| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

भीष्म उवाच॥
न रोचते विग्रहो मे पाण्डुपुत्रैः कथञ्चन । यथैव धृतराष्ट्रो मे तथा पाण्डुरसंशयम् ॥१॥
न रोचते विग्रहः मे पाण्डु-पुत्रैः कथञ्चन । यथा एव धृतराष्ट्रः मे तथा पाण्डुः असंशयम् ॥१॥
na rocate vigrahaḥ me pāṇḍu-putraiḥ kathañcana . yathā eva dhṛtarāṣṭraḥ me tathā pāṇḍuḥ asaṃśayam ..1..
गान्धार्याश्च यथा पुत्रास्तथा कुन्तीसुता मताः । यथा च मम ते रक्ष्या धृतराष्ट्र तथा तव ॥२॥
गान्धार्याः च यथा पुत्राः तथा कुन्ती-सुताः मताः । यथा च मम ते रक्ष्याः धृतराष्ट्र तथा तव ॥२॥
gāndhāryāḥ ca yathā putrāḥ tathā kuntī-sutāḥ matāḥ . yathā ca mama te rakṣyāḥ dhṛtarāṣṭra tathā tava ..2..
यथा च मम राज्ञश्च तथा दुर्योधनस्य ते । तथा कुरूणां सर्वेषामन्येषामपि भारत ॥३॥
यथा च मम राज्ञः च तथा दुर्योधनस्य ते । तथा कुरूणाम् सर्वेषाम् अन्येषाम् अपि भारत ॥३॥
yathā ca mama rājñaḥ ca tathā duryodhanasya te . tathā kurūṇām sarveṣām anyeṣām api bhārata ..3..
एवं गते विग्रहं तैर्न रोचये; सन्धाय वीरैर्दीयतामद्य भूमिः । तेषामपीदं प्रपितामहानां; राज्यं पितुश्चैव कुरूत्तमानाम् ॥४॥
एवम् गते विग्रहम् तैः न रोचये; सन्धाय वीरैः दीयताम् अद्य भूमिः । तेषाम् अपि इदम् प्रपितामहानाम्; राज्यम् पितुः च एव कुरु-उत्तमानाम् ॥४॥
evam gate vigraham taiḥ na rocaye; sandhāya vīraiḥ dīyatām adya bhūmiḥ . teṣām api idam prapitāmahānām; rājyam pituḥ ca eva kuru-uttamānām ..4..
दुर्योधन यथा राज्यं त्वमिदं तात पश्यसि । मम पैतृकमित्येवं तेऽपि पश्यन्ति पाण्डवाः ॥५॥
दुर्योधन यथा राज्यम् त्वम् इदम् तात पश्यसि । मम पैतृकम् इति एवम् ते अपि पश्यन्ति पाण्डवाः ॥५॥
duryodhana yathā rājyam tvam idam tāta paśyasi . mama paitṛkam iti evam te api paśyanti pāṇḍavāḥ ..5..
यदि राज्यं न ते प्राप्ताः पाण्डवेयास्तपस्विनः । कुत एव तवापीदं भारतस्य च कस्यचित् ॥६॥
यदि राज्यम् न ते प्राप्ताः पाण्डवेयाः तपस्विनः । कुतस् एव तव अपि इदम् भारतस्य च कस्यचिद् ॥६॥
yadi rājyam na te prāptāḥ pāṇḍaveyāḥ tapasvinaḥ . kutas eva tava api idam bhāratasya ca kasyacid ..6..
अथ धर्मेण राज्यं त्वं प्राप्तवान्भरतर्षभ । तेऽपि राज्यमनुप्राप्ताः पूर्वमेवेति मे मतिः ॥७॥
अथ धर्मेण राज्यम् त्वम् प्राप्तवान् भरत-ऋषभ । ते अपि राज्यम् अनुप्राप्ताः पूर्वम् एवा इति मे मतिः ॥७॥
atha dharmeṇa rājyam tvam prāptavān bharata-ṛṣabha . te api rājyam anuprāptāḥ pūrvam evā iti me matiḥ ..7..
मधुरेणैव राज्यस्य तेषामर्धं प्रदीयताम् । एतद्धि पुरुषव्याघ्र हितं सर्वजनस्य च ॥८॥
मधुरेण एव राज्यस्य तेषाम् अर्धम् प्रदीयताम् । एतत् हि पुरुष-व्याघ्र हितम् सर्व-जनस्य च ॥८॥
madhureṇa eva rājyasya teṣām ardham pradīyatām . etat hi puruṣa-vyāghra hitam sarva-janasya ca ..8..
अतोऽन्यथा चेत्क्रियते न हितं नो भविष्यति । तवाप्यकीर्तिः सकला भविष्यति न संशयः ॥९॥
अतस् अन्यथा चेद् क्रियते न हितम् नः भविष्यति । तव अपि अकीर्तिः सकला भविष्यति न संशयः ॥९॥
atas anyathā ced kriyate na hitam naḥ bhaviṣyati . tava api akīrtiḥ sakalā bhaviṣyati na saṃśayaḥ ..9..
कीर्तिरक्षणमातिष्ठ कीर्तिर्हि परमं बलम् । नष्टकीर्तेर्मनुष्यस्य जीवितं ह्यफलं स्मृतम् ॥१०॥
कीर्ति-रक्षणम् आतिष्ठ कीर्तिः हि परमम् बलम् । नष्ट-कीर्तेः मनुष्यस्य जीवितम् हि अफलम् स्मृतम् ॥१०॥
kīrti-rakṣaṇam ātiṣṭha kīrtiḥ hi paramam balam . naṣṭa-kīrteḥ manuṣyasya jīvitam hi aphalam smṛtam ..10..
यावत्कीर्तिर्मनुष्यस्य न प्रणश्यति कौरव । तावज्जीवति गान्धारे नष्टकीर्तिस्तु नश्यति ॥११॥
यावत् कीर्तिः मनुष्यस्य न प्रणश्यति कौरव । तावत् जीवति गान्धारे नष्ट-कीर्तिः तु नश्यति ॥११॥
yāvat kīrtiḥ manuṣyasya na praṇaśyati kaurava . tāvat jīvati gāndhāre naṣṭa-kīrtiḥ tu naśyati ..11..
तमिमं समुपातिष्ठ धर्मं कुरुकुलोचितम् । अनुरूपं महाबाहो पूर्वेषामात्मनः कुरु ॥१२॥
तम् इमम् समुपातिष्ठ धर्मम् कुरु-कुल-उचितम् । अनुरूपम् महा-बाहो पूर्वेषाम् आत्मनः कुरु ॥१२॥
tam imam samupātiṣṭha dharmam kuru-kula-ucitam . anurūpam mahā-bāho pūrveṣām ātmanaḥ kuru ..12..
दिष्ट्या धरन्ति ते वीरा दिष्ट्या जीवति सा पृथा । दिष्ट्या पुरोचनः पापो नसकामोऽत्ययं गतः ॥१३॥
दिष्ट्या धरन्ति ते वीराः दिष्ट्या जीवति सा पृथा । दिष्ट्या पुरोचनः पापः न स कामः अत्ययम् गतः ॥१३॥
diṣṭyā dharanti te vīrāḥ diṣṭyā jīvati sā pṛthā . diṣṭyā purocanaḥ pāpaḥ na sa kāmaḥ atyayam gataḥ ..13..
तदा प्रभृति गान्धारे न शक्नोम्यभिवीक्षितुम् । लोके प्राणभृतां कञ्चिच्छ्रुत्वा कुन्तीं तथागताम् ॥१४॥
तदा प्रभृति गान्धारे न शक्नोमि अभिवीक्षितुम् । लोके प्राणभृताम् कञ्चिद् श्रुत्वा कुन्तीम् तथागताम् ॥१४॥
tadā prabhṛti gāndhāre na śaknomi abhivīkṣitum . loke prāṇabhṛtām kañcid śrutvā kuntīm tathāgatām ..14..
न चापि दोषेण तथा लोको वैति पुरोचनम् । यथा त्वां पुरुषव्याघ्र लोको दोषेण गच्छति ॥१५॥
न च अपि दोषेण तथा लोकः वा एति पुरोचनम् । यथा त्वाम् पुरुष-व्याघ्र लोकः दोषेण गच्छति ॥१५॥
na ca api doṣeṇa tathā lokaḥ vā eti purocanam . yathā tvām puruṣa-vyāghra lokaḥ doṣeṇa gacchati ..15..
तदिदं जीवितं तेषां तव कल्मषनाशनम् । संमन्तव्यं महाराज पाण्डवानां च दर्शनम् ॥१६॥
तत् इदम् जीवितम् तेषाम् तव कल्मष-नाशनम् । संमन्तव्यम् महा-राज पाण्डवानाम् च दर्शनम् ॥१६॥
tat idam jīvitam teṣām tava kalmaṣa-nāśanam . saṃmantavyam mahā-rāja pāṇḍavānām ca darśanam ..16..
न चापि तेषां वीराणां जीवतां कुरुनन्दन । पित्र्योंऽशः शक्य आदातुमपि वज्रभृता स्वयम् ॥१७॥
न च अपि तेषाम् वीराणाम् जीवताम् कुरु-नन्दन । पित्र्यः ॐऽशः शक्यः आदातुम् अपि वज्रभृता स्वयम् ॥१७॥
na ca api teṣām vīrāṇām jīvatām kuru-nandana . pitryaḥ oṃ'śaḥ śakyaḥ ādātum api vajrabhṛtā svayam ..17..
ते हि सर्वे स्थिता धर्मे सर्वे चैवैकचेतसः । अधर्मेण निरस्ताश्च तुल्ये राज्ये विशेषतः ॥१८॥
ते हि सर्वे स्थिताः धर्मे सर्वे च एव एकचेतसः । अधर्मेण निरस्ताः च तुल्ये राज्ये विशेषतः ॥१८॥
te hi sarve sthitāḥ dharme sarve ca eva ekacetasaḥ . adharmeṇa nirastāḥ ca tulye rājye viśeṣataḥ ..18..
यदि धर्मस्त्वया कार्यो यदि कार्यं प्रियं च मे । क्षेमं च यदि कर्तव्यं तेषामर्धं प्रदीयताम् ॥१९॥ 1.202.19
यदि धर्मः त्वया कार्यः यदि कार्यम् प्रियम् च मे । क्षेमम् च यदि कर्तव्यम् तेषाम् अर्धम् प्रदीयताम् ॥१९॥ १।२०२।१९
yadi dharmaḥ tvayā kāryaḥ yadi kāryam priyam ca me . kṣemam ca yadi kartavyam teṣām ardham pradīyatām ..19.. 1.202.19

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In