| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

द्रोण उवाच॥
मन्त्राय समुपानीतैर्धृतराष्ट्रहितैर्नृप । धर्म्यं पथ्यं यशस्यं च वाच्यमित्यनुशुश्रुमः ॥१॥
मन्त्राय समुपानीतैः धृतराष्ट्र-हितैः नृप । धर्म्यम् पथ्यम् यशस्यम् च वाच्यम् इति अनुशुश्रुमः ॥१॥
mantrāya samupānītaiḥ dhṛtarāṣṭra-hitaiḥ nṛpa . dharmyam pathyam yaśasyam ca vācyam iti anuśuśrumaḥ ..1..
ममाप्येषा मतिस्तात या भीष्मस्य महात्मनः । संविभज्यास्तु कौन्तेया धर्म एष सनातनः ॥२॥
मम अपि एषा मतिः तात या भीष्मस्य महात्मनः । संविभज्याः तु कौन्तेयाः धर्मः एष सनातनः ॥२॥
mama api eṣā matiḥ tāta yā bhīṣmasya mahātmanaḥ . saṃvibhajyāḥ tu kaunteyāḥ dharmaḥ eṣa sanātanaḥ ..2..
प्रेष्यतां द्रुपदायाशु नरः कश्चित्प्रियंवदः । बहुलं रत्नमादाय तेषामर्थाय भारत ॥३॥
प्रेष्यताम् द्रुपदाय आशु नरः कश्चिद् प्रियंवदः । बहुलम् रत्नम् आदाय तेषाम् अर्थाय भारत ॥३॥
preṣyatām drupadāya āśu naraḥ kaścid priyaṃvadaḥ . bahulam ratnam ādāya teṣām arthāya bhārata ..3..
मिथः कृत्यं च तस्मै स आदाय बहु गच्छतु । वृद्धिं च परमां ब्रूयात्तत्संयोगोद्भवां तथा ॥४॥
मिथस् कृत्यम् च तस्मै सः आदाय बहु गच्छतु । वृद्धिम् च परमाम् ब्रूयात् तद्-संयोग-उद्भवाम् तथा ॥४॥
mithas kṛtyam ca tasmai saḥ ādāya bahu gacchatu . vṛddhim ca paramām brūyāt tad-saṃyoga-udbhavām tathā ..4..
सम्प्रीयमाणं त्वां ब्रूयाद्राजन्दूर्योधनं तथा । असकृद्द्रुपदे चैव धृष्टद्युम्ने च भारत ॥५॥
सम्प्रीयमाणम् त्वाम् ब्रूयात् राजन् दूर्योधनम् तथा । असकृत् द्रुपदे च एव धृष्टद्युम्ने च भारत ॥५॥
samprīyamāṇam tvām brūyāt rājan dūryodhanam tathā . asakṛt drupade ca eva dhṛṣṭadyumne ca bhārata ..5..
उचितत्वं प्रियत्वं च योगस्यापि च वर्णयेत् । पुनः पुनश्च कौन्तेयान्माद्रीपुत्रौ च सान्त्वयन् ॥६॥
उचितत्वम् प्रिय-त्वम् च योगस्य अपि च वर्णयेत् । पुनर् पुनर् च कौन्तेयान् माद्री-पुत्रौ च सान्त्वयन् ॥६॥
ucitatvam priya-tvam ca yogasya api ca varṇayet . punar punar ca kaunteyān mādrī-putrau ca sāntvayan ..6..
हिरण्मयानि शुभ्राणि बहून्याभरणानि च । वचनात्तव राजेन्द्र द्रौपद्याः सम्प्रयच्छतु ॥७॥
हिरण्मयानि शुभ्राणि बहूनि आभरणानि च । वचनात् तव राज-इन्द्र द्रौपद्याः सम्प्रयच्छतु ॥७॥
hiraṇmayāni śubhrāṇi bahūni ābharaṇāni ca . vacanāt tava rāja-indra draupadyāḥ samprayacchatu ..7..
तथा द्रुपदपुत्राणां सर्वेषां भरतर्षभ । पाण्डवानां च सर्वेषां कुन्त्या युक्तानि यानि च ॥८॥
तथा द्रुपद-पुत्राणाम् सर्वेषाम् भरत-ऋषभ । पाण्डवानाम् च सर्वेषाम् कुन्त्याः युक्तानि यानि च ॥८॥
tathā drupada-putrāṇām sarveṣām bharata-ṛṣabha . pāṇḍavānām ca sarveṣām kuntyāḥ yuktāni yāni ca ..8..
एवं सान्त्वसमायुक्तं द्रुपदं पाण्डवैः सह । उक्त्वाथानन्तरं ब्रूयात्तेषामागमनं प्रति ॥९॥
एवम् सान्त्व-समायुक्तम् द्रुपदम् पाण्डवैः सह । उक्त्वा अथ अनन्तरम् ब्रूयात् तेषाम् आगमनम् प्रति ॥९॥
evam sāntva-samāyuktam drupadam pāṇḍavaiḥ saha . uktvā atha anantaram brūyāt teṣām āgamanam prati ..9..
अनुज्ञातेषु वीरेषु बलं गच्छतु शोभनम् । दुःशासनो विकर्णश्च पाण्डवानानयन्त्विह ॥१०॥
अनुज्ञातेषु वीरेषु बलम् गच्छतु शोभनम् । दुःशासनः विकर्णः च पाण्डवान् आनयन्तु इह ॥१०॥
anujñāteṣu vīreṣu balam gacchatu śobhanam . duḥśāsanaḥ vikarṇaḥ ca pāṇḍavān ānayantu iha ..10..
ततस्ते पार्थिवश्रेष्ठ पूज्यमानाः सदा त्वया । प्रकृतीनामनुमते पदे स्थास्यन्ति पैतृके ॥११॥
ततस् ते पार्थिव-श्रेष्ठ पूज्यमानाः सदा त्वया । प्रकृतीनाम् अनुमते पदे स्थास्यन्ति पैतृके ॥११॥
tatas te pārthiva-śreṣṭha pūjyamānāḥ sadā tvayā . prakṛtīnām anumate pade sthāsyanti paitṛke ..11..
एवं तव महाराज तेषु पुत्रेषु चैव ह । वृत्तमौपयिकं मन्ये भीष्मेण सह भारत ॥१२॥
एवम् तव महा-राज तेषु पुत्रेषु च एव ह । वृत्तम् औपयिकम् मन्ये भीष्मेण सह भारत ॥१२॥
evam tava mahā-rāja teṣu putreṣu ca eva ha . vṛttam aupayikam manye bhīṣmeṇa saha bhārata ..12..
कर्ण उवाच॥
योजितावर्थमानाभ्यां सर्वकार्येष्वनन्तरौ । न मन्त्रयेतां त्वच्छ्रेयः किमद्भुततरं ततः ॥१३॥
योजितौ अर्थ-मानाभ्याम् सर्व-कार्येषु अनन्तरौ । न मन्त्रयेताम् त्वद्-श्रेयः किम् अद्भुततरम् ततस् ॥१३॥
yojitau artha-mānābhyām sarva-kāryeṣu anantarau . na mantrayetām tvad-śreyaḥ kim adbhutataram tatas ..13..
दुष्टेन मनसा यो वै प्रच्छन्नेनान्तरात्मना । ब्रूयान्निःश्रेयसं नाम कथं कुर्यात्सतां मतम् ॥१४॥
दुष्टेन मनसा यः वै प्रच्छन्नेन अन्तरात्मना । ब्रूयात् निःश्रेयसम् नाम कथम् कुर्यात् सताम् मतम् ॥१४॥
duṣṭena manasā yaḥ vai pracchannena antarātmanā . brūyāt niḥśreyasam nāma katham kuryāt satām matam ..14..
न मित्राण्यर्थकृच्छ्रेषु श्रेयसे वेतराय वा । विधिपूर्वं हि सर्वस्य दुःखं वा यदि वा सुखम् ॥१५॥
न मित्राणि अर्थ-कृच्छ्रेषु श्रेयसे वा इतराय वा । विधि-पूर्वम् हि सर्वस्य दुःखम् वा यदि वा सुखम् ॥१५॥
na mitrāṇi artha-kṛcchreṣu śreyase vā itarāya vā . vidhi-pūrvam hi sarvasya duḥkham vā yadi vā sukham ..15..
कृतप्रज्ञोऽकृतप्रज्ञो बालो वृद्धश्च मानवः । ससहायोऽसहायश्च सर्वं सर्वत्र विन्दति ॥१६॥
कृत-प्रज्ञः अ कृत-प्रज्ञः बालः वृद्धः च मानवः । स सहायः असहायः च सर्वम् सर्वत्र विन्दति ॥१६॥
kṛta-prajñaḥ a kṛta-prajñaḥ bālaḥ vṛddhaḥ ca mānavaḥ . sa sahāyaḥ asahāyaḥ ca sarvam sarvatra vindati ..16..
श्रूयते हि पुरा कश्चिदम्बुवीच इति श्रुतः । आसीद्राजगृहे राजा मागधानां महीक्षिताम् ॥१७॥
श्रूयते हि पुरा इति श्रुतः । आसीत् राजगृहे राजा मागधानाम् महीक्षिताम् ॥१७॥
śrūyate hi purā iti śrutaḥ . āsīt rājagṛhe rājā māgadhānām mahīkṣitām ..17..
स हीनः करणैः सर्वैरुच्छ्वासपरमो नृपः । अमात्यसंस्थः कार्येषु सर्वेष्वेवाभवत्तदा ॥१८॥
स हीनः करणैः सर्वैः उच्छ्वास-परमः नृपः । अमात्य-संस्थः कार्येषु सर्वेषु एव भवत् तदा ॥१८॥
sa hīnaḥ karaṇaiḥ sarvaiḥ ucchvāsa-paramaḥ nṛpaḥ . amātya-saṃsthaḥ kāryeṣu sarveṣu eva bhavat tadā ..18..
तस्यामात्यो महाकर्णिर्बभूवैकेश्वरः पुरा । स लब्धबलमात्मानं मन्यमानोऽवमन्यते ॥१९॥
तस्य अमात्यः महाकर्णिः बभूव एक-ईश्वरः पुरा । स लब्ध-बलम् आत्मानम् मन्यमानः अवमन्यते ॥१९॥
tasya amātyaḥ mahākarṇiḥ babhūva eka-īśvaraḥ purā . sa labdha-balam ātmānam manyamānaḥ avamanyate ..19..
स राज्ञ उपभोग्यानि स्त्रियो रत्नधनानि च । आददे सर्वशो मूढ ऐश्वर्यं च स्वयं तदा ॥२०॥
स राज्ञः उपभोग्यानि स्त्रियः रत्न-धनानि च । आददे सर्वशस् मूढः ऐश्वर्यम् च स्वयम् तदा ॥२०॥
sa rājñaḥ upabhogyāni striyaḥ ratna-dhanāni ca . ādade sarvaśas mūḍhaḥ aiśvaryam ca svayam tadā ..20..
तदादाय च लुब्धस्य लाभाल्लोभो व्यवर्धत । तथा हि सर्वमादाय राज्यमस्य जिहीर्षति ॥२१॥
तत् आदाय च लुब्धस्य लाभात् लोभः व्यवर्धत । तथा हि सर्वम् आदाय राज्यम् अस्य जिहीर्षति ॥२१॥
tat ādāya ca lubdhasya lābhāt lobhaḥ vyavardhata . tathā hi sarvam ādāya rājyam asya jihīrṣati ..21..
हीनस्य करणैः सर्वैरुच्छ्वासपरमस्य च । यतमानोऽपि तद्राज्यं न शशाकेति नः श्रुतम् ॥२२॥
हीनस्य करणैः सर्वैः उच्छ्वास-परमस्य च । यतमानः अपि तद्-राज्यम् न शशाक इति नः श्रुतम् ॥२२॥
hīnasya karaṇaiḥ sarvaiḥ ucchvāsa-paramasya ca . yatamānaḥ api tad-rājyam na śaśāka iti naḥ śrutam ..22..
किमन्यद्विहितान्नूनं तस्य सा पुरुषेन्द्रता । यदि ते विहितं राज्यं भविष्यति विशां पते ॥२३॥
किम् अन्यत् विहितात् नूनम् तस्य सा पुरुष-इन्द्र-ता । यदि ते विहितम् राज्यम् भविष्यति विशाम् पते ॥२३॥
kim anyat vihitāt nūnam tasya sā puruṣa-indra-tā . yadi te vihitam rājyam bhaviṣyati viśām pate ..23..
मिषतः सर्वलोकस्य स्थास्यते त्वयि तद्ध्रुवम् । अतोऽन्यथा चेद्विहितं यतमानो न लप्स्यसे ॥२४॥
मिषतः सर्व-लोकस्य स्थास्यते त्वयि तत् ध्रुवम् । अतस् अन्यथा चेद् विहितम् यतमानः न लप्स्यसे ॥२४॥
miṣataḥ sarva-lokasya sthāsyate tvayi tat dhruvam . atas anyathā ced vihitam yatamānaḥ na lapsyase ..24..
एवं विद्वन्नुपादत्स्व मन्त्रिणां साध्वसाधुताम् । दुष्टानां चैव बोद्धव्यमदुष्टानां च भाषितम् ॥२५॥
एवम् विद्वन् उपादत्स्व मन्त्रिणाम् साधु-असाधु-ताम् । दुष्टानाम् च एव बोद्धव्यम् अदुष्टानाम् च भाषितम् ॥२५॥
evam vidvan upādatsva mantriṇām sādhu-asādhu-tām . duṣṭānām ca eva boddhavyam aduṣṭānām ca bhāṣitam ..25..
द्रोण उवाच॥
विद्म ते भावदोषेण यदर्थमिदमुच्यते । दुष्टः पाण्डवहेतोस्त्वं दोषं ख्यापयसे हि नः ॥२६॥
विद्म ते भाव-दोषेण यद्-अर्थम् इदम् उच्यते । दुष्टः पाण्डव-हेतोः त्वम् दोषम् ख्यापयसे हि नः ॥२६॥
vidma te bhāva-doṣeṇa yad-artham idam ucyate . duṣṭaḥ pāṇḍava-hetoḥ tvam doṣam khyāpayase hi naḥ ..26..
हितं तु परमं कर्ण ब्रवीमि कुरुवर्धनम् । अथ त्वं मन्यसे दुष्टं ब्रूहि यत्परमं हितम् ॥२७॥
हितम् तु परमम् कर्ण ब्रवीमि कुरु-वर्धनम् । अथ त्वम् मन्यसे दुष्टम् ब्रूहि यत् परमम् हितम् ॥२७॥
hitam tu paramam karṇa bravīmi kuru-vardhanam . atha tvam manyase duṣṭam brūhi yat paramam hitam ..27..
अतोऽन्यथा चेत्क्रियते यद्ब्रवीमि परं हितम् । कुरवो विनशिष्यन्ति नचिरेणेति मे मतिः ॥२८॥ 1.203.28
अतस् अन्यथा चेद् क्रियते यत् ब्रवीमि परम् हितम् । कुरवः विनशिष्यन्ति नचिरेण इति मे मतिः ॥२८॥ १।२०३।२८
atas anyathā ced kriyate yat bravīmi param hitam . kuravaḥ vinaśiṣyanti nacireṇa iti me matiḥ ..28.. 1.203.28

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In