| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

धृतराष्ट्र उवाच॥
भीष्मः शान्तनवो विद्वान्द्रोणश्च भगवानृषिः । हितं परमकं वाक्यं त्वं च सत्यं ब्रवीषि माम् ॥१॥
भीष्मः शान्तनवः विद्वान् द्रोणः च भगवान् ऋषिः । हितम् परमकम् वाक्यम् त्वम् च सत्यम् ब्रवीषि माम् ॥१॥
bhīṣmaḥ śāntanavaḥ vidvān droṇaḥ ca bhagavān ṛṣiḥ . hitam paramakam vākyam tvam ca satyam bravīṣi mām ..1..
यथैव पाण्डोस्ते वीराः कुन्तीपुत्रा महारथाः । तथैव धर्मतः सर्वे मम पुत्रा न संशयः ॥२॥
यथा एव पाण्डोः ते वीराः कुन्ती-पुत्राः महा-रथाः । तथा एव धर्मतः सर्वे मम पुत्राः न संशयः ॥२॥
yathā eva pāṇḍoḥ te vīrāḥ kuntī-putrāḥ mahā-rathāḥ . tathā eva dharmataḥ sarve mama putrāḥ na saṃśayaḥ ..2..
यथैव मम पुत्राणामिदं राज्यं विधीयते । तथैव पाण्डुपुत्राणामिदं राज्यं न संशयः ॥३॥
यथा एव मम पुत्राणाम् इदम् राज्यम् विधीयते । तथा एव पाण्डु-पुत्राणाम् इदम् राज्यम् न संशयः ॥३॥
yathā eva mama putrāṇām idam rājyam vidhīyate . tathā eva pāṇḍu-putrāṇām idam rājyam na saṃśayaḥ ..3..
क्षत्तरानय गच्छैतान्सह मात्रा सुसत्कृतान् । तया च देवरूपिण्या कृष्णया सह भारत ॥४॥
क्षत्तर् आनय गच्छ एतान् सह मात्रा सु सत्कृतान् । तया च देव-रूपिण्या कृष्णया सह भारत ॥४॥
kṣattar ānaya gaccha etān saha mātrā su satkṛtān . tayā ca deva-rūpiṇyā kṛṣṇayā saha bhārata ..4..
दिष्ट्या जीवन्ति ते पार्था दिष्ट्या जीवति सा पृथा । दिष्ट्या द्रुपदकन्यां च लब्धवन्तो महारथाः ॥५॥
दिष्ट्या जीवन्ति ते पार्थाः दिष्ट्या जीवति सा पृथा । दिष्ट्या द्रुपद-कन्याम् च लब्धवन्तः महा-रथाः ॥५॥
diṣṭyā jīvanti te pārthāḥ diṣṭyā jīvati sā pṛthā . diṣṭyā drupada-kanyām ca labdhavantaḥ mahā-rathāḥ ..5..
दिष्ट्या वर्धामहे सर्वे दिष्ट्या शान्तः पुरोचनः । दिष्ट्या मम परं दुःखमपनीतं महाद्युते ॥६॥
दिष्ट्या वर्धामहे सर्वे दिष्ट्या शान्तः पुरोचनः । दिष्ट्या मम परम् दुःखम् अपनीतम् महा-द्युते ॥६॥
diṣṭyā vardhāmahe sarve diṣṭyā śāntaḥ purocanaḥ . diṣṭyā mama param duḥkham apanītam mahā-dyute ..6..
वैशम्पायन उवाच॥
ततो जगाम विदुरो धृतराष्ट्रस्य शासनात् । सकाशं यज्ञसेनस्य पाण्डवानां च भारत ॥७॥
ततस् जगाम विदुरः धृतराष्ट्रस्य शासनात् । सकाशम् यज्ञसेनस्य पाण्डवानाम् च भारत ॥७॥
tatas jagāma viduraḥ dhṛtarāṣṭrasya śāsanāt . sakāśam yajñasenasya pāṇḍavānām ca bhārata ..7..
तत्र गत्वा स धर्मज्ञः सर्वशास्त्रविशारदः । द्रुपदं न्यायतो राजन्संयुक्तमुपतस्थिवान् ॥८॥
तत्र गत्वा स धर्म-ज्ञः सर्व-शास्त्र-विशारदः । द्रुपदम् न्यायतः राजन् संयुक्तम् उपतस्थिवान् ॥८॥
tatra gatvā sa dharma-jñaḥ sarva-śāstra-viśāradaḥ . drupadam nyāyataḥ rājan saṃyuktam upatasthivān ..8..
स चापि प्रतिजग्राह धर्मेण विदुरं ततः । चक्रतुश्च यथान्यायं कुशलप्रश्नसंविदम् ॥९॥
स च अपि प्रतिजग्राह धर्मेण विदुरम् ततस् । चक्रतुः च यथान्यायम् कुशल-प्रश्न-संविदम् ॥९॥
sa ca api pratijagrāha dharmeṇa viduram tatas . cakratuḥ ca yathānyāyam kuśala-praśna-saṃvidam ..9..
ददर्श पाण्डवांस्तत्र वासुदेवं च भारत । स्नेहात्परिष्वज्य स तान्पप्रच्छानामयं ततः ॥१०॥
ददर्श पाण्डवान् तत्र वासुदेवम् च भारत । स्नेहात् परिष्वज्य स तान् पप्रच्छ अनामयम् ततस् ॥१०॥
dadarśa pāṇḍavān tatra vāsudevam ca bhārata . snehāt pariṣvajya sa tān papraccha anāmayam tatas ..10..
तैश्चाप्यमितबुद्धिः स पूजितोऽथ यथाक्रमम् । वचनाद्धृतराष्ट्रस्य स्नेहयुक्तं पुनः पुनः ॥११॥
तैः च अपि अमित-बुद्धिः स पूजितः अथ यथाक्रमम् । वचनात् धृतराष्ट्रस्य स्नेह-युक्तम् पुनर् पुनर् ॥११॥
taiḥ ca api amita-buddhiḥ sa pūjitaḥ atha yathākramam . vacanāt dhṛtarāṣṭrasya sneha-yuktam punar punar ..11..
पप्रच्छानामयं राजंस्ततस्तान्पाण्डुनन्दनान् । प्रददौ चापि रत्नानि विविधानि वसूनि च ॥१२॥
पप्रच्छ अनामयम् राजन् ततस् तान् पाण्डु-नन्दनान् । प्रददौ च अपि रत्नानि विविधानि वसूनि च ॥१२॥
papraccha anāmayam rājan tatas tān pāṇḍu-nandanān . pradadau ca api ratnāni vividhāni vasūni ca ..12..
पाण्डवानां च कुन्त्याश्च द्रौपद्याश्च विशां पते । द्रुपदस्य च पुत्राणां यथा दत्तानि कौरवैः ॥१३॥
पाण्डवानाम् च कुन्त्याः च द्रौपद्याः च विशाम् पते । द्रुपदस्य च पुत्राणाम् यथा दत्तानि कौरवैः ॥१३॥
pāṇḍavānām ca kuntyāḥ ca draupadyāḥ ca viśām pate . drupadasya ca putrāṇām yathā dattāni kauravaiḥ ..13..
प्रोवाच चामितमतिः प्रश्रितं विनयान्वितः । द्रुपदं पाण्डुपुत्राणां संनिधौ केशवस्य च ॥१४॥
प्रोवाच च अमित-मतिः प्रश्रितम् विनय-अन्वितः । द्रुपदम् पाण्डु-पुत्राणाम् संनिधौ केशवस्य च ॥१४॥
provāca ca amita-matiḥ praśritam vinaya-anvitaḥ . drupadam pāṇḍu-putrāṇām saṃnidhau keśavasya ca ..14..
राजञ्शृणु सहामात्यः सपुत्रश्च वचो मम । धृतराष्ट्रः सपुत्रस्त्वां सहामात्यः सबान्धवः ॥१५॥
राजन् शृणु सह अमात्यः स पुत्रः च वचः मम । धृतराष्ट्रः स पुत्रः त्वाम् सह अमात्यः स बान्धवः ॥१५॥
rājan śṛṇu saha amātyaḥ sa putraḥ ca vacaḥ mama . dhṛtarāṣṭraḥ sa putraḥ tvām saha amātyaḥ sa bāndhavaḥ ..15..
अब्रवीत्कुशलं राजन्प्रीयमाणः पुनः पुनः । प्रीतिमांस्ते दृढं चापि सम्बन्धेन नराधिप ॥१६॥
अब्रवीत् कुशलम् राजन् प्रीयमाणः पुनर् पुनर् । प्रीतिमान् ते दृढम् च अपि सम्बन्धेन नराधिप ॥१६॥
abravīt kuśalam rājan prīyamāṇaḥ punar punar . prītimān te dṛḍham ca api sambandhena narādhipa ..16..
तथा भीष्मः शान्तनवः कौरवैः सह सर्वशः । कुशलं त्वां महाप्राज्ञः सर्वतः परिपृच्छति ॥१७॥
तथा भीष्मः शान्तनवः कौरवैः सह सर्वशस् । कुशलम् त्वाम् महा-प्राज्ञः सर्वतस् परिपृच्छति ॥१७॥
tathā bhīṣmaḥ śāntanavaḥ kauravaiḥ saha sarvaśas . kuśalam tvām mahā-prājñaḥ sarvatas paripṛcchati ..17..
भारद्वाजो महेष्वासो द्रोणः प्रियसखस्तव । समाश्लेषमुपेत्य त्वां कुशलं परिपृच्छति ॥१८॥
भारद्वाजः महा-इष्वासः द्रोणः प्रिय-सखः तव । समाश्लेषम् उपेत्य त्वाम् कुशलम् परिपृच्छति ॥१८॥
bhāradvājaḥ mahā-iṣvāsaḥ droṇaḥ priya-sakhaḥ tava . samāśleṣam upetya tvām kuśalam paripṛcchati ..18..
धृतराष्ट्रश्च पाञ्चाल्य त्वया सम्बन्धमीयिवान् । कृतार्थं मन्यतेऽऽत्मानं तथा सर्वेऽपि कौरवाः ॥१९॥
धृतराष्ट्रः च पाञ्चाल्य त्वया सम्बन्धम् ईयिवान् । कृतार्थम् मन्यते आत्मानम् तथा सर्वे अपि कौरवाः ॥१९॥
dhṛtarāṣṭraḥ ca pāñcālya tvayā sambandham īyivān . kṛtārtham manyate ātmānam tathā sarve api kauravāḥ ..19..
न तथा राज्यसम्प्राप्तिस्तेषां प्रीतिकरी मता । यथा सम्बन्धकं प्राप्य यज्ञसेन त्वया सह ॥२०॥
न तथा राज्य-सम्प्राप्तिः तेषाम् प्रीति-करी मता । यथा सम्बन्धकम् प्राप्य यज्ञसेन त्वया सह ॥२०॥
na tathā rājya-samprāptiḥ teṣām prīti-karī matā . yathā sambandhakam prāpya yajñasena tvayā saha ..20..
एतद्विदित्वा तु भवान्प्रस्थापयतु पाण्डवान् । द्रष्टुं हि पाण्डुदायादांस्त्वरन्ते कुरवो भृशम् ॥२१॥
एतत् विदित्वा तु भवान् प्रस्थापयतु पाण्डवान् । द्रष्टुम् हि पाण्डु-दायादान् त्वरन्ते कुरवः भृशम् ॥२१॥
etat viditvā tu bhavān prasthāpayatu pāṇḍavān . draṣṭum hi pāṇḍu-dāyādān tvarante kuravaḥ bhṛśam ..21..
विप्रोषिता दीर्घकालमिमे चापि नरर्षभाः । उत्सुका नगरं द्रष्टुं भविष्यन्ति पृथा तथा ॥२२॥
विप्रोषिताः दीर्घ-कालम् इमे च अपि नर-ऋषभाः । उत्सुकाः नगरम् द्रष्टुम् भविष्यन्ति पृथा तथा ॥२२॥
viproṣitāḥ dīrgha-kālam ime ca api nara-ṛṣabhāḥ . utsukāḥ nagaram draṣṭum bhaviṣyanti pṛthā tathā ..22..
कृष्णामपि च पाञ्चालीं सर्वाः कुरुवरस्त्रियः । द्रष्टुकामाः प्रतीक्षन्ते पुरं च विषयं च नः ॥२३॥
कृष्णाम् अपि च पाञ्चालीम् सर्वाः कुरु-वर-स्त्रियः । द्रष्टु-कामाः प्रतीक्षन्ते पुरम् च विषयम् च नः ॥२३॥
kṛṣṇām api ca pāñcālīm sarvāḥ kuru-vara-striyaḥ . draṣṭu-kāmāḥ pratīkṣante puram ca viṣayam ca naḥ ..23..
स भवान्पाण्डुपुत्राणामाज्ञापयतु माचिरम् । गमनं सहदाराणामेतदागमनं मम ॥२४॥
स भवान् पाण्डु-पुत्राणाम् आज्ञापयतु माचिरम् । गमनम् सह दाराणाम् एतत् आगमनम् मम ॥२४॥
sa bhavān pāṇḍu-putrāṇām ājñāpayatu māciram . gamanam saha dārāṇām etat āgamanam mama ..24..
विसृष्टेषु त्वया राजन्पाण्डवेषु महात्मसु । ततोऽहं प्रेषयिष्यामि धृतराष्ट्रस्य शीघ्रगान् ॥२५॥
विसृष्टेषु त्वया राजन् पाण्डवेषु महात्मसु । ततस् अहम् प्रेषयिष्यामि धृतराष्ट्रस्य शीघ्रगान् ॥२५॥
visṛṣṭeṣu tvayā rājan pāṇḍaveṣu mahātmasu . tatas aham preṣayiṣyāmi dhṛtarāṣṭrasya śīghragān ..25..
आगमिष्यन्ति कौन्तेयाः कुन्ती च सह कृष्णया ॥२५॥ 1.205.26
आगमिष्यन्ति कौन्तेयाः कुन्ती च सह कृष्णया ॥२५॥ १।२०५।२६
āgamiṣyanti kaunteyāḥ kuntī ca saha kṛṣṇayā ..25.. 1.205.26

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In