| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

जनमेजय उवाच॥
एवं सम्प्राप्य राज्यं तदिन्द्रप्रस्थे तपोधन । अत ऊर्ध्वं महात्मानः किमकुर्वन्त पाण्डवाः ॥१॥
एवम् सम्प्राप्य राज्यम् तत् इन्द्रप्रस्थे तपोधन । अतस् ऊर्ध्वम् महात्मानः किम् अकुर्वन्त पाण्डवाः ॥१॥
evam samprāpya rājyam tat indraprasthe tapodhana . atas ūrdhvam mahātmānaḥ kim akurvanta pāṇḍavāḥ ..1..
सर्व एव महात्मानः पूर्वे मम पितामहाः । द्रौपदी धर्मपत्नी च कथं तानन्ववर्तत ॥२॥
सर्वे एव महात्मानः पूर्वे मम पितामहाः । द्रौपदी धर्मपत्नी च कथम् तान् अन्ववर्तत ॥२॥
sarve eva mahātmānaḥ pūrve mama pitāmahāḥ . draupadī dharmapatnī ca katham tān anvavartata ..2..
कथं वा पञ्च कृष्णायामेकस्यां ते नराधिपाः । वर्तमाना महाभागा नाभिद्यन्त परस्परम् ॥३॥
कथम् वा पञ्च कृष्णायाम् एकस्याम् ते नराधिपाः । वर्तमानाः महाभागाः न अभिद्यन्त परस्परम् ॥३॥
katham vā pañca kṛṣṇāyām ekasyām te narādhipāḥ . vartamānāḥ mahābhāgāḥ na abhidyanta parasparam ..3..
श्रोतुमिच्छाम्यहं सर्वं विस्तरेण तपोधन । तेषां चेष्टितमन्योन्यं युक्तानां कृष्णया तया ॥४॥
श्रोतुम् इच्छामि अहम् सर्वम् विस्तरेण तपोधन । तेषाम् चेष्टितम् अन्योन्यम् युक्तानाम् कृष्णया तया ॥४॥
śrotum icchāmi aham sarvam vistareṇa tapodhana . teṣām ceṣṭitam anyonyam yuktānām kṛṣṇayā tayā ..4..
वैशम्पायन उवाच॥
धृतराष्ट्राभ्यनुज्ञाताः कृष्णया सह पाण्डवाः । रेमिरे पुरुषव्याघ्राः प्राप्तराज्याः परन्तपाः ॥५॥
धृतराष्ट्र-अभ्यनुज्ञाताः कृष्णया सह पाण्डवाः । रेमिरे पुरुष-व्याघ्राः प्राप्त-राज्याः परन्तपाः ॥५॥
dhṛtarāṣṭra-abhyanujñātāḥ kṛṣṇayā saha pāṇḍavāḥ . remire puruṣa-vyāghrāḥ prāpta-rājyāḥ parantapāḥ ..5..
प्राप्य राज्यं महातेजाः सत्यसन्धो युधिष्ठिरः । पालयामास धर्मेण पृथिवीं भ्रातृभिः सह ॥६॥
प्राप्य राज्यम् महा-तेजाः सत्य-सन्धः युधिष्ठिरः । पालयामास धर्मेण पृथिवीम् भ्रातृभिः सह ॥६॥
prāpya rājyam mahā-tejāḥ satya-sandhaḥ yudhiṣṭhiraḥ . pālayāmāsa dharmeṇa pṛthivīm bhrātṛbhiḥ saha ..6..
जितारयो महाप्राज्ञाः सत्यधर्मपरायणाः । मुदं परमिकां प्राप्तास्तत्रोषुः पाण्डुनन्दनाः ॥७॥
जित-अरयः महा-प्राज्ञाः सत्य-धर्म-परायणाः । मुदम् परमिकाम् प्राप्ताः तत्र ऊषुः पाण्डु-नन्दनाः ॥७॥
jita-arayaḥ mahā-prājñāḥ satya-dharma-parāyaṇāḥ . mudam paramikām prāptāḥ tatra ūṣuḥ pāṇḍu-nandanāḥ ..7..
कुर्वाणाः पौरकार्याणि सर्वाणि पुरुषर्षभाः । आसां चक्रुर्महार्हेषु पार्थिवेष्वासनेषु च ॥८॥
कुर्वाणाः पौर-कार्याणि सर्वाणि पुरुष-ऋषभाः । आसाम् चक्रुः महार्हेषु पार्थिवेषु आसनेषु च ॥८॥
kurvāṇāḥ paura-kāryāṇi sarvāṇi puruṣa-ṛṣabhāḥ . āsām cakruḥ mahārheṣu pārthiveṣu āsaneṣu ca ..8..
अथ तेषूपविष्टेषु सर्वेष्वेव महात्मसु । नारदस्त्वथ देवर्षिराजगाम यदृच्छया ॥९॥ ( आसनं रुचिरं तस्मै प्रददौ स्वं युधिष्ठिरः ॥९॥ )
अथ तेषु उपविष्टेषु सर्वेषु एव महात्मसु । नारदः तु अथ देव-ऋषिः आजगाम यदृच्छया ॥९॥ ( आसनम् रुचिरम् तस्मै प्रददौ स्वम् युधिष्ठिरः ॥९॥ )
atha teṣu upaviṣṭeṣu sarveṣu eva mahātmasu . nāradaḥ tu atha deva-ṛṣiḥ ājagāma yadṛcchayā ..9.. ( āsanam ruciram tasmai pradadau svam yudhiṣṭhiraḥ ..9.. )
देवर्षेरुपविष्टस्य स्वयमर्घ्यं यथाविधि । प्रादाद्युधिष्ठिरो धीमान्राज्यं चास्मै न्यवेदयत् ॥१०॥
देवर्षेः उपविष्टस्य स्वयम् अर्घ्यम् यथाविधि । प्रादात् युधिष्ठिरः धीमान् राज्यम् च अस्मै न्यवेदयत् ॥१०॥
devarṣeḥ upaviṣṭasya svayam arghyam yathāvidhi . prādāt yudhiṣṭhiraḥ dhīmān rājyam ca asmai nyavedayat ..10..
प्रतिगृह्य तु तां पूजामृषिः प्रीतमनाभवत् । आशीर्भिर्वर्धयित्वा तु तमुवाचास्यतामिति ॥११॥
प्रतिगृह्य तु ताम् पूजाम् ऋषिः प्रीत-मनाः भवत् । आशीर्भिः वर्धयित्वा तु तम् उवाच आस्यताम् इति ॥११॥
pratigṛhya tu tām pūjām ṛṣiḥ prīta-manāḥ bhavat . āśīrbhiḥ vardhayitvā tu tam uvāca āsyatām iti ..11..
निषसादाभ्यनुज्ञातस्ततो राजा युधिष्ठिरः । प्रेषयामास कृष्णायै भगवन्तमुपस्थितम् ॥१२॥
निषसाद अभ्यनुज्ञातः ततस् राजा युधिष्ठिरः । प्रेषयामास कृष्णायै भगवन्तम् उपस्थितम् ॥१२॥
niṣasāda abhyanujñātaḥ tatas rājā yudhiṣṭhiraḥ . preṣayāmāsa kṛṣṇāyai bhagavantam upasthitam ..12..
श्रुत्वैव द्रौपदी चापि शुचिर्भूत्वा समाहिता । जगाम तत्र यत्रास्ते नारदः पाण्डवैः सह ॥१३॥
श्रुत्वा एव द्रौपदी च अपि शुचिः भूत्वा समाहिता । जगाम तत्र यत्र आस्ते नारदः पाण्डवैः सह ॥१३॥
śrutvā eva draupadī ca api śuciḥ bhūtvā samāhitā . jagāma tatra yatra āste nāradaḥ pāṇḍavaiḥ saha ..13..
तस्याभिवाद्य चरणौ देवर्षेर्धर्मचारिणी । कृताञ्जलिः सुसंवीता स्थिताथ द्रुपदात्मजा ॥१४॥
तस्य अभिवाद्य चरणौ देवर्षेः धर्म-चारिणी । कृताञ्जलिः सु संवीता स्थिता अथ द्रुपद-आत्मजा ॥१४॥
tasya abhivādya caraṇau devarṣeḥ dharma-cāriṇī . kṛtāñjaliḥ su saṃvītā sthitā atha drupada-ātmajā ..14..
तस्याश्चापि स धर्मात्मा सत्यवागृषिसत्तमः । आशिषो विविधाः प्रोच्य राजपुत्र्यास्तु नारदः ॥१५॥ ( गम्यतामिति होवाच भगवांस्तामनिन्दिताम् ॥१५॥ )
तस्याः च अपि स धर्म-आत्मा सत्य-वाच् ऋषि-सत्तमः । आशिषः विविधाः प्रोच्य राज-पुत्र्याः तु नारदः ॥१५॥ ( गम्यताम् इति ह उवाच भगवान् ताम् अनिन्दिताम् ॥१५॥ )
tasyāḥ ca api sa dharma-ātmā satya-vāc ṛṣi-sattamaḥ . āśiṣaḥ vividhāḥ procya rāja-putryāḥ tu nāradaḥ ..15.. ( gamyatām iti ha uvāca bhagavān tām aninditām ..15.. )
गतायामथ कृष्णायां युधिष्ठिरपुरोगमान् । विविक्ते पाण्डवान्सर्वानुवाच भगवानृषिः ॥१६॥
गतायाम् अथ कृष्णायाम् युधिष्ठिर-पुरोगमान् । विविक्ते पाण्डवान् सर्वान् उवाच भगवान् ऋषिः ॥१६॥
gatāyām atha kṛṣṇāyām yudhiṣṭhira-purogamān . vivikte pāṇḍavān sarvān uvāca bhagavān ṛṣiḥ ..16..
पाञ्चाली भवतामेका धर्मपत्नी यशस्विनी । यथा वो नात्र भेदः स्यात्तथा नीतिर्विधीयताम् ॥१७॥
पाञ्चाली भवताम् एका धर्म-पत्नी यशस्विनी । यथा वः ना अत्र भेदः स्यात् तथा नीतिः विधीयताम् ॥१७॥
pāñcālī bhavatām ekā dharma-patnī yaśasvinī . yathā vaḥ nā atra bhedaḥ syāt tathā nītiḥ vidhīyatām ..17..
सुन्दोपसुन्दावसुरौ भ्रातरौ सहितावुभौ । आस्तामवध्यावन्येषां त्रिषु लोकेषु विश्रुतौ ॥१८॥
सुन्द-उपसुन्दौ असुरौ भ्रातरौ सहितौ उभौ । आस्ताम् अवध्यौ अन्येषाम् त्रिषु लोकेषु विश्रुतौ ॥१८॥
sunda-upasundau asurau bhrātarau sahitau ubhau . āstām avadhyau anyeṣām triṣu lokeṣu viśrutau ..18..
एकराज्यावेकगृहावेकशय्यासनाशनौ । तिलोत्तमायास्तौ हेतोरन्योन्यमभिजघ्नतुः ॥१९॥
एक-राज्यौ एक-गृहौ एक-शय्या-आसन-अशनौ । तिलोत्तमायाः तौ हेतोः अन्योन्यम् अभिजघ्नतुः ॥१९॥
eka-rājyau eka-gṛhau eka-śayyā-āsana-aśanau . tilottamāyāḥ tau hetoḥ anyonyam abhijaghnatuḥ ..19..
रक्ष्यतां सौहृदं तस्मादन्योन्यप्रतिभाविकम् । यथा वो नात्र भेदः स्यात्तत्कुरुष्व युधिष्ठिर ॥२०॥
रक्ष्यताम् सौहृदम् तस्मात् अन्योन्य-प्रतिभाविकम् । यथा वः ना अत्र भेदः स्यात् तत् कुरुष्व युधिष्ठिर ॥२०॥
rakṣyatām sauhṛdam tasmāt anyonya-pratibhāvikam . yathā vaḥ nā atra bhedaḥ syāt tat kuruṣva yudhiṣṭhira ..20..
युधिष्ठिर उवाच॥
सुन्दोपसुन्दावसुरौ कस्य पुत्रौ महामुने । उत्पन्नश्च कथं भेदः कथं चान्योन्यमघ्नताम् ॥२१॥
सुन्द-उपसुन्दौ असुरौ कस्य पुत्रौ महा-मुने । उत्पन्नः च कथम् भेदः कथम् च अन्योन्यम् अघ्नताम् ॥२१॥
sunda-upasundau asurau kasya putrau mahā-mune . utpannaḥ ca katham bhedaḥ katham ca anyonyam aghnatām ..21..
अप्सरा देवकन्या वा कस्य चैषा तिलोत्तमा । यस्याः कामेन संमत्तौ जघ्नतुस्तौ परस्परम् ॥२२॥
अप्सराः देव-कन्या वा कस्य च एषा तिलोत्तमा । यस्याः कामेन संमत्तौ जघ्नतुः तौ परस्परम् ॥२२॥
apsarāḥ deva-kanyā vā kasya ca eṣā tilottamā . yasyāḥ kāmena saṃmattau jaghnatuḥ tau parasparam ..22..
एतत्सर्वं यथावृत्तं विस्तरेण तपोधन । श्रोतुमिच्छामहे विप्र परं कौतूहलं हि नः ॥२३॥1.207.24
एतत् सर्वम् यथावृत्तम् विस्तरेण तपोधन । श्रोतुम् इच्छामहे विप्र परम् कौतूहलम् हि नः ॥२३॥१।२०७।२४
etat sarvam yathāvṛttam vistareṇa tapodhana . śrotum icchāmahe vipra param kautūhalam hi naḥ ..23..1.207.24

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In