| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

पर्वसंग्रहपर्व
parvasaṃgrahaparva
parvasaṃgrahaparva
ऋषय ऊचुः॥
समन्तपञ्चकमिति यदुक्तं सूतनन्दन । एतत्सर्वं यथान्यायं श्रोतुमिच्छामहे वयम् ॥१॥
समन्तपञ्चकम् इति यत् उक्तम् सूत-नन्दन । एतत् सर्वम् यथान्यायम् श्रोतुम् इच्छामहे वयम् ॥१॥
samantapañcakam iti yat uktam sūta-nandana . etat sarvam yathānyāyam śrotum icchāmahe vayam ..1..
सूत उवाच॥
शुश्रूषा यदि वो विप्रा ब्रुवतश्च कथाः शुभाः । समन्तपञ्चकाख्यं च श्रोतुमर्हथ सत्तमाः ॥२॥
शुश्रूषा यदि वः विप्राः ब्रुवतः च कथाः शुभाः । समन्तपञ्चक-आख्यम् च श्रोतुम् अर्हथ सत्तमाः ॥२॥
śuśrūṣā yadi vaḥ viprāḥ bruvataḥ ca kathāḥ śubhāḥ . samantapañcaka-ākhyam ca śrotum arhatha sattamāḥ ..2..
त्रेताद्वापरयोः सन्धौ रामः शस्त्रभृतां वरः । असकृत्पार्थिवं क्षत्रं जघानामर्षचोदितः ॥३॥
त्रेता-द्वापरयोः सन्धौ रामः शस्त्रभृताम् वरः । असकृत् पार्थिवम् क्षत्रम् जघान अमर्ष-चोदितः ॥३॥
tretā-dvāparayoḥ sandhau rāmaḥ śastrabhṛtām varaḥ . asakṛt pārthivam kṣatram jaghāna amarṣa-coditaḥ ..3..
स सर्वं क्षत्रमुत्साद्य स्ववीर्येणानलद्युतिः । समन्तपञ्चके पञ्च चकार रुधिरह्रदान् ॥४॥
स सर्वम् क्षत्रम् उत्साद्य स्व-वीर्येण अनल-द्युतिः । समन्तपञ्चके पञ्च चकार रुधिर-ह्रदान् ॥४॥
sa sarvam kṣatram utsādya sva-vīryeṇa anala-dyutiḥ . samantapañcake pañca cakāra rudhira-hradān ..4..
स तेषु रुधिराम्भस्सु ह्रदेषु क्रोधमूर्च्छितः । पितृन्सन्तर्पयामास रुधिरेणेति नः श्रुतम् ॥५॥
स तेषु रुधिर-अम्भःसु ह्रदेषु क्रोध-मूर्च्छितः । पितृन् सन्तर्पयामास रुधिरेण इति नः श्रुतम् ॥५॥
sa teṣu rudhira-ambhaḥsu hradeṣu krodha-mūrcchitaḥ . pitṛn santarpayāmāsa rudhireṇa iti naḥ śrutam ..5..
अथर्चीकादयोऽभ्येत्य पितरो ब्राह्मणर्षभम् । तं क्षमस्वेति सिषिधुस्ततः स विरराम ह ॥६॥
अथ ऋचीक-आदयः अभ्येत्य पितरः ब्राह्मण-ऋषभम् । तम् क्षमस्व इति सिषिधुः ततस् स विरराम ह ॥६॥
atha ṛcīka-ādayaḥ abhyetya pitaraḥ brāhmaṇa-ṛṣabham . tam kṣamasva iti siṣidhuḥ tatas sa virarāma ha ..6..
तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम् । समन्तपञ्चकमिति पुण्यं तत्परिकीर्तितम् ॥७॥
तेषाम् समीपे यः देशः ह्रदानाम् रुधिर-अम्भसाम् । समन्तपञ्चकम् इति पुण्यम् तत् परिकीर्तितम् ॥७॥
teṣām samīpe yaḥ deśaḥ hradānām rudhira-ambhasām . samantapañcakam iti puṇyam tat parikīrtitam ..7..
येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते । तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः ॥८॥
येन लिङ्गेन यः देशः युक्तः समुपलक्ष्यते । तेन एव नाम्ना तम् देशम् वाच्यम् आहुः मनीषिणः ॥८॥
yena liṅgena yaḥ deśaḥ yuktaḥ samupalakṣyate . tena eva nāmnā tam deśam vācyam āhuḥ manīṣiṇaḥ ..8..
अन्तरे चैव सम्प्राप्ते कलिद्वापरयोरभूत् । समन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः ॥९॥
अन्तरे च एव सम्प्राप्ते कलि-द्वापरयोः अभूत् । समन्तपञ्चके युद्धम् कुरु-पाण्डव-सेनयोः ॥९॥
antare ca eva samprāpte kali-dvāparayoḥ abhūt . samantapañcake yuddham kuru-pāṇḍava-senayoḥ ..9..
तस्मिन्परमधर्मिष्ठे देशे भूदोषवर्जिते । अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया ॥१०॥
तस्मिन् परम-धर्मिष्ठे देशे भू-दोष-वर्जिते । अष्टादश समाजग्मुः अक्षौहिण्यः युयुत्सया ॥१०॥
tasmin parama-dharmiṣṭhe deśe bhū-doṣa-varjite . aṣṭādaśa samājagmuḥ akṣauhiṇyaḥ yuyutsayā ..10..
एवं नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाः । पुण्यश्च रमणीयश्च स देशो वः प्रकीर्तितः ॥११॥
एवम् नाम अभिनिर्वृत्तम् तस्य देशस्य वै द्विजाः । पुण्यः च रमणीयः च स देशः वः प्रकीर्तितः ॥११॥
evam nāma abhinirvṛttam tasya deśasya vai dvijāḥ . puṇyaḥ ca ramaṇīyaḥ ca sa deśaḥ vaḥ prakīrtitaḥ ..11..
तदेतत्कथितं सर्वं मया वो मुनिसत्तमाः । यथा देशः स विख्यातस्त्रिषु लोकेषु विश्रुतः ॥१२॥
तत् एतत् कथितम् सर्वम् मया वः मुनि-सत्तमाः । यथा देशः स विख्यातः त्रिषु लोकेषु विश्रुतः ॥१२॥
tat etat kathitam sarvam mayā vaḥ muni-sattamāḥ . yathā deśaḥ sa vikhyātaḥ triṣu lokeṣu viśrutaḥ ..12..
ऋषय ऊचुः॥
अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन । एतदिच्छामहे श्रोतुं सर्वमेव यथातथम् ॥१३॥
अक्षौहिण्यः इति प्रोक्तम् यत् त्वया सूत-नन्दन । एतत् इच्छामहे श्रोतुम् सर्वम् एव यथातथम् ॥१३॥
akṣauhiṇyaḥ iti proktam yat tvayā sūta-nandana . etat icchāmahe śrotum sarvam eva yathātatham ..13..
अक्षौहिण्याः परीमाणं रथाश्वनरदन्तिनाम् । यथावच्चैव नो ब्रूहि सर्वं हि विदितं तव ॥१४॥
अक्षौहिण्याः परीमाणम् रथ-अश्व-नर-दन्तिनाम् । यथावत् च एव नः ब्रूहि सर्वम् हि विदितम् तव ॥१४॥
akṣauhiṇyāḥ parīmāṇam ratha-aśva-nara-dantinām . yathāvat ca eva naḥ brūhi sarvam hi viditam tava ..14..
सूत उवाच॥
एको रथो गजश्चैको नराः पञ्च पदातयः । त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते ॥१५॥
एकः रथः गजः च एकः नराः पञ्च पदातयः । त्रयः च तुरगाः तज्ज्ञैः पत्तिः इति अभिधीयते ॥१५॥
ekaḥ rathaḥ gajaḥ ca ekaḥ narāḥ pañca padātayaḥ . trayaḥ ca turagāḥ tajjñaiḥ pattiḥ iti abhidhīyate ..15..
पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाः । त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते ॥१६॥
पत्तिम् तु त्रिगुणाम् एताम् आहुः सेनामुखम् बुधाः । त्रीणि सेनामुखानि एकः गुल्मः इति अभिधीयते ॥१६॥
pattim tu triguṇām etām āhuḥ senāmukham budhāḥ . trīṇi senāmukhāni ekaḥ gulmaḥ iti abhidhīyate ..16..
त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः । स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः ॥१७॥
त्रयः गुल्माः गणः नाम वाहिनी तु गणाः त्रयः । स्मृताः तिस्रः तु वाहिन्यः पृतना इति विचक्षणैः ॥१७॥
trayaḥ gulmāḥ gaṇaḥ nāma vāhinī tu gaṇāḥ trayaḥ . smṛtāḥ tisraḥ tu vāhinyaḥ pṛtanā iti vicakṣaṇaiḥ ..17..
चमूस्तु पृतनास्तिस्रस्तिस्रश्चम्वस्त्वनीकिनी । अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः ॥१८॥
चमूः तु पृतनाः तिस्रः तिस्रः चम्वः तु अनीकिनी । अनीकिनीम् दश-गुणाम् प्राहुः अक्षौहिणीम् बुधाः ॥१८॥
camūḥ tu pṛtanāḥ tisraḥ tisraḥ camvaḥ tu anīkinī . anīkinīm daśa-guṇām prāhuḥ akṣauhiṇīm budhāḥ ..18..
अक्षौहिण्याः प्रसङ्ख्यानं रथानां द्विजसत्तमाः । सङ्ख्यागणिततत्त्वज्ञैः सहस्राण्येकविंशतिः ॥१९॥
अक्षौहिण्याः प्रसङ्ख्यानम् रथानाम् द्विजसत्तमाः । सङ्ख्या-गणित-तत्त्व-ज्ञैः सहस्राणि एकविंशतिः ॥१९॥
akṣauhiṇyāḥ prasaṅkhyānam rathānām dvijasattamāḥ . saṅkhyā-gaṇita-tattva-jñaiḥ sahasrāṇi ekaviṃśatiḥ ..19..
शतान्युपरि चैवाष्टौ तथा भूयश्च सप्ततिः । गजानां तु परीमाणमेतदेवात्र निर्दिशेत् ॥२०॥
शतानि उपरि च एव अष्टौ तथा भूयस् च सप्ततिः । गजानाम् तु परीमाणम् एतत् एव अत्र निर्दिशेत् ॥२०॥
śatāni upari ca eva aṣṭau tathā bhūyas ca saptatiḥ . gajānām tu parīmāṇam etat eva atra nirdiśet ..20..
ज्ञेयं शतसहस्रं तु सहस्राणि तथा नव । नराणामपि पञ्चाशच्छतानि त्रीणि चानघाः ॥२१॥
ज्ञेयम् शत-सहस्रम् तु सहस्राणि तथा नव । नराणाम् अपि पञ्चाशत्-शतानि त्रीणि च अनघाः ॥२१॥
jñeyam śata-sahasram tu sahasrāṇi tathā nava . narāṇām api pañcāśat-śatāni trīṇi ca anaghāḥ ..21..
पञ्चषष्टिसहस्राणि तथाश्वानां शतानि च । दशोत्तराणि षट्प्राहुर्यथावदिह सङ्ख्यया ॥२२॥
पञ्च-षष्टि-सहस्राणि तथा अश्वानाम् शतानि च । दश उत्तराणि षड् प्राहुः यथावत् इह सङ्ख्यया ॥२२॥
pañca-ṣaṣṭi-sahasrāṇi tathā aśvānām śatāni ca . daśa uttarāṇi ṣaḍ prāhuḥ yathāvat iha saṅkhyayā ..22..
एतामक्षौहिणीं प्राहुः सङ्ख्यातत्त्वविदो जनाः । यां वः कथितवानस्मि विस्तरेण द्विजोत्तमाः ॥२३॥
एताम् अक्षौहिणीम् प्राहुः सङ्ख्या-तत्त्व-विदः जनाः । याम् वः कथितवान् अस्मि विस्तरेण द्विजोत्तमाः ॥२३॥
etām akṣauhiṇīm prāhuḥ saṅkhyā-tattva-vidaḥ janāḥ . yām vaḥ kathitavān asmi vistareṇa dvijottamāḥ ..23..
एतया सङ्ख्यया ह्यासन्कुरुपाण्डवसेनयोः । अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डेनाष्टादशैव ताः ॥२४॥
एतया सङ्ख्यया हि आसन् कुरु-पाण्डव-सेनयोः । अक्षौहिण्यः द्विजश्रेष्ठाः पिण्डेन अष्टादशा एव ताः ॥२४॥
etayā saṅkhyayā hi āsan kuru-pāṇḍava-senayoḥ . akṣauhiṇyaḥ dvijaśreṣṭhāḥ piṇḍena aṣṭādaśā eva tāḥ ..24..
समेतास्तत्र वै देशे तत्रैव निधनं गताः । कौरवान्कारणं कृत्वा कालेनाद्भुतकर्मणा ॥२५॥
समेताः तत्र वै देशे तत्र एव निधनम् गताः । कौरवान् कारणम् कृत्वा कालेन अद्भुत-कर्मणा ॥२५॥
sametāḥ tatra vai deśe tatra eva nidhanam gatāḥ . kauravān kāraṇam kṛtvā kālena adbhuta-karmaṇā ..25..
अहानि युयुधे भीष्मो दशैव परमास्त्रवित् । अहानि पञ्च द्रोणस्तु ररक्ष कुरुवाहिनीम् ॥२६॥
अहानि युयुधे भीष्मः दश एव परम-अस्त्र-विद् । अहानि पञ्च द्रोणः तु ररक्ष कुरु-वाहिनीम् ॥२६॥
ahāni yuyudhe bhīṣmaḥ daśa eva parama-astra-vid . ahāni pañca droṇaḥ tu rarakṣa kuru-vāhinīm ..26..
अहनी युयुधे द्वे तु कर्णः परबलार्दनः । शल्योऽर्धदिवसं त्वासीद्गदायुद्धमतः परम् ॥२७॥
अहनी युयुधे द्वे तु कर्णः पर-बल-अर्दनः । शल्यः अर्ध-दिवसम् तु आसीत् गदा-युद्धम् अतस् परम् ॥२७॥
ahanī yuyudhe dve tu karṇaḥ para-bala-ardanaḥ . śalyaḥ ardha-divasam tu āsīt gadā-yuddham atas param ..27..
तस्यैव तु दिनस्यान्ते हार्दिक्यद्रौणिगौतमाः । प्रसुप्तं निशि विश्वस्तं जघ्नुर्यौधिष्ठिरं बलम् ॥२८॥
तस्य एव तु दिनस्य अन्ते हार्दिक्य-द्रौणि-गौतमाः । प्रसुप्तम् निशि विश्वस्तम् जघ्नुः यौधिष्ठिरम् बलम् ॥२८॥
tasya eva tu dinasya ante hārdikya-drauṇi-gautamāḥ . prasuptam niśi viśvastam jaghnuḥ yaudhiṣṭhiram balam ..28..
यत्तु शौनकसत्रे ते भारताख्यानविस्तरम् । आख्यास्ये तत्र पौलोममाख्यानं चादितः परम् ॥२९॥
यत् तु शौनक-सत्रे ते भारत-आख्यान-विस्तरम् । आख्यास्ये तत्र पौलोमम् आख्यानम् च आदितस् परम् ॥२९॥
yat tu śaunaka-satre te bhārata-ākhyāna-vistaram . ākhyāsye tatra paulomam ākhyānam ca āditas param ..29..
विचित्रार्थपदाख्यानमनेकसमयान्वितम् । अभिपन्नं नरैः प्राज्ञैर्वैराग्यमिव मोक्षिभिः ॥३०॥
विचित्र-अर्थ-पद-आख्यानम् अनेक-समय-अन्वितम् । अभिपन्नम् नरैः प्राज्ञैः वैराग्यम् इव मोक्षिभिः ॥३०॥
vicitra-artha-pada-ākhyānam aneka-samaya-anvitam . abhipannam naraiḥ prājñaiḥ vairāgyam iva mokṣibhiḥ ..30..
आत्मेव वेदितव्येषु प्रियेष्विव च जीवितम् । इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्वयम् ॥३१॥
आत्मा इव वेदितव्येषु प्रियेषु इव च जीवितम् । इतिहासः प्रधान-अर्थः श्रेष्ठः सर्व-आगमेषु अयम् ॥३१॥
ātmā iva veditavyeṣu priyeṣu iva ca jīvitam . itihāsaḥ pradhāna-arthaḥ śreṣṭhaḥ sarva-āgameṣu ayam ..31..
इतिहासोत्तमे ह्यस्मिन्नर्पिता बुद्धिरुत्तमा । स्वरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक् ॥३२॥
इतिहास-उत्तमे हि अस्मिन् अर्पिता बुद्धिः उत्तमा । स्वर-व्यञ्जनयोः कृत्स्ना लोक-वेद-आश्रया इव वाच् ॥३२॥
itihāsa-uttame hi asmin arpitā buddhiḥ uttamā . svara-vyañjanayoḥ kṛtsnā loka-veda-āśrayā iva vāc ..32..
अस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः । भारतस्येतिहासस्य श्रूयतां पर्वसङ्ग्रहः ॥३३॥
अस्य प्रज्ञा-अभिपन्नस्य विचित्र-पद-पर्वणः । भारतस्य इतिहासस्य श्रूयताम् पर्व-सङ्ग्रहः ॥३३॥
asya prajñā-abhipannasya vicitra-pada-parvaṇaḥ . bhāratasya itihāsasya śrūyatām parva-saṅgrahaḥ ..33..
पर्वानुक्रमणी पूर्वं द्वितीयं पर्वसङ्ग्रहः । पौष्यं पौलोममास्तीकमादिवंशावतारणम् ॥३४॥
पर्व-अनुक्रमणी पूर्वम् द्वितीयम् पर्व-सङ्ग्रहः । पौष्यम् पौलोमम् आस्तीकम् आदि-वंश-अवतारणम् ॥३४॥
parva-anukramaṇī pūrvam dvitīyam parva-saṅgrahaḥ . pauṣyam paulomam āstīkam ādi-vaṃśa-avatāraṇam ..34..
ततः सम्भवपर्वोक्तमद्भुतं देवनिर्मितम् । दाहो जतुगृहस्यात्र हैडिम्बं पर्व चोच्यते ॥३५॥
ततस् सम्भव-पर्व उक्तम् अद्भुतम् देव-निर्मितम् । दाहः जतु-गृहस्य अत्र हैडिम्बम् पर्व च उच्यते ॥३५॥
tatas sambhava-parva uktam adbhutam deva-nirmitam . dāhaḥ jatu-gṛhasya atra haiḍimbam parva ca ucyate ..35..
ततो बकवधः पर्व पर्व चैत्ररथं ततः । ततः स्वयंवरं देव्याः पाञ्चाल्याः पर्व चोच्यते ॥३६॥
ततस् बकवधः पर्व पर्व चैत्ररथम् ततस् । ततस् स्वयंवरम् देव्याः पाञ्चाल्याः पर्व च उच्यते ॥३६॥
tatas bakavadhaḥ parva parva caitraratham tatas . tatas svayaṃvaram devyāḥ pāñcālyāḥ parva ca ucyate ..36..
क्षत्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम् । विदुरागमनं पर्व राज्यलम्भस्तथैव च ॥३७॥
क्षत्र-धर्मेण निर्जित्य ततस् वैवाहिकम् स्मृतम् । विदुः आगमनम् पर्व राज्य-लम्भः तथा एव च ॥३७॥
kṣatra-dharmeṇa nirjitya tatas vaivāhikam smṛtam . viduḥ āgamanam parva rājya-lambhaḥ tathā eva ca ..37..
अर्जुनस्य वने वासः सुभद्राहरणं ततः । सुभद्राहरणादूर्ध्वं ज्ञेयं हरणहारिकम् ॥३८॥
अर्जुनस्य वने वासः सुभद्रा-हरणम् ततस् । सुभद्रा-हरणात् ऊर्ध्वम् ज्ञेयम् हरणहारिकम् ॥३८॥
arjunasya vane vāsaḥ subhadrā-haraṇam tatas . subhadrā-haraṇāt ūrdhvam jñeyam haraṇahārikam ..38..
ततः खाण्डवदाहाख्यं तत्रैव मयदर्शनम् । सभापर्व ततः प्रोक्तं मन्त्रपर्व ततः परम् ॥३९॥
ततस् खाण्डव-दाह-आख्यम् तत्र एव मय-दर्शनम् । सभापर्व ततस् प्रोक्तम् मन्त्र-पर्व ततस् परम् ॥३९॥
tatas khāṇḍava-dāha-ākhyam tatra eva maya-darśanam . sabhāparva tatas proktam mantra-parva tatas param ..39..
जरासन्धवधः पर्व पर्व दिग्विजयस्तथा । पर्व दिग्विजयादूर्ध्वं राजसूयिकमुच्यते ॥४०॥
जरासन्ध-वधः पर्व पर्व दिग्विजयः तथा । पर्व दिग्विजयात् ऊर्ध्वम् राजसूयिकम् उच्यते ॥४०॥
jarāsandha-vadhaḥ parva parva digvijayaḥ tathā . parva digvijayāt ūrdhvam rājasūyikam ucyate ..40..
ततश्चार्घाभिहरणं शिशुपालवधस्ततः । द्यूतपर्व ततः प्रोक्तमनुद्यूतमतः परम् ॥४१॥
ततस् च अर्घ-अभिहरणम् शिशुपाल-वधः ततस् । द्यूत-पर्व ततस् प्रोक्तम् अनुद्यूतम् अतस् परम् ॥४१॥
tatas ca argha-abhiharaṇam śiśupāla-vadhaḥ tatas . dyūta-parva tatas proktam anudyūtam atas param ..41..
तत आरण्यकं पर्व किर्मीरवध एव च । ईश्वरार्जुनयोर्युद्धं पर्व कैरातसञ्ज्ञितम् ॥४२॥
ततस् आरण्यकम् पर्व किर्मीर-वधः एव च । ईश्वर-अर्जुनयोः युद्धम् पर्व कैरात-सञ्ज्ञितम् ॥४२॥
tatas āraṇyakam parva kirmīra-vadhaḥ eva ca . īśvara-arjunayoḥ yuddham parva kairāta-sañjñitam ..42..
इन्द्रलोकाभिगमनं पर्व ज्ञेयमतः परम् । तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः ॥४३॥
इन्द्र-लोक-अभिगमनम् पर्व ज्ञेयम् अतस् परम् । तीर्थ-यात्रा ततस् पर्व कुरुराजस्य धीमतः ॥४३॥
indra-loka-abhigamanam parva jñeyam atas param . tīrtha-yātrā tatas parva kururājasya dhīmataḥ ..43..
जटासुरवधः पर्व यक्षयुद्धमतः परम् । तथैवाजगरं पर्व विज्ञेयं तदनन्तरम् ॥४४॥
जटासुर-वधः पर्व यक्ष-युद्धम् अतस् परम् । तथा एव आजगरम् पर्व विज्ञेयम् तत् अनन्तरम् ॥४४॥
jaṭāsura-vadhaḥ parva yakṣa-yuddham atas param . tathā eva ājagaram parva vijñeyam tat anantaram ..44..
मार्कण्डेयसमस्या च पर्वोक्तं तदनन्तरम् । संवादश्च ततः पर्व द्रौपदीसत्यभामयोः ॥४५॥
मार्कण्डेय-समस्या च पर्व उक्तम् तद्-अनन्तरम् । संवादः च ततस् पर्व द्रौपदी-सत्यभामयोः ॥४५॥
mārkaṇḍeya-samasyā ca parva uktam tad-anantaram . saṃvādaḥ ca tatas parva draupadī-satyabhāmayoḥ ..45..
घोषयात्रा ततः पर्व मृगस्वप्नभयं ततः । व्रीहिद्रौणिकमाख्यानं ततोऽनन्तरमुच्यते ॥४६॥
घोष-यात्रा ततस् पर्व मृग-स्वप्न-भयम् ततस् । व्रीहि-द्रौणिकम् आख्यानम् ततस् अनन्तरम् उच्यते ॥४६॥
ghoṣa-yātrā tatas parva mṛga-svapna-bhayam tatas . vrīhi-drauṇikam ākhyānam tatas anantaram ucyate ..46..
द्रौपदीहरणं पर्व सैन्धवेन वनात्ततः । कुण्डलाहरणं पर्व ततः परमिहोच्यते ॥४७॥
द्रौपदीहरणम् पर्व सैन्धवेन वनात् ततस् । कुण्डल-आहरणम् पर्व ततस् परम् इह उच्यते ॥४७॥
draupadīharaṇam parva saindhavena vanāt tatas . kuṇḍala-āharaṇam parva tatas param iha ucyate ..47..
आरणेयं ततः पर्व वैराटं तदनन्तरम् । कीचकानां वधः पर्व पर्व गोग्रहणं ततः ॥४८॥
आरणेयम् ततस् पर्व वैराटम् तद्-अनन्तरम् । कीचकानाम् वधः पर्व पर्व गो-ग्रहणम् ततस् ॥४८॥
āraṇeyam tatas parva vairāṭam tad-anantaram . kīcakānām vadhaḥ parva parva go-grahaṇam tatas ..48..
अभिमन्युना च वैराट्याः पर्व वैवाहिकं स्मृतम् । उद्योगपर्व विज्ञेयमत ऊर्ध्वं महाद्भुतम् ॥४९॥
अभिमन्युना च वैराट्याः पर्व वैवाहिकम् स्मृतम् । उद्योगपर्व विज्ञेयम् अतस् ऊर्ध्वम् महा-अद्भुतम् ॥४९॥
abhimanyunā ca vairāṭyāḥ parva vaivāhikam smṛtam . udyogaparva vijñeyam atas ūrdhvam mahā-adbhutam ..49..
ततः सञ्जययानाख्यं पर्व ज्ञेयमतः परम् । प्रजागरं ततः पर्व धृतराष्ट्रस्य चिन्तया ॥५०॥
ततस् सञ्जय-यान-आख्यम् पर्व ज्ञेयम् अतस् परम् । प्रजागरम् ततस् पर्व धृतराष्ट्रस्य चिन्तया ॥५०॥
tatas sañjaya-yāna-ākhyam parva jñeyam atas param . prajāgaram tatas parva dhṛtarāṣṭrasya cintayā ..50..
पर्व सानत्सुजातं च गुह्यमध्यात्मदर्शनम् । यानसन्धिस्ततः पर्व भगवद्यानमेव च ॥५१॥
पर्व सानत्सुजातम् च गुह्यम् अध्यात्म-दर्शनम् । यान-सन्धिः ततस् पर्व भगवत्-यानम् एव च ॥५१॥
parva sānatsujātam ca guhyam adhyātma-darśanam . yāna-sandhiḥ tatas parva bhagavat-yānam eva ca ..51..
ज्ञेयं विवादपर्वात्र कर्णस्यापि महात्मनः । निर्याणं पर्व च ततः कुरुपाण्डवसेनयोः ॥५२॥
ज्ञेयम् विवाद-पर्व अत्र कर्णस्य अपि महात्मनः । निर्याणम् पर्व च ततस् कुरु-पाण्डव-सेनयोः ॥५२॥
jñeyam vivāda-parva atra karṇasya api mahātmanaḥ . niryāṇam parva ca tatas kuru-pāṇḍava-senayoḥ ..52..
रथातिरथसङ्ख्या च पर्वोक्तं तदनन्तरम् । उलूकदूतागमनं पर्वामर्षविवर्धनम् ॥५३॥
रथ-अतिरथ-सङ्ख्या च पर्व उक्तम् तद्-अनन्तरम् । उलूक-दूत-आगमनम् पर्व आमर्ष-विवर्धनम् ॥५३॥
ratha-atiratha-saṅkhyā ca parva uktam tad-anantaram . ulūka-dūta-āgamanam parva āmarṣa-vivardhanam ..53..
अम्बोपाख्यानमपि च पर्व ज्ञेयमतः परम् । भीष्माभिषेचनं पर्व ज्ञेयमद्भुतकारणम् ॥५४॥
अम्बा-उपाख्यानम् अपि च पर्व ज्ञेयम् अतस् परम् । भीष्म-अभिषेचनम् पर्व ज्ञेयम् अद्भुत-कारणम् ॥५४॥
ambā-upākhyānam api ca parva jñeyam atas param . bhīṣma-abhiṣecanam parva jñeyam adbhuta-kāraṇam ..54..
जम्बूखण्डविनिर्माणं पर्वोक्तं तदनन्तरम् । भूमिपर्व ततो ज्ञेयं द्वीपविस्तरकीर्तनम् ॥५५॥
जम्बूखण्ड-विनिर्माणम् पर्व उक्तम् तद्-अनन्तरम् । भूमि-पर्व ततस् ज्ञेयम् द्वीप-विस्तर-कीर्तनम् ॥५५॥
jambūkhaṇḍa-vinirmāṇam parva uktam tad-anantaram . bhūmi-parva tatas jñeyam dvīpa-vistara-kīrtanam ..55..
पर्वोक्तं भगवद्गीता पर्व भीष्मवधस्ततः । द्रोणाभिषेकः पर्वोक्तं संशप्तकवधस्ततः ॥५६॥
पर्व उक्तम् भगवद्गीता पर्व भीष्म-वधः ततस् । द्रोण-अभिषेकः पर्व उक्तम् संशप्तक-वधः ततस् ॥५६॥
parva uktam bhagavadgītā parva bhīṣma-vadhaḥ tatas . droṇa-abhiṣekaḥ parva uktam saṃśaptaka-vadhaḥ tatas ..56..
अभिमन्युवधः पर्व प्रतिज्ञापर्व चोच्यते । जयद्रथवधः पर्व घटोत्कचवधस्ततः ॥५७॥
अभिमन्यु-वधः पर्व प्रतिज्ञा-पर्व च उच्यते । जयद्रथ-वधः पर्व घटोत्कच-वधः ततस् ॥५७॥
abhimanyu-vadhaḥ parva pratijñā-parva ca ucyate . jayadratha-vadhaḥ parva ghaṭotkaca-vadhaḥ tatas ..57..
ततो द्रोणवधः पर्व विज्ञेयं लोमहर्षणम् । मोक्षो नारायणास्त्रस्य पर्वानन्तरमुच्यते ॥५८॥
ततस् द्रोण-वधः पर्व विज्ञेयम् लोम-हर्षणम् । मोक्षः नारायण-अस्त्रस्य पर्व अनन्तरम् उच्यते ॥५८॥
tatas droṇa-vadhaḥ parva vijñeyam loma-harṣaṇam . mokṣaḥ nārāyaṇa-astrasya parva anantaram ucyate ..58..
कर्णपर्व ततो ज्ञेयं शल्यपर्व ततः परम् । ह्रदप्रवेशनं पर्व गदायुद्धमतः परम् ॥५९॥
कर्णपर्व ततस् ज्ञेयम् शल्यपर्व ततस् परम् । ह्रद-प्रवेशनम् पर्व गदा-युद्धम् अतस् परम् ॥५९॥
karṇaparva tatas jñeyam śalyaparva tatas param . hrada-praveśanam parva gadā-yuddham atas param ..59..
सारस्वतं ततः पर्व तीर्थवंशगुणान्वितम् । अत ऊर्ध्वं तु बीभत्सं पर्व सौप्तिकमुच्यते ॥६०॥
सारस्वतम् ततस् पर्व तीर्थ-वंश-गुण-अन्वितम् । अतस् ऊर्ध्वम् तु बीभत्सम् पर्व सौप्तिकम् उच्यते ॥६०॥
sārasvatam tatas parva tīrtha-vaṃśa-guṇa-anvitam . atas ūrdhvam tu bībhatsam parva sauptikam ucyate ..60..
ऐषीकं पर्व निर्दिष्टमत ऊर्ध्वं सुदारुणम् । जलप्रदानिकं पर्व स्त्रीपर्व च ततः परम् ॥६१॥
ऐषीकम् पर्व निर्दिष्टम् अतस् ऊर्ध्वम् सु दारुणम् । जल-प्रदानिकम् पर्व स्त्रीपर्व च ततस् परम् ॥६१॥
aiṣīkam parva nirdiṣṭam atas ūrdhvam su dāruṇam . jala-pradānikam parva strīparva ca tatas param ..61..
श्राद्धपर्व ततो ज्ञेयं कुरूणामौर्ध्वदेहिकम् । आभिषेचनिकं पर्व धर्मराजस्य धीमतः ॥६२॥
श्राद्ध-पर्व ततस् ज्ञेयम् कुरूणाम् और्ध्वदेहिकम् । आभिषेचनिकम् पर्व धर्मराजस्य धीमतः ॥६२॥
śrāddha-parva tatas jñeyam kurūṇām aurdhvadehikam . ābhiṣecanikam parva dharmarājasya dhīmataḥ ..62..
चार्वाकनिग्रहः पर्व रक्षसो ब्रह्मरूपिणः । प्रविभागो गृहाणां च पर्वोक्तं तदनन्तरम् ॥६३॥
चार्वाक-निग्रहः पर्व रक्षसः ब्रह्म-रूपिणः । प्रविभागः गृहाणाम् च पर्व उक्तम् तद्-अनन्तरम् ॥६३॥
cārvāka-nigrahaḥ parva rakṣasaḥ brahma-rūpiṇaḥ . pravibhāgaḥ gṛhāṇām ca parva uktam tad-anantaram ..63..
शान्तिपर्व ततो यत्र राजधर्मानुकीर्तनम् । आपद्धर्मश्च पर्वोक्तं मोक्षधर्मस्ततः परम् ॥६४॥
शान्तिपर्व ततस् यत्र राज-धर्म-अनुकीर्तनम् । आपद्-धर्मः च पर्व उक्तम् मोक्षधर्मः ततस् परम् ॥६४॥
śāntiparva tatas yatra rāja-dharma-anukīrtanam . āpad-dharmaḥ ca parva uktam mokṣadharmaḥ tatas param ..64..
ततः पर्व परिज्ञेयमानुशासनिकं परम् । स्वर्गारोहणिकं पर्व ततो भीष्मस्य धीमतः ॥६५॥
ततस् पर्व परिज्ञेयम् आनुशासनिकम् परम् । स्वर्ग-आरोहणिकम् पर्व ततस् भीष्मस्य धीमतः ॥६५॥
tatas parva parijñeyam ānuśāsanikam param . svarga-ārohaṇikam parva tatas bhīṣmasya dhīmataḥ ..65..
ततोऽश्वमेधिकं पर्व सर्वपापप्रणाशनम् । अनुगीता ततः पर्व ज्ञेयमध्यात्मवाचकम् ॥६६॥
ततस् अश्वमेधिकम् पर्व सर्व-पाप-प्रणाशनम् । अनुगीता ततस् पर्व ज्ञेयम् अध्यात्म-वाचकम् ॥६६॥
tatas aśvamedhikam parva sarva-pāpa-praṇāśanam . anugītā tatas parva jñeyam adhyātma-vācakam ..66..
पर्व चाश्रमवासाख्यं पुत्रदर्शनमेव च । नारदागमनं पर्व ततः परमिहोच्यते ॥६७॥
पर्व च आश्रम-वास-आख्यम् पुत्र-दर्शनम् एव च । नारद-आगमनम् पर्व ततस् परम् इह उच्यते ॥६७॥
parva ca āśrama-vāsa-ākhyam putra-darśanam eva ca . nārada-āgamanam parva tatas param iha ucyate ..67..
मौसलं पर्व च ततो घोरं समनुवर्ण्यते । महाप्रस्थानिकं पर्व स्वर्गारोहणिकं ततः ॥६८॥
मौसलम् पर्व च ततस् घोरम् समनुवर्ण्यते । महाप्रस्थानिकम् पर्व स्वर्ग-आरोहणिकम् ततस् ॥६८॥
mausalam parva ca tatas ghoram samanuvarṇyate . mahāprasthānikam parva svarga-ārohaṇikam tatas ..68..
हरिवंशस्ततः पर्व पुराणं खिलसञ्ज्ञितम् । भविष्यत्पर्व चाप्युक्तं खिलेष्वेवाद्भुतं महत् ॥६९॥
हरिवंशः ततस् पर्व पुराणम् खिल-सञ्ज्ञितम् । भविष्यत्-पर्व च अपि उक्तम् खिलेषु एव अद्भुतम् महत् ॥६९॥
harivaṃśaḥ tatas parva purāṇam khila-sañjñitam . bhaviṣyat-parva ca api uktam khileṣu eva adbhutam mahat ..69..
एतत्पर्वशतं पूर्णं व्यासेनोक्तं महात्मना । यथावत्सूतपुत्रेण लोमहर्षणिना पुनः ॥७०॥
एतत् पर्व-शतम् पूर्णम् व्यासेन उक्तम् महात्मना । यथावत् सूत-पुत्रेण लोमहर्षणिना पुनर् ॥७०॥
etat parva-śatam pūrṇam vyāsena uktam mahātmanā . yathāvat sūta-putreṇa lomaharṣaṇinā punar ..70..
कथितं नैमिषारण्ये पर्वाण्यष्टादशैव तु । समासो भारतस्यायं तत्रोक्तः पर्वसङ्ग्रहः ॥७१॥
कथितम् नैमिष-अरण्ये पर्वाणि अष्टादश एव तु । समासः भारतस्य अयम् तत्र उक्तः पर्व-सङ्ग्रहः ॥७१॥
kathitam naimiṣa-araṇye parvāṇi aṣṭādaśa eva tu . samāsaḥ bhāratasya ayam tatra uktaḥ parva-saṅgrahaḥ ..71..
पौष्ये पर्वणि माहात्म्यमुत्तङ्कस्योपवर्णितम् । पौलोमे भृगुवंशस्य विस्तारः परिकीर्तितः ॥७२॥
पौष्ये पर्वणि माहात्म्यम् उत्तङ्कस्य उपवर्णितम् । पौलोमे भृगु-वंशस्य विस्तारः परिकीर्तितः ॥७२॥
pauṣye parvaṇi māhātmyam uttaṅkasya upavarṇitam . paulome bhṛgu-vaṃśasya vistāraḥ parikīrtitaḥ ..72..
आस्तीके सर्वनागानां गरुडस्य च सम्भवः । क्षीरोदमथनं चैव जन्मोच्छैःश्रवसस्तथा ॥७३॥
आस्तीके सर्व-नागानाम् गरुडस्य च सम्भवः । क्षीरोद-मथनम् च एव ॥७३॥
āstīke sarva-nāgānām garuḍasya ca sambhavaḥ . kṣīroda-mathanam ca eva ..73..
यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च । कथेयमभिनिर्वृत्ता भारतानां महात्मनाम् ॥७४॥
यजतः सर्प-सत्रेण राज्ञः पारिक्षितस्य च । कथा इयम् अभिनिर्वृत्ता भारतानाम् महात्मनाम् ॥७४॥
yajataḥ sarpa-satreṇa rājñaḥ pārikṣitasya ca . kathā iyam abhinirvṛttā bhāratānām mahātmanām ..74..
विविधाः सम्भवा राज्ञामुक्ताः सम्भवपर्वणि । अन्येषां चैव विप्राणामृषेर्द्वैपायनस्य च ॥७५॥
विविधाः सम्भवाः राज्ञाम् उक्ताः सम्भव-पर्वणि । अन्येषाम् च एव विप्राणाम् ऋषेः द्वैपायनस्य च ॥७५॥
vividhāḥ sambhavāḥ rājñām uktāḥ sambhava-parvaṇi . anyeṣām ca eva viprāṇām ṛṣeḥ dvaipāyanasya ca ..75..
अंशावतरणं चात्र देवानां परिकीर्तितम् । दैत्यानां दानवानां च यक्षाणां च महौजसाम् ॥७६॥
अंशावतरणम् च अत्र देवानाम् परिकीर्तितम् । दैत्यानाम् दानवानाम् च यक्षाणाम् च महा-ओजसाम् ॥७६॥
aṃśāvataraṇam ca atra devānām parikīrtitam . daityānām dānavānām ca yakṣāṇām ca mahā-ojasām ..76..
नागानामथ सर्पाणां गन्धर्वाणां पतत्रिणाम् । अन्येषां चैव भूतानां विविधानां समुद्भवः ॥७७॥
नागानाम् अथ सर्पाणाम् गन्धर्वाणाम् पतत्रिणाम् । अन्येषाम् च एव भूतानाम् विविधानाम् समुद्भवः ॥७७॥
nāgānām atha sarpāṇām gandharvāṇām patatriṇām . anyeṣām ca eva bhūtānām vividhānām samudbhavaḥ ..77..
वसूनां पुनरुत्पत्तिर्भागीरथ्यां महात्मनाम् । शन्तनोर्वेश्मनि पुनस्तेषां चारोहणं दिवि ॥७८॥
वसूनाम् पुनरुत्पत्तिः भागीरथ्याम् महात्मनाम् । शन्तनोः वेश्मनि पुनर् तेषाम् च आरोहणम् दिवि ॥७८॥
vasūnām punarutpattiḥ bhāgīrathyām mahātmanām . śantanoḥ veśmani punar teṣām ca ārohaṇam divi ..78..
तेजोंशानां च सङ्घाताद्भीष्मस्याप्यत्र सम्भवः । राज्यान्निवर्तनं चैव ब्रह्मचर्यव्रते स्थितिः ॥७९॥
तेजः-ओंशानाम् च सङ्घातात् भीष्मस्य अपि अत्र सम्भवः । राज्यात् निवर्तनम् च एव ब्रह्मचर्य-व्रते स्थितिः ॥७९॥
tejaḥ-oṃśānām ca saṅghātāt bhīṣmasya api atra sambhavaḥ . rājyāt nivartanam ca eva brahmacarya-vrate sthitiḥ ..79..
प्रतिज्ञापालनं चैव रक्षा चित्राङ्गदस्य च । हते चित्राङ्गदे चैव रक्षा भ्रातुर्यवीयसः ॥८०॥
प्रतिज्ञा-पालनम् च एव रक्षा चित्राङ्गदस्य च । हते चित्राङ्गदे च एव रक्षा भ्रातुः यवीयसः ॥८०॥
pratijñā-pālanam ca eva rakṣā citrāṅgadasya ca . hate citrāṅgade ca eva rakṣā bhrātuḥ yavīyasaḥ ..80..
विचित्रवीर्यस्य तथा राज्ये सम्प्रतिपादनम् । धर्मस्य नृषु सम्भूतिरणीमाण्डव्यशापजा ॥८१॥
विचित्रवीर्यस्य तथा राज्ये सम्प्रतिपादनम् । धर्मस्य नृषु सम्भूतिः अणीमाण्डव्य-शाप-जा ॥८१॥
vicitravīryasya tathā rājye sampratipādanam . dharmasya nṛṣu sambhūtiḥ aṇīmāṇḍavya-śāpa-jā ..81..
कृष्णद्वैपायनाच्चैव प्रसूतिर्वरदानजा । धृतराष्ट्रस्य पाण्डोश्च पाण्डवानां च सम्भवः ॥८२॥
कृष्णद्वैपायनात् च एव प्रसूतिः वर-दान-जा । धृतराष्ट्रस्य पाण्डोः च पाण्डवानाम् च सम्भवः ॥८२॥
kṛṣṇadvaipāyanāt ca eva prasūtiḥ vara-dāna-jā . dhṛtarāṣṭrasya pāṇḍoḥ ca pāṇḍavānām ca sambhavaḥ ..82..
वारणावतयात्रा च मन्त्रो दुर्योधनस्य च । विदुरस्य च वाक्येन सुरुङ्गोपक्रमक्रिया ॥८३॥
वारणावत-यात्रा च मन्त्रः दुर्योधनस्य च । विदुरस्य च वाक्येन सुरुङ्ग-उपक्रम-क्रिया ॥८३॥
vāraṇāvata-yātrā ca mantraḥ duryodhanasya ca . vidurasya ca vākyena suruṅga-upakrama-kriyā ..83..
पाण्डवानां वने घोरे हिडिम्बायाश्च दर्शनम् । घटोत्कचस्य चोत्पत्तिरत्रैव परिकीर्तिता ॥८४॥
पाण्डवानाम् वने घोरे हिडिम्बायाः च दर्शनम् । घटोत्कचस्य च उत्पत्तिः अत्र एव परिकीर्तिता ॥८४॥
pāṇḍavānām vane ghore hiḍimbāyāḥ ca darśanam . ghaṭotkacasya ca utpattiḥ atra eva parikīrtitā ..84..
अज्ञातचर्या पाण्डूनां वासो ब्राह्मणवेश्मनि । बकस्य निधनं चैव नागराणां च विस्मयः ॥८५॥
अ ज्ञात-चर्या पाण्डूनाम् वासः ब्राह्मण-वेश्मनि । बकस्य निधनम् च एव नागराणाम् च विस्मयः ॥८५॥
a jñāta-caryā pāṇḍūnām vāsaḥ brāhmaṇa-veśmani . bakasya nidhanam ca eva nāgarāṇām ca vismayaḥ ..85..
अङ्गारपर्णं निर्जित्य गङ्गाकूलेऽर्जुनस्तदा । भ्रातृभिः सहितः सर्वैः पाञ्चालानभितो ययौ ॥८६॥
अङ्गारपर्णम् निर्जित्य गङ्गा-कूले अर्जुनः तदा । भ्रातृभिः सहितः सर्वैः पाञ्चालान् अभितस् ययौ ॥८६॥
aṅgāraparṇam nirjitya gaṅgā-kūle arjunaḥ tadā . bhrātṛbhiḥ sahitaḥ sarvaiḥ pāñcālān abhitas yayau ..86..
तापत्यमथ वासिष्ठमौर्वं चाख्यानमुत्तमम् । पञ्चेन्द्राणामुपाख्यानमत्रैवाद्भुतमुच्यते ॥८७॥
तापत्यम् अथ वासिष्ठम् और्वम् च आख्यानम् उत्तमम् । पञ्च-इन्द्राणाम् उपाख्यानम् अत्र एव अद्भुतम् उच्यते ॥८७॥
tāpatyam atha vāsiṣṭham aurvam ca ākhyānam uttamam . pañca-indrāṇām upākhyānam atra eva adbhutam ucyate ..87..
पञ्चानामेकपत्नीत्वे विमर्शो द्रुपदस्य च । द्रौपद्या देवविहितो विवाहश्चाप्यमानुषः ॥८८॥
पञ्चानाम् एक-पत्नी-त्वे विमर्शः द्रुपदस्य च । द्रौपद्याः देव-विहितः विवाहः च अपि अमानुषः ॥८८॥
pañcānām eka-patnī-tve vimarśaḥ drupadasya ca . draupadyāḥ deva-vihitaḥ vivāhaḥ ca api amānuṣaḥ ..88..
विदुरस्य च सम्प्राप्तिर्दर्शनं केशवस्य च । खाण्डवप्रस्थवासश्च तथा राज्यार्धशासनम् ॥८९॥
विदुरस्य च सम्प्राप्तिः दर्शनम् केशवस्य च । खाण्डवप्रस्थ-वासः च तथा राज्य-अर्ध-शासनम् ॥८९॥
vidurasya ca samprāptiḥ darśanam keśavasya ca . khāṇḍavaprastha-vāsaḥ ca tathā rājya-ardha-śāsanam ..89..
नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया । सुन्दोपसुन्दयोस्तत्र उपाख्यानं प्रकीर्तितम् ॥९०॥
नारदस्य आज्ञया च एव द्रौपद्याः समयक्रिया । सुन्द-उपसुन्दयोः तत्र उपाख्यानम् प्रकीर्तितम् ॥९०॥
nāradasya ājñayā ca eva draupadyāḥ samayakriyā . sunda-upasundayoḥ tatra upākhyānam prakīrtitam ..90..
पार्थस्य वनवासश्च उलूप्या पथि सङ्गमः । पुण्यतीर्थानुसंयानं बभ्रुवाहनजन्म च ॥९१॥
पार्थस्य वन-वासः च उलूप्या पथि सङ्गमः । पुण्य-तीर्थ-अनुसंयानम् बभ्रुवाहन-जन्म च ॥९१॥
pārthasya vana-vāsaḥ ca ulūpyā pathi saṅgamaḥ . puṇya-tīrtha-anusaṃyānam babhruvāhana-janma ca ..91..
द्वारकायां सुभद्रा च कामयानेन कामिनी । वासुदेवस्यानुमते प्राप्ता चैव किरीटिना ॥९२॥
द्वारकायाम् सुभद्रा च कामयानेन कामिनी । वासुदेवस्य अनुमते प्राप्ता च एव किरीटिना ॥९२॥
dvārakāyām subhadrā ca kāmayānena kāminī . vāsudevasya anumate prāptā ca eva kirīṭinā ..92..
हरणं गृह्य सम्प्राप्ते कृष्णे देवकिनन्दने । सम्प्राप्तिश्चक्रधनुषोः खाण्डवस्य च दाहनम् ॥९३॥
हरणम् गृह्य सम्प्राप्ते कृष्णे देवकी-नन्दने । सम्प्राप्तिः चक्र-धनुषोः खाण्डवस्य च दाहनम् ॥९३॥
haraṇam gṛhya samprāpte kṛṣṇe devakī-nandane . samprāptiḥ cakra-dhanuṣoḥ khāṇḍavasya ca dāhanam ..93..
अभिमन्योः सुभद्रायां जन्म चोत्तमतेजसः । मयस्य मोक्षो ज्वलनाद्भुजङ्गस्य च मोक्षणम् ॥९४॥ (महर्षेर्मन्दपालस्य शार्ङ्ग्यं तनयसम्भवः ॥९४॥ )
अभिमन्योः सुभद्रायाम् जन्म च उत्तम-तेजसः । मयस्य मोक्षः ज्वलनात् भुजङ्गस्य च मोक्षणम् ॥९४॥ (महा-ऋषेः मन्दपालस्य शार्ङ्ग्यम् तनय-सम्भवः ॥९४॥ )
abhimanyoḥ subhadrāyām janma ca uttama-tejasaḥ . mayasya mokṣaḥ jvalanāt bhujaṅgasya ca mokṣaṇam ..94.. (mahā-ṛṣeḥ mandapālasya śārṅgyam tanaya-sambhavaḥ ..94.. )
इत्येतदाधिपर्वोक्तं प्रथमं बहुविस्तरम् । अध्यायानां शते द्वे तु सङ्ख्याते परमर्षिणा ॥९५॥ (अष्टादशैव चाध्याया व्यासेनोत्तमतेजसा ॥९५॥ )
इति एतत् आधिपर्व उक्तम् प्रथमम् बहु-विस्तरम् । अध्यायानाम् शते द्वे तु सङ्ख्याते परम-ऋषिणा ॥९५॥ (अष्टादश एव च अध्यायाः व्यासेन उत्तम-तेजसा ॥९५॥ )
iti etat ādhiparva uktam prathamam bahu-vistaram . adhyāyānām śate dve tu saṅkhyāte parama-ṛṣiṇā ..95.. (aṣṭādaśa eva ca adhyāyāḥ vyāsena uttama-tejasā ..95.. )
सप्त श्लोकसहस्राणि तथा नव शतानि च । श्लोकाश्च चतुराशीतिर्दृष्टो ग्रन्थो महात्मना ॥९६॥
सप्त श्लोक-सहस्राणि तथा नव शतानि च । श्लोकाः च दृष्टः ग्रन्थः महात्मना ॥९६॥
sapta śloka-sahasrāṇi tathā nava śatāni ca . ślokāḥ ca dṛṣṭaḥ granthaḥ mahātmanā ..96..
द्वितीयं तु सभापर्व बहुवृत्तान्तमुच्यते । सभाक्रिया पाण्डवानां किङ्कराणां च दर्शनम् ॥९७॥
द्वितीयम् तु सभापर्व बहु-वृत्तान्तम् उच्यते । सभा-क्रिया पाण्डवानाम् किङ्कराणाम् च दर्शनम् ॥९७॥
dvitīyam tu sabhāparva bahu-vṛttāntam ucyate . sabhā-kriyā pāṇḍavānām kiṅkarāṇām ca darśanam ..97..
लोकपालसभाख्यानं नारदाद्देवदर्शनात् । राजसूयस्य चारम्भो जरासन्धवधस्तथा ॥९८॥
लोकपाल-सभा-आख्यानम् नारदात् देवदर्शनात् । राजसूयस्य च आरम्भः जरासन्ध-वधः तथा ॥९८॥
lokapāla-sabhā-ākhyānam nāradāt devadarśanāt . rājasūyasya ca ārambhaḥ jarāsandha-vadhaḥ tathā ..98..
गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मोक्षणम् । राजसूयेऽर्घसंवादे शिशुपालवधस्तथा ॥९९॥
गिरिव्रजे निरुद्धानाम् राज्ञाम् कृष्णेन मोक्षणम् । राजसूये अर्घ-संवादे शिशुपाल-वधः तथा ॥९९॥
girivraje niruddhānām rājñām kṛṣṇena mokṣaṇam . rājasūye argha-saṃvāde śiśupāla-vadhaḥ tathā ..99..
यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च । दुर्योधनस्यावहासो भीमेन च सभातले ॥१००॥
यज्ञे विभूतिम् ताम् दृष्ट्वा दुःख-अमर्ष-अन्वितस्य च । दुर्योधनस्य अवहासः भीमेन च सभा-तले ॥१००॥
yajñe vibhūtim tām dṛṣṭvā duḥkha-amarṣa-anvitasya ca . duryodhanasya avahāsaḥ bhīmena ca sabhā-tale ..100..
यत्रास्य मन्युरुद्भूतो येन द्यूतमकारयत् । यत्र धर्मसुतं द्यूते शकुनिः कितवोऽजयत् ॥१०१॥
यत्र अस्य मन्युः उद्भूतः येन द्यूतम् अकारयत् । यत्र धर्मसुतम् द्यूते शकुनिः कितवः अजयत् ॥१०१॥
yatra asya manyuḥ udbhūtaḥ yena dyūtam akārayat . yatra dharmasutam dyūte śakuniḥ kitavaḥ ajayat ..101..
यत्र द्यूतार्णवे मग्नान्द्रौपदी नौरिवार्णवात् । तारयामास तांस्तीर्णाञ्ज्ञात्वा दुर्योधनो नृपः ॥१०२॥ ( पुनरेव ततो द्यूते समाह्वयत पाण्डवान् ॥१०२॥ )
यत्र द्यूत-अर्णवे मग्नान् द्रौपदी नौः इव अर्णवात् । तारयामास तान् तीर्णान् ज्ञात्वा दुर्योधनः नृपः ॥१०२॥ ( पुनर् एव ततस् द्यूते समाह्वयत पाण्डवान् ॥१०२॥ )
yatra dyūta-arṇave magnān draupadī nauḥ iva arṇavāt . tārayāmāsa tān tīrṇān jñātvā duryodhanaḥ nṛpaḥ ..102.. ( punar eva tatas dyūte samāhvayata pāṇḍavān ..102.. )
एतत्सर्वं सभापर्व समाख्यातं महात्मना । अध्यायाः सप्ततिर्ज्ञेयास्तथा द्वौ चात्र सङ्ख्यया ॥१०३॥
एतत् सर्वम् सभापर्व समाख्यातम् महात्मना । अध्यायाः सप्ततिः ज्ञेयाः तथा द्वौ च अत्र सङ्ख्यया ॥१०३॥
etat sarvam sabhāparva samākhyātam mahātmanā . adhyāyāḥ saptatiḥ jñeyāḥ tathā dvau ca atra saṅkhyayā ..103..
श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च । श्लोकाश्चैकादश ज्ञेयाः पर्वण्यस्मिन्प्रकीर्तिताः ॥१०४॥
श्लोकानाम् द्वे सहस्रे तु पञ्च श्लोक-शतानि च । श्लोकाः च एकादश ज्ञेयाः पर्वणि अस्मिन् प्रकीर्तिताः ॥१०४॥
ślokānām dve sahasre tu pañca śloka-śatāni ca . ślokāḥ ca ekādaśa jñeyāḥ parvaṇi asmin prakīrtitāḥ ..104..
अतः परं तृतीयं तु ज्ञेयमारण्यकं महत् । पौरानुगमनं चैव धर्मपुत्रस्य धीमतः ॥१०५॥
अतस् परम् तृतीयम् तु ज्ञेयम् आरण्यकम् महत् । पौर-अनुगमनम् च एव धर्मपुत्रस्य धीमतः ॥१०५॥
atas param tṛtīyam tu jñeyam āraṇyakam mahat . paura-anugamanam ca eva dharmaputrasya dhīmataḥ ..105..
वृष्णीनामागमो यत्र पाञ्चालानां च सर्वशः । यत्र सौभवधाख्यानं किर्मीरवध एव च ॥१०६॥ ( अस्त्रहेतोर्विवासश्च पार्थस्यामिततेजसः ॥१०६॥ )
वृष्णीनाम् आगमः यत्र पाञ्चालानाम् च सर्वशस् । यत्र सौभ-वध-आख्यानम् किर्मीर-वधः एव च ॥१०६॥ ( अस्त्र-हेतोः विवासः च पार्थस्य अमित-तेजसः ॥१०६॥ )
vṛṣṇīnām āgamaḥ yatra pāñcālānām ca sarvaśas . yatra saubha-vadha-ākhyānam kirmīra-vadhaḥ eva ca ..106.. ( astra-hetoḥ vivāsaḥ ca pārthasya amita-tejasaḥ ..106.. )
महादेवेन युद्धं च किरातवपुषा सह । दर्शनं लोकपालानां स्वर्गारोहणमेव च ॥१०७॥
महादेवेन युद्धम् च किरात-वपुषा सह । दर्शनम् लोकपालानाम् स्वर्ग-आरोहणम् एव च ॥१०७॥
mahādevena yuddham ca kirāta-vapuṣā saha . darśanam lokapālānām svarga-ārohaṇam eva ca ..107..
दर्शनं बृहदश्वस्य महर्षेर्भावितात्मनः । युधिष्ठिरस्य चार्तस्य व्यसने परिदेवनम् ॥१०८॥
दर्शनम् बृहदश्वस्य महा-ऋषेः भावितात्मनः । युधिष्ठिरस्य च आर्तस्य व्यसने परिदेवनम् ॥१०८॥
darśanam bṛhadaśvasya mahā-ṛṣeḥ bhāvitātmanaḥ . yudhiṣṭhirasya ca ārtasya vyasane paridevanam ..108..
नलोपाख्यानमत्रैव धर्मिष्ठं करुणोदयम् । दमयन्त्याः स्थितिर्यत्र नलस्य व्यसनागमे ॥१०९॥
नल-उपाख्यानम् अत्र एव धर्मिष्ठम् करुणा-उदयम् । दमयन्त्याः स्थितिः यत्र नलस्य व्यसन-आगमे ॥१०९॥
nala-upākhyānam atra eva dharmiṣṭham karuṇā-udayam . damayantyāḥ sthitiḥ yatra nalasya vyasana-āgame ..109..
वनवासगतानां च पाण्डवानां महात्मनाम् । स्वर्गे प्रवृत्तिराख्याता लोमशेनार्जुनस्य वै ॥११०॥
वन-वास-गतानाम् च पाण्डवानाम् महात्मनाम् । स्वर्गे प्रवृत्तिः आख्याता लोमशेन अर्जुनस्य वै ॥११०॥
vana-vāsa-gatānām ca pāṇḍavānām mahātmanām . svarge pravṛttiḥ ākhyātā lomaśena arjunasya vai ..110..
तीर्थयात्रा तथैवात्र पाण्डवानां महात्मनाम् । जटासुरस्य तत्रैव वधः समुपवर्ण्यते ॥१११॥
तीर्थ-यात्रा तथा एव अत्र पाण्डवानाम् महात्मनाम् । जटासुरस्य तत्र एव वधः समुपवर्ण्यते ॥१११॥
tīrtha-yātrā tathā eva atra pāṇḍavānām mahātmanām . jaṭāsurasya tatra eva vadhaḥ samupavarṇyate ..111..
नियुक्तो भीमसेनश्च द्रौपद्या गन्धमादने । यत्र मन्दारपुष्पार्थं नलिनीं तामधर्षयत् ॥११२॥
नियुक्तः भीमसेनः च द्रौपद्या गन्धमादने । यत्र मन्दार-पुष्प-अर्थम् नलिनीम् ताम् अधर्षयत् ॥११२॥
niyuktaḥ bhīmasenaḥ ca draupadyā gandhamādane . yatra mandāra-puṣpa-artham nalinīm tām adharṣayat ..112..
यत्रास्य सुमहद्युद्धमभवत्सह राक्षसैः । यक्षैश्चापि महावीर्यैर्मणिमत्प्रमुखैस्तथा ॥११३॥
यत्र अस्य सु महत् युद्धम् अभवत् सह राक्षसैः । यक्षैः च अपि महा-वीर्यैः मणिमत्-प्रमुखैः तथा ॥११३॥
yatra asya su mahat yuddham abhavat saha rākṣasaiḥ . yakṣaiḥ ca api mahā-vīryaiḥ maṇimat-pramukhaiḥ tathā ..113..
आगस्त्यमपि चाख्यानं यत्र वातापिभक्षणम् । लोपामुद्राभिगमनमपत्यार्थमृषेरपि ॥११४॥
आगस्त्यम् अपि च आख्यानम् यत्र वातापि-भक्षणम् । लोपामुद्रा-अभिगमनम् अपत्य-अर्थम् ऋषेः अपि ॥११४॥
āgastyam api ca ākhyānam yatra vātāpi-bhakṣaṇam . lopāmudrā-abhigamanam apatya-artham ṛṣeḥ api ..114..
ततः श्येनकपोतीयमुपाख्यानमनन्तरम् । इन्द्रोऽग्निर्यत्र धर्मश्च अजिज्ञासञ्शिबिं नृपम् ॥११५॥
ततस् श्येनकपोतीयम् उपाख्यानम् अनन्तरम् । इन्द्रः अग्निः यत्र धर्मः च अजिज्ञासन् शिबिम् नृपम् ॥११५॥
tatas śyenakapotīyam upākhyānam anantaram . indraḥ agniḥ yatra dharmaḥ ca ajijñāsan śibim nṛpam ..115..
ऋश्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः । जामदग्न्यस्य रामस्य चरितं भूरितेजसः ॥११६॥
ऋश्यशृङ्गस्य चरितम् कौमार-ब्रह्मचारिणः । जामदग्न्यस्य रामस्य चरितम् भूरि-तेजसः ॥११६॥
ṛśyaśṛṅgasya caritam kaumāra-brahmacāriṇaḥ . jāmadagnyasya rāmasya caritam bhūri-tejasaḥ ..116..
कार्तवीर्यवधो यत्र हैहयानां च वर्ण्यते । सौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः ॥११७॥
कार्तवीर्य-वधः यत्र हैहयानाम् च वर्ण्यते । सौकन्यम् अपि च आख्यानम् च्यवनः यत्र भार्गवः ॥११७॥
kārtavīrya-vadhaḥ yatra haihayānām ca varṇyate . saukanyam api ca ākhyānam cyavanaḥ yatra bhārgavaḥ ..117..
शर्यातियज्ञे नासत्यौ कृतवान्सोमपीथिनौ । ताभ्यां च यत्र स मुनिर्यौवनं प्रतिपादितः ॥११८॥
शर्याति-यज्ञे नासत्यौ कृतवान् सोम-पीथिनौ । ताभ्याम् च यत्र स मुनिः यौवनम् प्रतिपादितः ॥११८॥
śaryāti-yajñe nāsatyau kṛtavān soma-pīthinau . tābhyām ca yatra sa muniḥ yauvanam pratipāditaḥ ..118..
जन्तूपाख्यानमत्रैव यत्र पुत्रेण सोमकः । पुत्रार्थमयजद्राजा लेभे पुत्रशतं च सः ॥११९॥
जन्तु-उपाख्यानम् अत्र एव यत्र पुत्रेण सोमकः । पुत्र-अर्थम् अयजत् राजा लेभे पुत्र-शतम् च सः ॥११९॥
jantu-upākhyānam atra eva yatra putreṇa somakaḥ . putra-artham ayajat rājā lebhe putra-śatam ca saḥ ..119..
अष्टावक्रीयमत्रैव विवादे यत्र बन्दिनम् । विजित्य सागरं प्राप्तं पितरं लब्धवानृषिः ॥१२०॥
अष्टावक्रीयम् अत्र एव विवादे यत्र बन्दिनम् । विजित्य सागरम् प्राप्तम् पितरम् लब्धवान् ऋषिः ॥१२०॥
aṣṭāvakrīyam atra eva vivāde yatra bandinam . vijitya sāgaram prāptam pitaram labdhavān ṛṣiḥ ..120..
अवाप्य दिव्यान्यस्त्राणि गुर्वर्थे सव्यसाचिना । निवातकवचैर्युद्धं हिरण्यपुरवासिभिः ॥१२१॥
अवाप्य दिव्यानि अस्त्राणि गुरु-अर्थे सव्यसाचिना । निवात-कवचैः युद्धम् हिरण्यपुर-वासिभिः ॥१२१॥
avāpya divyāni astrāṇi guru-arthe savyasācinā . nivāta-kavacaiḥ yuddham hiraṇyapura-vāsibhiḥ ..121..
समागमश्च पार्थस्य भ्रातृभिर्गन्धमादने । घोषयात्रा च गन्धर्वैर्यत्र युद्धं किरीटिनः ॥१२२॥
समागमः च पार्थस्य भ्रातृभिः गन्धमादने । घोष-यात्रा च गन्धर्वैः यत्र युद्धम् किरीटिनः ॥१२२॥
samāgamaḥ ca pārthasya bhrātṛbhiḥ gandhamādane . ghoṣa-yātrā ca gandharvaiḥ yatra yuddham kirīṭinaḥ ..122..
पुनरागमनं चैव तेषां द्वैतवनं सरः । जयद्रथेनापहारो द्रौपद्याश्चाश्रमान्तरात् ॥१२३॥
पुनरागमनम् च एव तेषाम् द्वैतवनम् सरः । जयद्रथेन अपहारः द्रौपद्याः च आश्रम-अन्तरात् ॥१२३॥
punarāgamanam ca eva teṣām dvaitavanam saraḥ . jayadrathena apahāraḥ draupadyāḥ ca āśrama-antarāt ..123..
यत्रैनमन्वयाद्भीमो वायुवेगसमो जवे । मार्कण्डेयसमस्यायामुपाख्यानानि भागशः ॥१२४॥
यत्र एनम् अन्वयात् भीमः वायु-वेग-समः जवे । मार्कण्डेय-समस्यायाम् उपाख्यानानि भागशस् ॥१२४॥
yatra enam anvayāt bhīmaḥ vāyu-vega-samaḥ jave . mārkaṇḍeya-samasyāyām upākhyānāni bhāgaśas ..124..
संदर्शनं च कृष्णस्य संवादश्चैव सत्यया । व्रीहिद्रौणिकमाख्यानमैन्द्रद्युम्नं तथैव च ॥१२५॥
संदर्शनम् च कृष्णस्य संवादः च एव सत्यया । व्रीहि-द्रौणिकम् आख्यानम् ऐन्द्रद्युम्नम् तथा एव च ॥१२५॥
saṃdarśanam ca kṛṣṇasya saṃvādaḥ ca eva satyayā . vrīhi-drauṇikam ākhyānam aindradyumnam tathā eva ca ..125..
सावित्र्यौद्दालकीयं च वैन्योपाख्यानमेव च । रामायणमुपाख्यानमत्रैव बहुविस्तरम् ॥१२६॥
सावित्री-औद्दालकीयम् च वैन्य-उपाख्यानम् एव च । रामायणम् उपाख्यानम् अत्र एव बहु-विस्तरम् ॥१२६॥
sāvitrī-auddālakīyam ca vainya-upākhyānam eva ca . rāmāyaṇam upākhyānam atra eva bahu-vistaram ..126..
कर्णस्य परिमोषोऽत्र कुण्डलाभ्यां पुरंदरात् । आरणेयमुपाख्यानं यत्र धर्मोऽन्वशात्सुतम् ॥१२७॥ ( जग्मुर्लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम् ॥१२७॥ )
कर्णस्य परिमोषः अत्र कुण्डलाभ्याम् पुरंदरात् । आरणेयम् उपाख्यानम् यत्र धर्मः अन्वशात् सुतम् ॥१२७॥ ( जग्मुः लब्ध-वराः यत्र पाण्डवाः पश्चिमाम् दिशम् ॥१२७॥ )
karṇasya parimoṣaḥ atra kuṇḍalābhyām puraṃdarāt . āraṇeyam upākhyānam yatra dharmaḥ anvaśāt sutam ..127.. ( jagmuḥ labdha-varāḥ yatra pāṇḍavāḥ paścimām diśam ..127.. )
एतदारण्यकं पर्व तृतीयं परिकीर्तितम् । अत्राध्यायशते द्वे तु सङ्ख्याते परमर्षिणा ॥१२८॥ ( एकोनसप्ततिश्चैव तथाध्यायाः प्रकीर्तिताः ॥१२८॥ )
एतत् आरण्यकम् पर्व तृतीयम् परिकीर्तितम् । अत्र अध्याय-शते द्वे तु सङ्ख्याते परम-ऋषिणा ॥१२८॥ ( एकोन-सप्ततिः च एव तथा अध्यायाः प्रकीर्तिताः ॥१२८॥ )
etat āraṇyakam parva tṛtīyam parikīrtitam . atra adhyāya-śate dve tu saṅkhyāte parama-ṛṣiṇā ..128.. ( ekona-saptatiḥ ca eva tathā adhyāyāḥ prakīrtitāḥ ..128.. )
एकादश सहस्राणि श्लोकानां षट्शतानि च । चतुःषष्टिस्तथा श्लोकाः पर्वैतत्परिकीर्तितम् ॥१२९॥
एकादश सहस्राणि श्लोकानाम् षष्-शतानि च । चतुःषष्टिः तथा श्लोकाः पर्व एतत् परिकीर्तितम् ॥१२९॥
ekādaśa sahasrāṇi ślokānām ṣaṣ-śatāni ca . catuḥṣaṣṭiḥ tathā ślokāḥ parva etat parikīrtitam ..129..
अतः परं निबोधेदं वैराटं पर्वविस्तरम् । विराटनगरं गत्वा श्मशाने विपुलां शमीम् ॥१३०॥ ( दृष्ट्वा संनिदधुस्तत्र पाण्डवा आयुधान्युत ॥१३०॥ )
अतस् परम् निबोध इदम् वैराटम् पर्व-विस्तरम् । विराट-नगरम् गत्वा श्मशाने विपुलाम् शमीम् ॥१३०॥ ( दृष्ट्वा संनिदधुः तत्र पाण्डवाः आयुधानि उत ॥१३०॥ )
atas param nibodha idam vairāṭam parva-vistaram . virāṭa-nagaram gatvā śmaśāne vipulām śamīm ..130.. ( dṛṣṭvā saṃnidadhuḥ tatra pāṇḍavāḥ āyudhāni uta ..130.. )
यत्र प्रविश्य नगरं छद्मभिर्न्यवसन्त ते । दुरात्मनो वधो यत्र कीचकस्य वृकोदरात् ॥१३१॥
यत्र प्रविश्य नगरम् छद्मभिः न्यवसन्त ते । दुरात्मनः वधः यत्र कीचकस्य वृकोदरात् ॥१३१॥
yatra praviśya nagaram chadmabhiḥ nyavasanta te . durātmanaḥ vadhaḥ yatra kīcakasya vṛkodarāt ..131..
गोग्रहे यत्र पार्थेन निर्जिताः कुरवो युधि । गोधनं च विराटस्य मोक्षितं यत्र पाण्डवैः ॥१३२॥ 1.2.212
गोग्रहे यत्र पार्थेन निर्जिताः कुरवः युधि । गो-धनम् च विराटस्य मोक्षितम् यत्र पाण्डवैः ॥१३२॥ १।२।२१२
gograhe yatra pārthena nirjitāḥ kuravaḥ yudhi . go-dhanam ca virāṭasya mokṣitam yatra pāṇḍavaiḥ ..132.. 1.2.212
विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनः । अभिमन्युं समुद्दिश्य सौभद्रमरिघातिनम् ॥१३३॥
विराटेन उत्तरा दत्ता स्नुषा यत्र किरीटिनः । अभिमन्युम् समुद्दिश्य सौभद्रम् अरि-घातिनम् ॥१३३॥
virāṭena uttarā dattā snuṣā yatra kirīṭinaḥ . abhimanyum samuddiśya saubhadram ari-ghātinam ..133..
चतुर्थमेतद्विपुलं वैराटं पर्व वर्णितम् । अत्रापि परिसङ्ख्यातमध्यायानां महात्मना ॥१३४॥
चतुर्थम् एतत् विपुलम् वैराटम् पर्व वर्णितम् । अत्रा अपि परिसङ्ख्यातम् अध्यायानाम् महात्मना ॥१३४॥
caturtham etat vipulam vairāṭam parva varṇitam . atrā api parisaṅkhyātam adhyāyānām mahātmanā ..134..
सप्तषष्टिरथो पूर्णा श्लोकाग्रमपि मे शृणु । श्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशदेव तु ॥१३५॥ ( पर्वण्यस्मिन्समाख्याताः सङ्ख्यया परमर्षिणा ॥१३५॥ )
सप्तषष्टिः अथो पूर्णा श्लोक-अग्रम् अपि मे शृणु । श्लोकानाम् द्वे सहस्रे तु श्लोकाः पञ्चाशत् एव तु ॥१३५॥ ( पर्वणि अस्मिन् समाख्याताः सङ्ख्यया परम-ऋषिणा ॥१३५॥ )
saptaṣaṣṭiḥ atho pūrṇā śloka-agram api me śṛṇu . ślokānām dve sahasre tu ślokāḥ pañcāśat eva tu ..135.. ( parvaṇi asmin samākhyātāḥ saṅkhyayā parama-ṛṣiṇā ..135.. )
उद्योगपर्व विज्ञेयं पञ्चमं शृण्वतः परम् । उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया ॥१३६॥ ( दुर्योधनोऽर्जुनश्चैव वासुदेवमुपस्थितौ ॥१३६॥ )
उद्योगपर्व विज्ञेयम् पञ्चमम् शृण्वतः परम् । उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया ॥१३६॥ ( दुर्योधनः अर्जुनः च एव वासुदेवम् उपस्थितौ ॥१३६॥ )
udyogaparva vijñeyam pañcamam śṛṇvataḥ param . upaplavye niviṣṭeṣu pāṇḍaveṣu jigīṣayā ..136.. ( duryodhanaḥ arjunaḥ ca eva vāsudevam upasthitau ..136.. )
साहाय्यमस्मिन्समरे भवान्नौ कर्तुमर्हति । इत्युक्ते वचने कृष्णो यत्रोवाच महामतिः ॥१३७॥
साहाय्यम् अस्मिन् समरे भवान् नौ कर्तुम् अर्हति । इति उक्ते वचने कृष्णः यत्र उवाच महामतिः ॥१३७॥
sāhāyyam asmin samare bhavān nau kartum arhati . iti ukte vacane kṛṣṇaḥ yatra uvāca mahāmatiḥ ..137..
अयुध्यमानमात्मानं मन्त्रिणं पुरुषर्षभौ । अक्षौहिणीं वा सैन्यस्य कस्य वा किं ददाम्यहम् ॥१३८॥
अयुध्यमानम् आत्मानम् मन्त्रिणम् पुरुष-ऋषभौ । अक्षौहिणीम् वा सैन्यस्य कस्य वा किम् ददामि अहम् ॥१३८॥
ayudhyamānam ātmānam mantriṇam puruṣa-ṛṣabhau . akṣauhiṇīm vā sainyasya kasya vā kim dadāmi aham ..138..
वव्रे दुर्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः । अयुध्यमानं सचिवं वव्रे कृष्णं धनञ्जयः ॥१३९॥
वव्रे दुर्योधनः सैन्यम् मन्द-आत्मा यत्र दुर्मतिः । अयुध्यमानम् सचिवम् वव्रे कृष्णम् धनञ्जयः ॥१३९॥
vavre duryodhanaḥ sainyam manda-ātmā yatra durmatiḥ . ayudhyamānam sacivam vavre kṛṣṇam dhanañjayaḥ ..139..
सञ्जयं प्रेषयामास शमार्थं पाण्डवान्प्रति । यत्र दूतं महाराजो धृतराष्ट्रः प्रतापवान् ॥१४०॥
सञ्जयम् प्रेषयामास शम-अर्थम् पाण्डवान् प्रति । यत्र दूतम् महा-राजः धृतराष्ट्रः प्रतापवान् ॥१४०॥
sañjayam preṣayāmāsa śama-artham pāṇḍavān prati . yatra dūtam mahā-rājaḥ dhṛtarāṣṭraḥ pratāpavān ..140..
श्रुत्वा च पाण्डवान्यत्र वासुदेवपुरोगमान् । प्रजागरः सम्प्रजज्ञे धृतराष्ट्रस्य चिन्तया ॥१४१॥
श्रुत्वा च पाण्डवान् यत्र वासुदेव-पुरोगमान् । प्रजागरः सम्प्रजज्ञे धृतराष्ट्रस्य चिन्तया ॥१४१॥
śrutvā ca pāṇḍavān yatra vāsudeva-purogamān . prajāgaraḥ samprajajñe dhṛtarāṣṭrasya cintayā ..141..
विदुरो यत्र वाक्यानि विचित्राणि हितानि च । श्रावयामास राजानं धृतराष्ट्रं मनीषिणम् ॥१४२॥
विदुरः यत्र वाक्यानि विचित्राणि हितानि च । श्रावयामास राजानम् धृतराष्ट्रम् मनीषिणम् ॥१४२॥
viduraḥ yatra vākyāni vicitrāṇi hitāni ca . śrāvayāmāsa rājānam dhṛtarāṣṭram manīṣiṇam ..142..
तथा सनत्सुजातेन यत्राध्यात्ममनुत्तमम् । मनस्तापान्वितो राजा श्रावितः शोकलालसः ॥१४३॥
तथा सनत्सुजातेन यत्र अध्यात्मम् अनुत्तमम् । मनः-ताप-अन्वितः राजा श्रावितः शोक-लालसः ॥१४३॥
tathā sanatsujātena yatra adhyātmam anuttamam . manaḥ-tāpa-anvitaḥ rājā śrāvitaḥ śoka-lālasaḥ ..143..
प्रभाते राजसमितौ सञ्जयो यत्र चाभिभोः । ऐकात्म्यं वासुदेवस्य प्रोक्तवानर्जुनस्य च ॥१४४॥
प्रभाते राज-समितौ सञ्जयः यत्र । ऐकात्म्यम् वासुदेवस्य प्रोक्तवान् अर्जुनस्य च ॥१४४॥
prabhāte rāja-samitau sañjayaḥ yatra . aikātmyam vāsudevasya proktavān arjunasya ca ..144..
यत्र कृष्णो दयापन्नः सन्धिमिच्छन्महायशाः । स्वयमागाच्छमं कर्तुं नगरं नागसाह्वयम् ॥१४५॥
यत्र कृष्णः दया-आपन्नः सन्धिम् इच्छन् महा-यशाः । स्वयम् आगात् शमम् कर्तुम् नगरम् नागसाह्वयम् ॥१४५॥
yatra kṛṣṇaḥ dayā-āpannaḥ sandhim icchan mahā-yaśāḥ . svayam āgāt śamam kartum nagaram nāgasāhvayam ..145..
प्रत्याख्यानं च कृष्णस्य राज्ञा दुर्योधनेन वै । शमार्थं याचमानस्य पक्षयोरुभयोर्हितम् ॥१४६॥
प्रत्याख्यानम् च कृष्णस्य राज्ञा दुर्योधनेन वै । शम-अर्थम् याचमानस्य पक्षयोः उभयोः हितम् ॥१४६॥
pratyākhyānam ca kṛṣṇasya rājñā duryodhanena vai . śama-artham yācamānasya pakṣayoḥ ubhayoḥ hitam ..146..
कर्णदुर्योधनादीनां दुष्टं विज्ञाय मन्त्रितम् । योगेश्वरत्वं कृष्णेन यत्र राजसु दर्शितम् ॥१४७॥
कर्ण-दुर्योधन-आदीनाम् दुष्टम् विज्ञाय मन्त्रितम् । योग-ईश्वर-त्वम् कृष्णेन यत्र राजसु दर्शितम् ॥१४७॥
karṇa-duryodhana-ādīnām duṣṭam vijñāya mantritam . yoga-īśvara-tvam kṛṣṇena yatra rājasu darśitam ..147..
रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितः । उपायपूर्वं शौण्डीर्यात्प्रत्याख्यातश्च तेन सः ॥१४८॥
रथम् आरोप्य कृष्णेन यत्र कर्णः अनुमन्त्रितः । उपाय-पूर्वम् शौण्डीर्यात् प्रत्याख्यातः च तेन सः ॥१४८॥
ratham āropya kṛṣṇena yatra karṇaḥ anumantritaḥ . upāya-pūrvam śauṇḍīryāt pratyākhyātaḥ ca tena saḥ ..148..
ततश्चाप्यभिनिर्यात्रा रथाश्वनरदन्तिनाम् । नगराद्धास्तिनपुराद्बलसङ्ख्यानमेव च ॥१४९॥
ततस् च अपि अभिनिर्यात्रा रथ-अश्व-नर-दन्तिनाम् । नगरात् हास्तिनपुरात् बल-सङ्ख्यानम् एव च ॥१४९॥
tatas ca api abhiniryātrā ratha-aśva-nara-dantinām . nagarāt hāstinapurāt bala-saṅkhyānam eva ca ..149..
यत्र राज्ञा उलूकस्य प्रेषणं पाण्डवान्प्रति । श्वोभाविनि महायुद्धे दूत्येन क्रूरवादिना ॥१५०॥ ( रथातिरथसङ्ख्यानमम्बोपाख्यानमेव च ॥१५०॥ )
यत्र राज्ञा उलूकस्य प्रेषणम् पाण्डवान् प्रति । श्वस् भाविनि महा-युद्धे दूत्येन क्रूर-वादिना ॥१५०॥ ( रथ-अतिरथ-सङ्ख्यानम् अम्बा-उपाख्यानम् एव च ॥१५०॥ )
yatra rājñā ulūkasya preṣaṇam pāṇḍavān prati . śvas bhāvini mahā-yuddhe dūtyena krūra-vādinā ..150.. ( ratha-atiratha-saṅkhyānam ambā-upākhyānam eva ca ..150.. )
एतत्सुबहुवृत्तान्तं पञ्चमं पर्व भारते । उद्योगपर्व निर्दिष्टं सन्धिविग्रहसंश्रितम् ॥१५१॥
एतत् सु बहु-वृत्तान्तम् पञ्चमम् पर्व भारते । उद्योगपर्व निर्दिष्टम् सन्धि-विग्रह-संश्रितम् ॥१५१॥
etat su bahu-vṛttāntam pañcamam parva bhārate . udyogaparva nirdiṣṭam sandhi-vigraha-saṃśritam ..151..
अध्यायाः सङ्ख्यया त्वत्र षडशीतिशतं स्मृतम् । श्लोकानां षट्सहस्राणि तावन्त्येव शतानि च ॥१५२॥
अध्यायाः सङ्ख्यया तु अत्र षडशीति-शतम् स्मृतम् । श्लोकानाम् षष्-सहस्राणि तावन्ति एव शतानि च ॥१५२॥
adhyāyāḥ saṅkhyayā tu atra ṣaḍaśīti-śatam smṛtam . ślokānām ṣaṣ-sahasrāṇi tāvanti eva śatāni ca ..152..
श्लोकाश्च नवतिः प्रोक्तास्तथैवाष्टौ महात्मना । व्यासेनोदारमतिना पर्वण्यस्मिंस्तपोधनाः ॥१५३॥
श्लोकाः च नवतिः प्रोक्ताः तथा एव अष्टौ महात्मना । व्यासेन उदार-मतिना पर्वणि अस्मिन् तपोधनाः ॥१५३॥
ślokāḥ ca navatiḥ proktāḥ tathā eva aṣṭau mahātmanā . vyāsena udāra-matinā parvaṇi asmin tapodhanāḥ ..153..
अत ऊर्ध्वं विचित्रार्थं भीष्मपर्व प्रचक्षते । जम्बूखण्डविनिर्माणं यत्रोक्तं सञ्जयेन ह ॥१५४॥
अतस् ऊर्ध्वम् विचित्र-अर्थम् भीष्मपर्व प्रचक्षते । जम्बूखण्ड-विनिर्माणम् यत्र उक्तम् सञ्जयेन ह ॥१५४॥
atas ūrdhvam vicitra-artham bhīṣmaparva pracakṣate . jambūkhaṇḍa-vinirmāṇam yatra uktam sañjayena ha ..154..
यत्र युद्धमभूद्घोरं दशाहान्यतिदारुणम् । यत्र यौधिष्ठिरं सैन्यं विषादमगमत्परम् ॥१५५॥
यत्र युद्धम् अभूत् घोरम् दश-अहानि अति दारुणम् । यत्र यौधिष्ठिरम् सैन्यम् विषादम् अगमत् परम् ॥१५५॥
yatra yuddham abhūt ghoram daśa-ahāni ati dāruṇam . yatra yaudhiṣṭhiram sainyam viṣādam agamat param ..155..
कश्मलं यत्र पार्थस्य वासुदेवो महामतिः । मोहजं नाशयामास हेतुभिर्मोक्षदर्शनैः ॥१५६॥
कश्मलम् यत्र पार्थस्य वासुदेवः महामतिः । मोह-जम् नाशयामास हेतुभिः मोक्ष-दर्शनैः ॥१५६॥
kaśmalam yatra pārthasya vāsudevaḥ mahāmatiḥ . moha-jam nāśayāmāsa hetubhiḥ mokṣa-darśanaiḥ ..156..
शिखण्डिनं पुरस्कृत्य यत्र पार्थो महाधनुः । विनिघ्नन्निशितैर्बाणै रथाद्भीष्ममपातयत् ॥१५७॥
शिखण्डिनम् पुरस्कृत्य यत्र पार्थः महा-धनुः । विनिघ्नन् निशितैः बाणैः रथात् भीष्मम् अपातयत् ॥१५७॥
śikhaṇḍinam puraskṛtya yatra pārthaḥ mahā-dhanuḥ . vinighnan niśitaiḥ bāṇaiḥ rathāt bhīṣmam apātayat ..157..
षष्ठमेतन्महापर्व भारते परिकीर्तितम् । अध्यायानां शतं प्रोक्तं सप्तदश तथापरे ॥१५८॥
षष्ठम् एतत् महा-पर्व भारते परिकीर्तितम् । अध्यायानाम् शतम् प्रोक्तम् सप्तदश तथा अपरे ॥१५८॥
ṣaṣṭham etat mahā-parva bhārate parikīrtitam . adhyāyānām śatam proktam saptadaśa tathā apare ..158..
पञ्च श्लोकसहस्राणि सङ्ख्ययाष्टौ शतानि च । श्लोकाश्च चतुराशीतिः पर्वण्यस्मिन्प्रकीर्तिताः ॥१५९॥ ( व्यासेन वेदविदुषा सङ्ख्याता भीष्मपर्वणि ॥१५९॥ )
पञ्च श्लोक-सहस्राणि सङ्ख्यया अष्टौ शतानि च । श्लोकाः च चतुर-अशीतिः पर्वणि अस्मिन् प्रकीर्तिताः ॥१५९॥ ( व्यासेन वेद-विदुषा सङ्ख्याताः भीष्मपर्वणि ॥१५९॥ )
pañca śloka-sahasrāṇi saṅkhyayā aṣṭau śatāni ca . ślokāḥ ca catura-aśītiḥ parvaṇi asmin prakīrtitāḥ ..159.. ( vyāsena veda-viduṣā saṅkhyātāḥ bhīṣmaparvaṇi ..159.. )
द्रोणपर्व ततश्चित्रं बहुवृत्तान्तमुच्यते । यत्र संशप्तकाः पार्थमपनिन्यू रणाजिरात् ॥१६०॥
द्रोणपर्व ततस् चित्रम् बहु-वृत्तान्तम् उच्यते । यत्र संशप्तकाः पार्थम् अपनिन्युः रण-अजिरात् ॥१६०॥
droṇaparva tatas citram bahu-vṛttāntam ucyate . yatra saṃśaptakāḥ pārtham apaninyuḥ raṇa-ajirāt ..160..
भगदत्तो महाराजो यत्र शक्रसमो युधि । सुप्रतीकेन नागेन सह शस्तः किरीटिना ॥१६१॥
भगदत्तः महा-राजः यत्र शक्र-समः युधि । सुप्रतीकेन नागेन सह शस्तः किरीटिना ॥१६१॥
bhagadattaḥ mahā-rājaḥ yatra śakra-samaḥ yudhi . supratīkena nāgena saha śastaḥ kirīṭinā ..161..
यत्राभिमन्युं बहवो जघ्नुर्लोकमहारथाः । जयद्रथमुखा बालं शूरमप्राप्तयौवनम् ॥१६२॥
यत्र अभिमन्युम् बहवः जघ्नुः लोक-महा-रथाः । जयद्रथ-मुखाः बालम् शूरम् अप्राप्त-यौवनम् ॥१६२॥
yatra abhimanyum bahavaḥ jaghnuḥ loka-mahā-rathāḥ . jayadratha-mukhāḥ bālam śūram aprāpta-yauvanam ..162..
हतेऽभिमन्यौ क्रुद्धेन यत्र पार्थेन संयुगे । अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः ॥१६३॥ ( संशप्तकावशेषं च कृतं निःशेषमाहवे ॥१६३॥ )
हते अभिमन्यौ क्रुद्धेन यत्र पार्थेन संयुगे । अक्षौहिणीः सप्त हत्वा हतः राजा जयद्रथः ॥१६३॥ ( संशप्तक-अवशेषम् च कृतम् निःशेषम् आहवे ॥१६३॥ )
hate abhimanyau kruddhena yatra pārthena saṃyuge . akṣauhiṇīḥ sapta hatvā hataḥ rājā jayadrathaḥ ..163.. ( saṃśaptaka-avaśeṣam ca kṛtam niḥśeṣam āhave ..163.. )
अलम्बुसः श्रुतायुश्च जलसन्धश्च वीर्यवान् । सौमदत्तिर्विराटश्च द्रुपदश्च महारथः ॥१६४॥ ( घटोत्कचादयश्चान्ये निहता द्रोणपर्वणि ॥१६४॥ )
अलम्बुसः श्रुतायुः च जलसन्धः च वीर्यवान् । सौमदत्तिः विराटः च द्रुपदः च महा-रथः ॥१६४॥ ( घटोत्कच-आदयः च अन्ये निहताः द्रोणपर्वणि ॥१६४॥ )
alambusaḥ śrutāyuḥ ca jalasandhaḥ ca vīryavān . saumadattiḥ virāṭaḥ ca drupadaḥ ca mahā-rathaḥ ..164.. ( ghaṭotkaca-ādayaḥ ca anye nihatāḥ droṇaparvaṇi ..164.. )
अश्वत्थामापि चात्रैव द्रोणे युधि निपातिते । अस्त्रं प्रादुश्चकारोग्रं नारायणममर्षितः ॥१६५॥1.2.265
अश्वत्थामा अपि च अत्रा एव द्रोणे युधि निपातिते । अस्त्रम् प्रादुश्चकार उग्रम् नारायणम् अमर्षितः ॥१६५॥१।२।२६५
aśvatthāmā api ca atrā eva droṇe yudhi nipātite . astram prāduścakāra ugram nārāyaṇam amarṣitaḥ ..165..1.2.265
सप्तमं भारते पर्व महदेतदुदाहृतम् । अत्र ते पृथिवीपालाः प्रायशो निधनं गताः ॥१६६॥ ( द्रोणपर्वणि ये शूरा निर्दिष्टाः पुरुषर्षभाः ॥१६६॥ )
सप्तमम् भारते पर्व महत् एतत् उदाहृतम् । अत्र ते पृथिवी-पालाः प्रायशस् निधनम् गताः ॥१६६॥ ( द्रोणपर्वणि ये शूराः निर्दिष्टाः पुरुष-ऋषभाः ॥१६६॥ )
saptamam bhārate parva mahat etat udāhṛtam . atra te pṛthivī-pālāḥ prāyaśas nidhanam gatāḥ ..166.. ( droṇaparvaṇi ye śūrāḥ nirdiṣṭāḥ puruṣa-ṛṣabhāḥ ..166.. )
अध्यायानां शतं प्रोक्तमध्यायाः सप्ततिस्तथा । अष्टौ श्लोकसहस्राणि तथा नव शतानि च ॥१६७॥
अध्यायानाम् शतम् प्रोक्तम् अध्यायाः सप्ततिः तथा । अष्टौ श्लोक-सहस्राणि तथा नव शतानि च ॥१६७॥
adhyāyānām śatam proktam adhyāyāḥ saptatiḥ tathā . aṣṭau śloka-sahasrāṇi tathā nava śatāni ca ..167..
श्लोका नव तथैवात्र सङ्ख्यातास्तत्त्वदर्शिना । पाराशर्येण मुनिना सञ्चिन्त्य द्रोणपर्वणि ॥१६८॥
श्लोकाः नव तथा एव अत्र सङ्ख्याताः तत्त्व-दर्शिना । पाराशर्येण मुनिना सञ्चिन्त्य द्रोणपर्वणि ॥१६८॥
ślokāḥ nava tathā eva atra saṅkhyātāḥ tattva-darśinā . pārāśaryeṇa muninā sañcintya droṇaparvaṇi ..168..
अतः परं कर्णपर्व प्रोच्यते परमाद्भुतम् । सारथ्ये विनियोगश्च मद्रराजस्य धीमतः ॥१६९॥ ( आख्यातं यत्र पौराणं त्रिपुरस्य निपातनम् ॥१६९॥ )
अतस् परम् कर्णपर्व प्रोच्यते परम-अद्भुतम् । सारथ्ये विनियोगः च मद्र-राजस्य धीमतः ॥१६९॥ ( आख्यातम् यत्र पौराणम् त्रिपुरस्य निपातनम् ॥१६९॥ )
atas param karṇaparva procyate parama-adbhutam . sārathye viniyogaḥ ca madra-rājasya dhīmataḥ ..169.. ( ākhyātam yatra paurāṇam tripurasya nipātanam ..169.. )
प्रयाणे परुषश्चात्र संवादः कर्णशल्ययोः । हंसकाकीयमाख्यानमत्रैवाक्षेपसंहितम् ॥१७०॥
प्रयाणे परुषः च अत्र संवादः कर्ण-शल्ययोः । हंसकाकीयम् आख्यानम् अत्र एव आक्षेप-संहितम् ॥१७०॥
prayāṇe paruṣaḥ ca atra saṃvādaḥ karṇa-śalyayoḥ . haṃsakākīyam ākhyānam atra eva ākṣepa-saṃhitam ..170..
अन्योन्यं प्रति च क्रोधो युधिष्ठिरकिरीटिनोः । द्वैरथे यत्र पार्थेन हतः कर्णो महारथः ॥१७१॥
अन्योन्यम् प्रति च क्रोधः युधिष्ठिर-किरीटिनोः । द्वैरथे यत्र पार्थेन हतः कर्णः महा-रथः ॥१७१॥
anyonyam prati ca krodhaḥ yudhiṣṭhira-kirīṭinoḥ . dvairathe yatra pārthena hataḥ karṇaḥ mahā-rathaḥ ..171..
अष्टमं पर्व निर्दिष्टमेतद्भारतचिन्तकैः । एकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि ॥१७२॥ ( चत्वार्येव सहस्राणि नव श्लोकशतानि च ॥१७२॥ )
अष्टमम् पर्व निर्दिष्टम् एतत् भारत-चिन्तकैः । एकोन-सप्ततिः प्रोक्ताः अध्यायाः कर्णपर्वणि ॥१७२॥ ( चत्वारि एव सहस्राणि नव श्लोक-शतानि च ॥१७२॥ )
aṣṭamam parva nirdiṣṭam etat bhārata-cintakaiḥ . ekona-saptatiḥ proktāḥ adhyāyāḥ karṇaparvaṇi ..172.. ( catvāri eva sahasrāṇi nava śloka-śatāni ca ..172.. )
अतः परं विचित्रार्थं शल्यपर्व प्रकीर्तितम् । हतप्रवीरे सैन्ये तु नेता मद्रेश्वरोऽभवत् ॥१७३॥
अतस् परम् विचित्र-अर्थम् शल्यपर्व प्रकीर्तितम् । हत-प्रवीरे सैन्ये तु नेता मद्र-ईश्वरः अभवत् ॥१७३॥
atas param vicitra-artham śalyaparva prakīrtitam . hata-pravīre sainye tu netā madra-īśvaraḥ abhavat ..173..
वृत्तानि रथयुद्धानि कीर्त्यन्ते यत्र भागशः । विनाशः कुरुमुख्यानां शल्यपर्वणि कीर्त्यते ॥१७४॥
वृत्तानि रथ-युद्धानि कीर्त्यन्ते यत्र भागशस् । विनाशः कुरु-मुख्यानाम् शल्यपर्वणि कीर्त्यते ॥१७४॥
vṛttāni ratha-yuddhāni kīrtyante yatra bhāgaśas . vināśaḥ kuru-mukhyānām śalyaparvaṇi kīrtyate ..174..
शल्यस्य निधनं चात्र धर्मराजान्महारथात् । गदायुद्धं तु तुमुलमत्रैव परिकीर्तितम् ॥१७५॥ ( सरस्वत्याश्च तीर्थानां पुण्यता परिकीर्तिता ॥१७५॥ )
शल्यस्य निधनम् च अत्र धर्मराजात् महा-रथात् । गदा-युद्धम् तु तुमुलम् अत्र एव परिकीर्तितम् ॥१७५॥ ( सरस्वत्याः च तीर्थानाम् पुण्य-ता परिकीर्तिता ॥१७५॥ )
śalyasya nidhanam ca atra dharmarājāt mahā-rathāt . gadā-yuddham tu tumulam atra eva parikīrtitam ..175.. ( sarasvatyāḥ ca tīrthānām puṇya-tā parikīrtitā ..175.. )
नवमं पर्व निर्दिष्टमेतदद्भुतमर्थवत् । एकोनषष्टिरध्यायास्तत्र सङ्ख्याविशारदैः ॥१७६॥
नवमम् पर्व निर्दिष्टम् एतत् अद्भुतम् अर्थवत् । एकोनषष्टिः अध्यायाः तत्र सङ्ख्या-विशारदैः ॥१७६॥
navamam parva nirdiṣṭam etat adbhutam arthavat . ekonaṣaṣṭiḥ adhyāyāḥ tatra saṅkhyā-viśāradaiḥ ..176..
सङ्ख्याता बहुवृत्तान्ताः श्लोकाग्रं चात्र शस्यते । त्रीणि श्लोकसहस्राणि द्वे शते विंशतिस्तथा ॥१७७॥ ( मुनिना सम्प्रणीतानि कौरवाणां यशोभृताम् ॥१७७॥ )
सङ्ख्याताः बहु-वृत्तान्ताः श्लोक-अग्रम् च अत्र शस्यते । त्रीणि श्लोक-सहस्राणि द्वे शते विंशतिः तथा ॥१७७॥ ( मुनिना सम्प्रणीतानि कौरवाणाम् यशः-भृताम् ॥१७७॥ )
saṅkhyātāḥ bahu-vṛttāntāḥ śloka-agram ca atra śasyate . trīṇi śloka-sahasrāṇi dve śate viṃśatiḥ tathā ..177.. ( muninā sampraṇītāni kauravāṇām yaśaḥ-bhṛtām ..177.. )
अतः परं प्रवक्ष्यामि सौप्तिकं पर्व दारुणम् । भग्नोरुं यत्र राजानं दुर्योधनममर्षणम् ॥१७८॥
अतस् परम् प्रवक्ष्यामि सौप्तिकम् पर्व दारुणम् । भग्न-ऊरुम् यत्र राजानम् दुर्योधनम् अमर्षणम् ॥१७८॥
atas param pravakṣyāmi sauptikam parva dāruṇam . bhagna-ūrum yatra rājānam duryodhanam amarṣaṇam ..178..
व्यपयातेषु पार्थेषु त्रयस्तेऽभ्याययू रथाः । कृतवर्मा कृपो द्रौणिः सायाह्ने रुधिरोक्षिताः ॥१७९॥
व्यपयातेषु पार्थेषु त्रयः ते अभ्याययुः रथाः । कृतवर्मा कृपः द्रौणिः सायाह्ने रुधिर-उक्षिताः ॥१७९॥
vyapayāteṣu pārtheṣu trayaḥ te abhyāyayuḥ rathāḥ . kṛtavarmā kṛpaḥ drauṇiḥ sāyāhne rudhira-ukṣitāḥ ..179..
प्रतिजज्ञे दृढक्रोधो द्रौणिर्यत्र महारथः । अहत्वा सर्वपाञ्चालान्धृष्टद्युम्नपुरोगमान् ॥१८०॥ ( पाण्डवांश्च सहामात्यान्न विमोक्ष्यामि दंशनम् ॥१८०॥ )
प्रतिजज्ञे दृढ-क्रोधः द्रौणिः यत्र महा-रथः । अ हत्वा सर्व-पाञ्चालान् धृष्टद्युम्न-पुरोगमान् ॥१८०॥ ( पाण्डवान् च सहामात्यान् न विमोक्ष्यामि दंशनम् ॥१८०॥ )
pratijajñe dṛḍha-krodhaḥ drauṇiḥ yatra mahā-rathaḥ . a hatvā sarva-pāñcālān dhṛṣṭadyumna-purogamān ..180.. ( pāṇḍavān ca sahāmātyān na vimokṣyāmi daṃśanam ..180.. )
प्रसुप्तान्निशि विश्वस्तान्यत्र ते पुरुषर्षभाः । पाञ्चालान्सपरीवाराञ्जघ्नुर्द्रौणिपुरोगमाः ॥१८१॥
प्रसुप्तान् निशि विश्वस्तान् यत्र ते पुरुष-ऋषभाः । पाञ्चालान् स परीवारान् जघ्नुः द्रौणि-पुरोगमाः ॥१८१॥
prasuptān niśi viśvastān yatra te puruṣa-ṛṣabhāḥ . pāñcālān sa parīvārān jaghnuḥ drauṇi-purogamāḥ ..181..
यत्रामुच्यन्त पार्थास्ते पञ्च कृष्णबलाश्रयात् । सात्यकिश्च महेष्वासः शेषाश्च निधनं गताः ॥१८२॥
यत्र अमुच्यन्त पार्थाः ते पञ्च कृष्ण-बल-आश्रयात् । सात्यकिः च महा-इष्वासः शेषाः च निधनम् गताः ॥१८२॥
yatra amucyanta pārthāḥ te pañca kṛṣṇa-bala-āśrayāt . sātyakiḥ ca mahā-iṣvāsaḥ śeṣāḥ ca nidhanam gatāḥ ..182..
द्रौपदी पुत्रशोकार्ता पितृभ्रातृवधार्दिता । कृतानशनसङ्कल्पा यत्र भर्तृनुपाविशत् ॥१८३॥
द्रौपदी पुत्र-शोक-आर्ता पितृ-भ्रातृ-वध-अर्दिता । कृत-अनशन-सङ्कल्पा यत्र भर्तृन् उपाविशत् ॥१८३॥
draupadī putra-śoka-ārtā pitṛ-bhrātṛ-vadha-arditā . kṛta-anaśana-saṅkalpā yatra bhartṛn upāviśat ..183..
द्रौपदीवचनाद्यत्र भीमो भीमपराक्रमः । अन्वधावत सङ्क्रुद्धो भारद्वाजं गुरोः सुतम् ॥१८४॥
द्रौपदी-वचनात् यत्र भीमः भीम-पराक्रमः । अन्वधावत सङ्क्रुद्धः भारद्वाजम् गुरोः सुतम् ॥१८४॥
draupadī-vacanāt yatra bhīmaḥ bhīma-parākramaḥ . anvadhāvata saṅkruddhaḥ bhāradvājam guroḥ sutam ..184..
भीमसेनभयाद्यत्र दैवेनाभिप्रचोदितः । अपाण्डवायेति रुषा द्रौणिरस्त्रमवासृजत् ॥१८५॥
भीमसेन-भयात् यत्र दैवेन अभिप्रचोदितः । अ पाण्डवाय इति रुषा द्रौणिः अस्त्रम् अवासृजत् ॥१८५॥
bhīmasena-bhayāt yatra daivena abhipracoditaḥ . a pāṇḍavāya iti ruṣā drauṇiḥ astram avāsṛjat ..185..
मैवमित्यब्रवीत्कृष्णः शमयंस्तस्य तद्वचः । यत्रास्त्रमस्त्रेण च तच्छमयामास फाल्गुनः ॥१८६॥
मा एवम् इति अब्रवीत् कृष्णः शमयन् तस्य तत् वचः । यत्र अस्त्रम् अस्त्रेण च तत् शमयामास फाल्गुनः ॥१८६॥
mā evam iti abravīt kṛṣṇaḥ śamayan tasya tat vacaḥ . yatra astram astreṇa ca tat śamayāmāsa phālgunaḥ ..186..
द्रौणिद्वैपायनादीनां शापाश्चान्योन्यकारिताः । तोयकर्मणि सर्वेषां राज्ञामुदकदानिके ॥१८७॥
द्रौणि-द्वैपायन-आदीनाम् शापाः च अन्योन्य-कारिताः । तोयकर्मणि सर्वेषाम् राज्ञाम् उदकदानिके ॥१८७॥
drauṇi-dvaipāyana-ādīnām śāpāḥ ca anyonya-kāritāḥ . toyakarmaṇi sarveṣām rājñām udakadānike ..187..
गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः । सुतस्यैतदिह प्रोक्तं दशमं पर्व सौप्तिकम् ॥१८८॥
गूढ-उत्पन्नस्य च आख्यानम् कर्णस्य पृथया आत्मनः । सुतस्य एतत् इह प्रोक्तम् दशमम् पर्व सौप्तिकम् ॥१८८॥
gūḍha-utpannasya ca ākhyānam karṇasya pṛthayā ātmanaḥ . sutasya etat iha proktam daśamam parva sauptikam ..188..
अष्टादशास्मिन्नध्यायाः पर्वण्युक्ता महात्मना । श्लोकाग्रमत्र कथितं शतान्यष्टौ तथैव च ॥१८९॥
अष्टादशा अस्मिन् अध्यायाः पर्वणि उक्ताः महात्मना । श्लोक-अग्रम् अत्र कथितम् शतानि अष्टौ तथा एव च ॥१८९॥
aṣṭādaśā asmin adhyāyāḥ parvaṇi uktāḥ mahātmanā . śloka-agram atra kathitam śatāni aṣṭau tathā eva ca ..189..
श्लोकाश्च सप्ततिः प्रोक्ता यथावदभिसङ्ख्यया । सौप्तिकैषीकसम्बन्धे पर्वण्यमितबुद्धिना ॥१९०॥
श्लोकाः च सप्ततिः प्रोक्ताः यथावत् अभिसङ्ख्यया । सौप्तिक-ऐषीक-सम्बन्धे पर्वणि अमितबुद्धिना ॥१९०॥
ślokāḥ ca saptatiḥ proktāḥ yathāvat abhisaṅkhyayā . sauptika-aiṣīka-sambandhe parvaṇi amitabuddhinā ..190..
अत ऊर्ध्वमिदं प्राहुः स्त्रीपर्व करुणोदयम् । विलापो वीरपत्नीनां यत्रातिकरुणः स्मृतः ॥१९१॥ ( क्रोधावेशः प्रसादश्च गान्धारीधृतराष्ट्रयोः ॥१९१॥ )
अतस् ऊर्ध्वम् इदम् प्राहुः स्त्रीपर्व करुणा-उदयम् । विलापः वीर-पत्नीनाम् यत्र अति करुणः स्मृतः ॥१९१॥ ( क्रोध-आवेशः प्रसादः च गान्धारी-धृतराष्ट्रयोः ॥१९१॥ )
atas ūrdhvam idam prāhuḥ strīparva karuṇā-udayam . vilāpaḥ vīra-patnīnām yatra ati karuṇaḥ smṛtaḥ ..191.. ( krodha-āveśaḥ prasādaḥ ca gāndhārī-dhṛtarāṣṭrayoḥ ..191.. )
यत्र तान्क्षत्रियाञ्शूरान्दिष्टान्ताननिवर्तिनः । पुत्रान्भ्रातृन्पितृंश्चैव ददृशुर्निहतान्रणे ॥१९२॥
यत्र तान् क्षत्रियान् शूरान् दिष्टान्तान् अनिवर्तिनः । पुत्रान् भ्रातृन् पितृन् च एव ददृशुः निहतान् रणे ॥१९२॥
yatra tān kṣatriyān śūrān diṣṭāntān anivartinaḥ . putrān bhrātṛn pitṛn ca eva dadṛśuḥ nihatān raṇe ..192..
यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः । राज्ञां तानि शरीराणि दाहयामास शास्त्रतः ॥१९३॥
यत्र राजा महा-प्राज्ञः सर्व-धर्म-भृताम् वरः । राज्ञाम् तानि शरीराणि दाहयामास शास्त्रतः ॥१९३॥
yatra rājā mahā-prājñaḥ sarva-dharma-bhṛtām varaḥ . rājñām tāni śarīrāṇi dāhayāmāsa śāstrataḥ ..193..
एतदेकादशं प्रोक्तं पर्वातिकरुणं महत् । सप्तविंशतिरध्यायाः पर्वण्यस्मिन्नुदाहृताः ॥१९४॥
एतत् एकादशम् प्रोक्तम् पर्व अति करुणम् महत् । सप्तविंशतिः अध्यायाः पर्वणि अस्मिन् उदाहृताः ॥१९४॥
etat ekādaśam proktam parva ati karuṇam mahat . saptaviṃśatiḥ adhyāyāḥ parvaṇi asmin udāhṛtāḥ ..194..
श्लोकाः सप्तशतं चात्र पञ्चसप्ततिरुच्यते । सङ्ख्यया भारताख्यानं कर्त्रा ह्यत्र महात्मना ॥१९५॥ ( प्रणीतं सज्जनमनोवैक्लव्याश्रुप्रवर्तकम् ॥१९५॥ )
श्लोकाः सप्तशतम् च अत्र पञ्चसप्ततिः उच्यते । सङ्ख्यया भारत-आख्यानम् कर्त्रा हि अत्र महात्मना ॥१९५॥ ( ॥१९५॥ )
ślokāḥ saptaśatam ca atra pañcasaptatiḥ ucyate . saṅkhyayā bhārata-ākhyānam kartrā hi atra mahātmanā ..195.. ( ..195.. )
अतः परं शान्तिपर्व द्वादशं बुद्धिवर्धनम् । यत्र निर्वेदमापन्नो धर्मराजो युधिष्ठिरः ॥१९६॥ ( घातयित्वा पितृन्भ्रातृन्पुत्रान्सम्बन्धिबान्धवान् ॥१९६॥ )
अतस् परम् शान्तिपर्व द्वादशम् बुद्धि-वर्धनम् । यत्र निर्वेदम् आपन्नः धर्मराजः युधिष्ठिरः ॥१९६॥ ( घातयित्वा पितृन् भ्रातृन् पुत्रान् सम्बन्धि-बान्धवान् ॥१९६॥ )
atas param śāntiparva dvādaśam buddhi-vardhanam . yatra nirvedam āpannaḥ dharmarājaḥ yudhiṣṭhiraḥ ..196.. ( ghātayitvā pitṛn bhrātṛn putrān sambandhi-bāndhavān ..196.. )
शान्तिपर्वणि धर्माश्च व्याख्याताः शरतल्पिकाः । राजभिर्वेदितव्या ये सम्यङ्नयबुभुत्सुभिः ॥१९७॥
शान्तिपर्वणि धर्माः च व्याख्याताः शरतल्पिकाः । राजभिः वेदितव्याः ये सम्यक् नय-बुभुत्सुभिः ॥१९७॥
śāntiparvaṇi dharmāḥ ca vyākhyātāḥ śaratalpikāḥ . rājabhiḥ veditavyāḥ ye samyak naya-bubhutsubhiḥ ..197..
आपद्धर्माश्च तत्रैव कालहेतुप्रदर्शकाः । यान्बुद्ध्वा पुरुषः सम्यक्सर्वज्ञत्वमवाप्नुयात् ॥१९८॥ ( मोक्षधर्माश्च कथिता विचित्रा बहुविस्तराः ॥१९८॥ )
आपद्-धर्माः च तत्र एव काल-हेतु-प्रदर्शकाः । यान् बुद्ध्वा पुरुषः सम्यक् सर्वज्ञ-त्वम् अवाप्नुयात् ॥१९८॥ ( मोक्ष-धर्माः च कथिताः विचित्राः बहु-विस्तराः ॥१९८॥ )
āpad-dharmāḥ ca tatra eva kāla-hetu-pradarśakāḥ . yān buddhvā puruṣaḥ samyak sarvajña-tvam avāpnuyāt ..198.. ( mokṣa-dharmāḥ ca kathitāḥ vicitrāḥ bahu-vistarāḥ ..198.. )
द्वादशं पर्व निर्दिष्टमेतत्प्राज्ञजनप्रियम् । पर्वण्यत्र परिज्ञेयमध्यायानां शतत्रयम् ॥१९९॥ ( त्रिंशच्चैव तथाध्याया नव चैव तपोधनाः ॥१९९॥ )
द्वादशम् पर्व निर्दिष्टम् एतत् प्राज्ञ-जन-प्रियम् । पर्वणि अत्र परिज्ञेयम् अध्यायानाम् शत-त्रयम् ॥१९९॥ ( त्रिंशत् च एव तथा अध्यायाः नव च एव तपोधनाः ॥१९९॥ )
dvādaśam parva nirdiṣṭam etat prājña-jana-priyam . parvaṇi atra parijñeyam adhyāyānām śata-trayam ..199.. ( triṃśat ca eva tathā adhyāyāḥ nava ca eva tapodhanāḥ ..199.. )
श्लोकानां तु सहस्राणि कीर्तितानि चतुर्दश । पञ्च चैव शतान्याहुः पञ्चविंशतिसङ्ख्यया ॥२००॥
श्लोकानाम् तु सहस्राणि कीर्तितानि चतुर्दश । पञ्च च एव शतानि आहुः पञ्चविंशति-सङ्ख्यया ॥२००॥
ślokānām tu sahasrāṇi kīrtitāni caturdaśa . pañca ca eva śatāni āhuḥ pañcaviṃśati-saṅkhyayā ..200..
अत ऊर्ध्वं तु विज्ञेयमानुशासनमुत्तमम् । यत्र प्रकृतिमापन्नः श्रुत्वा धर्मविनिश्चयम् ॥२०१॥ ( भीष्माद्भागीरथीपुत्रात्कुरुराजो युधिष्ठिरः ॥२०१॥ )
अतस् ऊर्ध्वम् तु विज्ञेयम् आनुशासनम् उत्तमम् । यत्र प्रकृतिम् आपन्नः श्रुत्वा धर्म-विनिश्चयम् ॥२०१॥ ( भीष्मात् भागीरथी-पुत्रात् कुरुराजः युधिष्ठिरः ॥२०१॥ )
atas ūrdhvam tu vijñeyam ānuśāsanam uttamam . yatra prakṛtim āpannaḥ śrutvā dharma-viniścayam ..201.. ( bhīṣmāt bhāgīrathī-putrāt kururājaḥ yudhiṣṭhiraḥ ..201.. )
व्यवहारोऽत्र कार्त्स्न्येन धर्मार्थीयो निदर्शितः । विविधानां च दानानां फलयोगाः पृथग्विधाः ॥२०२॥
व्यवहारः अत्र कार्त्स्न्येन धर्म-अर्थीयः निदर्शितः । विविधानाम् च दानानाम् फल-योगाः पृथग्विधाः ॥२०२॥
vyavahāraḥ atra kārtsnyena dharma-arthīyaḥ nidarśitaḥ . vividhānām ca dānānām phala-yogāḥ pṛthagvidhāḥ ..202..
तथा पात्रविशेषाश्च दानानां च परो विधिः । आचारविधियोगश्च सत्यस्य च परा गतिः ॥२०३॥
तथा पात्र-विशेषाः च दानानाम् च परः विधिः । आचार-विधि-योगः च सत्यस्य च परा गतिः ॥२०३॥
tathā pātra-viśeṣāḥ ca dānānām ca paraḥ vidhiḥ . ācāra-vidhi-yogaḥ ca satyasya ca parā gatiḥ ..203..
एतत्सुबहुवृत्तान्तमुत्तमं चानुशासनम् । भीष्मस्यात्रैव सम्प्राप्तिः स्वर्गस्य परिकीर्तिता ॥२०४॥
एतत् सु बहु-वृत्तान्तम् उत्तमम् च अनुशासनम् । भीष्मस्य अत्रा एव सम्प्राप्तिः स्वर्गस्य परिकीर्तिता ॥२०४॥
etat su bahu-vṛttāntam uttamam ca anuśāsanam . bhīṣmasya atrā eva samprāptiḥ svargasya parikīrtitā ..204..
एतत्त्रयोदशं पर्व धर्मनिश्चयकारकम् । अध्यायानां शतं चात्र षट्चत्वारिंशदेव च ॥२०५॥ ( श्लोकानां तु सहस्राणि षट्सप्तैव शतानि च ॥२०५॥1.2.337 )
एतत् त्रयोदशम् पर्व धर्म-निश्चय-कारकम् । अध्यायानाम् शतम् च अत्र षट्चत्वारिंशत् एव च ॥२०५॥ ( श्लोकानाम् तु सहस्राणि षष्-सप्त एव शतानि च ॥२०५॥१।२।३३७ )
etat trayodaśam parva dharma-niścaya-kārakam . adhyāyānām śatam ca atra ṣaṭcatvāriṃśat eva ca ..205.. ( ślokānām tu sahasrāṇi ṣaṣ-sapta eva śatāni ca ..205..1.2.337 )
ततोऽश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम् । तत्संवर्तमरुत्तीयं यत्राख्यानमनुत्तमम् ॥२०६॥
ततस् अश्वमेधिकम् नाम पर्व प्रोक्तम् चतुर्दशम् । तत् संवर्त-मरुत्तीयम् यत्र आख्यानम् अनुत्तमम् ॥२०६॥
tatas aśvamedhikam nāma parva proktam caturdaśam . tat saṃvarta-maruttīyam yatra ākhyānam anuttamam ..206..
सुवर्णकोशसम्प्राप्तिर्जन्म चोक्तं परिक्षितः । दग्धस्यास्त्राग्निना पूर्वं कृष्णात्सञ्जीवनं पुनः ॥२०७॥
सुवर्ण-कोश-सम्प्राप्तिः जन्म च उक्तम् परिक्षितः । दग्धस्य अस्त्र-अग्निना पूर्वम् कृष्णात् सञ्जीवनम् पुनर् ॥२०७॥
suvarṇa-kośa-samprāptiḥ janma ca uktam parikṣitaḥ . dagdhasya astra-agninā pūrvam kṛṣṇāt sañjīvanam punar ..207..
चर्यायां हयमुत्सृष्टं पाण्डवस्यानुगच्छतः । तत्र तत्र च युद्धानि राजपुत्रैरमर्षणैः ॥२०८॥
चर्यायाम् हयम् उत्सृष्टम् पाण्डवस्य अनुगच्छतः । तत्र तत्र च युद्धानि राज-पुत्रैः अमर्षणैः ॥२०८॥
caryāyām hayam utsṛṣṭam pāṇḍavasya anugacchataḥ . tatra tatra ca yuddhāni rāja-putraiḥ amarṣaṇaiḥ ..208..
चित्राङ्गदायाः पुत्रेण पुत्रिकाया धनञ्जयः । सङ्ग्रामे बभ्रुवाहेन संशयं चात्र दर्शितः ॥२०९॥ ( अश्वमेधे महायज्ञे नकुलाख्यानमेव च ॥२०९॥ )
चित्राङ्गदायाः पुत्रेण पुत्रिकायाः धनञ्जयः । सङ्ग्रामे बभ्रुवाहेन संशयम् च अत्र दर्शितः ॥२०९॥ ( अश्वमेधे महा-यज्ञे नकुल-आख्यानम् एव च ॥२०९॥ )
citrāṅgadāyāḥ putreṇa putrikāyāḥ dhanañjayaḥ . saṅgrāme babhruvāhena saṃśayam ca atra darśitaḥ ..209.. ( aśvamedhe mahā-yajñe nakula-ākhyānam eva ca ..209.. )
इत्याश्वमेधिकं पर्व प्रोक्तमेतन्महाद्भुतम् । अत्राध्यायशतं त्रिंशत्त्रयोऽध्यायाश्च शब्दिताः ॥२१०॥
इति आश्वमेधिकम् पर्व प्रोक्तम् एतत् महा-अद्भुतम् । अत्र अध्याय-शतम् त्रिंशत् त्रयः अध्यायाः च शब्दिताः ॥२१०॥
iti āśvamedhikam parva proktam etat mahā-adbhutam . atra adhyāya-śatam triṃśat trayaḥ adhyāyāḥ ca śabditāḥ ..210..
त्रीणि श्लोकसहस्राणि तावन्त्येव शतानि च । विंशतिश्च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना ॥२११॥
त्रीणि श्लोक-सहस्राणि तावन्ति एव शतानि च । विंशतिः च तथा श्लोकाः सङ्ख्याताः तत्त्व-दर्शिना ॥२११॥
trīṇi śloka-sahasrāṇi tāvanti eva śatāni ca . viṃśatiḥ ca tathā ślokāḥ saṅkhyātāḥ tattva-darśinā ..211..
तत आश्रमवासाक्यं पर्व पञ्चदशं स्मृतम् । यत्र राज्यं परित्यज्य गान्धारीसहितो नृपः ॥२१२॥ ( धृतराष्ट्राश्रमपदं विदुरश्च जगाम ह ॥२१२॥ )
ततस् पर्व पञ्चदशम् स्मृतम् । यत्र राज्यम् परित्यज्य गान्धारी-सहितः नृपः ॥२१२॥ ( धृतराष्ट्र-आश्रम-पदम् विदुरः च जगाम ह ॥२१२॥ )
tatas parva pañcadaśam smṛtam . yatra rājyam parityajya gāndhārī-sahitaḥ nṛpaḥ ..212.. ( dhṛtarāṣṭra-āśrama-padam viduraḥ ca jagāma ha ..212.. )
यं दृष्ट्वा प्रस्थितं साध्वी पृथाप्यनुययौ तदा । पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता ॥२१३॥
यम् दृष्ट्वा प्रस्थितम् साध्वी पृथा अपि अनुययौ तदा । पुत्र-राज्यम् परित्यज्य गुरु-शुश्रूषणे रता ॥२१३॥
yam dṛṣṭvā prasthitam sādhvī pṛthā api anuyayau tadā . putra-rājyam parityajya guru-śuśrūṣaṇe ratā ..213..
यत्र राजा हतान्पुत्रान्पौत्रानन्यांश्च पार्थिवान् । लोकान्तरगतान्वीरानपश्यत्पुनरागतान् ॥२१४॥
यत्र राजा हतान् पुत्रान् पौत्रान् अन्यान् च पार्थिवान् । लोक-अन्तर-गतान् वीरान् अपश्यत् पुनर् आगतान् ॥२१४॥
yatra rājā hatān putrān pautrān anyān ca pārthivān . loka-antara-gatān vīrān apaśyat punar āgatān ..214..
ऋषेः प्रसादात्कृष्णस्य दृष्ट्वाश्चर्यमनुत्तमम् । त्यक्त्वा शोकं सदारश्च सिद्धिं परमिकां गतः ॥२१५॥
ऋषेः प्रसादात् कृष्णस्य दृष्ट्वा आश्चर्यम् अनुत्तमम् । त्यक्त्वा शोकम् स दारः च सिद्धिम् परमिकाम् गतः ॥२१५॥
ṛṣeḥ prasādāt kṛṣṇasya dṛṣṭvā āścaryam anuttamam . tyaktvā śokam sa dāraḥ ca siddhim paramikām gataḥ ..215..
यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः । सञ्जयश्च महामात्रो विद्वान्गावल्गणिर्वशी ॥२१६॥
यत्र धर्मम् समाश्रित्य विदुरः सुगतिम् गतः । सञ्जयः च महामात्रः विद्वान् गावल्गणिः वशी ॥२१६॥
yatra dharmam samāśritya viduraḥ sugatim gataḥ . sañjayaḥ ca mahāmātraḥ vidvān gāvalgaṇiḥ vaśī ..216..
ददर्श नारदं यत्र धर्मराजो युधिष्ठिरः । नारदाच्चैव शुश्राव वृष्णीनां कदनं महत् ॥२१७॥
ददर्श नारदम् यत्र धर्मराजः युधिष्ठिरः । नारदात् च एव शुश्राव वृष्णीनाम् कदनम् महत् ॥२१७॥
dadarśa nāradam yatra dharmarājaḥ yudhiṣṭhiraḥ . nāradāt ca eva śuśrāva vṛṣṇīnām kadanam mahat ..217..
एतदाश्रमवासाख्यं पूर्वोक्तं सुमहाद्भुतम् । द्विचत्वारिंशदध्यायाः पर्वैतदभिसङ्ख्यया ॥२१८॥
एतत् आश्रम-वास-आख्यम् पूर्व-उक्तम् सु महा-अद्भुतम् । द्विचत्वारिंशत्-अध्यायाः पर्व एतद्-अभिसङ्ख्यया ॥२१८॥
etat āśrama-vāsa-ākhyam pūrva-uktam su mahā-adbhutam . dvicatvāriṃśat-adhyāyāḥ parva etad-abhisaṅkhyayā ..218..
सहस्रमेकं श्लोकानां पञ्च श्लोकशतानि च । षडेव च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना ॥२१९॥
सहस्रम् एकम् श्लोकानाम् पञ्च श्लोक-शतानि च । षट् एव च तथा श्लोकाः सङ्ख्याताः तत्त्व-दर्शिना ॥२१९॥
sahasram ekam ślokānām pañca śloka-śatāni ca . ṣaṭ eva ca tathā ślokāḥ saṅkhyātāḥ tattva-darśinā ..219..
अतः परं निबोधेदं मौसलं पर्व दारुणम् । यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्शसहा युधि ॥२२०॥ ( ब्रह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः ॥२२०॥ )
अतस् परम् निबोध इदम् मौसलम् पर्व दारुणम् । यत्र ते पुरुष-व्याघ्राः शस्त्र-स्पर्श-सहाः युधि ॥२२०॥ ( ब्रह्मदण्ड-विनिष्पिष्टाः समीपे लवण-अम्भसः ॥२२०॥ )
atas param nibodha idam mausalam parva dāruṇam . yatra te puruṣa-vyāghrāḥ śastra-sparśa-sahāḥ yudhi ..220.. ( brahmadaṇḍa-viniṣpiṣṭāḥ samīpe lavaṇa-ambhasaḥ ..220.. )
आपाने पानगलिता दैवेनाभिप्रचोदिताः । एरकारूपिभिर्वज्रैर्निजघ्नुरितरेतरम् ॥२२१॥
आपाने पान-गलिताः दैवेन अभिप्रचोदिताः । एरका-रूपिभिः वज्रैः निजघ्नुः इतरेतरम् ॥२२१॥
āpāne pāna-galitāḥ daivena abhipracoditāḥ . erakā-rūpibhiḥ vajraiḥ nijaghnuḥ itaretaram ..221..
यत्र सर्वक्षयं कृत्वा तावुभौ रामकेशवौ । नातिचक्रमतुः कालं प्राप्तं सर्वहरं समम् ॥२२२॥
यत्र सर्व-क्षयम् कृत्वा तौ उभौ राम-केशवौ । न अतिचक्रमतुः कालम् प्राप्तम् सर्व-हरम् समम् ॥२२२॥
yatra sarva-kṣayam kṛtvā tau ubhau rāma-keśavau . na aticakramatuḥ kālam prāptam sarva-haram samam ..222..
यत्रार्जुनो द्वारवतीमेत्य वृष्णिविनाकृताम् । दृष्ट्वा विषादमगमत्परां चार्तिं नरर्षभः ॥२२३॥
यत्र अर्जुनः द्वारवतीम् एत्य वृष्णि-विनाकृताम् । दृष्ट्वा विषादम् अगमत् पराम् च आर्तिम् नर-ऋषभः ॥२२३॥
yatra arjunaḥ dvāravatīm etya vṛṣṇi-vinākṛtām . dṛṣṭvā viṣādam agamat parām ca ārtim nara-ṛṣabhaḥ ..223..
स सत्कृत्य यदुश्रेष्ठं मातुलं शौरिमात्मनः । ददर्श यदुवीराणामापाने वैशसं महत् ॥२२४॥
स सत्कृत्य यदुश्रेष्ठम् मातुलम् शौरिम् आत्मनः । ददर्श यदु-वीराणाम् आपाने वैशसम् महत् ॥२२४॥
sa satkṛtya yaduśreṣṭham mātulam śaurim ātmanaḥ . dadarśa yadu-vīrāṇām āpāne vaiśasam mahat ..224..
शरीरं वासुदेवस्य रामस्य च महात्मनः । संस्कारं लम्भयामास वृष्णीनां च प्रधानतः ॥२२५॥
शरीरम् वासुदेवस्य रामस्य च महात्मनः । संस्कारम् लम्भयामास वृष्णीनाम् च प्रधानतः ॥२२५॥
śarīram vāsudevasya rāmasya ca mahātmanaḥ . saṃskāram lambhayāmāsa vṛṣṇīnām ca pradhānataḥ ..225..
स वृद्धबालमादाय द्वारवत्यास्ततो जनम् । ददर्शापदि कष्टायां गाण्डीवस्य पराभवम् ॥२२६॥
स वृद्ध-बालम् आदाय द्वारवत्याः ततस् जनम् । ददर्श आपदि कष्टायाम् गाण्डीवस्य पराभवम् ॥२२६॥
sa vṛddha-bālam ādāya dvāravatyāḥ tatas janam . dadarśa āpadi kaṣṭāyām gāṇḍīvasya parābhavam ..226..
सर्वेषां चैव दिव्यानामस्त्राणामप्रसन्नताम् । नाशं वृष्णिकलत्राणां प्रभावानामनित्यताम् ॥२२७॥
सर्वेषाम् च एव दिव्यानाम् अस्त्राणाम् अप्रसन्न-ताम् । नाशम् वृष्णि-कलत्राणाम् प्रभावानाम् अनित्य-ताम् ॥२२७॥
sarveṣām ca eva divyānām astrāṇām aprasanna-tām . nāśam vṛṣṇi-kalatrāṇām prabhāvānām anitya-tām ..227..
दृष्ट्वा निर्वेदमापन्नो व्यासवाक्यप्रचोदितः । धर्मराजं समासाद्य संन्यासं समरोचयेत् ॥२२८॥
दृष्ट्वा निर्वेदम् आपन्नः व्यास-वाक्य-प्रचोदितः । धर्मराजम् समासाद्य संन्यासम् समरोचयेत् ॥२२८॥
dṛṣṭvā nirvedam āpannaḥ vyāsa-vākya-pracoditaḥ . dharmarājam samāsādya saṃnyāsam samarocayet ..228..
इत्येतन्मौसलं पर्व षोडशं परिकीर्तितम् । अध्यायाष्टौ समाख्याताः श्लोकानां च शतत्रयम् ॥२२९॥
इति एतत् मौसलम् पर्व षोडशम् परिकीर्तितम् । अध्याय-अष्टौ समाख्याताः श्लोकानाम् च शत-त्रयम् ॥२२९॥
iti etat mausalam parva ṣoḍaśam parikīrtitam . adhyāya-aṣṭau samākhyātāḥ ślokānām ca śata-trayam ..229..
महाप्रस्थानिकं तस्मादूर्ध्वं सप्तदशं स्मृतम् । यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः ॥२३०॥ ( द्रौपद्या सहिता देव्या सिद्धिं परमिकां गताः ॥२३०॥ )
महाप्रस्थानिकम् तस्मात् ऊर्ध्वम् सप्तदशम् स्मृतम् । यत्र राज्यम् परित्यज्य पाण्डवाः पुरुष-ऋषभाः ॥२३०॥ ( द्रौपद्या सहिताः देव्या सिद्धिम् परमिकाम् गताः ॥२३०॥ )
mahāprasthānikam tasmāt ūrdhvam saptadaśam smṛtam . yatra rājyam parityajya pāṇḍavāḥ puruṣa-ṛṣabhāḥ ..230.. ( draupadyā sahitāḥ devyā siddhim paramikām gatāḥ ..230.. )
अत्राध्यायास्त्रयः प्रोक्ताः श्लोकानां च शतं तथा । विंशतिश्च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना ॥२३१॥
अत्र अध्यायाः त्रयः प्रोक्ताः श्लोकानाम् च शतम् तथा । विंशतिः च तथा श्लोकाः सङ्ख्याताः तत्त्व-दर्शिना ॥२३१॥
atra adhyāyāḥ trayaḥ proktāḥ ślokānām ca śatam tathā . viṃśatiḥ ca tathā ślokāḥ saṅkhyātāḥ tattva-darśinā ..231..
स्वर्गपर्व ततो ज्ञेयं दिव्यं यत्तदमानुषम् । अध्यायाः पञ्च सङ्ख्याताः पर्वैतदभिसङ्ख्यया ॥२३२॥ ( श्लोकानां द्वे शते चैव प्रसङ्ख्याते तपोधनाः ॥२३२॥ )
स्वर्गपर्व ततस् ज्ञेयम् दिव्यम् यत् तत् अमानुषम् । अध्यायाः पञ्च सङ्ख्याताः पर्व एतत् अभिसङ्ख्यया ॥२३२॥ ( श्लोकानाम् द्वे शते च एव प्रसङ्ख्याते तपोधनाः ॥२३२॥ )
svargaparva tatas jñeyam divyam yat tat amānuṣam . adhyāyāḥ pañca saṅkhyātāḥ parva etat abhisaṅkhyayā ..232.. ( ślokānām dve śate ca eva prasaṅkhyāte tapodhanāḥ ..232.. )
अष्टादशैवमेतानि पर्वाण्युक्तान्यशेषतः । खिलेषु हरिवंशश्च भविष्यच्च प्रकीर्तितम् ॥२३३॥
अष्टादश एवम् एतानि पर्वाणि उक्तानि अशेषतस् । खिलेषु हरिवंशः च भविष्यत् च प्रकीर्तितम् ॥२३३॥
aṣṭādaśa evam etāni parvāṇi uktāni aśeṣatas . khileṣu harivaṃśaḥ ca bhaviṣyat ca prakīrtitam ..233..
एतदखिलमाख्यातं भारतं पर्वसङ्ग्रहात् । अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया ॥२३४॥ ( तन्महद्दारुणं युद्धमहान्यष्टादशाभवत् ॥२३४॥ )
एतत् अखिलम् आख्यातम् भारतम् पर्व-सङ्ग्रहात् । अष्टादश समाजग्मुः अक्षौहिण्यः युयुत्सया ॥२३४॥ ( तत् महत् दारुणम् युद्ध-महानि अष्टादश अभवत् ॥२३४॥ )
etat akhilam ākhyātam bhāratam parva-saṅgrahāt . aṣṭādaśa samājagmuḥ akṣauhiṇyaḥ yuyutsayā ..234.. ( tat mahat dāruṇam yuddha-mahāni aṣṭādaśa abhavat ..234.. )
यो विद्याच्चतुरो वेदान्साङ्गोपनिषदान्द्विजः । न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः ॥२३५॥
यः विद्यात् चतुरः वेदान् साङ्ग-उपनिषदान् द्विजः । न च आख्यानम् इदम् विद्यात् ना एव स स्यात् विचक्षणः ॥२३५॥
yaḥ vidyāt caturaḥ vedān sāṅga-upaniṣadān dvijaḥ . na ca ākhyānam idam vidyāt nā eva sa syāt vicakṣaṇaḥ ..235..
श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यन्न रोचते । पुंस्कोकिलरुतं श्रुत्वा रूक्षा ध्वाङ्क्षस्य वागिव ॥२३६॥
श्रुत्वा तु इदम् उपाख्यानम् श्राव्यम् अन्यत् न रोचते । पुंस्कोकिल-रुतम् श्रुत्वा रूक्षा ध्वाङ्क्षस्य वाच् इव ॥२३६॥
śrutvā tu idam upākhyānam śrāvyam anyat na rocate . puṃskokila-rutam śrutvā rūkṣā dhvāṅkṣasya vāc iva ..236..
इतिहासोत्तमादस्माज्जायन्ते कविबुद्धयः । पञ्चभ्य इव भूतेभ्यो लोकसंविधयस्त्रयः ॥२३७॥
इतिहास-उत्तमात् अस्मात् जायन्ते कवि-बुद्धयः । पञ्चभ्यः इव भूतेभ्यः लोक-संविधयः त्रयः ॥२३७॥
itihāsa-uttamāt asmāt jāyante kavi-buddhayaḥ . pañcabhyaḥ iva bhūtebhyaḥ loka-saṃvidhayaḥ trayaḥ ..237..
अस्याख्यानस्य विषये पुराणं वर्तते द्विजाः । अन्तरिक्षस्य विषये प्रजा इव चतुर्विधाः ॥२३८॥
अस्य आख्यानस्य विषये पुराणम् वर्तते द्विजाः । अन्तरिक्षस्य विषये प्रजाः इव चतुर्विधाः ॥२३८॥
asya ākhyānasya viṣaye purāṇam vartate dvijāḥ . antarikṣasya viṣaye prajāḥ iva caturvidhāḥ ..238..
क्रियागुणानां सर्वेषामिदमाख्यानमाश्रयः । इन्द्रियाणां समस्तानां चित्रा इव मनःक्रियाः ॥२३९॥
क्रिया-गुणानाम् सर्वेषाम् इदम् आख्यानम् आश्रयः । इन्द्रियाणाम् समस्तानाम् चित्राः इव मनः-क्रियाः ॥२३९॥
kriyā-guṇānām sarveṣām idam ākhyānam āśrayaḥ . indriyāṇām samastānām citrāḥ iva manaḥ-kriyāḥ ..239..
अनाश्रित्यैतदाख्यानं कथा भुवि न विद्यते । आहारमनपाश्रित्य शरीरस्येव धारणम् ॥२४०॥
अन् आश्रित्य एतत् आख्यानम् कथा भुवि न विद्यते । आहारम् अन् अपाश्रित्य शरीरस्य इव धारणम् ॥२४०॥
an āśritya etat ākhyānam kathā bhuvi na vidyate . āhāram an apāśritya śarīrasya iva dhāraṇam ..240..
इदं सर्वैः कविवरैराख्यानमुपजीव्यते । उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः ॥२४१॥
इदम् सर्वैः कवि-वरैः आख्यानम् उपजीव्यते । उदय-प्रेप्सुभिः भृत्यैः अभिजातः इव ईश्वरः ॥२४१॥
idam sarvaiḥ kavi-varaiḥ ākhyānam upajīvyate . udaya-prepsubhiḥ bhṛtyaiḥ abhijātaḥ iva īśvaraḥ ..241..
द्वैपायनौष्ठपुटनिःसृतमप्रमेयं; पुण्यं पवित्रमथ पापहरं शिवं च । यो भारतं समधिगच्छति वाच्यमानं; किं तस्य पुष्करजलैरभिषेचनेन ॥२४२॥
द्वैपायन-ओष्ठ-पुट-निःसृतम् अप्रमेयम्; पुण्यम् पवित्रम् अथ पाप-हरम् शिवम् च । यः भारतम् समधिगच्छति वाच्यमानम्; किम् तस्य पुष्कर-जलैः अभिषेचनेन ॥२४२॥
dvaipāyana-oṣṭha-puṭa-niḥsṛtam aprameyam; puṇyam pavitram atha pāpa-haram śivam ca . yaḥ bhāratam samadhigacchati vācyamānam; kim tasya puṣkara-jalaiḥ abhiṣecanena ..242..
आख्यानं तदिदमनुत्तमं महार्थं; विन्यस्तं महदिह पर्वसङ्ग्रहेण । श्रुत्वादौ भवति नृणां सुखावगाहं; विस्तीर्णं लवणजलं यथा प्लवेन ॥२४३॥ 1.2.396
आख्यानम् तत् इदम् अनुत्तमम् महा-अर्थम्; विन्यस्तम् महत् इह पर्व-सङ्ग्रहेण । श्रुत्वा आदौ भवति नृणाम् सुख-अवगाहम्; विस्तीर्णम् लवणजलम् यथा प्लवेन ॥२४३॥ १।२।३९६
ākhyānam tat idam anuttamam mahā-artham; vinyastam mahat iha parva-saṅgraheṇa . śrutvā ādau bhavati nṛṇām sukha-avagāham; vistīrṇam lavaṇajalam yathā plavena ..243.. 1.2.396

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In