| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
पाण्डवैः सह संयोगं गतस्य द्रुपदस्य तु । न बभूव भयं किञ्चिद्देवेभ्योऽपि कथञ्चन ॥१॥
पाण्डवैः सह संयोगम् गतस्य द्रुपदस्य तु । न बभूव भयम् किञ्चिद् देवेभ्यः अपि कथञ्चन ॥१॥
pāṇḍavaiḥ saha saṃyogam gatasya drupadasya tu . na babhūva bhayam kiñcid devebhyaḥ api kathañcana ..1..
कुन्तीमासाद्य ता नार्यो द्रुपदस्य महात्मनः । नाम सङ्कीर्तयन्त्यस्ताः पादौ जग्मुः स्वमूर्धभिः ॥२॥
कुन्तीम् आसाद्य ताः नार्यः द्रुपदस्य महात्मनः । नाम सङ्कीर्तयन्त्यः ताः पादौ जग्मुः स्व-मूर्धभिः ॥२॥
kuntīm āsādya tāḥ nāryaḥ drupadasya mahātmanaḥ . nāma saṅkīrtayantyaḥ tāḥ pādau jagmuḥ sva-mūrdhabhiḥ ..2..
कृष्णा च क्षौमसंवीता कृतकौतुकमङ्गला । कृताभिवादना श्वश्र्वास्तस्थौ प्रह्वा कृताञ्जलिः ॥३॥
कृष्णा च क्षौम-संवीता कृत-कौतुकमङ्गला । कृत-अभिवादना श्वश्र्वाः तस्थौ प्रह्वा कृताञ्जलिः ॥३॥
kṛṣṇā ca kṣauma-saṃvītā kṛta-kautukamaṅgalā . kṛta-abhivādanā śvaśrvāḥ tasthau prahvā kṛtāñjaliḥ ..3..
रूपलक्षणसम्पन्नां शीलाचारसमन्विताम् । द्रौपदीमवदत्प्रेम्णा पृथाशीर्वचनं स्नुषाम् ॥४॥
रूप-लक्षण-सम्पन्नाम् शील-आचार-समन्विताम् । द्रौपदीम् अवदत् प्रेम्णा पृथा आशीः-वचनम् स्नुषाम् ॥४॥
rūpa-lakṣaṇa-sampannām śīla-ācāra-samanvitām . draupadīm avadat premṇā pṛthā āśīḥ-vacanam snuṣām ..4..
यथेन्द्राणी हरिहये स्वाहा चैव विभावसौ । रोहिणी च यथा सोमे दमयन्ती यथा नले ॥५॥
यथा इन्द्राणी हरिहये स्वाहा च एव विभावसौ । रोहिणी च यथा सोमे दमयन्ती यथा नले ॥५॥
yathā indrāṇī harihaye svāhā ca eva vibhāvasau . rohiṇī ca yathā some damayantī yathā nale ..5..
यथा वैश्रवणे भद्रा वसिष्ठे चाप्यरुन्धती । यथा नारायणे लक्ष्मीस्तथा त्वं भव भर्तृषु ॥६॥
यथा वैश्रवणे भद्रा वसिष्ठे च अपि अरुन्धती । यथा नारायणे लक्ष्मीः तथा त्वम् भव भर्तृषु ॥६॥
yathā vaiśravaṇe bhadrā vasiṣṭhe ca api arundhatī . yathā nārāyaṇe lakṣmīḥ tathā tvam bhava bhartṛṣu ..6..
जीवसूर्वीरसूर्भद्रे बहुसौख्यसमन्विता । सुभगा भोगसम्पन्ना यज्ञपत्नी स्वनुव्रता ॥७॥
जीवसूः वीरसूः भद्रे बहु-सौख्य-समन्विता । सुभगा भोग-सम्पन्ना यज्ञपत्नी सु अनुव्रता ॥७॥
jīvasūḥ vīrasūḥ bhadre bahu-saukhya-samanvitā . subhagā bhoga-sampannā yajñapatnī su anuvratā ..7..
अतिथीनागतान्साधून्बालान्वृद्धान्गुरूंस्तथा । पूजयन्त्या यथान्यायं शश्वद्गच्छन्तु ते समाः ॥८॥
अतिथीन् आगतान् साधून् बालान् वृद्धान् गुरून् तथा । पूजयन्त्याः यथान्यायम् शश्वत् गच्छन्तु ते समाः ॥८॥
atithīn āgatān sādhūn bālān vṛddhān gurūn tathā . pūjayantyāḥ yathānyāyam śaśvat gacchantu te samāḥ ..8..
कुरुजाङ्गलमुख्येषु राष्ट्रेषु नगरेषु च । अनु त्वमभिषिच्यस्व नृपतिं धर्मवत्सलम् ॥९॥
कुरुजाङ्गल-मुख्येषु राष्ट्रेषु नगरेषु च । अनु त्वम् अभिषिच्यस्व नृपतिम् धर्म-वत्सलम् ॥९॥
kurujāṅgala-mukhyeṣu rāṣṭreṣu nagareṣu ca . anu tvam abhiṣicyasva nṛpatim dharma-vatsalam ..9..
पतिभिर्निर्जितामुर्वीं विक्रमेण महाबलैः । कुरु ब्राह्मणसात्सर्वामश्वमेधे महाक्रतौ ॥१०॥
पतिभिः निर्जिताम् उर्वीम् विक्रमेण महा-बलैः । कुरु ब्राह्मणसात् सर्वाम् अश्वमेधे महा-क्रतौ ॥१०॥
patibhiḥ nirjitām urvīm vikrameṇa mahā-balaiḥ . kuru brāhmaṇasāt sarvām aśvamedhe mahā-kratau ..10..
पृथिव्यां यानि रत्नानि गुणवन्ति गुनान्विते । तान्याप्नुहि त्वं कल्याणि सुखिनी शरदां शतम् ॥११॥
पृथिव्याम् यानि रत्नानि गुणवन्ति । तानि आप्नुहि त्वम् कल्याणि सुखिनी शरदाम् शतम् ॥११॥
pṛthivyām yāni ratnāni guṇavanti . tāni āpnuhi tvam kalyāṇi sukhinī śaradām śatam ..11..
यथा च त्वाभिनन्दामि वध्वद्य क्षौमसंवृताम् । तथा भूयोऽभिनन्दिष्ये सूतपुत्रां गुणान्विताम् ॥१२॥
यथा च त्वा अभिनन्दामि वधु अद्य क्षौम-संवृताम् । तथा भूयस् अभिनन्दिष्ये सूत-पुत्राम् गुण-अन्विताम् ॥१२॥
yathā ca tvā abhinandāmi vadhu adya kṣauma-saṃvṛtām . tathā bhūyas abhinandiṣye sūta-putrām guṇa-anvitām ..12..
ततस्तु कृतदारेभ्यः पाण्डुभ्यः प्राहिणोद्धरिः । मुक्तावैडूर्यचित्राणि हैमान्याभरणानि च ॥१३॥
ततस् तु कृतदारेभ्यः पाण्डुभ्यः प्राहिणोत् हरिः । मुक्ता-वैडूर्य-चित्राणि हैमानि आभरणानि च ॥१३॥
tatas tu kṛtadārebhyaḥ pāṇḍubhyaḥ prāhiṇot hariḥ . muktā-vaiḍūrya-citrāṇi haimāni ābharaṇāni ca ..13..
वासांसि च महार्हाणि नानादेश्यानि माधवः । कम्बलाजिनरत्नानि स्पर्शवन्ति शुभानि च ॥१४॥
वासांसि च महार्हाणि नानादेश्यानि माधवः । कम्बल-अजिन-रत्नानि स्पर्शवन्ति शुभानि च ॥१४॥
vāsāṃsi ca mahārhāṇi nānādeśyāni mādhavaḥ . kambala-ajina-ratnāni sparśavanti śubhāni ca ..14..
शयनासनयानानि विविधानि महान्ति च । वैडूर्यवज्रचित्राणि शतशो भाजनानि च ॥१५॥
शयन-आसन-यानानि विविधानि महान्ति च । वैडूर्य-वज्र-चित्राणि शतशस् भाजनानि च ॥१५॥
śayana-āsana-yānāni vividhāni mahānti ca . vaiḍūrya-vajra-citrāṇi śataśas bhājanāni ca ..15..
रूपयौवनदाक्षिण्यैरुपेताश्च स्वलङ्कृताः । प्रेष्याः सम्प्रददौ कृष्णो नानादेश्याः सहस्रशः ॥१६॥
रूप-यौवन-दाक्षिण्यैः उपेताः च सु अलङ्कृताः । प्रेष्याः सम्प्रददौ कृष्णः नानादेश्याः सहस्रशस् ॥१६॥
rūpa-yauvana-dākṣiṇyaiḥ upetāḥ ca su alaṅkṛtāḥ . preṣyāḥ sampradadau kṛṣṇaḥ nānādeśyāḥ sahasraśas ..16..
गजान्विनीतान्भद्रांश्च सदश्वांश्च स्वलङ्कृतान् । रथांश्च दान्तान्सौवर्णैः शुभैः पट्टैरलङ्कृतान् ॥१७॥
गजान् विनीतान् भद्रान् च सत्-अश्वान् च सु अलङ्कृतान् । रथान् च दान्तान् सौवर्णैः शुभैः पट्टैः अलङ्कृतान् ॥१७॥
gajān vinītān bhadrān ca sat-aśvān ca su alaṅkṛtān . rathān ca dāntān sauvarṇaiḥ śubhaiḥ paṭṭaiḥ alaṅkṛtān ..17..
कोटिशश्च सुवर्णं स तेषामकृतकं तथा । वीतीकृतममेयात्मा प्राहिणोन्मधुसूदनः ॥१८॥
कोटिशस् च सुवर्णम् स तेषाम् अकृतकम् तथा । प्राहिणोत् मधुसूदनः ॥१८॥
koṭiśas ca suvarṇam sa teṣām akṛtakam tathā . prāhiṇot madhusūdanaḥ ..18..
तत्सर्वं प्रतिजग्राह धर्मराजो युधिष्ठिरः । मुदा परमया युक्तो गोविन्दप्रियकाम्यया ॥१९॥ 1.198.19
तत् सर्वम् प्रतिजग्राह धर्मराजः युधिष्ठिरः । मुदा परमया युक्तः गोविन्द-प्रिय-काम्यया ॥१९॥ १।१९८।१९
tat sarvam pratijagrāha dharmarājaḥ yudhiṣṭhiraḥ . mudā paramayā yuktaḥ govinda-priya-kāmyayā ..19.. 1.198.19

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In