| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

नारद उवाच॥
ततो देवर्षयः सर्वे सिद्धाश्च परमर्षयः । जग्मुस्तदा परामार्तिं दृष्ट्वा तत्कदनं महत् ॥१॥
ततस् देवर्षयः सर्वे सिद्धाः च परम-ऋषयः । जग्मुः तदा पराम् आर्तिम् दृष्ट्वा तत् कदनम् महत् ॥१॥
tatas devarṣayaḥ sarve siddhāḥ ca parama-ṛṣayaḥ . jagmuḥ tadā parām ārtim dṛṣṭvā tat kadanam mahat ..1..
तेऽभिजग्मुर्जितक्रोधा जितात्मानो जितेन्द्रियाः । पितामहस्य भवनं जगतः कृपया तदा ॥२॥
ते अभिजग्मुः जित-क्रोधाः जित-आत्मानः जित-इन्द्रियाः । पितामहस्य भवनम् जगतः कृपया तदा ॥२॥
te abhijagmuḥ jita-krodhāḥ jita-ātmānaḥ jita-indriyāḥ . pitāmahasya bhavanam jagataḥ kṛpayā tadā ..2..
ततो ददृशुरासीनं सह देवैः पितामहम् । सिद्धैर्ब्रह्मर्षिभिश्चैव समन्तात्परिवारितम् ॥३॥
ततस् ददृशुः आसीनम् सह देवैः पितामहम् । सिद्धैः ब्रह्मर्षिभिः च एव समन्तात् परिवारितम् ॥३॥
tatas dadṛśuḥ āsīnam saha devaiḥ pitāmaham . siddhaiḥ brahmarṣibhiḥ ca eva samantāt parivāritam ..3..
तत्र देवो महादेवस्तत्राग्निर्वायुना सह । चन्द्रादित्यौ च धर्मश्च परमेष्ठी तथा बुधः ॥४॥
तत्र देवः महादेवः तत्र अग्निः वायुना सह । चन्द्र-आदित्यौ च धर्मः च परमेष्ठी तथा बुधः ॥४॥
tatra devaḥ mahādevaḥ tatra agniḥ vāyunā saha . candra-ādityau ca dharmaḥ ca parameṣṭhī tathā budhaḥ ..4..
वैखानसा वालखिल्या वानप्रस्था मरीचिपाः । अजाश्चैवाविमूढाश्च तेजोगर्भास्तपस्विनः ॥५॥ ( ऋषयः सर्व एवैते पितामहमुपासते ॥५॥ )
वैखानसाः वालखिल्याः वानप्रस्थाः मरीचिपाः । अजाः च एव अविमूढाः च तेजः-गर्भाः तपस्विनः ॥५॥ ( ऋषयः सर्वे एव एते पितामहम् उपासते ॥५॥ )
vaikhānasāḥ vālakhilyāḥ vānaprasthāḥ marīcipāḥ . ajāḥ ca eva avimūḍhāḥ ca tejaḥ-garbhāḥ tapasvinaḥ ..5.. ( ṛṣayaḥ sarve eva ete pitāmaham upāsate ..5.. )
ततोऽभिगम्य सहिताः सर्व एव महर्षयः । सुन्दोपसुन्दयोः कर्म सर्वमेव शशंसिरे ॥६॥
ततस् अभिगम्य सहिताः सर्वे एव महा-ऋषयः । सुन्द-उपसुन्दयोः कर्म सर्वम् एव शशंसिरे ॥६॥
tatas abhigamya sahitāḥ sarve eva mahā-ṛṣayaḥ . sunda-upasundayoḥ karma sarvam eva śaśaṃsire ..6..
यथाकृतं यथा चैव कृतं येन क्रमेण च । न्यवेदयंस्ततः सर्वमखिलेन पितामहे ॥७॥
यथा कृतम् यथा च एव कृतम् येन क्रमेण च । न्यवेदयन् ततस् सर्वम् अखिलेन पितामहे ॥७॥
yathā kṛtam yathā ca eva kṛtam yena krameṇa ca . nyavedayan tatas sarvam akhilena pitāmahe ..7..
ततो देवगणाः सर्वे ते चैव परमर्षयः । तमेवार्थं पुरस्कृत्य पितामहमचोदयन् ॥८॥
ततस् देव-गणाः सर्वे ते च एव परम-ऋषयः । तम् एव अर्थम् पुरस्कृत्य पितामहम् अचोदयन् ॥८॥
tatas deva-gaṇāḥ sarve te ca eva parama-ṛṣayaḥ . tam eva artham puraskṛtya pitāmaham acodayan ..8..
ततः पितामहः श्रुत्वा सर्वेषां तद्वचस्तदा । मुहूर्तमिव सञ्चिन्त्य कर्तव्यस्य विनिश्चयम् ॥९॥
ततस् पितामहः श्रुत्वा सर्वेषाम् तत् वचः तदा । मुहूर्तम् इव सञ्चिन्त्य कर्तव्यस्य विनिश्चयम् ॥९॥
tatas pitāmahaḥ śrutvā sarveṣām tat vacaḥ tadā . muhūrtam iva sañcintya kartavyasya viniścayam ..9..
तयोर्वधं समुद्दिश्य विश्वकर्माणमाह्वयत् । दृष्ट्वा च विश्वकर्माणं व्यादिदेश पितामहः ॥१०॥ ( सृज्यतां प्रार्थनीयेह प्रमदेति महातपाः ॥१०॥ )
तयोः वधम् समुद्दिश्य विश्वकर्माणम् आह्वयत् । दृष्ट्वा च विश्वकर्माणम् व्यादिदेश पितामहः ॥१०॥ ( सृज्यताम् प्रार्थनीया इह प्रमदा इति महा-तपाः ॥१०॥ )
tayoḥ vadham samuddiśya viśvakarmāṇam āhvayat . dṛṣṭvā ca viśvakarmāṇam vyādideśa pitāmahaḥ ..10.. ( sṛjyatām prārthanīyā iha pramadā iti mahā-tapāḥ ..10.. )
पितामहं नमस्कृत्य तद्वाक्यमभिनन्द्य च । निर्ममे योषितं दिव्यां चिन्तयित्वा प्रयत्नतः ॥११॥
पितामहम् नमस्कृत्य तद्-वाक्यम् अभिनन्द्य च । निर्ममे योषितम् दिव्याम् चिन्तयित्वा प्रयत्नतः ॥११॥
pitāmaham namaskṛtya tad-vākyam abhinandya ca . nirmame yoṣitam divyām cintayitvā prayatnataḥ ..11..
त्रिषु लोकेषु यत्किञ्चिद्भूतं स्थावरजङ्गमम् । समानयद्दर्शनीयं तत्तद्यत्नात्ततस्ततः ॥१२॥
त्रिषु लोकेषु यत् किञ्चिद् भूतम् स्थावर-जङ्गमम् । समानयत् दर्शनीयम् तत् तत् यत्नात् ततस् ततस् ॥१२॥
triṣu lokeṣu yat kiñcid bhūtam sthāvara-jaṅgamam . samānayat darśanīyam tat tat yatnāt tatas tatas ..12..
कोटिशश्चापि रत्नानि तस्या गात्रे न्यवेशयत् । तां रत्नसङ्घातमयीमसृजद्देवरूपिणीम् ॥१३॥
कोटिशस् च अपि रत्नानि तस्याः गात्रे न्यवेशयत् । ताम् रत्न-सङ्घात-मयीम् असृजत् देव-रूपिणीम् ॥१३॥
koṭiśas ca api ratnāni tasyāḥ gātre nyaveśayat . tām ratna-saṅghāta-mayīm asṛjat deva-rūpiṇīm ..13..
सा प्रयत्नेन महता निर्मिता विश्वकर्मणा । त्रिषु लोकेषु नारीणां रूपेणाप्रतिमाभवत् ॥१४॥
सा प्रयत्नेन महता निर्मिता विश्वकर्मणा । त्रिषु लोकेषु नारीणाम् रूपेण अप्रतिमा अभवत् ॥१४॥
sā prayatnena mahatā nirmitā viśvakarmaṇā . triṣu lokeṣu nārīṇām rūpeṇa apratimā abhavat ..14..
न तस्याः सूक्ष्ममप्यस्ति यद्गात्रे रूपसम्पदा । न युक्तं यत्र वा दृष्टिर्न सज्जति निरीक्षताम् ॥१५॥
न तस्याः सूक्ष्मम् अपि अस्ति यत् गात्रे रूप-सम्पदा । न युक्तम् यत्र वा दृष्टिः न सज्जति निरीक्षताम् ॥१५॥
na tasyāḥ sūkṣmam api asti yat gātre rūpa-sampadā . na yuktam yatra vā dṛṣṭiḥ na sajjati nirīkṣatām ..15..
सा विग्रहवतीव श्रीः कान्तरूपा वपुष्मती । जहार सर्वभूतानां चक्षूंषि च मनांसि च ॥१६॥
सा विग्रहवती इव श्रीः कान्त-रूपा वपुष्मती । जहार सर्व-भूतानाम् चक्षूंषि च मनांसि च ॥१६॥
sā vigrahavatī iva śrīḥ kānta-rūpā vapuṣmatī . jahāra sarva-bhūtānām cakṣūṃṣi ca manāṃsi ca ..16..
तिलं तिलं समानीय रत्नानां यद्विनिर्मिता । तिलोत्तमेत्यतस्तस्या नाम चक्रे पितामहः ॥१७॥
तिलम् तिलम् समानीय रत्नानाम् यत् विनिर्मिता । तिलोत्तमा इति अतस् तस्याः नाम चक्रे पितामहः ॥१७॥
tilam tilam samānīya ratnānām yat vinirmitā . tilottamā iti atas tasyāḥ nāma cakre pitāmahaḥ ..17..
पितामह उवाच॥
गच्छ सुन्दोपसुन्दाभ्यामसुराभ्यां तिलोत्तमे । प्रार्थनीयेन रूपेण कुरु भद्रे प्रलोभनम् ॥१८॥
गच्छ सुन्द-उपसुन्दाभ्याम् असुराभ्याम् तिलोत्तमे । प्रार्थनीयेन रूपेण कुरु भद्रे प्रलोभनम् ॥१८॥
gaccha sunda-upasundābhyām asurābhyām tilottame . prārthanīyena rūpeṇa kuru bhadre pralobhanam ..18..
त्वत्कृते दर्शनादेव रूपसम्पत्कृतेन वै । विरोधः स्याद्यथा ताभ्यामन्योन्येन तथा कुरु ॥१९॥
त्वद्-कृते दर्शनात् एव रूप-सम्पद्-कृतेन वै । विरोधः स्यात् यथा ताभ्याम् अन्योन्येन तथा कुरु ॥१९॥
tvad-kṛte darśanāt eva rūpa-sampad-kṛtena vai . virodhaḥ syāt yathā tābhyām anyonyena tathā kuru ..19..
नारद उवाच॥
सा तथेति प्रतिज्ञाय नमस्कृत्य पितामहम् । चकार मण्डलं तत्र विबुधानां प्रदक्षिणम् ॥२०॥
सा तथा इति प्रतिज्ञाय नमस्कृत्य पितामहम् । चकार मण्डलम् तत्र विबुधानाम् प्रदक्षिणम् ॥२०॥
sā tathā iti pratijñāya namaskṛtya pitāmaham . cakāra maṇḍalam tatra vibudhānām pradakṣiṇam ..20..
प्राङ्मुखो भगवानास्ते दक्षिणेन महेश्वरः । देवाश्चैवोत्तरेणासन्सर्वतस्त्वृषयोऽभवन् ॥२१॥
प्राच्-मुखः भगवान् आस्ते दक्षिणेन महेश्वरः । देवाः च एव उत्तरेण आसन् सर्वतस् तु ऋषयः अभवन् ॥२१॥
prāc-mukhaḥ bhagavān āste dakṣiṇena maheśvaraḥ . devāḥ ca eva uttareṇa āsan sarvatas tu ṛṣayaḥ abhavan ..21..
कुर्वन्त्या तु तया तत्र मण्डलं तत्प्रदक्षिणम् । इन्द्रः स्थाणुश्च भगवान्धैर्येण प्रत्यवस्थितौ ॥२२॥
कुर्वन्त्या तु तया तत्र मण्डलम् तत् प्रदक्षिणम् । इन्द्रः स्थाणुः च भगवान् धैर्येण प्रत्यवस्थितौ ॥२२॥
kurvantyā tu tayā tatra maṇḍalam tat pradakṣiṇam . indraḥ sthāṇuḥ ca bhagavān dhairyeṇa pratyavasthitau ..22..
द्रष्टुकामस्य चात्यर्थं गतायाः पार्श्वतस्तदा । अन्यदञ्चितपक्ष्मान्तं दक्षिणं निःसृतं मुखम् ॥२३॥
द्रष्टु-कामस्य च अत्यर्थम् गतायाः पार्श्वतस् तदा । अन्यत् अञ्चित-पक्ष्म-अन्तम् दक्षिणम् निःसृतम् मुखम् ॥२३॥
draṣṭu-kāmasya ca atyartham gatāyāḥ pārśvatas tadā . anyat añcita-pakṣma-antam dakṣiṇam niḥsṛtam mukham ..23..
पृष्ठतः परिवर्तन्त्याः पश्चिमं निःसृतं मुखम् । गतायाश्चोत्तरं पार्श्वमुत्तरं निःसृतं मुखम् ॥२४॥
पृष्ठतस् परिवर्तन्त्याः पश्चिमम् निःसृतम् मुखम् । गतायाः च उत्तरम् पार्श्वम् उत्तरम् निःसृतम् मुखम् ॥२४॥
pṛṣṭhatas parivartantyāḥ paścimam niḥsṛtam mukham . gatāyāḥ ca uttaram pārśvam uttaram niḥsṛtam mukham ..24..
महेन्द्रस्यापि नेत्राणां पार्श्वतः पृष्ठतोऽग्रतः । रक्तान्तानां विशालानां सहस्रं सर्वतोऽभवत् ॥२५॥
महेन्द्रस्य अपि नेत्राणाम् पार्श्वतस् पृष्ठतस् अग्रतस् । रक्त-अन्तानाम् विशालानाम् सहस्रम् सर्वतस् अभवत् ॥२५॥
mahendrasya api netrāṇām pārśvatas pṛṣṭhatas agratas . rakta-antānām viśālānām sahasram sarvatas abhavat ..25..
एवं चतुर्मुखः स्थाणुर्महादेवोऽभवत्पुरा । तथा सहस्रनेत्रश्च बभूव बलसूदनः ॥२६॥
एवम् चतुर्-मुखः स्थाणुः महादेवः अभवत् पुरा । तथा सहस्रनेत्रः च बभूव बलसूदनः ॥२६॥
evam catur-mukhaḥ sthāṇuḥ mahādevaḥ abhavat purā . tathā sahasranetraḥ ca babhūva balasūdanaḥ ..26..
तथा देवनिकायानामृषीणां चैव सर्वशः । मुखान्यभिप्रवर्तन्ते येन याति तिलोत्तमा ॥२७॥
तथा देव-निकायानाम् ऋषीणाम् च एव सर्वशस् । मुखानि अभिप्रवर्तन्ते येन याति तिलोत्तमा ॥२७॥
tathā deva-nikāyānām ṛṣīṇām ca eva sarvaśas . mukhāni abhipravartante yena yāti tilottamā ..27..
तस्या गात्रे निपतिता तेषां दृष्टिर्महात्मनाम् । सर्वेषामेव भूयिष्ठमृते देवं पितामहम् ॥२८॥
तस्याः गात्रे निपतिता तेषाम् दृष्टिः महात्मनाम् । सर्वेषाम् एव भूयिष्ठम् ऋते देवम् पितामहम् ॥२८॥
tasyāḥ gātre nipatitā teṣām dṛṣṭiḥ mahātmanām . sarveṣām eva bhūyiṣṭham ṛte devam pitāmaham ..28..
गच्छन्त्यास्तु तदा देवाः सर्वे च परमर्षयः । कृतमित्येव तत्कार्यं मेनिरे रूपसम्पदा ॥२९॥
गच्छन्त्याः तु तदा देवाः सर्वे च परम-ऋषयः । कृतम् इति एव तत् कार्यम् मेनिरे रूप-सम्पदा ॥२९॥
gacchantyāḥ tu tadā devāḥ sarve ca parama-ṛṣayaḥ . kṛtam iti eva tat kāryam menire rūpa-sampadā ..29..
तिलोत्तमायां तु तदा गतायां लोकभावनः । सर्वान्विसर्जयामास देवानृषिगणांश्च तान् ॥३०॥1.210.32
तिलोत्तमायाम् तु तदा गतायाम् लोक-भावनः । सर्वान् विसर्जयामास देवान् ऋषि-गणान् च तान् ॥३०॥१।२१०।३२
tilottamāyām tu tadā gatāyām loka-bhāvanaḥ . sarvān visarjayāmāsa devān ṛṣi-gaṇān ca tān ..30..1.210.32

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In