| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

कर्ण उवाच॥
दुर्योधन तव प्रज्ञा न सम्यगिति मे मतिः । न ह्युपायेन ते शक्याः पाण्डवाः कुरुनन्दन ॥१॥
दुर्योधन तव प्रज्ञा न सम्यक् इति मे मतिः । न हि उपायेन ते शक्याः पाण्डवाः कुरु-नन्दन ॥१॥
duryodhana tava prajñā na samyak iti me matiḥ . na hi upāyena te śakyāḥ pāṇḍavāḥ kuru-nandana ..1..
पूर्वमेव हि ते सूक्ष्मैरुपायैर्यतितास्त्वया । निग्रहीतुं यदा वीर शकिता न तदा त्वया ॥२॥
पूर्वम् एव हि ते सूक्ष्मैः उपायैः यतिताः त्वया । निग्रहीतुम् यदा वीर शकिताः न तदा त्वया ॥२॥
pūrvam eva hi te sūkṣmaiḥ upāyaiḥ yatitāḥ tvayā . nigrahītum yadā vīra śakitāḥ na tadā tvayā ..2..
इहैव वर्तमानास्ते समीपे तव पार्थिव । अजातपक्षाः शिशवः शकिता नैव बाधितुम् ॥३॥
इह एव वर्तमानाः ते समीपे तव पार्थिव । अजात-पक्षाः शिशवः शकिताः ना एव बाधितुम् ॥३॥
iha eva vartamānāḥ te samīpe tava pārthiva . ajāta-pakṣāḥ śiśavaḥ śakitāḥ nā eva bādhitum ..3..
जातपक्षा विदेशस्था विवृद्धाः सर्वशोऽद्य ते । नोपायसाध्याः कौन्तेया ममैषा मतिरच्युत ॥४॥
जात-पक्षाः विदेश-स्थाः विवृद्धाः सर्वशस् अद्य ते । न उपाय-साध्याः कौन्तेयाः मम एषा मतिः अच्युत ॥४॥
jāta-pakṣāḥ videśa-sthāḥ vivṛddhāḥ sarvaśas adya te . na upāya-sādhyāḥ kaunteyāḥ mama eṣā matiḥ acyuta ..4..
न च ते व्यसनैर्योक्तुं शक्या दिष्टकृता हि ते । शङ्किताश्चेप्सवश्चैव पितृपैतामहं पदम् ॥५॥
न च ते व्यसनैः योक्तुम् शक्याः दिष्ट-कृताः हि ते । शङ्किताः च ईप्सवः च एव पितृपैतामहम् पदम् ॥५॥
na ca te vyasanaiḥ yoktum śakyāḥ diṣṭa-kṛtāḥ hi te . śaṅkitāḥ ca īpsavaḥ ca eva pitṛpaitāmaham padam ..5..
परस्परेण भेदश्च नाधातुं तेषु शक्यते । एकस्यां ये रताः पत्न्यां न भिद्यन्ते परस्परम् ॥६॥
परस्परेण भेदः च न आधातुम् तेषु शक्यते । एकस्याम् ये रताः पत्न्याम् न भिद्यन्ते परस्परम् ॥६॥
paraspareṇa bhedaḥ ca na ādhātum teṣu śakyate . ekasyām ye ratāḥ patnyām na bhidyante parasparam ..6..
न चापि कृष्णा शक्येत तेभ्यो भेदयितुं परैः । परिद्यूनान्वृतवती किमुताद्य मृजावतः ॥७॥
न च अपि कृष्णा शक्येत तेभ्यः भेदयितुम् परैः । परिद्यून-अन्वृतवती किम् उत अद्य मृजावतः ॥७॥
na ca api kṛṣṇā śakyeta tebhyaḥ bhedayitum paraiḥ . paridyūna-anvṛtavatī kim uta adya mṛjāvataḥ ..7..
ईप्सितश्च गुणः स्त्रीणामेकस्या बहुभर्तृता । तं च प्राप्तवती कृष्णा न सा भेदयितुं सुखम् ॥८॥
ईप्सितः च गुणः स्त्रीणाम् एकस्याः बहु-भर्तृ-ता । तम् च प्राप्तवती कृष्णा न सा भेदयितुम् सुखम् ॥८॥
īpsitaḥ ca guṇaḥ strīṇām ekasyāḥ bahu-bhartṛ-tā . tam ca prāptavatī kṛṣṇā na sā bhedayitum sukham ..8..
आर्यवृत्तश्च पाञ्चाल्यो न स राजा धनप्रियः । न सन्त्यक्ष्यति कौन्तेयान्राज्यदानैरपि ध्रुवम् ॥९॥
आर्य-वृत्तः च पाञ्चाल्यः न स राजा धन-प्रियः । न सन्त्यक्ष्यति कौन्तेयान् राज्य-दानैः अपि ध्रुवम् ॥९॥
ārya-vṛttaḥ ca pāñcālyaḥ na sa rājā dhana-priyaḥ . na santyakṣyati kaunteyān rājya-dānaiḥ api dhruvam ..9..
तथास्य पुत्रो गुणवाननुरक्तश्च पाण्डवान् । तस्मान्नोपायसाध्यांस्तानहं मन्ये कथञ्चन ॥१०॥
तथा अस्य पुत्रः गुणवान् अनुरक्तः च पाण्डवान् । तस्मात् न उपाय-साध्यान् तान् अहम् मन्ये कथञ्चन ॥१०॥
tathā asya putraḥ guṇavān anuraktaḥ ca pāṇḍavān . tasmāt na upāya-sādhyān tān aham manye kathañcana ..10..
इदं त्वद्य क्षमं कर्तुमस्माकं पुरुषर्षभ । यावन्न कृतमूलास्ते पाण्डवेया विशां पते ॥११॥ ( तावत्प्रहरणीयास्ते रोचतां तव विक्रमः ॥११॥ )
इदम् तु अद्य क्षमम् कर्तुम् अस्माकम् पुरुष-ऋषभ । यावत् न कृत-मूलाः ते पाण्डवेयाः विशाम् पते ॥११॥ ( तावत् प्रहरणीयाः ते रोचताम् तव विक्रमः ॥११॥ )
idam tu adya kṣamam kartum asmākam puruṣa-ṛṣabha . yāvat na kṛta-mūlāḥ te pāṇḍaveyāḥ viśām pate ..11.. ( tāvat praharaṇīyāḥ te rocatām tava vikramaḥ ..11.. )
अस्मत्पक्षो महान्यावद्यावत्पाञ्चालको लघुः । तावत्प्रहरणं तेषां क्रियतां मा विचारय ॥१२॥
अस्मद्-पक्षः महान् यावत् यावत् पाञ्चालकः लघुः । तावत् प्रहरणम् तेषाम् क्रियताम् मा विचारय ॥१२॥
asmad-pakṣaḥ mahān yāvat yāvat pāñcālakaḥ laghuḥ . tāvat praharaṇam teṣām kriyatām mā vicāraya ..12..
वाहनानि प्रभूतानि मित्राणि बहुलानि च । यावन्न तेषां गान्धारे तावदेवाशु विक्रम ॥१३॥
वाहनानि प्रभूतानि मित्राणि बहुलानि च । यावत् न तेषाम् गान्धारे तावत् एव आशु विक्रम ॥१३॥
vāhanāni prabhūtāni mitrāṇi bahulāni ca . yāvat na teṣām gāndhāre tāvat eva āśu vikrama ..13..
यावच्च राजा पाञ्चाल्यो नोद्यमे कुरुते मनः । सह पुत्रैर्महावीर्यैस्तावदेवाशु विक्रम ॥१४॥
यावत् च राजा पाञ्चाल्यः न उद्यमे कुरुते मनः । सह पुत्रैः महा-वीर्यैः तावत् एव आशु विक्रम ॥१४॥
yāvat ca rājā pāñcālyaḥ na udyame kurute manaḥ . saha putraiḥ mahā-vīryaiḥ tāvat eva āśu vikrama ..14..
यावन्नायाति वार्ष्णेयः कर्षन्यादववाहिनीम् । राज्यार्थे पाण्डवेयानां तावदेवाशु विक्रम ॥१५॥
यावत् न आयाति वार्ष्णेयः कर्षन् यादव-वाहिनीम् । राज्य-अर्थे पाण्डवेयानाम् तावत् एव आशु विक्रम ॥१५॥
yāvat na āyāti vārṣṇeyaḥ karṣan yādava-vāhinīm . rājya-arthe pāṇḍaveyānām tāvat eva āśu vikrama ..15..
वसूनि विविधान्भोगान्राज्यमेव च केवलम् । नात्याज्यमस्ति कृष्णस्य पाण्डवार्थे महीपते ॥१६॥
वसूनि विविधान् भोगान् राज्यम् एव च केवलम् । न अ त्याज्यम् अस्ति कृष्णस्य पाण्डव-अर्थे महीपते ॥१६॥
vasūni vividhān bhogān rājyam eva ca kevalam . na a tyājyam asti kṛṣṇasya pāṇḍava-arthe mahīpate ..16..
विक्रमेण मही प्राप्ता भरतेन महात्मना । विक्रमेण च लोकांस्त्रीञ्जितवान्पाकशासनः ॥१७॥
विक्रमेण मही प्राप्ता भरतेन महात्मना । विक्रमेण च लोकान् त्रीन् जितवान् पाकशासनः ॥१७॥
vikrameṇa mahī prāptā bharatena mahātmanā . vikrameṇa ca lokān trīn jitavān pākaśāsanaḥ ..17..
विक्रमं च प्रशंसन्ति क्षत्रियस्य विशां पते । स्वको हि धर्मः शूराणां विक्रमः पार्थिवर्षभ ॥१८॥
विक्रमम् च प्रशंसन्ति क्षत्रियस्य विशाम् पते । स्वकः हि धर्मः शूराणाम् विक्रमः पार्थिव-ऋषभ ॥१८॥
vikramam ca praśaṃsanti kṣatriyasya viśām pate . svakaḥ hi dharmaḥ śūrāṇām vikramaḥ pārthiva-ṛṣabha ..18..
ते बलेन वयं राजन्महता चतुरङ्गिणा । प्रमथ्य द्रुपदं शीघ्रमानयामेह पाण्डवान् ॥१९॥
ते बलेन वयम् राजन् महता चतुरङ्गिणा । प्रमथ्य द्रुपदम् शीघ्रम् आनयाम इह पाण्डवान् ॥१९॥
te balena vayam rājan mahatā caturaṅgiṇā . pramathya drupadam śīghram ānayāma iha pāṇḍavān ..19..
न हि साम्ना न दानेन न भेदेन च पाण्डवाः । शक्याः साधयितुं तस्माद्विक्रमेणैव ताञ्जहि ॥२०॥
न हि साम्ना न दानेन न भेदेन च पाण्डवाः । शक्याः साधयितुम् तस्मात् विक्रमेण एव तान् जहि ॥२०॥
na hi sāmnā na dānena na bhedena ca pāṇḍavāḥ . śakyāḥ sādhayitum tasmāt vikrameṇa eva tān jahi ..20..
तान्विक्रमेण जित्वेमामखिलां भुङ्क्ष्व मेदिनीम् । नान्यमत्र प्रपश्यामि कार्योपायं जनाधिप ॥२१॥
तान् विक्रमेण जित्वा इमाम् अखिलाम् भुङ्क्ष्व मेदिनीम् । न अन्यम् अत्र प्रपश्यामि कार्य-उपायम् जनाधिप ॥२१॥
tān vikrameṇa jitvā imām akhilām bhuṅkṣva medinīm . na anyam atra prapaśyāmi kārya-upāyam janādhipa ..21..
वैशम्पायन उवाच॥
श्रुत्वा तु राधेयवचो धृतराष्ट्रः प्रतापवान् । अभिपूज्य ततः पश्चादिदं वचनमब्रवीत् ॥२२॥
श्रुत्वा तु राधेय-वचः धृतराष्ट्रः प्रतापवान् । अभिपूज्य ततस् पश्चात् इदम् वचनम् अब्रवीत् ॥२२॥
śrutvā tu rādheya-vacaḥ dhṛtarāṣṭraḥ pratāpavān . abhipūjya tatas paścāt idam vacanam abravīt ..22..
उपपन्नं महाप्राज्ञे कृतास्त्रे सूतनन्दने । त्वयि विक्रमसम्पन्नमिदं वचनमीदृशम् ॥२३॥
उपपन्नम् महा-प्राज्ञे कृतास्त्रे सूतनन्दने । त्वयि विक्रम-सम्पन्नम् इदम् वचनम् ईदृशम् ॥२३॥
upapannam mahā-prājñe kṛtāstre sūtanandane . tvayi vikrama-sampannam idam vacanam īdṛśam ..23..
भूय एव तु भीष्मश्च द्रोणो विदुर एव च । युवां च कुरुतां बुद्धिं भवेद्या नः सुखोदया ॥२४॥
भूयस् एव तु भीष्मः च द्रोणः विदुरः एव च । युवाम् च कुरुताम् बुद्धिम् भवेत् या नः सुख-उदया ॥२४॥
bhūyas eva tu bhīṣmaḥ ca droṇaḥ viduraḥ eva ca . yuvām ca kurutām buddhim bhavet yā naḥ sukha-udayā ..24..
तत आनाय्य तान्सर्वान्मन्त्रिणः सुमहायशाः । धृतराष्ट्रो महाराज मन्त्रयामास वै तदा ॥२५॥ 1.201.25
ततस् आनाय्य तान् सर्वान् मन्त्रिणः सु महा-यशाः । धृतराष्ट्रः महा-राज मन्त्रयामास वै तदा ॥२५॥ १।२०१।२५
tatas ānāyya tān sarvān mantriṇaḥ su mahā-yaśāḥ . dhṛtarāṣṭraḥ mahā-rāja mantrayāmāsa vai tadā ..25.. 1.201.25

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In