| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच॥
तं समुद्रमतिक्रम्य कद्रूर्विनतया सह । न्यपतत्तुरगाभ्याशे नचिरादिव शीघ्रगा ॥१॥
तम् समुद्रम् अतिक्रम्य कद्रूः विनतया सह । न्यपतत् तुरग-अभ्याशे नचिरात् इव शीघ्र-गा ॥१॥
tam samudram atikramya kadrūḥ vinatayā saha . nyapatat turaga-abhyāśe nacirāt iva śīghra-gā ..1..
निशाम्य च बहून्वालान्कृष्णान्पुच्छं समाश्रितान् । विनतां विषण्णवदनां कद्रूर्दास्ये न्ययोजयत् ॥२॥
निशाम्य च बहून् वालान् कृष्णान् पुच्छम् समाश्रितान् । विनताम् विषण्ण-वदनाम् कद्रूः दास्ये न्ययोजयत् ॥२॥
niśāmya ca bahūn vālān kṛṣṇān puccham samāśritān . vinatām viṣaṇṇa-vadanām kadrūḥ dāsye nyayojayat ..2..
ततः सा विनता तस्मिन्पणितेन पराजिता । अभवद्दुःखसन्तप्ता दासीभावं समास्थिता ॥३॥
ततस् सा विनता तस्मिन् पणितेन पराजिता । अभवत् दुःख-सन्तप्ता दासी-भावम् समास्थिता ॥३॥
tatas sā vinatā tasmin paṇitena parājitā . abhavat duḥkha-santaptā dāsī-bhāvam samāsthitā ..3..
एतस्मिन्नन्तरे चैव गरुडः काल आगते । विना मात्रा महातेजा विदार्याण्डमजायत ॥४॥
एतस्मिन् अन्तरे च एव गरुडः काले आगते । विना मात्रा महा-तेजाः विदार्य अण्डम् अजायत ॥४॥
etasmin antare ca eva garuḍaḥ kāle āgate . vinā mātrā mahā-tejāḥ vidārya aṇḍam ajāyata ..4..
अग्निराशिरिवोद्भासन्समिद्धोऽतिभयङ्करः । प्रवृद्धः सहसा पक्षी महाकायो नभोगतः ॥५॥
अग्नि-राशिः इव उद्भासन् समिद्धः अति भयङ्करः । प्रवृद्धः सहसा पक्षी महा-कायः नभः-गतः ॥५॥
agni-rāśiḥ iva udbhāsan samiddhaḥ ati bhayaṅkaraḥ . pravṛddhaḥ sahasā pakṣī mahā-kāyaḥ nabhaḥ-gataḥ ..5..
तं दृष्ट्वा शरणं जग्मुः प्रजाः सर्वा विभावसुम् । प्रणिपत्याब्रुवंश्चैनमासीनं विश्वरूपिणम् ॥६॥
तम् दृष्ट्वा शरणम् जग्मुः प्रजाः सर्वाः विभावसुम् । प्रणिपत्य अब्रुवन् च एनम् आसीनम् विश्व-रूपिणम् ॥६॥
tam dṛṣṭvā śaraṇam jagmuḥ prajāḥ sarvāḥ vibhāvasum . praṇipatya abruvan ca enam āsīnam viśva-rūpiṇam ..6..
अग्ने मा त्वं प्रवर्धिष्ठाः कच्चिन्नो न दिधक्षसि । असौ हि राशिः सुमहान्समिद्धस्तव सर्पति ॥७॥
अग्ने मा त्वम् प्रवर्धिष्ठाः कच्चित् नः न दिधक्षसि । असौ हि राशिः सु महान् समिद्धः तव सर्पति ॥७॥
agne mā tvam pravardhiṣṭhāḥ kaccit naḥ na didhakṣasi . asau hi rāśiḥ su mahān samiddhaḥ tava sarpati ..7..
अग्निरुवाच॥
नैतदेवं यथा यूयं मन्यध्वमसुरार्दनाः । गरुडो बलवानेष मम तुल्यः स्वतेजसा ॥८॥
न एतत् एवम् यथा यूयम् मन्यध्वम् असुर-अर्दनाः । गरुडः बलवान् एष मम तुल्यः स्व-तेजसा ॥८॥
na etat evam yathā yūyam manyadhvam asura-ardanāḥ . garuḍaḥ balavān eṣa mama tulyaḥ sva-tejasā ..8..
सूत उवाच॥
एवमुक्तास्ततो गत्वा गरुडं वाग्भिरस्तुवन् । अदूरादभ्युपेत्यैनं देवाः सर्षिगणास्तदा ॥९॥
एवम् उक्ताः ततस् गत्वा गरुडम् वाग्भिः अस्तुवन् । अदूरात् अभ्युपेत्य एनम् देवाः स ऋषि-गणाः तदा ॥९॥
evam uktāḥ tatas gatvā garuḍam vāgbhiḥ astuvan . adūrāt abhyupetya enam devāḥ sa ṛṣi-gaṇāḥ tadā ..9..
त्वमृषिस्त्वं महाभागस्त्वं देवः पतगेश्वरः । त्वं प्रभुस्तपनप्रख्यस्त्वं नस्त्राणमनुत्तमम् ॥१०॥
त्वम् ऋषिः त्वम् महाभागः त्वम् देवः पतग-ईश्वरः । त्वम् प्रभुः तपन-प्रख्यः त्वम् नः त्राणम् अनुत्तमम् ॥१०॥
tvam ṛṣiḥ tvam mahābhāgaḥ tvam devaḥ pataga-īśvaraḥ . tvam prabhuḥ tapana-prakhyaḥ tvam naḥ trāṇam anuttamam ..10..
बलोर्मिमान्साधुरदीनसत्त्वः; समृद्धिमान्दुष्प्रसहस्त्वमेव । तपः श्रुतं सर्वमहीनकीर्ते; अनागतं चोपगतं च सर्वम् ॥११॥
बल-ऊर्मिमान् साधुः अदीन-सत्त्वः; समृद्धिमान् दुष्प्रसहः त्वम् एव । तपः श्रुतम् सर्वम् अहीन-कीर्ते; अनागतम् च उपगतम् च सर्वम् ॥११॥
bala-ūrmimān sādhuḥ adīna-sattvaḥ; samṛddhimān duṣprasahaḥ tvam eva . tapaḥ śrutam sarvam ahīna-kīrte; anāgatam ca upagatam ca sarvam ..11..
त्वमुत्तमः सर्वमिदं चराचरं; गभस्तिभिर्भानुरिवावभाससे । समाक्षिपन्भानुमतः प्रभां मुहु; स्त्वमन्तकः सर्वमिदं ध्रुवाध्रुवम् ॥१२॥
त्वम् उत्तमः सर्वम् इदम् चराचरम्; गभस्तिभिः भानुः इव अवभाससे । समाक्षिपन् भानुमतः प्रभाम् मुहु; स्त्वम् अन्तकः सर्वम् इदम् ध्रुव-अध्रुवम् ॥१२॥
tvam uttamaḥ sarvam idam carācaram; gabhastibhiḥ bhānuḥ iva avabhāsase . samākṣipan bhānumataḥ prabhām muhu; stvam antakaḥ sarvam idam dhruva-adhruvam ..12..
दिवाकरः परिकुपितो यथा दहे; त्प्रजास्तथा दहसि हुताशनप्रभ । भयङ्करः प्रलय इवाग्निरुत्थितो; विनाशयन्युगपरिवर्तनान्तकृत् ॥१३॥
दिवाकरः परिकुपितः यथा दहे; त्-प्रजाः तथा दहसि हुताशन-प्रभ । भयङ्करः प्रलये इव अग्निः उत्थितः; विनाशयन् युग-परिवर्तन-अन्त-कृत् ॥१३॥
divākaraḥ parikupitaḥ yathā dahe; t-prajāḥ tathā dahasi hutāśana-prabha . bhayaṅkaraḥ pralaye iva agniḥ utthitaḥ; vināśayan yuga-parivartana-anta-kṛt ..13..
खगेश्वरं शरणमुपस्थिता वयं; महौजसं वितिमिरमभ्रगोचरम् । महाबलं गरुडमुपेत्य खेचरं; परावरं वरदमजय्यविक्रमम् ॥१४॥
खगेश्वरम् शरणम् उपस्थिताः वयम्; महा-ओजसम् वितिमिरम् अभ्र-गोचरम् । महा-बलम् गरुडम् उपेत्य खेचरम्; परावरम् वर-दम् अजय्य-विक्रमम् ॥१४॥
khageśvaram śaraṇam upasthitāḥ vayam; mahā-ojasam vitimiram abhra-gocaram . mahā-balam garuḍam upetya khecaram; parāvaram vara-dam ajayya-vikramam ..14..
एवं स्तुतः सुपर्णस्तु देवैः सर्षिगणैस्तदा । तेजसः प्रतिसंहारमात्मनः स चकार ह ॥१५॥1.23.27
एवम् स्तुतः सुपर्णः तु देवैः स ऋषि-गणैः तदा । तेजसः प्रतिसंहारम् आत्मनः स चकार ह ॥१५॥१।२३।२७
evam stutaḥ suparṇaḥ tu devaiḥ sa ṛṣi-gaṇaiḥ tadā . tejasaḥ pratisaṃhāram ātmanaḥ sa cakāra ha ..15..1.23.27

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In