| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

नारद उवाच॥
उत्सवे वृत्तमात्रे तु त्रैलोक्याकाङ्क्षिणावुभौ । मन्त्रयित्वा ततः सेनां तावाज्ञापयतां तदा ॥१॥
उत्सवे वृत्त-मात्रे तु त्रैलोक्य-आकाङ्क्षिणौ उभौ । मन्त्रयित्वा ततस् सेनाम् तौ आज्ञापयताम् तदा ॥१॥
utsave vṛtta-mātre tu trailokya-ākāṅkṣiṇau ubhau . mantrayitvā tatas senām tau ājñāpayatām tadā ..1..
सुहृद्भिरभ्यनुज्ञातौ दैत्यवृद्धैश्च मन्त्रिभिः । कृत्वा प्रास्थानिकं रात्रौ मघासु ययतुस्तदा ॥२॥
सुहृद्भिः अभ्यनुज्ञातौ दैत्य-वृद्धैः च मन्त्रिभिः । कृत्वा प्रास्थानिकम् रात्रौ मघासु ययतुः तदा ॥२॥
suhṛdbhiḥ abhyanujñātau daitya-vṛddhaiḥ ca mantribhiḥ . kṛtvā prāsthānikam rātrau maghāsu yayatuḥ tadā ..2..
गदापट्टिशधारिण्या शूलमुद्गरहस्तया । प्रस्थितौ सहधर्मिण्या महत्या दैत्यसेनया ॥३॥
गदा-पट्टिश-धारिण्या शूल-मुद्गर-हस्तया । प्रस्थितौ सहधर्मिण्या महत्या दैत्य-सेनया ॥३॥
gadā-paṭṭiśa-dhāriṇyā śūla-mudgara-hastayā . prasthitau sahadharmiṇyā mahatyā daitya-senayā ..3..
मङ्गलैः स्तुतिभिश्चापि विजयप्रतिसंहितैः । चारणैः स्तूयमानौ तु जग्मतुः परया मुदा ॥४॥
मङ्गलैः स्तुतिभिः च अपि विजय-प्रतिसंहितैः । चारणैः स्तूयमानौ तु जग्मतुः परया मुदा ॥४॥
maṅgalaiḥ stutibhiḥ ca api vijaya-pratisaṃhitaiḥ . cāraṇaiḥ stūyamānau tu jagmatuḥ parayā mudā ..4..
तावन्तरिक्षमुत्पत्य दैत्यौ कामगमावुभौ । देवानामेव भवनं जग्मतुर्युद्धदुर्मदौ ॥५॥
तौ अन्तरिक्षम् उत्पत्य दैत्यौ काम-गमौ उभौ । देवानाम् एव भवनम् जग्मतुः युद्ध-दुर्मदौ ॥५॥
tau antarikṣam utpatya daityau kāma-gamau ubhau . devānām eva bhavanam jagmatuḥ yuddha-durmadau ..5..
तयोरागमनं ज्ञात्वा वरदानं च तत्प्रभोः । हित्वा त्रिविष्टपं जग्मुर्ब्रह्मलोकं ततः सुराः ॥६॥
तयोः आगमनम् ज्ञात्वा वर-दानम् च तत् प्रभोः । हित्वा त्रिविष्टपम् जग्मुः ब्रह्म-लोकम् ततस् सुराः ॥६॥
tayoḥ āgamanam jñātvā vara-dānam ca tat prabhoḥ . hitvā triviṣṭapam jagmuḥ brahma-lokam tatas surāḥ ..6..
ताविन्द्रलोकं निर्जित्य यक्षरक्षोगणांस्तथा । खेचराण्यपि भूतानि जिग्यतुस्तीव्रविक्रमौ ॥७॥
तौ इन्द्र-लोकम् निर्जित्य यक्ष-रक्षः-गणान् तथा । खेचराणि अपि भूतानि जिग्यतुः तीव्र-विक्रमौ ॥७॥
tau indra-lokam nirjitya yakṣa-rakṣaḥ-gaṇān tathā . khecarāṇi api bhūtāni jigyatuḥ tīvra-vikramau ..7..
अन्तर्भूमिगतान्नागाञ्जित्वा तौ च महासुरौ । समुद्रवासिनः सर्वान्म्लेच्छजातीन्विजिग्यतुः ॥८॥
अन्तर् भूमि-गतान् नागान् जित्वा तौ च महा-असुरौ । समुद्र-वासिनः सर्वान् म्लेच्छ-जातीन् विजिग्यतुः ॥८॥
antar bhūmi-gatān nāgān jitvā tau ca mahā-asurau . samudra-vāsinaḥ sarvān mleccha-jātīn vijigyatuḥ ..8..
ततः सर्वां महीं जेतुमारब्धावुग्रशासनौ । सैनिकांश्च समाहूय सुतीक्ष्णां वाचमूचतुः ॥९॥
ततस् सर्वाम् महीम् जेतुम् आरब्धौ उग्र-शासनौ । सैनिकान् च समाहूय सु तीक्ष्णाम् वाचम् ऊचतुः ॥९॥
tatas sarvām mahīm jetum ārabdhau ugra-śāsanau . sainikān ca samāhūya su tīkṣṇām vācam ūcatuḥ ..9..
राजर्षयो महायज्ञैर्हव्यकव्यैर्द्विजातयः । तेजो बलं च देवानां वर्धयन्ति श्रियं तथा ॥१०॥
राजर्षयः महा-यज्ञैः हव्य-कव्यैः द्विजातयः । तेजः बलम् च देवानाम् वर्धयन्ति श्रियम् तथा ॥१०॥
rājarṣayaḥ mahā-yajñaiḥ havya-kavyaiḥ dvijātayaḥ . tejaḥ balam ca devānām vardhayanti śriyam tathā ..10..
तेषामेवं प्रवृद्धानां सर्वेषामसुरद्विषाम् । सम्भूय सर्वैरस्माभिः कार्यः सर्वात्मना वधः ॥११॥
तेषाम् एवम् प्रवृद्धानाम् सर्वेषाम् असुर-द्विषाम् । सम्भूय सर्वैः अस्माभिः कार्यः सर्व-आत्मना वधः ॥११॥
teṣām evam pravṛddhānām sarveṣām asura-dviṣām . sambhūya sarvaiḥ asmābhiḥ kāryaḥ sarva-ātmanā vadhaḥ ..11..
एवं सर्वान्समादिश्य पूर्वतीरे महोदधेः । क्रूरां मतिं समास्थाय जग्मतुः सर्वतोमुखम् ॥१२॥
एवम् सर्वान् समादिश्य पूर्व-तीरे महोदधेः । क्रूराम् मतिम् समास्थाय जग्मतुः सर्वतोमुखम् ॥१२॥
evam sarvān samādiśya pūrva-tīre mahodadheḥ . krūrām matim samāsthāya jagmatuḥ sarvatomukham ..12..
यज्ञैर्यजन्ते ये केचिद्याजयन्ति च ये द्विजाः । तान्सर्वान्प्रसभं दृष्ट्वा बलिनौ जघ्नतुस्तदा ॥१३॥
यज्ञैः यजन्ते ये केचिद् याजयन्ति च ये द्विजाः । तान् सर्वान् प्रसभम् दृष्ट्वा बलिनौ जघ्नतुः तदा ॥१३॥
yajñaiḥ yajante ye kecid yājayanti ca ye dvijāḥ . tān sarvān prasabham dṛṣṭvā balinau jaghnatuḥ tadā ..13..
आश्रमेष्वग्निहोत्राणि ऋषीणां भावितात्मनाम् । गृहीत्वा प्रक्षिपन्त्यप्सु विश्रब्धाः सैनिकास्तयोः ॥१४॥
आश्रमेषु अग्निहोत्राणि ऋषीणाम् भावितात्मनाम् । गृहीत्वा प्रक्षिपन्ति अप्सु विश्रब्धाः सैनिकाः तयोः ॥१४॥
āśrameṣu agnihotrāṇi ṛṣīṇām bhāvitātmanām . gṛhītvā prakṣipanti apsu viśrabdhāḥ sainikāḥ tayoḥ ..14..
तपोधनैश्च ये शापाः क्रुद्धैरुक्ता महात्मभिः । नाक्रामन्ति तयोस्तेऽपि वरदानेन जृम्भतोः ॥१५॥
तपोधनैः च ये शापाः क्रुद्धैः उक्ताः महात्मभिः । न आक्रामन्ति तयोः ते अपि वर-दानेन जृम्भतोः ॥१५॥
tapodhanaiḥ ca ye śāpāḥ kruddhaiḥ uktāḥ mahātmabhiḥ . na ākrāmanti tayoḥ te api vara-dānena jṛmbhatoḥ ..15..
नाक्रामन्ति यदा शापा बाणा मुक्ताः शिलास्विव । नियमांस्तदा परित्यज्य व्यद्रवन्त द्विजातयः ॥१६॥
न आक्रामन्ति यदा शापाः बाणाः मुक्ताः शिलासु इव । नियमान् तदा परित्यज्य व्यद्रवन्त द्विजातयः ॥१६॥
na ākrāmanti yadā śāpāḥ bāṇāḥ muktāḥ śilāsu iva . niyamān tadā parityajya vyadravanta dvijātayaḥ ..16..
पृथिव्यां ये तपःसिद्धा दान्ताः शमपरायणाः । तयोर्भयाद्दुद्रुवुस्ते वैनतेयादिवोरगाः ॥१७॥
पृथिव्याम् ये तपः-सिद्धाः दान्ताः शम-परायणाः । तयोः भयात् दुद्रुवुः ते वैनतेयात् इव उरगाः ॥१७॥
pṛthivyām ye tapaḥ-siddhāḥ dāntāḥ śama-parāyaṇāḥ . tayoḥ bhayāt dudruvuḥ te vainateyāt iva uragāḥ ..17..
मथितैराश्रमैर्भग्नैर्विकीर्णकलशस्रुवैः । शून्यमासीज्जगत्सर्वं कालेनेव हतं यथा ॥१८॥
मथितैः आश्रमैः भग्नैः विकीर्ण-कलश-स्रुवैः । शून्यम् आसीत् जगत् सर्वम् कालेन इव हतम् यथा ॥१८॥
mathitaiḥ āśramaiḥ bhagnaiḥ vikīrṇa-kalaśa-sruvaiḥ . śūnyam āsīt jagat sarvam kālena iva hatam yathā ..18..
राजर्षिभिरदृश्यद्भिरृषिभिश्च महासुरौ । उभौ विनिश्चयं कृत्वा विकुर्वाते वधैषिणौ ॥१९॥
राजर्षिभिः अ दृश्यद्भिः ऋषिभिः च महा-असुरौ । उभौ विनिश्चयम् कृत्वा विकुर्वाते वध-एषिणौ ॥१९॥
rājarṣibhiḥ a dṛśyadbhiḥ ṛṣibhiḥ ca mahā-asurau . ubhau viniścayam kṛtvā vikurvāte vadha-eṣiṇau ..19..
प्रभिन्नकरटौ मत्तौ भूत्वा कुञ्जररूपिणौ । संलीनानपि दुर्गेषु निन्यतुर्यमसादनम् ॥२०॥
प्रभिन्न-करटौ मत्तौ भूत्वा कुञ्जर-रूपिणौ । संलीनान् अपि दुर्गेषु निन्यतुः यम-सादनम् ॥२०॥
prabhinna-karaṭau mattau bhūtvā kuñjara-rūpiṇau . saṃlīnān api durgeṣu ninyatuḥ yama-sādanam ..20..
सिंहौ भूत्वा पुनर्व्याघ्रौ पुनश्चान्तर्हितावुभौ । तैस्तैरुपायैस्तौ क्रूरावृषीन्दृष्ट्वा निजघ्नतुः ॥२१॥
सिंहौ भूत्वा पुनर् व्याघ्रौ पुनर् च अन्तर्हितौ उभौ । तैः तैः उपायैः तौ क्रूरौ ऋषीन् दृष्ट्वा निजघ्नतुः ॥२१॥
siṃhau bhūtvā punar vyāghrau punar ca antarhitau ubhau . taiḥ taiḥ upāyaiḥ tau krūrau ṛṣīn dṛṣṭvā nijaghnatuḥ ..21..
निवृत्तयज्ञस्वाध्याया प्रणष्टनृपतिद्विजा । उत्सन्नोत्सवयज्ञा च बभूव वसुधा तदा ॥२२॥
निवृत्त-यज्ञ-स्वाध्याया प्रणष्ट-नृपति-द्विजा । उत्सन्न-उत्सव-यज्ञा च बभूव वसुधा तदा ॥२२॥
nivṛtta-yajña-svādhyāyā praṇaṣṭa-nṛpati-dvijā . utsanna-utsava-yajñā ca babhūva vasudhā tadā ..22..
हाहाभूता भयार्ता च निवृत्तविपणापणा । निवृत्तदेवकार्या च पुण्योद्वाहविवर्जिता ॥२३॥
हाहा-भूता भय-आर्ता च निवृत्त-विपण-आपणा । निवृत्त-देव-कार्या च पुण्य-उद्वाह-विवर्जिता ॥२३॥
hāhā-bhūtā bhaya-ārtā ca nivṛtta-vipaṇa-āpaṇā . nivṛtta-deva-kāryā ca puṇya-udvāha-vivarjitā ..23..
निवृत्तकृषिगोरक्षा विध्वस्तनगराश्रमा । अस्थिकङ्कालसङ्कीर्णा भूर्बभूवोग्रदर्शना ॥२४॥
निवृत्त-कृषि-गोरक्षा विध्वस्त-नगर-आश्रमा । अस्थि-कङ्काल-सङ्कीर्णा भूः बभूव उग्र-दर्शना ॥२४॥
nivṛtta-kṛṣi-gorakṣā vidhvasta-nagara-āśramā . asthi-kaṅkāla-saṅkīrṇā bhūḥ babhūva ugra-darśanā ..24..
निवृत्तपितृकार्यं च निर्वषट्कारमङ्गलम् । जगत्प्रतिभयाकारं दुष्प्रेक्ष्यमभवत्तदा ॥२५॥
निवृत्त-पितृ-कार्यम् च निर्वषट्कार-मङ्गलम् । जगत् प्रतिभय-आकारम् दुष्प्रेक्ष्यम् अभवत् तदा ॥२५॥
nivṛtta-pitṛ-kāryam ca nirvaṣaṭkāra-maṅgalam . jagat pratibhaya-ākāram duṣprekṣyam abhavat tadā ..25..
चन्द्रादित्यौ ग्रहास्तारा नक्षत्राणि दिवौकसः । जग्मुर्विषादं तत्कर्म दृष्ट्वा सुन्दोपसुन्दयोः ॥२६॥
चन्द्र-आदित्यौ ग्रहाः ताराः नक्षत्राणि दिवौकसः । जग्मुः विषादम् तत् कर्म दृष्ट्वा सुन्द-उपसुन्दयोः ॥२६॥
candra-ādityau grahāḥ tārāḥ nakṣatrāṇi divaukasaḥ . jagmuḥ viṣādam tat karma dṛṣṭvā sunda-upasundayoḥ ..26..
एवं सर्वा दिशो दैत्यौ जित्वा क्रूरेण कर्मणा । निःसपत्नौ कुरुक्षेत्रे निवेशमभिचक्रतुः ॥२७॥1.209.27
एवम् सर्वाः दिशः दैत्यौ जित्वा क्रूरेण कर्मणा । निःसपत्नौ कुरुक्षेत्रे निवेशम् अभिचक्रतुः ॥२७॥१।२०९।२७
evam sarvāḥ diśaḥ daityau jitvā krūreṇa karmaṇā . niḥsapatnau kurukṣetre niveśam abhicakratuḥ ..27..1.209.27

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In