| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

नारद उवाच॥
शृणु मे विस्तरेणेममितिहासं पुरातनम् । भ्रातृभीः सहितः पार्थ यथावृत्तं युधिष्ठिर ॥१॥
शृणु मे विस्तरेण इमम् इतिहासम् पुरातनम् । भ्रातृभिः सहितः पार्थ यथावृत्तम् युधिष्ठिर ॥१॥
śṛṇu me vistareṇa imam itihāsam purātanam . bhrātṛbhiḥ sahitaḥ pārtha yathāvṛttam yudhiṣṭhira ..1..
महासुरस्यान्ववाये हिरण्यकशिपोः पुरा । निकुम्भो नाम दैत्येन्द्रस्तेजस्वी बलवानभूत् ॥२॥
महा-असुरस्य अन्ववाये हिरण्यकशिपोः पुरा । निकुम्भः नाम दैत्य-इन्द्रः तेजस्वी बलवान् अभूत् ॥२॥
mahā-asurasya anvavāye hiraṇyakaśipoḥ purā . nikumbhaḥ nāma daitya-indraḥ tejasvī balavān abhūt ..2..
तस्य पुत्रौ महावीर्यौ जातौ भीमपराक्रमौ । सहान्योन्येन भुञ्जाते विनान्योन्यं न गच्छतः ॥३॥
तस्य पुत्रौ महा-वीर्यौ जातौ भीम-पराक्रमौ । सह अन्योन्येन भुञ्जाते विना अन्योन्यम् न गच्छतः ॥३॥
tasya putrau mahā-vīryau jātau bhīma-parākramau . saha anyonyena bhuñjāte vinā anyonyam na gacchataḥ ..3..
अन्योन्यस्य प्रियकरावन्योन्यस्य प्रियंवदौ । एकशीलसमाचारौ द्विधैवैकं यथा कृतौ ॥४॥
अन्योन्यस्य प्रिय-करौ अन्योन्यस्य प्रियंवदौ । एक-शील-समाचारौ द्विधा एव एकम् यथा कृतौ ॥४॥
anyonyasya priya-karau anyonyasya priyaṃvadau . eka-śīla-samācārau dvidhā eva ekam yathā kṛtau ..4..
तौ विवृद्धौ महावीर्यौ कार्येष्वप्येकनिश्चयौ । त्रैलोक्यविजयार्थाय समास्थायैकनिश्चयम् ॥५॥
तौ विवृद्धौ महा-वीर्यौ कार्येषु अपि एक-निश्चयौ । त्रैलोक्य-विजय-अर्थाय समास्थाय एक-निश्चयम् ॥५॥
tau vivṛddhau mahā-vīryau kāryeṣu api eka-niścayau . trailokya-vijaya-arthāya samāsthāya eka-niścayam ..5..
कृत्वा दीक्षां गतौ विन्ध्यं तत्रोग्रं तेपतुस्तपः । तौ तु दीर्घेण कालेन तपोयुक्तौ बभूवतुः ॥६॥
कृत्वा दीक्षाम् गतौ विन्ध्यम् तत्र उग्रम् तेपतुः तपः । तौ तु दीर्घेण कालेन तपः-युक्तौ बभूवतुः ॥६॥
kṛtvā dīkṣām gatau vindhyam tatra ugram tepatuḥ tapaḥ . tau tu dīrgheṇa kālena tapaḥ-yuktau babhūvatuḥ ..6..
क्षुत्पिपासापरिश्रान्तौ जटावल्कलधारिणौ । मलोपचितसर्वाङ्गौ वायुभक्षौ बभूवतुः ॥७॥
क्षुध्-पिपासा-परिश्रान्तौ जटा-वल्कल-धारिणौ । मल-उपचित-सर्व-अङ्गौ वायुभक्षौ बभूवतुः ॥७॥
kṣudh-pipāsā-pariśrāntau jaṭā-valkala-dhāriṇau . mala-upacita-sarva-aṅgau vāyubhakṣau babhūvatuḥ ..7..
आत्ममांसानि जुह्वन्तौ पादाङ्गुष्ठाग्रधिष्ठितौ । ऊर्ध्वबाहू चानिमिषौ दीर्घकालं धृतव्रतौ ॥८॥
आत्म-मांसानि जुह्वन्तौ पाद-अङ्गुष्ठ-अग्र-धिष्ठितौ । ऊर्ध्वबाहू च अनिमिषौ दीर्घ-कालम् धृत-व्रतौ ॥८॥
ātma-māṃsāni juhvantau pāda-aṅguṣṭha-agra-dhiṣṭhitau . ūrdhvabāhū ca animiṣau dīrgha-kālam dhṛta-vratau ..8..
तयोस्तपःप्रभावेण दीर्घकालं प्रतापितः । धूमं प्रमुमुचे विन्ध्यस्तदद्भुतमिवाभवत् ॥९॥
तयोः तपः-प्रभावेण दीर्घ-कालम् प्रतापितः । धूमम् प्रमुमुचे विन्ध्यः तत् अद्भुतम् इव अभवत् ॥९॥
tayoḥ tapaḥ-prabhāveṇa dīrgha-kālam pratāpitaḥ . dhūmam pramumuce vindhyaḥ tat adbhutam iva abhavat ..9..
ततो देवाभवन्भीता उग्रं दृष्ट्वा तयोस्तपः । तपोविघातार्थमथो देवा विघ्नानि चक्रिरे ॥१०॥
ततस् देवाः अभवन् भीताः उग्रम् दृष्ट्वा तयोः तपः । तपः-विघात-अर्थम् अथो देवाः विघ्नानि चक्रिरे ॥१०॥
tatas devāḥ abhavan bhītāḥ ugram dṛṣṭvā tayoḥ tapaḥ . tapaḥ-vighāta-artham atho devāḥ vighnāni cakrire ..10..
रत्नैः प्रलोभयामासुः स्त्रीभिश्चोभौ पुनः पुनः । न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ ॥११॥
रत्नैः प्रलोभयामासुः स्त्रीभिः च उभौ पुनर् पुनर् । न च तौ चक्रतुः भङ्गम् व्रतस्य सु महा-व्रतौ ॥११॥
ratnaiḥ pralobhayāmāsuḥ strībhiḥ ca ubhau punar punar . na ca tau cakratuḥ bhaṅgam vratasya su mahā-vratau ..11..
अथ मायां पुनर्देवास्तयोश्चक्रुर्महात्मनोः । भगिन्यो मातरो भार्यास्तयोः परिजनस्तथा ॥१२॥
अथ मायाम् पुनर् देवाः तयोः चक्रुः महात्मनोः । भगिन्यः मातरः भार्याः तयोः परिजनः तथा ॥१२॥
atha māyām punar devāḥ tayoḥ cakruḥ mahātmanoḥ . bhaginyaḥ mātaraḥ bhāryāḥ tayoḥ parijanaḥ tathā ..12..
परिपात्यमाना वित्रस्ताः शूलहस्तेन रक्षसा । स्रस्ताभरणकेशान्ता एकान्तभ्रष्टवाससः ॥१३॥
परिपात्यमानाः वित्रस्ताः शूल-हस्तेन रक्षसा । स्रस्त-आभरण-केशान्ताः एकान्त-भ्रष्ट-वाससः ॥१३॥
paripātyamānāḥ vitrastāḥ śūla-hastena rakṣasā . srasta-ābharaṇa-keśāntāḥ ekānta-bhraṣṭa-vāsasaḥ ..13..
अभिधाव्य ततः सर्वास्तौ त्राहीति विचुक्रुशुः । न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ ॥१४॥
अभिधाव्य ततस् सर्वाः तौ त्राहि इति विचुक्रुशुः । न च तौ चक्रतुः भङ्गम् व्रतस्य सु महा-व्रतौ ॥१४॥
abhidhāvya tatas sarvāḥ tau trāhi iti vicukruśuḥ . na ca tau cakratuḥ bhaṅgam vratasya su mahā-vratau ..14..
यदा क्षोभं नोपयाति नार्तिमन्यतरस्तयोः । ततः स्त्रियस्ता भूतं च सर्वमन्तरधीयत ॥१५॥
यदा क्षोभम् ना उपयाति ना आर्तिम् अन्यतरः तयोः । ततस् स्त्रियः ताः भूतम् च सर्वम् अन्तरधीयत ॥१५॥
yadā kṣobham nā upayāti nā ārtim anyataraḥ tayoḥ . tatas striyaḥ tāḥ bhūtam ca sarvam antaradhīyata ..15..
ततः पितामहः साक्षादभिगम्य महासुरौ । वरेण छन्दयामास सर्वलोकपितामहः ॥१६॥
ततस् पितामहः साक्षात् अभिगम्य महा-असुरौ । वरेण छन्दयामास सर्व-लोक-पितामहः ॥१६॥
tatas pitāmahaḥ sākṣāt abhigamya mahā-asurau . vareṇa chandayāmāsa sarva-loka-pitāmahaḥ ..16..
ततः सुन्दोपसुन्दौ तौ भ्रातरौ दृढविक्रमौ । दृष्ट्वा पितामहं देवं तस्थतुः प्राञ्जली तदा ॥१७॥
ततस् सुन्द-उपसुन्दौ तौ भ्रातरौ दृढ-विक्रमौ । दृष्ट्वा पितामहम् देवम् तस्थतुः प्राञ्जली तदा ॥१७॥
tatas sunda-upasundau tau bhrātarau dṛḍha-vikramau . dṛṣṭvā pitāmaham devam tasthatuḥ prāñjalī tadā ..17..
ऊचतुश्च प्रभुं देवं ततस्तौ सहितौ तदा । आवयोस्तपसानेन यदि प्रीतः पितामहः ॥१८॥
ऊचतुः च प्रभुम् देवम् ततस् तौ सहितौ तदा । आवयोः तपसा अनेन यदि प्रीतः पितामहः ॥१८॥
ūcatuḥ ca prabhum devam tatas tau sahitau tadā . āvayoḥ tapasā anena yadi prītaḥ pitāmahaḥ ..18..
मायाविदावस्त्रविदौ बलिनौ कामरूपिणौ । उभावप्यमरौ स्यावः प्रसन्नो यदि नौ प्रभुः ॥१९॥
माया-विदौ अस्त्र-विदौ बलिनौ कामरूपिणौ । उभौ अपि अमरौ स्यावः प्रसन्नः यदि नौ प्रभुः ॥१९॥
māyā-vidau astra-vidau balinau kāmarūpiṇau . ubhau api amarau syāvaḥ prasannaḥ yadi nau prabhuḥ ..19..
पितामह उवाच॥
ऋतेऽमरत्वमन्यद्वां सर्वमुक्तं भविष्यति । अन्यद्वृणीतां मृत्योश्च विधानममरैः समम् ॥२०॥
ऋते अमर-त्वम् अन्यत् वाम् सर्वम् उक्तम् भविष्यति । अन्यत् वृणीताम् मृत्योः च विधानम् अमरैः समम् ॥२०॥
ṛte amara-tvam anyat vām sarvam uktam bhaviṣyati . anyat vṛṇītām mṛtyoḥ ca vidhānam amaraiḥ samam ..20..
करिष्यावेदमिति यन्महदभ्युत्थितं तपः । युवयोर्हेतुनानेन नामरत्वं विधीयते ॥२१॥
करिष्याव इदम् इति यत् महत् अभ्युत्थितम् तपः । युवयोः हेतुना अनेन न अमर-त्वम् विधीयते ॥२१॥
kariṣyāva idam iti yat mahat abhyutthitam tapaḥ . yuvayoḥ hetunā anena na amara-tvam vidhīyate ..21..
त्रैलोक्यविजयार्थाय भवद्भ्यामास्थितं तपः । हेतुनानेन दैत्येन्द्रौ न वां कामं करोम्यहम् ॥२२॥
त्रैलोक्य-विजय-अर्थाय भवद्भ्याम् आस्थितम् तपः । हेतुना अनेन दैत्य-इन्द्रौ न वाम् कामम् करोमि अहम् ॥२२॥
trailokya-vijaya-arthāya bhavadbhyām āsthitam tapaḥ . hetunā anena daitya-indrau na vām kāmam karomi aham ..22..
सुन्दोपसुन्दावूचतुः॥
त्रिषु लोकेषु यद्भूतं किञ्चित्स्थावरजङ्गमम् । सर्वस्मान्नौ भयं न स्यादृतेऽन्योन्यं पितामह ॥२३॥
त्रिषु लोकेषु यत् भूतम् किञ्चिद् स्थावर-जङ्गमम् । सर्वस्मात् नौ भयम् न स्यात् ऋते अन्योन्यम् पितामह ॥२३॥
triṣu lokeṣu yat bhūtam kiñcid sthāvara-jaṅgamam . sarvasmāt nau bhayam na syāt ṛte anyonyam pitāmaha ..23..
पितामह उवाच॥
यत्प्रार्थितं यथोक्तं च काममेतद्ददानि वाम् । मृत्योर्विधानमेतच्च यथावद्वां भविष्यति ॥२४॥
यत् प्रार्थितम् यथा उक्तम् च कामम् एतत् ददानि वाम् । मृत्योः विधानम् एतत् च यथावत् वाम् भविष्यति ॥२४॥
yat prārthitam yathā uktam ca kāmam etat dadāni vām . mṛtyoḥ vidhānam etat ca yathāvat vām bhaviṣyati ..24..
नारद उवाच॥
ततः पितामहो दत्त्वा वरमेतत्तदा तयोः । निवर्त्य तपसस्तौ च ब्रह्मलोकं जगाम ह ॥२५॥
ततस् पितामहः दत्त्वा वरम् एतत् तदा तयोः । निवर्त्य तपसः तौ च ब्रह्म-लोकम् जगाम ह ॥२५॥
tatas pitāmahaḥ dattvā varam etat tadā tayoḥ . nivartya tapasaḥ tau ca brahma-lokam jagāma ha ..25..
लब्ध्वा वराणि सर्वाणि दैत्येन्द्रावपि तावुभौ । अवध्यौ सर्वलोकस्य स्वमेव भवनं गतौ ॥२६॥
लब्ध्वा वराणि सर्वाणि दैत्य-इन्द्रौ अपि तौ उभौ । अवध्यौ सर्व-लोकस्य स्वम् एव भवनम् गतौ ॥२६॥
labdhvā varāṇi sarvāṇi daitya-indrau api tau ubhau . avadhyau sarva-lokasya svam eva bhavanam gatau ..26..
तौ तु लब्धवरौ दृष्ट्वा कृतकामौ महासुरौ । सर्वः सुहृज्जनस्ताभ्यां प्रमोदमुपजग्मिवान् ॥२७॥
तौ तु लब्ध-वरौ दृष्ट्वा कृत-कामौ महा-असुरौ । सर्वः सुहृद्-जनः ताभ्याम् प्रमोदम् उपजग्मिवान् ॥२७॥
tau tu labdha-varau dṛṣṭvā kṛta-kāmau mahā-asurau . sarvaḥ suhṛd-janaḥ tābhyām pramodam upajagmivān ..27..
ततस्तौ तु जटा हित्वा मौलिनौ सम्बभूवतुः । महार्हाभरणोपेतौ विरजोम्बरधारिणौ ॥२८॥
ततस् तौ तु जटाः हित्वा मौलिनौ सम्बभूवतुः । महार्ह-आभरण-उपेतौ विरज-उम्बर-धारिणौ ॥२८॥
tatas tau tu jaṭāḥ hitvā maulinau sambabhūvatuḥ . mahārha-ābharaṇa-upetau viraja-umbara-dhāriṇau ..28..
अकालकौमुदीं चैव चक्रतुः सार्वकामिकीम् । दैत्येन्द्रौ परमप्रीतौ तयोश्चैव सुहृज्जनः ॥२९॥
अकाल-कौमुदीम् च एव चक्रतुः सार्वकामिकीम् । दैत्य-इन्द्रौ परम-प्रीतौ तयोः च एव सुहृद्-जनः ॥२९॥
akāla-kaumudīm ca eva cakratuḥ sārvakāmikīm . daitya-indrau parama-prītau tayoḥ ca eva suhṛd-janaḥ ..29..
भक्ष्यतां भुज्यतां नित्यं रम्यतां गीयतामिति । पीयतां दीयतां चेति वाच आसन्गृहे गृहे ॥३०॥
भक्ष्यताम् भुज्यताम् नित्यम् रम्यताम् गीयताम् इति । पीयताम् दीयताम् च इति वाचः आसन् गृहे गृहे ॥३०॥
bhakṣyatām bhujyatām nityam ramyatām gīyatām iti . pīyatām dīyatām ca iti vācaḥ āsan gṛhe gṛhe ..30..
तत्र तत्र महापानैरुत्कृष्टतलनादितैः । हृष्टं प्रमुदितं सर्वं दैत्यानामभवत्पुरम् ॥३१॥
तत्र तत्र महा-पानैः उत्कृष्ट-तल-नादितैः । हृष्टम् प्रमुदितम् सर्वम् दैत्यानाम् अभवत् पुरम् ॥३१॥
tatra tatra mahā-pānaiḥ utkṛṣṭa-tala-nāditaiḥ . hṛṣṭam pramuditam sarvam daityānām abhavat puram ..31..
तैस्तैर्विहारैर्बहुभिर्दैत्यानां कामरूपिणाम् । समाः सङ्क्रीडतां तेषामहरेकमिवाभवत् ॥३२॥ 1.208.33
तैः तैः विहारैः बहुभिः दैत्यानाम् कामरूपिणाम् । समाः सङ्क्रीडताम् तेषाम् अहर् एकम् इव अभवत् ॥३२॥ १।२०८।३३
taiḥ taiḥ vihāraiḥ bahubhiḥ daityānām kāmarūpiṇām . samāḥ saṅkrīḍatām teṣām ahar ekam iva abhavat ..32.. 1.208.33

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In