| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

नारद उवाच॥
जित्वा तु पृथिवीं दैत्यौ निःसपत्नौ गतव्यथौ । कृत्वा त्रैलोक्यमव्यग्रं कृतकृत्यौ बभूवतुः ॥१॥
जित्वा तु पृथिवीम् दैत्यौ निःसपत्नौ गत-व्यथौ । कृत्वा त्रैलोक्यम् अव्यग्रम् कृतकृत्यौ बभूवतुः ॥१॥
jitvā tu pṛthivīm daityau niḥsapatnau gata-vyathau . kṛtvā trailokyam avyagram kṛtakṛtyau babhūvatuḥ ..1..
देवगन्धर्वयक्षाणां नागपार्थिवरक्षसाम् । आदाय सर्वरत्नानि परां तुष्टिमुपागतौ ॥२॥
देव-गन्धर्व-यक्षाणाम् नाग-पार्थिव-रक्षसाम् । आदाय सर्व-रत्नानि पराम् तुष्टिम् उपागतौ ॥२॥
deva-gandharva-yakṣāṇām nāga-pārthiva-rakṣasām . ādāya sarva-ratnāni parām tuṣṭim upāgatau ..2..
यदा न प्रतिषेद्धारस्तयोः सन्तीह केचन । निरुद्योगौ तदा भूत्वा विजह्रातेऽमराविव ॥३॥
यदा न प्रतिषेद्धारः तयोः सन्ति इह केचन । निरुद्योगौ तदा भूत्वा विजह्राते अमरौ इव ॥३॥
yadā na pratiṣeddhāraḥ tayoḥ santi iha kecana . nirudyogau tadā bhūtvā vijahrāte amarau iva ..3..
स्त्रीभिर्माल्यैश्च गन्धैश्च भक्षैर्भोज्यैश्च पुष्कलैः । पानैश्च विविधैर्हृद्यैः परां प्रीतिमवापतुः ॥४॥
स्त्रीभिः माल्यैः च गन्धैः च भक्षैः भोज्यैः च पुष्कलैः । पानैः च विविधैः हृद्यैः पराम् प्रीतिम् अवापतुः ॥४॥
strībhiḥ mālyaiḥ ca gandhaiḥ ca bhakṣaiḥ bhojyaiḥ ca puṣkalaiḥ . pānaiḥ ca vividhaiḥ hṛdyaiḥ parām prītim avāpatuḥ ..4..
अन्तःपुरे वनोद्याने पर्वतोपवनेषु च । यथेप्सितेषु देशेषु विजह्रातेऽमराविव ॥५॥
अन्तःपुरे वन-उद्याने पर्वत-उपवनेषु च । यथा ईप्सितेषु देशेषु विजह्राते अमरौ इव ॥५॥
antaḥpure vana-udyāne parvata-upavaneṣu ca . yathā īpsiteṣu deśeṣu vijahrāte amarau iva ..5..
ततः कदाचिद्विन्ध्यस्य पृष्ठे समशिलातले । पुष्पिताग्रेषु शालेषु विहारमभिजग्मतुः ॥६॥
ततस् कदाचिद् विन्ध्यस्य पृष्ठे सम-शिला-तले । पुष्पित-अग्रेषु शालेषु विहारम् अभिजग्मतुः ॥६॥
tatas kadācid vindhyasya pṛṣṭhe sama-śilā-tale . puṣpita-agreṣu śāleṣu vihāram abhijagmatuḥ ..6..
दिव्येषु सर्वकामेषु समानीतेषु तत्र तौ । वरासनेषु संहृष्टौ सह स्त्रीभिर्निषेदतुः ॥७॥
दिव्येषु सर्व-कामेषु समानीतेषु तत्र तौ । वरासनेषु संहृष्टौ सह स्त्रीभिः निषेदतुः ॥७॥
divyeṣu sarva-kāmeṣu samānīteṣu tatra tau . varāsaneṣu saṃhṛṣṭau saha strībhiḥ niṣedatuḥ ..7..
ततो वादित्रनृत्ताभ्यामुपातिष्ठन्त तौ स्त्रियः । गीतैश्च स्तुतिसंयुक्तैः प्रीत्यर्थमुपजग्मिरे ॥८॥
ततस् वादित्र-नृत्ताभ्याम् उपातिष्ठन्त तौ स्त्रियः । गीतैः च स्तुति-संयुक्तैः प्रीति-अर्थम् उपजग्मिरे ॥८॥
tatas vāditra-nṛttābhyām upātiṣṭhanta tau striyaḥ . gītaiḥ ca stuti-saṃyuktaiḥ prīti-artham upajagmire ..8..
ततस्तिलोत्तमा तत्र वने पुष्पाणि चिन्वती । वेषमाक्षिप्तमाधाय रक्तेनैकेन वाससा ॥९॥
ततस् तिलोत्तमा तत्र वने पुष्पाणि चिन्वती । वेषम् आक्षिप्तम् आधाय रक्तेन एकेन वाससा ॥९॥
tatas tilottamā tatra vane puṣpāṇi cinvatī . veṣam ākṣiptam ādhāya raktena ekena vāsasā ..9..
नदीतीरेषु जातान्सा कर्णिकारान्विचिन्वती । शनैर्जगाम तं देशं यत्रास्तां तौ महासुरौ ॥१०॥
नदी-तीरेषु जातान् सा कर्णिकारान् विचिन्वती । शनैस् जगाम तम् देशम् यत्र आस्ताम् तौ महा-असुरौ ॥१०॥
nadī-tīreṣu jātān sā karṇikārān vicinvatī . śanais jagāma tam deśam yatra āstām tau mahā-asurau ..10..
तौ तु पीत्वा वरं पानं मदरक्तान्तलोचनौ । दृष्ट्वैव तां वरारोहां व्यथितौ सम्बभूवतुः ॥११॥
तौ तु पीत्वा वरम् पानम् मद-रक्त-अन्त-लोचनौ । दृष्ट्वा एव ताम् वरारोहाम् व्यथितौ सम्बभूवतुः ॥११॥
tau tu pītvā varam pānam mada-rakta-anta-locanau . dṛṣṭvā eva tām varārohām vyathitau sambabhūvatuḥ ..11..
तावुत्पत्यासनं हित्वा जग्मतुर्यत्र सा स्थिता । उभौ च कामसंमत्तावुभौ प्रार्थयतश्च ताम् ॥१२॥
तौ उत्पत्य आसनम् हित्वा जग्मतुः यत्र सा स्थिता । उभौ च काम-संमत्तौ उभौ प्रार्थयतः च ताम् ॥१२॥
tau utpatya āsanam hitvā jagmatuḥ yatra sā sthitā . ubhau ca kāma-saṃmattau ubhau prārthayataḥ ca tām ..12..
दक्षिणे तां करे सुभ्रूं सुन्दो जग्राह पाणिना । उपसुन्दोऽपि जग्राह वामे पाणौ तिलोत्तमाम् ॥१३॥
दक्षिणे ताम् करे सुभ्रूम् सुन्दः जग्राह पाणिना । उपसुन्दः अपि जग्राह वामे पाणौ तिलोत्तमाम् ॥१३॥
dakṣiṇe tām kare subhrūm sundaḥ jagrāha pāṇinā . upasundaḥ api jagrāha vāme pāṇau tilottamām ..13..
वरप्रदानमत्तौ तावौरसेन बलेन च । धनरत्नमदाभ्यां च सुरापानमदेन च ॥१४॥
वर-प्रदान-मत्तौ तौ औरसेन बलेन च । धन-रत्न-मदाभ्याम् च सुरा-पान-मदेन च ॥१४॥
vara-pradāna-mattau tau aurasena balena ca . dhana-ratna-madābhyām ca surā-pāna-madena ca ..14..
सर्वैरेतैर्मदैर्मत्तावन्योन्यं भ्रुकुटीकृतौ । मदकामसमाविष्टौ परस्परमथोचतुः ॥१५॥
सर्वैः एतैः मदैः मत्तौ अन्योन्यम् भ्रुकुटी-कृतौ । मद-काम-समाविष्टौ परस्परम् अथा ऊचतुः ॥१५॥
sarvaiḥ etaiḥ madaiḥ mattau anyonyam bhrukuṭī-kṛtau . mada-kāma-samāviṣṭau parasparam athā ūcatuḥ ..15..
मम भार्या तव गुरुरिति सुन्दोऽभ्यभाषत । मम भार्या तव वधूरुपसुन्दोऽभ्यभाषत ॥१६॥
मम भार्या तव गुरुः इति सुन्दः अभ्यभाषत । मम भार्या तव वधूः उपसुन्दः अभ्यभाषत ॥१६॥
mama bhāryā tava guruḥ iti sundaḥ abhyabhāṣata . mama bhāryā tava vadhūḥ upasundaḥ abhyabhāṣata ..16..
नैषा तव ममैषेति तत्र तौ मन्युराविशत् । तस्या हेतोर्गदे भीमे तावुभावप्यगृह्णताम् ॥१७॥
न एषा तव मम एषा इति तत्र तौ मन्युः आविशत् । तस्याः हेतोः गदे भीमे तौ उभौ अपि अगृह्णताम् ॥१७॥
na eṣā tava mama eṣā iti tatra tau manyuḥ āviśat . tasyāḥ hetoḥ gade bhīme tau ubhau api agṛhṇatām ..17..
तौ प्रगृह्य गदे भीमे तस्याः कामेन मोहितौ । अहं पूर्वमहं पूर्वमित्यन्योन्यं निजघ्नतुः ॥१८॥
तौ प्रगृह्य गदे भीमे तस्याः कामेन मोहितौ । अहम् पूर्वम् अहम् पूर्वम् इति अन्योन्यम् निजघ्नतुः ॥१८॥
tau pragṛhya gade bhīme tasyāḥ kāmena mohitau . aham pūrvam aham pūrvam iti anyonyam nijaghnatuḥ ..18..
तौ गदाभिहतौ भीमौ पेततुर्धरणीतले । रुधिरेणावलिप्ताङ्गौ द्वाविवार्कौ नभश्च्युतौ ॥१९॥
तौ गदा-अभिहतौ भीमौ पेततुः धरणी-तले । रुधिरेण अवलिप्त-अङ्गौ द्वौ इव अर्कौ नभः-च्युतौ ॥१९॥
tau gadā-abhihatau bhīmau petatuḥ dharaṇī-tale . rudhireṇa avalipta-aṅgau dvau iva arkau nabhaḥ-cyutau ..19..
ततस्ता विद्रुता नार्यः स च दैत्यगणस्तदा । पातालमगमत्सर्वो विषादभयकम्पितः ॥२०॥
ततस् ताः विद्रुताः नार्यः स च दैत्य-गणः तदा । पातालम् अगमत् सर्वः विषाद-भय-कम्पितः ॥२०॥
tatas tāḥ vidrutāḥ nāryaḥ sa ca daitya-gaṇaḥ tadā . pātālam agamat sarvaḥ viṣāda-bhaya-kampitaḥ ..20..
ततः पितामहस्तत्र सह देवैर्महर्षिभिः । आजगाम विशुद्धात्मा पूजयिष्यंस्तिलोत्तमाम् ॥२१॥
ततस् पितामहः तत्र सह देवैः महा-ऋषिभिः । आजगाम विशुद्ध-आत्मा पूजयिष्यन् तिलोत्तमाम् ॥२१॥
tatas pitāmahaḥ tatra saha devaiḥ mahā-ṛṣibhiḥ . ājagāma viśuddha-ātmā pūjayiṣyan tilottamām ..21..
वरेण छन्दिता सा तु ब्रह्मणा प्रीतिमेव ह । वरयामास तत्रैनां प्रीतः प्राह पितामहः ॥२२॥
वरेण छन्दिता सा तु ब्रह्मणा प्रीतिम् एव ह । वरयामास तत्र एनाम् प्रीतः प्राह पितामहः ॥२२॥
vareṇa chanditā sā tu brahmaṇā prītim eva ha . varayāmāsa tatra enām prītaḥ prāha pitāmahaḥ ..22..
आदित्यचरिताँल्लोकान्विचरिष्यसि भामिनि । तेजसा च सुदृष्टां त्वां न करिष्यति कश्चन ॥२३॥
आदित्य-चरितान् लोकान् विचरिष्यसि भामिनि । तेजसा च सु दृष्टाम् त्वाम् न करिष्यति कश्चन ॥२३॥
āditya-caritān lokān vicariṣyasi bhāmini . tejasā ca su dṛṣṭām tvām na kariṣyati kaścana ..23..
एवं तस्यै वरं दत्त्वा सर्वलोकपितामहः । इन्द्रे त्रैलोक्यमाधाय ब्रह्मलोकं गतः प्रभुः ॥२४॥
एवम् तस्यै वरम् दत्त्वा सर्व-लोक-पितामहः । इन्द्रे त्रैलोक्यम् आधाय ब्रह्म-लोकम् गतः प्रभुः ॥२४॥
evam tasyai varam dattvā sarva-loka-pitāmahaḥ . indre trailokyam ādhāya brahma-lokam gataḥ prabhuḥ ..24..
एवं तौ सहितौ भूत्वा सर्वार्थेष्वेकनिश्चयौ । तिलोत्तमार्थे सङ्क्रुद्धावन्योन्यमभिजघ्नतुः ॥२५॥
एवम् तौ सहितौ भूत्वा सर्व-अर्थेषु एक-निश्चयौ । तिलोत्तमा-अर्थे सङ्क्रुद्धौ अन्योन्यम् अभिजघ्नतुः ॥२५॥
evam tau sahitau bhūtvā sarva-artheṣu eka-niścayau . tilottamā-arthe saṅkruddhau anyonyam abhijaghnatuḥ ..25..
तस्माद्ब्रवीमि वः स्नेहात्सर्वान्भरतसत्तमान् । यथा वो नात्र भेदः स्यात्सर्वेषां द्रौपदीकृते ॥२६॥ ( तथा कुरुत भद्रं वो मम चेत्प्रियमिच्छथ ॥२६॥ )
तस्मात् ब्रवीमि वः स्नेहात् सर्वान् भरत-सत्तमान् । यथा वः ना अत्र भेदः स्यात् सर्वेषाम् द्रौपदी-कृते ॥२६॥ ( तथा कुरुत भद्रम् वः मम चेद् प्रियम् इच्छथ ॥२६॥ )
tasmāt bravīmi vaḥ snehāt sarvān bharata-sattamān . yathā vaḥ nā atra bhedaḥ syāt sarveṣām draupadī-kṛte ..26.. ( tathā kuruta bhadram vaḥ mama ced priyam icchatha ..26.. )
वैशम्पायन उवाच॥
एवमुक्ता महात्मानो नारदेन महर्षिणा । समयं चक्रिरे राजंस्तेऽन्योन्येन समागताः ॥२७॥ ( समक्षं तस्य देवर्षेर्नारदस्यामितौजसः ॥२७॥ )
एवम् उक्ताः महात्मानः नारदेन महा-ऋषिणा । समयम् चक्रिरे राजन् ते अन्योन्येन समागताः ॥२७॥ ( समक्षम् तस्य देव-ऋषेः नारदस्य अमित-ओजसः ॥२७॥ )
evam uktāḥ mahātmānaḥ nāradena mahā-ṛṣiṇā . samayam cakrire rājan te anyonyena samāgatāḥ ..27.. ( samakṣam tasya deva-ṛṣeḥ nāradasya amita-ojasaḥ ..27.. )
द्रौपद्या नः सहासीनमन्योऽन्यं योऽभिदर्शयेत् । स नो द्वादश वर्षाणि ब्रह्मचारी वने वसेत् ॥२८॥
द्रौपद्या नः सह आसीनम् अन्यः अन्यम् यः अभिदर्शयेत् । स नः द्वादश वर्षाणि ब्रह्मचारी वने वसेत् ॥२८॥
draupadyā naḥ saha āsīnam anyaḥ anyam yaḥ abhidarśayet . sa naḥ dvādaśa varṣāṇi brahmacārī vane vaset ..28..
कृते तु समये तस्मिन्पाण्डवैर्धर्मचारिभिः । नारदोऽप्यगमत्प्रीत इष्टं देशं महामुनिः ॥२९॥
कृते तु समये तस्मिन् पाण्डवैः धर्म-चारिभिः । नारदः अपि अगमत् प्रीतः इष्टम् देशम् महा-मुनिः ॥२९॥
kṛte tu samaye tasmin pāṇḍavaiḥ dharma-cāribhiḥ . nāradaḥ api agamat prītaḥ iṣṭam deśam mahā-muniḥ ..29..
एवं तैः समयः पूर्वं कृतो नरदचोदितैः । न चाभिद्यन्त ते सार्वे तदान्योन्येन भारत ॥३०॥ 1.211.31
एवम् तैः समयः पूर्वम् कृतः नरद-चोदितैः । न च अभिद्यन्त ते सार्वे तदा अन्योन्येन भारत ॥३०॥ १।२११।३१
evam taiḥ samayaḥ pūrvam kṛtaḥ narada-coditaiḥ . na ca abhidyanta te sārve tadā anyonyena bhārata ..30.. 1.211.31

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In