| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
ततो राज्ञां चरैराप्तैश्चारः समुपनीयत । पाण्डवैरुपसम्पन्ना द्रौपदी पतिभिः शुभा ॥१॥
ततस् राज्ञाम् चरैः आप्तैः चारः समुपनीयत । पाण्डवैः उपसम्पन्ना द्रौपदी पतिभिः शुभा ॥१॥
tatas rājñām caraiḥ āptaiḥ cāraḥ samupanīyata . pāṇḍavaiḥ upasampannā draupadī patibhiḥ śubhā ..1..
येन तद्धनुरायम्य लक्ष्यं विद्धं महात्मना । सोऽर्जुनो जयतां श्रेष्ठो महाबाणधनुर्धरः ॥२॥
येन तत् धनुः आयम्य लक्ष्यम् विद्धम् महात्मना । सः अर्जुनः जयताम् श्रेष्ठः महा-बाण-धनुः-धरः ॥२॥
yena tat dhanuḥ āyamya lakṣyam viddham mahātmanā . saḥ arjunaḥ jayatām śreṣṭhaḥ mahā-bāṇa-dhanuḥ-dharaḥ ..2..
यः शल्यं मद्रराजानमुत्क्षिप्याभ्रामयद्बली । त्रासयंश्चापि सङ्क्रुद्धो वृक्षेण पुरुषान्रणे ॥३॥
यः शल्यम् मद्र-राजानम् उत्क्षिप्य अभ्रामयत् बली । त्रासयन् च अपि सङ्क्रुद्धः वृक्षेण पुरुषान् रणे ॥३॥
yaḥ śalyam madra-rājānam utkṣipya abhrāmayat balī . trāsayan ca api saṅkruddhaḥ vṛkṣeṇa puruṣān raṇe ..3..
न चापि सम्भ्रमः कश्चिदासीत्तत्र महात्मनः । स भीमो भीमसंस्पर्शः शत्रुसेनाङ्गपातनः ॥४॥
न च अपि सम्भ्रमः कश्चिद् आसीत् तत्र महात्मनः । स भीमः भीम-संस्पर्शः शत्रु-सेना-अङ्ग-पातनः ॥४॥
na ca api sambhramaḥ kaścid āsīt tatra mahātmanaḥ . sa bhīmaḥ bhīma-saṃsparśaḥ śatru-senā-aṅga-pātanaḥ ..4..
ब्रह्मरूपधराञ्श्रुत्वा पाण्डुराजसुतांस्तदा । कौन्तेयान्मनुजेन्द्राणां विस्मयः समजायत ॥५॥
ब्रह्म-रूप-धरान् श्रुत्वा पाण्डु-राज-सुतान् तदा । कौन्तेयात् मनुज-इन्द्राणाम् विस्मयः समजायत ॥५॥
brahma-rūpa-dharān śrutvā pāṇḍu-rāja-sutān tadā . kaunteyāt manuja-indrāṇām vismayaḥ samajāyata ..5..
सपुत्रा हि पुरा कुन्ती दग्धा जतुगृहे श्रुता । पुनर्जातानिति स्मैतान्मन्यन्ते सर्वपार्थिवाः ॥६॥
स पुत्रा हि पुरा कुन्ती दग्धा जतु-गृहे श्रुता । पुनर् जातान् इति स्म एतान् मन्यन्ते सर्व-पार्थिवाः ॥६॥
sa putrā hi purā kuntī dagdhā jatu-gṛhe śrutā . punar jātān iti sma etān manyante sarva-pārthivāḥ ..6..
धिक्कुर्वन्तस्तदा भीष्मं धृतराष्ट्रं च कौरवम् । कर्मणा सुनृशंसेन पुरोचनकृतेन वै ॥७॥
धिक्कुर्वन्तः तदा भीष्मम् धृतराष्ट्रम् च कौरवम् । कर्मणा सु नृशंसेन पुरोचन-कृतेन वै ॥७॥
dhikkurvantaḥ tadā bhīṣmam dhṛtarāṣṭram ca kauravam . karmaṇā su nṛśaṃsena purocana-kṛtena vai ..7..
वृत्ते स्वयंवरे चैव राजानः सर्व एव ते । यथागतं विप्रजग्मुर्विदित्वा पाण्डवान्वृतान् ॥८॥
वृत्ते स्वयंवरे च एव राजानः सर्वे एव ते । यथागतम् विप्रजग्मुः विदित्वा पाण्डवान् वृतान् ॥८॥
vṛtte svayaṃvare ca eva rājānaḥ sarve eva te . yathāgatam viprajagmuḥ viditvā pāṇḍavān vṛtān ..8..
अथ दुर्योधनो राजा विमना भ्रातृभिः सह । अश्वत्थाम्ना मातुलेन कर्णेन च कृपेण च ॥९॥
अथ दुर्योधनः राजा विमनाः भ्रातृभिः सह । अश्वत्थाम्ना मातुलेन कर्णेन च कृपेण च ॥९॥
atha duryodhanaḥ rājā vimanāḥ bhrātṛbhiḥ saha . aśvatthāmnā mātulena karṇena ca kṛpeṇa ca ..9..
विनिवृत्तो वृतं दृष्ट्वा द्रौपद्या श्वेतवाहनम् । तं तु दुःशासनो व्रीडन्मन्दं मन्दमिवाब्रवीत् ॥१०॥
विनिवृत्तः वृतम् दृष्ट्वा द्रौपद्या श्वेतवाहनम् । तम् तु दुःशासनः व्रीडन् मन्दम् मन्दम् इव अब्रवीत् ॥१०॥
vinivṛttaḥ vṛtam dṛṣṭvā draupadyā śvetavāhanam . tam tu duḥśāsanaḥ vrīḍan mandam mandam iva abravīt ..10..
यद्यसौ ब्राह्मणो न स्याद्विन्देत द्रौपदीं न सः । न हि तं तत्त्वतो राजन्वेद कश्चिद्धनञ्जयम् ॥११॥
यदि असौ ब्राह्मणः न स्यात् विन्देत द्रौपदीम् न सः । न हि तम् तत्त्वतः राजन् वेद कश्चिद् हनञ्जयम् ॥११॥
yadi asau brāhmaṇaḥ na syāt vindeta draupadīm na saḥ . na hi tam tattvataḥ rājan veda kaścid hanañjayam ..11..
दैवं तु परमं मन्ये पौरुषं तु निरर्थकम् । धिगस्मत्पौरुषं तात यद्धरन्तीह पाण्डवाः ॥१२॥
दैवम् तु परमम् मन्ये पौरुषम् तु निरर्थकम् । धिक् अस्मद्-पौरुषम् तात यत् हरन्ति इह पाण्डवाः ॥१२॥
daivam tu paramam manye pauruṣam tu nirarthakam . dhik asmad-pauruṣam tāta yat haranti iha pāṇḍavāḥ ..12..
एवं सम्भाषमाणास्ते निन्दन्तश्च पुरोचनम् । विविशुर्हास्तिनपुरं दीना विगतचेतसः ॥१३॥
एवम् सम्भाषमाणाः ते निन्दन्तः च पुरोचनम् । विविशुः हास्तिनपुरम् दीनाः विगत-चेतसः ॥१३॥
evam sambhāṣamāṇāḥ te nindantaḥ ca purocanam . viviśuḥ hāstinapuram dīnāḥ vigata-cetasaḥ ..13..
त्रस्ता विगतसङ्कल्पा दृष्ट्वा पार्थान्महौजसः । मुक्तान्हव्यवहाच्चैनान्संयुक्तान्द्रुपदेन च ॥१४॥
त्रस्ताः विगत-सङ्कल्पाः दृष्ट्वा पार्थान् महा-ओजसः । मुक्तान् हव्यवहात् च एनान् संयुक्तान् द्रुपदेन च ॥१४॥
trastāḥ vigata-saṅkalpāḥ dṛṣṭvā pārthān mahā-ojasaḥ . muktān havyavahāt ca enān saṃyuktān drupadena ca ..14..
धृष्टद्युम्नं च सञ्चिन्त्य तथैव च शिखण्डिनम् । द्रुपदस्यात्मजांश्चान्यान्सर्वयुद्धविशारदान् ॥१५॥
धृष्टद्युम्नम् च सञ्चिन्त्य तथा एव च शिखण्डिनम् । द्रुपदस्य आत्मजान् च अन्यान् सर्व-युद्ध-विशारदान् ॥१५॥
dhṛṣṭadyumnam ca sañcintya tathā eva ca śikhaṇḍinam . drupadasya ātmajān ca anyān sarva-yuddha-viśāradān ..15..
विदुरस्त्वथ ताञ्श्रुत्वा द्रौपद्या पाण्डवान्वृतान् । व्रीडितान्धार्तराष्ट्रांश्च भग्नदर्पानुपागतान् ॥१६॥
विदुरः तु अथ तान् श्रुत्वा द्रौपद्या पाण्डवान् वृतान् । व्रीडितान् धार्तराष्ट्रान् च भग्न-दर्पान् उपागतान् ॥१६॥
viduraḥ tu atha tān śrutvā draupadyā pāṇḍavān vṛtān . vrīḍitān dhārtarāṣṭrān ca bhagna-darpān upāgatān ..16..
ततः प्रीतमनाः क्षत्ता धृतराष्ट्रं विशां पते । उवाच दिष्ट्या कुरवो वर्धन्त इति विस्मितः ॥१७॥
ततस् प्रीत-मनाः क्षत्ता धृतराष्ट्रम् विशाम् पते । उवाच दिष्ट्या कुरवः वर्धन्ते इति विस्मितः ॥१७॥
tatas prīta-manāḥ kṣattā dhṛtarāṣṭram viśām pate . uvāca diṣṭyā kuravaḥ vardhante iti vismitaḥ ..17..
वैचित्रवीर्यस्तु नृपो निशम्य विदुरस्य तत् । अब्रवीत्परमप्रीतो दिष्ट्या दिष्ट्येति भारत ॥१८॥
वैचित्रवीर्यः तु नृपः निशम्य विदुरस्य तत् । अब्रवीत् परम-प्रीतः दिष्ट्या दिष्ट्या इति भारत ॥१८॥
vaicitravīryaḥ tu nṛpaḥ niśamya vidurasya tat . abravīt parama-prītaḥ diṣṭyā diṣṭyā iti bhārata ..18..
मन्यते हि वृतं पुत्रं ज्येष्ठं द्रुपदकन्यया । दुर्योधनमविज्ञानात्प्रज्ञाचक्षुर्नरेश्वरः ॥१९॥
मन्यते हि वृतम् पुत्रम् ज्येष्ठम् द्रुपद-कन्यया । दुर्योधनम् अविज्ञानात् प्रज्ञाचक्षुः नरेश्वरः ॥१९॥
manyate hi vṛtam putram jyeṣṭham drupada-kanyayā . duryodhanam avijñānāt prajñācakṣuḥ nareśvaraḥ ..19..
अथ त्वाज्ञापयामास द्रौपद्या भूषणं बहु । आनीयतां वै कृष्णेति पुत्रं दुर्योधनं तदा ॥२०॥
अथ तु आज्ञापयामास द्रौपद्याः भूषणम् बहु । आनीयताम् वै कृष्णा इति पुत्रम् दुर्योधनम् तदा ॥२०॥
atha tu ājñāpayāmāsa draupadyāḥ bhūṣaṇam bahu . ānīyatām vai kṛṣṇā iti putram duryodhanam tadā ..20..
अथास्य पश्चाद्विदुर आचख्यौ पाण्डवान्वृतान् । सर्वान्कुशलिनो वीरान्पूजितान्द्रुपदेन च ॥२१॥ ( तेषां सम्बन्धिनश्चान्यान्बहून्बलसमन्वितान् ॥२१॥ )
अथ अस्य पश्चात् विदुरः आचख्यौ पाण्डवान् वृतान् । सर्वान् कुशलिनः वीरान् पूजितान् द्रुपदेन च ॥२१॥ ( तेषाम् सम्बन्धिनः च अन्यान् बहून् बल-समन्वितान् ॥२१॥ )
atha asya paścāt viduraḥ ācakhyau pāṇḍavān vṛtān . sarvān kuśalinaḥ vīrān pūjitān drupadena ca ..21.. ( teṣām sambandhinaḥ ca anyān bahūn bala-samanvitān ..21.. )
धृतराष्ट्र उवाच॥
यथैव पाण्डोः पुत्रास्ते तथैवाभ्यधिका मम । सेयमभ्यधिका प्रीतिर्वृद्धिर्विदुर मे मता ॥२२॥ ( यत्ते कुशलिनो वीरा मित्रवन्तश्च पाण्डवाः ॥२२॥ )
यथा एव पाण्डोः पुत्राः ते तथा एव अभ्यधिकाः मम । सा इयम् अभ्यधिका प्रीतिः वृद्धिः विदुर मे मता ॥२२॥ ( यत् ते कुशलिनः वीराः मित्रवन्तः च पाण्डवाः ॥२२॥ )
yathā eva pāṇḍoḥ putrāḥ te tathā eva abhyadhikāḥ mama . sā iyam abhyadhikā prītiḥ vṛddhiḥ vidura me matā ..22.. ( yat te kuśalinaḥ vīrāḥ mitravantaḥ ca pāṇḍavāḥ ..22.. )
को हि द्रुपदमासाद्य मित्रं क्षत्तः सबान्धवम् । न बुभूषेद्भवेनार्थी गतश्रीरपि पार्थिवः ॥२३॥
कः हि द्रुपदम् आसाद्य मित्रम् क्षत्तर् स बान्धवम् । न बुभूषेत् भवेन अर्थी गत-श्रीः अपि पार्थिवः ॥२३॥
kaḥ hi drupadam āsādya mitram kṣattar sa bāndhavam . na bubhūṣet bhavena arthī gata-śrīḥ api pārthivaḥ ..23..
वैशम्पायन उवाच॥
तं तथा भाषमाणं तु विदुरः प्रत्यभाषत । नित्यं भवतु ते बुद्धिरेषा राजञ्शतं समाः ॥२४॥
तम् तथा भाषमाणम् तु विदुरः प्रत्यभाषत । नित्यम् भवतु ते बुद्धिः एषा राजन् शतम् समाः ॥२४॥
tam tathā bhāṣamāṇam tu viduraḥ pratyabhāṣata . nityam bhavatu te buddhiḥ eṣā rājan śatam samāḥ ..24..
ततो दुर्योधनश्चैव राधेयश्च विशां पते । धृतराष्ट्रमुपागम्य वचोऽब्रूतामिदं तदा ॥२५॥
ततस् दुर्योधनः च एव राधेयः च विशाम् पते । धृतराष्ट्रम् उपागम्य वचः अब्रूताम् इदम् तदा ॥२५॥
tatas duryodhanaḥ ca eva rādheyaḥ ca viśām pate . dhṛtarāṣṭram upāgamya vacaḥ abrūtām idam tadā ..25..
संनिधौ विदुरस्य त्वां वक्तुं नृप न शक्नुवः । विविक्तमिति वक्ष्यावः किं तवेदं चिकीर्षितम् ॥२६॥
संनिधौ विदुरस्य त्वाम् वक्तुम् नृप न शक्नुवः । विविक्तम् इति वक्ष्यावः किम् तव इदम् चिकीर्षितम् ॥२६॥
saṃnidhau vidurasya tvām vaktum nṛpa na śaknuvaḥ . viviktam iti vakṣyāvaḥ kim tava idam cikīrṣitam ..26..
सपत्नवृद्धिं यत्तात मन्यसे वृद्धिमात्मनः । अभिष्टौषि च यत्क्षत्तुः समीपे द्विपदां वर ॥२७॥
सपत्न-वृद्धिम् यत् तात मन्यसे वृद्धिम् आत्मनः । अभिष्टौषि च यत् क्षत्तुः समीपे द्विपदाम् वर ॥२७॥
sapatna-vṛddhim yat tāta manyase vṛddhim ātmanaḥ . abhiṣṭauṣi ca yat kṣattuḥ samīpe dvipadām vara ..27..
अन्यस्मिन्नृप कर्तव्ये त्वमन्यत्कुरुषेऽनघ । तेषां बलविघातो हि कर्तव्यस्तात नित्यशः ॥२८॥
अन्यस्मिन् नृप कर्तव्ये त्वम् अन्यत् कुरुषे अनघ । तेषाम् बल-विघातः हि कर्तव्यः तात नित्यशस् ॥२८॥
anyasmin nṛpa kartavye tvam anyat kuruṣe anagha . teṣām bala-vighātaḥ hi kartavyaḥ tāta nityaśas ..28..
ते वयं प्राप्तकालस्य चिकीर्षां मन्त्रयामहे । यथा नो न ग्रसेयुस्ते सपुत्रबलबान्धवान् ॥२९॥1.199.31
ते वयम् प्राप्त-कालस्य चिकीर्षाम् मन्त्रयामहे । यथा नः न ग्रसेयुः ते स पुत्र-बल-बान्धवान् ॥२९॥१।१९९।३१
te vayam prāpta-kālasya cikīrṣām mantrayāmahe . yathā naḥ na graseyuḥ te sa putra-bala-bāndhavān ..29..1.199.31

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In