| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

द्रुपद उवाच॥
अश्रुत्वैवं वचनं ते महर्षे; मया पूर्वं यतितं कार्यमेतत् । न वै शक्यं विहितस्यापयातुं; तदेवेदमुपपन्नं विधानम् ॥१॥
अ श्रुत्वा एवम् वचनम् ते महा-ऋषे; मया पूर्वम् यतितम् कार्यम् एतत् । न वै शक्यम् विहितस्य अपयातुम्; तत् एव इदम् उपपन्नम् विधानम् ॥१॥
a śrutvā evam vacanam te mahā-ṛṣe; mayā pūrvam yatitam kāryam etat . na vai śakyam vihitasya apayātum; tat eva idam upapannam vidhānam ..1..
दिष्टस्य ग्रन्थिरनिवर्तनीयः; स्वकर्मणा विहितं नेह किञ्चित् । कृतं निमित्तं हि वरैकहेतो; स्तदेवेदमुपपन्नं बहूनाम् ॥२॥
दिष्टस्य ग्रन्थिः अ निवर्तनीयः; स्व-कर्मणा विहितम् न इह किञ्चिद् । कृतम् निमित्तम् हि वर-एक-हेतो; स्तत् एव इदम् उपपन्नम् बहूनाम् ॥२॥
diṣṭasya granthiḥ a nivartanīyaḥ; sva-karmaṇā vihitam na iha kiñcid . kṛtam nimittam hi vara-eka-heto; stat eva idam upapannam bahūnām ..2..
यथैव कृष्णोक्तवती पुरस्ता; न्नैकान्पतीन्मे भगवान्ददातु । स चाप्येवं वरमित्यब्रवीत्तां; देवो हि वेद परमं यदत्र ॥३॥
यथा एव कृष्णा उक्तवती पुरस्ता; न्न एकान् पतीन् मे भगवान् ददातु । स च अपि एवम् वरम् इति अब्रवीत् ताम्; देवः हि वेद परमम् यत् अत्र ॥३॥
yathā eva kṛṣṇā uktavatī purastā; nna ekān patīn me bhagavān dadātu . sa ca api evam varam iti abravīt tām; devaḥ hi veda paramam yat atra ..3..
यदि वायं विहितः शङ्करेण; धर्मोऽधर्मो वा नात्र ममापराधः । गृह्णन्त्विमे विधिवत्पाणिमस्या; यथोपजोषं विहितैषां हि कृष्णा ॥४॥
यदि वा अयम् विहितः शङ्करेण; धर्मः अधर्मः वा न अत्र मम अपराधः । गृह्णन्तु इमे विधिवत् पाणिम् अस्याः; यथोपजोषम् विहिता एषाम् हि कृष्णा ॥४॥
yadi vā ayam vihitaḥ śaṅkareṇa; dharmaḥ adharmaḥ vā na atra mama aparādhaḥ . gṛhṇantu ime vidhivat pāṇim asyāḥ; yathopajoṣam vihitā eṣām hi kṛṣṇā ..4..
वैशम्पायन उवाच॥
ततोऽब्रवीद्भगवान्धर्मराज; मद्य पुण्याहमुत पाण्डवेय । अद्य पौष्यं योगमुपैति चन्द्रमाः; पाणिं कृष्णायास्त्वं गृहाणाद्य पूर्वम् ॥५॥
ततस् अब्रवीत् भगवान् धर्मराज; मद्य पुण्य-अहम् उत पाण्डवेय । अद्य पौष्यम् योगम् उपैति चन्द्रमाः; पाणिम् कृष्णायाः त्वम् गृहाण अद्य पूर्वम् ॥५॥
tatas abravīt bhagavān dharmarāja; madya puṇya-aham uta pāṇḍaveya . adya pauṣyam yogam upaiti candramāḥ; pāṇim kṛṣṇāyāḥ tvam gṛhāṇa adya pūrvam ..5..
ततो राजा यज्ञसेनः सपुत्रो; जन्यार्थ युक्तं बहु तत्तदग्र्यम् । समानयामास सुतां च कृष्णा; माप्लाव्य रत्नैर्बहुभिर्विभूष्य ॥६॥
ततस् राजा यज्ञसेनः स पुत्रः; जन्य-अर्थ युक्तम् बहु तत् तत् अग्र्यम् । समानयामास सुताम् च कृष्णा; मा आप्लाव्य रत्नैः बहुभिः विभूष्य ॥६॥
tatas rājā yajñasenaḥ sa putraḥ; janya-artha yuktam bahu tat tat agryam . samānayāmāsa sutām ca kṛṣṇā; mā āplāvya ratnaiḥ bahubhiḥ vibhūṣya ..6..
ततः सर्वे सुहृदस्तत्र तस्य; समाजग्मुः सचिवा मन्त्रिणश्च । द्रष्टुं विवाहं परमप्रतीता; द्विजाश्च पौराश्च यथाप्रधानाः ॥७॥
ततस् सर्वे सुहृदः तत्र तस्य; समाजग्मुः सचिवाः मन्त्रिणः च । द्रष्टुम् विवाहम् परम-प्रतीता; द्विजाः च पौराः च यथाप्रधानाः ॥७॥
tatas sarve suhṛdaḥ tatra tasya; samājagmuḥ sacivāḥ mantriṇaḥ ca . draṣṭum vivāham parama-pratītā; dvijāḥ ca paurāḥ ca yathāpradhānāḥ ..7..
तत्तस्य वेश्मार्थिजनोपशोभितं; विकीर्णपद्मोत्पलभूषिताजिरम् । महार्हरत्नौघविचित्रमाबभौ; दिवं यथा निर्मलतारकाचितम् ॥८॥
तत् तस्य वेश्म अर्थि-जन-उपशोभितम्; विकीर्ण-पद्म-उत्पल-भूषित-अजिरम् । महार्ह-रत्न-ओघ-विचित्रम् आबभौ; दिवम् यथा निर्मल-तारका-चितम् ॥८॥
tat tasya veśma arthi-jana-upaśobhitam; vikīrṇa-padma-utpala-bhūṣita-ajiram . mahārha-ratna-ogha-vicitram ābabhau; divam yathā nirmala-tārakā-citam ..8..
ततस्तु ते कौरवराजपुत्रा; विभूषिताः कुण्डलिनो युवानः । महार्हवस्त्रा वरचन्दनोक्षिताः; कृताभिषेकाः कृतमङ्गलक्रियाः ॥९॥
ततस् तु ते कौरव-राज-पुत्रा; विभूषिताः कुण्डलिनः युवानः । महार्ह-वस्त्राः वर-चन्दन-उक्षिताः; कृत-अभिषेकाः कृत-मङ्गल-क्रियाः ॥९॥
tatas tu te kaurava-rāja-putrā; vibhūṣitāḥ kuṇḍalinaḥ yuvānaḥ . mahārha-vastrāḥ vara-candana-ukṣitāḥ; kṛta-abhiṣekāḥ kṛta-maṅgala-kriyāḥ ..9..
पुरोहितेनाग्निसमानवर्चसा; सहैव धौम्येन यथाविधि प्रभो । क्रमेण सर्वे विविशुश्च तत्सदो; महर्षभा गोष्ठमिवाभिनन्दिनः ॥१०॥
पुरोहितेन अग्नि-समान-वर्चसा; सह एव धौम्येन यथाविधि प्रभो । क्रमेण सर्वे विविशुः च तद्-सदः; महा-ऋषभाः गोष्ठम् इव अभिनन्दिनः ॥१०॥
purohitena agni-samāna-varcasā; saha eva dhaumyena yathāvidhi prabho . krameṇa sarve viviśuḥ ca tad-sadaḥ; mahā-ṛṣabhāḥ goṣṭham iva abhinandinaḥ ..10..
ततः समाधाय स वेदपारगो; जुहाव मन्त्रैर्ज्वलितं हुताशनम् । युधिष्ठिरं चाप्युपनीय मन्त्रवि; न्नियोजयामास सहैव कृष्णया ॥११॥
ततस् समाधाय स वेदपारगः; जुहाव मन्त्रैः ज्वलितम् हुताशनम् । युधिष्ठिरम् च अपि उपनीय मन्त्र-वि; न्नियोजयामास सह एव कृष्णया ॥११॥
tatas samādhāya sa vedapāragaḥ; juhāva mantraiḥ jvalitam hutāśanam . yudhiṣṭhiram ca api upanīya mantra-vi; nniyojayāmāsa saha eva kṛṣṇayā ..11..
प्रदक्षिणं तौ प्रगृहीतपाणी; समानयामास स वेदपारगः । ततोऽभ्यनुज्ञाय तमाजिशोभिनं; पुरोहितो राजगृहाद्विनिर्ययौ ॥१२॥
प्रदक्षिणम् तौ प्रगृहीत-पाणी; समानयामास स वेदपारगः । ततस् अभ्यनुज्ञाय तम् आजि-शोभिनम्; पुरोहितः राजगृहात् विनिर्ययौ ॥१२॥
pradakṣiṇam tau pragṛhīta-pāṇī; samānayāmāsa sa vedapāragaḥ . tatas abhyanujñāya tam āji-śobhinam; purohitaḥ rājagṛhāt viniryayau ..12..
क्रमेण चानेन नराधिपात्मजा; वरस्त्रियास्ते जगृहुस्तदा करम् । अहन्यहन्युत्तमरूपधारिणो; महारथाः कौरववंशवर्धनाः ॥१३॥
क्रमेण च अनेन नराधिप-आत्मजा; वर-स्त्रियाः ते जगृहुः तदा करम् । अहनि अहनि उत्तम-रूप-धारिणः; महा-रथाः कौरव-वंश-वर्धनाः ॥१३॥
krameṇa ca anena narādhipa-ātmajā; vara-striyāḥ te jagṛhuḥ tadā karam . ahani ahani uttama-rūpa-dhāriṇaḥ; mahā-rathāḥ kaurava-vaṃśa-vardhanāḥ ..13..
इदं च तत्राद्भुतरूपमुत्तमं; जगाद विप्रर्षिरतीतमानुषम् । महानुभावा किल सा सुमध्यमा; बभूव कन्यैव गते गतेऽहनि ॥१४॥
इदम् च तत्र अद्भुत-रूपम् उत्तमम्; जगाद विप्रर्षिः अतीत-मानुषम् । महा-अनुभावा किल सा सुमध्यमा; बभूव कन्या एव गते गते अहनि ॥१४॥
idam ca tatra adbhuta-rūpam uttamam; jagāda viprarṣiḥ atīta-mānuṣam . mahā-anubhāvā kila sā sumadhyamā; babhūva kanyā eva gate gate ahani ..14..
कृते विवाहे द्रुपदो धनं ददौ; महारथेभ्यो बहुरूपमुत्तमम् । शतं रथानां वरहेमभूषिणां; चतुर्युजां हेमखलीनमालिनाम् ॥१५॥
कृते विवाहे द्रुपदः धनम् ददौ; महा-रथेभ्यः बहु-रूपम् उत्तमम् । शतम् रथानाम् वर-हेम-भूषिणाम्; चतुर्-युजाम् हेम-खलीन-मालिनाम् ॥१५॥
kṛte vivāhe drupadaḥ dhanam dadau; mahā-rathebhyaḥ bahu-rūpam uttamam . śatam rathānām vara-hema-bhūṣiṇām; catur-yujām hema-khalīna-mālinām ..15..
शतं गजानामभिपद्मिनां तथा; शतं गिरीणामिव हेमशृङ्गिणाम् । तथैव दासीशतमग्र्ययौवनं; महार्हवेषाभरणाम्बरस्रजम् ॥१६॥
शतम् गजानाम् अभिपद्मिनाम् तथा; शतम् गिरीणाम् इव हेम-शृङ्गिणाम् । तथा एव दासी-शतम् अग्र्य-यौवनम्; महार्ह-वेष-आभरण-अम्बर-स्रजम् ॥१६॥
śatam gajānām abhipadminām tathā; śatam girīṇām iva hema-śṛṅgiṇām . tathā eva dāsī-śatam agrya-yauvanam; mahārha-veṣa-ābharaṇa-ambara-srajam ..16..
पृथक्पृथक्चैव दशायुतान्वितं; धनं ददौ सौमकिरग्निसाक्षिकम् । तथैव वस्त्राणि च भूषणानि; प्रभावयुक्तानि महाधनानि ॥१७॥
पृथक् पृथक् च एव दश-अयुत-अन्वितम्; धनम् ददौ सौमकिः अग्नि-साक्षिकम् । तथा एव वस्त्राणि च भूषणानि; प्रभाव-युक्तानि महाधनानि ॥१७॥
pṛthak pṛthak ca eva daśa-ayuta-anvitam; dhanam dadau saumakiḥ agni-sākṣikam . tathā eva vastrāṇi ca bhūṣaṇāni; prabhāva-yuktāni mahādhanāni ..17..
कृते विवाहे च ततः स्म पाण्डवाः; प्रभूतरत्नामुपलभ्य तां श्रियम् । विजह्रुरिन्द्रप्रतिमा महाबलाः; पुरे तु पाञ्चालनृपस्य तस्य ह ॥१८॥ 1.197.18
कृते विवाहे च ततस् स्म पाण्डवाः; प्रभूत-रत्नाम् उपलभ्य ताम् श्रियम् । विजह्रुः इन्द्र-प्रतिमाः महा-बलाः; पुरे तु पाञ्चाल-नृपस्य तस्य ह ॥१८॥ १।१९७।१८
kṛte vivāhe ca tatas sma pāṇḍavāḥ; prabhūta-ratnām upalabhya tām śriyam . vijahruḥ indra-pratimāḥ mahā-balāḥ; pure tu pāñcāla-nṛpasya tasya ha ..18.. 1.197.18

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In