| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

धृतराष्ट्र उवाच॥
अहमप्येवमेवैतच्चिन्तयामि यथा युवाम् । विवेक्तुं नाहमिच्छामि त्वाकारं विदुरं प्रति ॥१॥
अहम् अपि एवम् एव एतत् चिन्तयामि यथा युवाम् । विवेक्तुम् न अहम् इच्छामि तु आकारम् विदुरम् प्रति ॥१॥
aham api evam eva etat cintayāmi yathā yuvām . vivektum na aham icchāmi tu ākāram viduram prati ..1..
अतस्तेषां गुणानेव कीर्तयामि विशेषतः । नावबुध्येत विदुरो ममाभिप्रायमिङ्गितैः ॥२॥
अतस् तेषाम् गुणान् एव कीर्तयामि विशेषतः । न अवबुध्येत विदुरः मम अभिप्रायम् इङ्गितैः ॥२॥
atas teṣām guṇān eva kīrtayāmi viśeṣataḥ . na avabudhyeta viduraḥ mama abhiprāyam iṅgitaiḥ ..2..
यच्च त्वं मन्यसे प्राप्तं तद्ब्रूहि त्वं सुयोधन । राधेय मन्यसे त्वं च यत्प्राप्तं तद्ब्रवीहि मे ॥३॥
यत् च त्वम् मन्यसे प्राप्तम् तत् ब्रूहि त्वम् सुयोधन । राधेय मन्यसे त्वम् च यत् प्राप्तम् तत् ब्रवीहि मे ॥३॥
yat ca tvam manyase prāptam tat brūhi tvam suyodhana . rādheya manyase tvam ca yat prāptam tat bravīhi me ..3..
दुर्योधन उवाच॥
अद्य तान्कुशलैर्विप्रैः सुकृतैराप्तकारिभिः । कुन्तीपुत्रान्भेदयामो माद्रीपुत्रौ च पाण्डवौ ॥४॥
अद्य तान् कुशलैः विप्रैः सुकृतैः आप्त-कारिभिः । कुन्ती-पुत्रान् भेदयामः माद्री-पुत्रौ च पाण्डवौ ॥४॥
adya tān kuśalaiḥ vipraiḥ sukṛtaiḥ āpta-kāribhiḥ . kuntī-putrān bhedayāmaḥ mādrī-putrau ca pāṇḍavau ..4..
अथ वा द्रुपदो राजा महद्भिर्वित्तसञ्चयैः । पुत्राश्चास्य प्रलोभ्यन्ताममात्याश्चैव सर्वशः ॥५॥
अथ वा द्रुपदः राजा महद्भिः वित्त-सञ्चयैः । पुत्राः च अस्य प्रलोभ्यन्ताम् अमात्याः च एव सर्वशस् ॥५॥
atha vā drupadaḥ rājā mahadbhiḥ vitta-sañcayaiḥ . putrāḥ ca asya pralobhyantām amātyāḥ ca eva sarvaśas ..5..
परित्यजध्वं राजानं कुन्तीपुत्रं युधिष्ठिरम् । अथ तत्रैव वा तेषां निवासं रोचयन्तु ते ॥६॥
परित्यजध्वम् राजानम् कुन्ती-पुत्रम् युधिष्ठिरम् । अथ तत्र एव वा तेषाम् निवासम् रोचयन्तु ते ॥६॥
parityajadhvam rājānam kuntī-putram yudhiṣṭhiram . atha tatra eva vā teṣām nivāsam rocayantu te ..6..
इहैषां दोषवद्वासं वर्णयन्तु पृथक्पृथक् । ते भिद्यमानास्तत्रैव मनः कुर्वन्तु पाण्डवाः ॥७॥
इह एषाम् दोषवत्-वासम् वर्णयन्तु पृथक् पृथक् । ते भिद्यमानाः तत्र एव मनः कुर्वन्तु पाण्डवाः ॥७॥
iha eṣām doṣavat-vāsam varṇayantu pṛthak pṛthak . te bhidyamānāḥ tatra eva manaḥ kurvantu pāṇḍavāḥ ..7..
अथवा कुशलाः केचिदुपायनिपुणा नराः । इतरेतरतः पार्थान्भेदयन्त्वनुरागतः ॥८॥
अथवा कुशलाः केचिद् उपाय-निपुणाः नराः । इतरेतरतः पार्थान् भेदयन्तु अनुरागतः ॥८॥
athavā kuśalāḥ kecid upāya-nipuṇāḥ narāḥ . itaretarataḥ pārthān bhedayantu anurāgataḥ ..8..
व्युत्थापयन्तु वा कृष्णां बहुत्वात्सुकरं हि तत् । अथवा पाण्डवांस्तस्यां भेदयन्तु ततश्च ताम् ॥९॥
व्युत्थापयन्तु वा कृष्णाम् बहु-त्वात् सुकरम् हि तत् । अथवा पाण्डवान् तस्याम् भेदयन्तु ततस् च ताम् ॥९॥
vyutthāpayantu vā kṛṣṇām bahu-tvāt sukaram hi tat . athavā pāṇḍavān tasyām bhedayantu tatas ca tām ..9..
भीमसेनस्य वा राजन्नुपायकुशलैर्नरैः । मृत्युर्विधीयतां छन्नैः स हि तेषां बलाधिकः ॥१०॥
भीमसेनस्य वा राजन् उपाय-कुशलैः नरैः । मृत्युः विधीयताम् छन्नैः स हि तेषाम् बल-अधिकः ॥१०॥
bhīmasenasya vā rājan upāya-kuśalaiḥ naraiḥ . mṛtyuḥ vidhīyatām channaiḥ sa hi teṣām bala-adhikaḥ ..10..
तस्मिंस्तु निहते राजन्हतोत्साहा हतौजसः । यतिष्यन्ते न राज्याय स हि तेषां व्यपाश्रयः ॥११॥
तस्मिन् तु निहते राजन् हत-उत्साहाः हत-ओजसः । यतिष्यन्ते न राज्याय स हि तेषाम् व्यपाश्रयः ॥११॥
tasmin tu nihate rājan hata-utsāhāḥ hata-ojasaḥ . yatiṣyante na rājyāya sa hi teṣām vyapāśrayaḥ ..11..
अजेयो ह्यर्जुनः सङ्ख्ये पृष्ठगोपे वृकोदरे । तमृते फल्गुनो युद्धे राधेयस्य न पादभाक् ॥१२॥
अजेयः हि अर्जुनः सङ्ख्ये पृष्ठगोपे वृकोदरे । तम् ऋते फल्गुनः युद्धे राधेयस्य न पाद-भाज् ॥१२॥
ajeyaḥ hi arjunaḥ saṅkhye pṛṣṭhagope vṛkodare . tam ṛte phalgunaḥ yuddhe rādheyasya na pāda-bhāj ..12..
ते जानमाना दौर्बल्यं भीमसेनमृते महत् । अस्मान्बलवतो ज्ञात्वा नशिष्यन्त्यबलीयसः ॥१३॥
ते जानमानाः दौर्बल्यम् भीमसेनम् ऋते महत् । अस्मान् बलवतः ज्ञात्वा नशिष्यन्ति अ बलीयसः ॥१३॥
te jānamānāḥ daurbalyam bhīmasenam ṛte mahat . asmān balavataḥ jñātvā naśiṣyanti a balīyasaḥ ..13..
इहागतेषु पार्थेषु निदेशवशवर्तिषु । प्रवर्तिष्यामहे राजन्यथाश्रद्धं निबर्हणे ॥१४॥
इह आगतेषु पार्थेषु निदेश-वश-वर्तिषु । प्रवर्तिष्यामहे राजन् यथाश्रद्धम् निबर्हणे ॥१४॥
iha āgateṣu pārtheṣu nideśa-vaśa-vartiṣu . pravartiṣyāmahe rājan yathāśraddham nibarhaṇe ..14..
अथवा दर्शनीयाभिः प्रमदाभिर्विलोभ्यताम् । एकैकस्तत्र कौन्तेयस्ततः कृष्णा विरज्यताम् ॥१५॥
अथवा दर्शनीयाभिः प्रमदाभिः विलोभ्यताम् । एकैकः तत्र कौन्तेयः ततस् कृष्णा विरज्यताम् ॥१५॥
athavā darśanīyābhiḥ pramadābhiḥ vilobhyatām . ekaikaḥ tatra kaunteyaḥ tatas kṛṣṇā virajyatām ..15..
प्रेष्यतां वापि राधेयस्तेषामागमनाय वै । ते लोप्त्रहारैः सन्धाय वध्यन्तामाप्तकारिभिः ॥१६॥
प्रेष्यताम् वा अपि राधेयः तेषाम् आगमनाय वै । ते लोप्त्रहारैः सन्धाय वध्यन्ताम् आप्त-कारिभिः ॥१६॥
preṣyatām vā api rādheyaḥ teṣām āgamanāya vai . te loptrahāraiḥ sandhāya vadhyantām āpta-kāribhiḥ ..16..
एतेषामभ्युपायानां यस्ते निर्दोषवान्मतः । तस्य प्रयोगमातिष्ठ पुरा कालोऽतिवर्तते ॥१७॥
एतेषाम् अभ्युपायानाम् यः ते निर्दोषवान् मतः । तस्य प्रयोगम् आतिष्ठ पुरा कालः अतिवर्तते ॥१७॥
eteṣām abhyupāyānām yaḥ te nirdoṣavān mataḥ . tasya prayogam ātiṣṭha purā kālaḥ ativartate ..17..
यावच्चाकृतविश्वासा द्रुपदे पार्थिवर्षभे । तावदेवाद्य ते शक्या न शक्यास्तु ततः परम् ॥१८॥
यावत् च अ कृत-विश्वासाः द्रुपदे पार्थिव-ऋषभे । तावत् एव अद्य ते शक्याः न शक्याः तु ततस् परम् ॥१८॥
yāvat ca a kṛta-viśvāsāḥ drupade pārthiva-ṛṣabhe . tāvat eva adya te śakyāḥ na śakyāḥ tu tatas param ..18..
एषा मम मतिस्तात निग्रहाय प्रवर्तते । साधु वा यदि वासाधु किं वा राधेय मन्यसे ॥१९॥ 1.200.20
एषा मम मतिः तात निग्रहाय प्रवर्तते । साधु वा यदि वा असाधु किम् वा राधेय मन्यसे ॥१९॥ १।२००।२०
eṣā mama matiḥ tāta nigrahāya pravartate . sādhu vā yadi vā asādhu kim vā rādheya manyase ..19.. 1.200.20

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In