| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

विदुर उवाच॥
राजन्निःसंशयं श्रेयो वाच्यस्त्वमसि बान्धवैः । न त्वशुश्रूषमाणेषु वाक्यं सम्प्रतितिष्ठति ॥१॥
राजन् निःसंशयम् श्रेयः वाच्यः त्वम् असि बान्धवैः । न तु अ शुश्रूषमाणेषु वाक्यम् सम्प्रतितिष्ठति ॥१॥
rājan niḥsaṃśayam śreyaḥ vācyaḥ tvam asi bāndhavaiḥ . na tu a śuśrūṣamāṇeṣu vākyam sampratitiṣṭhati ..1..
हितं हि तव तद्वाक्यमुक्तवान्कुरुसत्तमः । भीष्मः शान्तनवो राजन्प्रतिगृह्णासि तन्न च ॥२॥
हितम् हि तव तत् वाक्यम् उक्तवान् कुरुसत्तमः । भीष्मः शान्तनवः राजन् प्रतिगृह्णासि तत् न च ॥२॥
hitam hi tava tat vākyam uktavān kurusattamaḥ . bhīṣmaḥ śāntanavaḥ rājan pratigṛhṇāsi tat na ca ..2..
तथा द्रोणेन बहुधा भाषितं हितमुत्तमम् । तच्च राधासुतः कर्णो मन्यते न हितं तव ॥३॥
तथा द्रोणेन बहुधा भाषितम् हितम् उत्तमम् । तत् च राधासुतः कर्णः मन्यते न हितम् तव ॥३॥
tathā droṇena bahudhā bhāṣitam hitam uttamam . tat ca rādhāsutaḥ karṇaḥ manyate na hitam tava ..3..
चिन्तयंश्च न पश्यामि राजंस्तव सुहृत्तमम् । आभ्यां पुरुषसिंहाभ्यां यो वा स्यात्प्रज्ञयाधिकः ॥४॥
चिन्तयन् च न पश्यामि राजन् तव सुहृत्तमम् । आभ्याम् पुरुष-सिंहाभ्याम् यः वा स्यात् प्रज्ञया अधिकः ॥४॥
cintayan ca na paśyāmi rājan tava suhṛttamam . ābhyām puruṣa-siṃhābhyām yaḥ vā syāt prajñayā adhikaḥ ..4..
इमौ हि वृद्धौ वयसा प्रज्ञया च श्रुतेन च । समौ च त्वयि राजेन्द्र तेषु पाण्डुसुतेषु च ॥५॥
इमौ हि वृद्धौ वयसा प्रज्ञया च श्रुतेन च । समौ च त्वयि राज-इन्द्र तेषु पाण्डु-सुतेषु च ॥५॥
imau hi vṛddhau vayasā prajñayā ca śrutena ca . samau ca tvayi rāja-indra teṣu pāṇḍu-suteṣu ca ..5..
धर्मे चानवमौ राजन्सत्यतायां च भारत । रामाद्दाशरथेश्चैव गयाच्चैव न संशयः ॥६॥
धर्मे च अनवमौ राजन् सत्यतायाम् च भारत । रामात् दाशरथेः च एव गयात् च एव न संशयः ॥६॥
dharme ca anavamau rājan satyatāyām ca bhārata . rāmāt dāśaratheḥ ca eva gayāt ca eva na saṃśayaḥ ..6..
न चोक्तवन्तावश्रेयः पुरस्तादपि किञ्चन । न चाप्यपकृतं किञ्चिदनयोर्लक्ष्यते त्वयि ॥७॥
न च उक्तवन्तौ अश्रेयः पुरस्तात् अपि किञ्चन । न च अपि अपकृतम् किञ्चिद् अनयोः लक्ष्यते त्वयि ॥७॥
na ca uktavantau aśreyaḥ purastāt api kiñcana . na ca api apakṛtam kiñcid anayoḥ lakṣyate tvayi ..7..
ताविमौ पुरुषव्याघ्रावनागसि नृप त्वयि । न मन्त्रयेतां त्वच्छ्रेयः कथं सत्यपराक्रमौ ॥८॥
तौ इमौ पुरुष-व्याघ्रौ अनागसि नृप त्वयि । न मन्त्रयेताम् त्वद्-श्रेयः कथम् सत्य-पराक्रमौ ॥८॥
tau imau puruṣa-vyāghrau anāgasi nṛpa tvayi . na mantrayetām tvad-śreyaḥ katham satya-parākramau ..8..
प्रज्ञावन्तौ नरश्रेष्ठावस्मिँल्लोके नराधिप । त्वन्निमित्तमतो नेमौ किञ्चिज्जिह्मं वदिष्यतः ॥९॥ ( इति मे नैष्ठिकी बुद्धिर्वर्तते कुरुनन्दन ॥९॥ )
प्रज्ञावन्तौ नर-श्रेष्ठौ अस्मिन् लोके नराधिप । त्वद्-निमित्तम् अतस् न इमौ किञ्चिद् जिह्मम् वदिष्यतः ॥९॥ ( इति मे नैष्ठिकी बुद्धिः वर्तते कुरु-नन्दन ॥९॥ )
prajñāvantau nara-śreṣṭhau asmin loke narādhipa . tvad-nimittam atas na imau kiñcid jihmam vadiṣyataḥ ..9.. ( iti me naiṣṭhikī buddhiḥ vartate kuru-nandana ..9.. )
न चार्थहेतोर्धर्मज्ञौ वक्ष्यतः पक्षसंश्रितम् । एतद्धि परमं श्रेयो मेनाते तव भारत ॥१०॥
न च अर्थ-हेतोः धर्म-ज्ञौ वक्ष्यतः पक्ष-संश्रितम् । एतत् हि परमम् श्रेयः मेनाते तव भारत ॥१०॥
na ca artha-hetoḥ dharma-jñau vakṣyataḥ pakṣa-saṃśritam . etat hi paramam śreyaḥ menāte tava bhārata ..10..
दुर्योधनप्रभृतयः पुत्रा राजन्यथा तव । तथैव पाण्डवेयास्ते पुत्रा राजन्न संशयः ॥११॥
दुर्योधन-प्रभृतयः पुत्राः राजन् यथा तव । तथा एव पाण्डवेयाः ते पुत्राः राजन् न संशयः ॥११॥
duryodhana-prabhṛtayaḥ putrāḥ rājan yathā tava . tathā eva pāṇḍaveyāḥ te putrāḥ rājan na saṃśayaḥ ..11..
तेषु चेदहितं किञ्चिन्मन्त्रयेयुरबुद्धितः । मन्त्रिणस्ते न ते श्रेयः प्रपश्यन्ति विशेषतः ॥१२॥
तेषु चेद् अहितम् किञ्चिद् मन्त्रयेयुः अबुद्धितः । मन्त्रिणः ते न ते श्रेयः प्रपश्यन्ति विशेषतः ॥१२॥
teṣu ced ahitam kiñcid mantrayeyuḥ abuddhitaḥ . mantriṇaḥ te na te śreyaḥ prapaśyanti viśeṣataḥ ..12..
अथ ते हृदये राजन्विशेषस्तेषु वर्तते । अन्तरस्थं विवृण्वानाः श्रेयः कुर्युर्न ते ध्रुवम् ॥१३॥
अथ ते हृदये राजन् विशेषः तेषु वर्तते । अन्तर-स्थम् विवृण्वानाः श्रेयः कुर्युः न ते ध्रुवम् ॥१३॥
atha te hṛdaye rājan viśeṣaḥ teṣu vartate . antara-stham vivṛṇvānāḥ śreyaḥ kuryuḥ na te dhruvam ..13..
एतदर्थमिमौ राजन्महात्मानौ महाद्युती । नोचतुर्विवृतं किञ्चिन्न ह्येष तव निश्चयः ॥१४॥
एतद्-अर्थम् इमौ राजन् महात्मानौ महा-द्युती । न ऊचतुः विवृतम् किञ्चिद् न हि एष तव निश्चयः ॥१४॥
etad-artham imau rājan mahātmānau mahā-dyutī . na ūcatuḥ vivṛtam kiñcid na hi eṣa tava niścayaḥ ..14..
यच्चाप्यशक्यतां तेषामाहतुः पुरुषर्षभौ । तत्तथा पुरुषव्याघ्र तव तद्भद्रमस्तु ते ॥१५॥
यत् च अपि अशक्य-ताम् तेषाम् आहतुः पुरुष-ऋषभौ । तत् तथा पुरुष-व्याघ्र तव तत् भद्रम् अस्तु ते ॥१५॥
yat ca api aśakya-tām teṣām āhatuḥ puruṣa-ṛṣabhau . tat tathā puruṣa-vyāghra tava tat bhadram astu te ..15..
कथं हि पाण्डवः श्रीमान्सव्यसाची परन्तपः । शक्यो विजेतुं सङ्ग्रामे राजन्मघवता अपि ॥१६॥
कथम् हि पाण्डवः श्रीमान् सव्यसाची परन्तपः । शक्यः विजेतुम् सङ्ग्रामे राजन् मघवता अपि ॥१६॥
katham hi pāṇḍavaḥ śrīmān savyasācī parantapaḥ . śakyaḥ vijetum saṅgrāme rājan maghavatā api ..16..
भीमसेनो महाबाहुर्नागायुतबलो महान् । कथं हि युधि शक्येत विजेतुममरैरपि ॥१७॥
भीमसेनः महा-बाहुः नाग-अयुत-बलः महान् । कथम् हि युधि शक्येत विजेतुम् अमरैः अपि ॥१७॥
bhīmasenaḥ mahā-bāhuḥ nāga-ayuta-balaḥ mahān . katham hi yudhi śakyeta vijetum amaraiḥ api ..17..
तथैव कृतिनौ युद्धे यमौ यमसुताविव । कथं विषहितुं शक्यौ रणे जीवितुमिच्छता ॥१८॥
तथा एव कृतिनौ युद्धे यमौ यम-सुतौ इव । कथम् विषहितुम् शक्यौ रणे जीवितुम् इच्छता ॥१८॥
tathā eva kṛtinau yuddhe yamau yama-sutau iva . katham viṣahitum śakyau raṇe jīvitum icchatā ..18..
यस्मिन्धृतिरनुक्रोशः क्षमा सत्यं पराक्रमः । नित्यानि पाण्डवश्रेष्ठे स जीयेत कथं रणे ॥१९॥
यस्मिन् धृतिः अनुक्रोशः क्षमा सत्यम् पराक्रमः । नित्यानि पाण्डव-श्रेष्ठे स जीयेत कथम् रणे ॥१९॥
yasmin dhṛtiḥ anukrośaḥ kṣamā satyam parākramaḥ . nityāni pāṇḍava-śreṣṭhe sa jīyeta katham raṇe ..19..
येषां पक्षधरो रामो येषां मन्त्री जनार्दनः । किं नु तैरजितं सङ्ख्ये येषां पक्षे च सात्यकिः ॥२०॥
येषाम् पक्ष-धरः रामः येषाम् मन्त्री जनार्दनः । किम् नु तैः अजितम् सङ्ख्ये येषाम् पक्षे च सात्यकिः ॥२०॥
yeṣām pakṣa-dharaḥ rāmaḥ yeṣām mantrī janārdanaḥ . kim nu taiḥ ajitam saṅkhye yeṣām pakṣe ca sātyakiḥ ..20..
द्रुपदः श्वशुरो येषां येषां श्यालाश्च पार्षताः । धृष्टद्युम्नमुखा वीरा भ्रातरो द्रुपदात्मजाः ॥२१॥
द्रुपदः श्वशुरः येषाम् येषाम् श्यालाः च पार्षताः । धृष्टद्युम्न-मुखाः वीराः भ्रातरः द्रुपद-आत्मजाः ॥२१॥
drupadaḥ śvaśuraḥ yeṣām yeṣām śyālāḥ ca pārṣatāḥ . dhṛṣṭadyumna-mukhāḥ vīrāḥ bhrātaraḥ drupada-ātmajāḥ ..21..
सोऽशक्यतां च विज्ञाय तेषामग्रेण भारत । दायाद्यतां च धर्मेण सम्यक्तेषु समाचर ॥२२॥
सः अशक्य-ताम् च विज्ञाय तेषाम् अग्रेण भारत । दायाद्य-ताम् च धर्मेण सम्यक् तेषु समाचर ॥२२॥
saḥ aśakya-tām ca vijñāya teṣām agreṇa bhārata . dāyādya-tām ca dharmeṇa samyak teṣu samācara ..22..
इदं निर्दिग्धमयशः पुरोचनकृतं महत् । तेषामनुग्रहेणाद्य राजन्प्रक्षालयात्मनः ॥२३॥
इदम् निर्दिग्धम् अयशः पुरोचन-कृतम् महत् । तेषाम् अनुग्रहेण अद्य राजन् प्रक्षालय आत्मनः ॥२३॥
idam nirdigdham ayaśaḥ purocana-kṛtam mahat . teṣām anugraheṇa adya rājan prakṣālaya ātmanaḥ ..23..
द्रुपदोऽपि महान्राजा कृतवैरश्च नः पुरा । तस्य सङ्ग्रहणं राजन्स्वपक्षस्य विवर्धनम् ॥२४॥
द्रुपदः अपि महान् राजा कृत-वैरः च नः पुरा । तस्य सङ्ग्रहणम् राजन् स्व-पक्षस्य विवर्धनम् ॥२४॥
drupadaḥ api mahān rājā kṛta-vairaḥ ca naḥ purā . tasya saṅgrahaṇam rājan sva-pakṣasya vivardhanam ..24..
बलवन्तश्च दाशार्हा बहवश्च विशां पते । यतः कृष्णस्ततस्ते स्युर्यतः कृष्णस्ततो जयः ॥२५॥
बलवन्तः च दाशार्हाः बहवः च विशाम् पते । यतस् कृष्णः ततस् ते स्युः यतस् कृष्णः ततस् जयः ॥२५॥
balavantaḥ ca dāśārhāḥ bahavaḥ ca viśām pate . yatas kṛṣṇaḥ tatas te syuḥ yatas kṛṣṇaḥ tatas jayaḥ ..25..
यच्च साम्नैव शक्येत कार्यं साधयितुं नृप । को दैवशप्तस्तत्कार्तुं विग्रहेण समाचरेत् ॥२६॥
यत् च साम्ना एव शक्येत कार्यम् साधयितुम् नृप । कः दैव-शप्तः तत् कार्तुम् विग्रहेण समाचरेत् ॥२६॥
yat ca sāmnā eva śakyeta kāryam sādhayitum nṛpa . kaḥ daiva-śaptaḥ tat kārtum vigraheṇa samācaret ..26..
श्रुत्वा च जीवतः पार्थान्पौरजानपदो जनः । बलवद्दर्शने गृध्नुस्तेषां राजन्कुरु प्रियम् ॥२७॥
श्रुत्वा च जीवतः पार्थान् पौर-जानपदः जनः । बलवत्-दर्शने गृध्नुः तेषाम् राजन् कुरु प्रियम् ॥२७॥
śrutvā ca jīvataḥ pārthān paura-jānapadaḥ janaḥ . balavat-darśane gṛdhnuḥ teṣām rājan kuru priyam ..27..
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः । अधर्मयुक्ता दुष्प्रज्ञा बाला मैषां वचः कृथाः ॥२८॥
दुर्योधनः च कर्णः च शकुनिः च अपि सौबलः । अधर्म-युक्ताः दुष्प्रज्ञाः बालाः मा एषाम् वचः कृथाः ॥२८॥
duryodhanaḥ ca karṇaḥ ca śakuniḥ ca api saubalaḥ . adharma-yuktāḥ duṣprajñāḥ bālāḥ mā eṣām vacaḥ kṛthāḥ ..28..
उक्तमेतन्मया राजन्पुरा गुणवतस्तव । दुर्योधनापराधेन प्रजेयं विनशिष्यति ॥२९॥1.204.30
उक्तम् एतत् मया राजन् पुरा गुणवतः तव । दुर्योधन-अपराधेन प्रजा इयम् विनशिष्यति ॥२९॥१।२०४।३०
uktam etat mayā rājan purā guṇavataḥ tava . duryodhana-aparādhena prajā iyam vinaśiṣyati ..29..1.204.30

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In