिमर्णवम् ॥६॥
पाताल-ज्वलन-आवासम् असुराणाम् च बन्धनम् । भयङ्करम् च सत्त्वानाम् पयसाम् निधिम् अर्णवम् ॥६॥
pātāla-jvalana-āvāsam asurāṇām ca bandhanam . bhayaṅkaram ca sattvānām payasām nidhim arṇavam ..6..
शुभं दिव्यममर्त्यानाममृतस्याकरं परम् । अप्रमेयमचिन्त्यं च सुपुण्यजलमद्भुतम् ॥७॥
शुभम् दिव्यम् अमर्त्यानाम् अमृतस्य आकरम् परम् । अप्रमेयम् अचिन्त्यम् च सु पुण्य-जलम् अद्भुतम् ॥७॥
śubham divyam amartyānām amṛtasya ākaram param . aprameyam acintyam ca su puṇya-jalam adbhutam ..7..
घोरं जलचरारावरौद्रं भैरवनिस्वनम् । गम्भीरावर्तकलिलं सर्वभूतभयङ्करम् ॥८॥
। गम्भीर-आवर्त-कलिलम् सर्व-भूत-भयङ्करम् ॥८॥
. gambhīra-āvarta-kalilam sarva-bhūta-bhayaṅkaram ..8..
वेलादोलानिलचलं क्षोभोद्वेगसमुत्थितम् । वीचीहस्तैः प्रचलितैर्नृत्यन्तमिव सर्वशः ॥९॥
वेला-दोला-अनिल-चलम् क्षोभ-उद्वेग-समुत्थितम् । वीची-हस्तैः प्रचलितैः नृत्यन्तम् इव सर्वशस् ॥९॥
velā-dolā-anila-calam kṣobha-udvega-samutthitam . vīcī-hastaiḥ pracalitaiḥ nṛtyantam iva sarvaśas ..9..
चन्द्रवृद्धिक्षयवशादुद्वृत्तोर्मिदुरासदम् । पाञ्चजन्यस्य जननं रत्नाकरमनुत्तमम् ॥१०॥
चन्द्र-वृद्धि-क्षय-वशात् उद्वृत्त-ऊर्मि-दुरासदम् । पाञ्चजन्यस्य जननम् रत्न-आकरम् अनुत्तमम् ॥१०॥
candra-vṛddhi-kṣaya-vaśāt udvṛtta-ūrmi-durāsadam . pāñcajanyasya jananam ratna-ākaram anuttamam ..10..
गां विन्दता भगवता गोविन्देनामितौजसा । वराहरूपिणा चान्तर्विक्षोभितजलाविलम् ॥११॥
गाम् विन्दता भगवता गोविन्देन अमित-ओजसा । वराह-रूपिणा च अन्तर् विक्षोभित-जल-आविलम् ॥११॥
gām vindatā bhagavatā govindena amita-ojasā . varāha-rūpiṇā ca antar vikṣobhita-jala-āvilam ..11..
ब्रह्मर्षिणा च तपता वर्षाणां शतमत्रिणा । अनासादितगाधं च पातालतलमव्ययम् ॥१२॥
ब्रह्मर्षिणा च तपता वर्षाणाम् शत-मत्रिणा । अन् आसादित-गाधम् च पाताल-तलम् अव्ययम् ॥१२॥
brahmarṣiṇā ca tapatā varṣāṇām śata-matriṇā . an āsādita-gādham ca pātāla-talam avyayam ..12..
अध्यात्मयोगनिद्रां च पद्मनाभस्य सेवतः । युगादिकालशयनं विष्णोरमिततेजसः ॥१३॥
अध्यात्म-योग-निद्राम् च पद्मनाभस्य सेवतः । युग-आदि-काल-शयनम् विष्णोः अमित-तेजसः ॥१३॥
adhyātma-yoga-nidrām ca padmanābhasya sevataḥ . yuga-ādi-kāla-śayanam viṣṇoḥ amita-tejasaḥ ..13..
वडवामुखदीप्ताग्नेस्तोयहव्यप्रदं शुभम् । अगाधपारं विस्तीर्णमप्रमेयं सरित्पतिम् ॥१४॥
वडवामुख-दीप्त-अग्नेः तोय-हव्य-प्रदम् शुभम् । अगाध-पारम् विस्तीर्णम् अप्रमेयम् सरित्पतिम् ॥१४॥
vaḍavāmukha-dīpta-agneḥ toya-havya-pradam śubham . agādha-pāram vistīrṇam aprameyam saritpatim ..14..
महानदीभिर्बह्वीभिः स्पर्धयेव सहस्रशः । अभिसार्यमाणमनिशं ददृशाते महार्णवम् ॥१५॥
महा-नदीभिः बह्वीभिः स्पर्धया इव सहस्रशस् । अभिसार्यमाणम् अनिशम् ददृशाते महार्णवम् ॥१५॥
mahā-nadībhiḥ bahvībhiḥ spardhayā iva sahasraśas . abhisāryamāṇam aniśam dadṛśāte mahārṇavam ..15..
गम्भीरं तिमिमकरोग्रसङ्कुलं तं; गर्जन्तं जलचररावरौद्रनादैः । विस्तीर्णं ददृशतुरम्बरप्रकाशं; तेऽगाधं निधिमुरुमम्भसामनन्तम् ॥१६॥ 1.21.18
गम्भीरम् तिमि-मकर-उग्र-सङ्कुलम् तम्; गर्जन्तम् जलचर-राव-रौद्र-नादैः । विस्तीर्णम् ददृशतुः अम्बर-प्रकाशम्; ते अगाधम् निधिम् उरुम् अम्भसाम् अनन्तम् ॥१६॥ १।२१।१८
gambhīram timi-makara-ugra-saṅkulam tam; garjantam jalacara-rāva-raudra-nādaiḥ . vistīrṇam dadṛśatuḥ ambara-prakāśam; te agādham nidhim urum ambhasām anantam ..16.. 1.21.18
इत्येवं झषमकरोर्मिसङ्कुलं तं; गम्भीरं विकसितमम्बरप्रकाशम् । पातालज्वलनशिखाविदीपितं तं; पश्यन्त्यौ द्रुतमभिपेततुस्तदानीम् ॥१७॥1.22.12
इति एवम् झष-मकर-ऊर्मि-सङ्कुलम् तम्; गम्भीरम् विकसितम् अम्बर-प्रकाशम् । पाताल-ज्वलन-शिखा-विदीपितम् तम्; पश्यन्त्यौ द्रुतम् अभिपेततुः तदानीम् ॥१७॥१।२२।१२
iti evam jhaṣa-makara-ūrmi-saṅkulam tam; gambhīram vikasitam ambara-prakāśam . pātāla-jvalana-śikhā-vidīpitam tam; paśyantyau drutam abhipetatuḥ tadānīm ..17..1.22.12

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In