| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
एवं ते समयं कृत्वा न्यवसंस्तत्र पाण्डवाः । वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः ॥१॥
एवम् ते समयम् कृत्वा न्यवसन् तत्र पाण्डवाः । वशे शस्त्र-प्रतापेन कुर्वन्तः अन्यान् महीक्षितः ॥१॥
evam te samayam kṛtvā nyavasan tatra pāṇḍavāḥ . vaśe śastra-pratāpena kurvantaḥ anyān mahīkṣitaḥ ..1..
तेषां मनुजसिंहानां पञ्चानाममितौजसाम् । बभूव कृष्णा सर्वेषां पार्थानां वशवर्तिनी ॥२॥
तेषाम् मनुज-सिंहानाम् पञ्चानाम् अमित-ओजसाम् । बभूव कृष्णा सर्वेषाम् पार्थानाम् वश-वर्तिनी ॥२॥
teṣām manuja-siṃhānām pañcānām amita-ojasām . babhūva kṛṣṇā sarveṣām pārthānām vaśa-vartinī ..2..
ते तया तैश्च सा वीरैः पतिभिः सह पञ्चभिः । बभूव परमप्रीता नागैरिव सरस्वती ॥३॥
ते तया तैः च सा वीरैः पतिभिः सह पञ्चभिः । बभूव परम-प्रीता नागैः इव सरस्वती ॥३॥
te tayā taiḥ ca sā vīraiḥ patibhiḥ saha pañcabhiḥ . babhūva parama-prītā nāgaiḥ iva sarasvatī ..3..
वर्तमानेषु धर्मेण पाण्डवेषु महात्मसु । व्यवर्धन्कुरवः सर्वे हीनदोषाः सुखान्विताः ॥४॥
वर्तमानेषु धर्मेण पाण्डवेषु महात्मसु । व्यवर्धन् कुरवः सर्वे हीन-दोषाः सुख-अन्विताः ॥४॥
vartamāneṣu dharmeṇa pāṇḍaveṣu mahātmasu . vyavardhan kuravaḥ sarve hīna-doṣāḥ sukha-anvitāḥ ..4..
अथ दीर्घेण कालेन ब्राह्मणस्य विशां पते । कस्यचित्तस्कराः केचिज्जह्रुर्गा नृपसत्तम ॥५॥
अथ दीर्घेण कालेन ब्राह्मणस्य विशाम् पते । कस्यचिद् तस्कराः केचिद् जह्रुः गाः नृप-सत्तम ॥५॥
atha dīrgheṇa kālena brāhmaṇasya viśām pate . kasyacid taskarāḥ kecid jahruḥ gāḥ nṛpa-sattama ..5..
ह्रियमाणे धने तस्मिन्ब्राह्मणः क्रोधमूर्च्छितः । आगम्य खाण्डवप्रस्थमुदक्रोशत पाण्डवान् ॥६॥
ह्रियमाणे धने तस्मिन् ब्राह्मणः क्रोध-मूर्च्छितः । आगम्य खाण्डवप्रस्थम् उदक्रोशत पाण्डवान् ॥६॥
hriyamāṇe dhane tasmin brāhmaṇaḥ krodha-mūrcchitaḥ . āgamya khāṇḍavaprastham udakrośata pāṇḍavān ..6..
ह्रियते गोधनं क्षुद्रैर्नृशंसैरकृतात्मभिः । प्रसह्य वोऽस्माद्विषयादभिधावत पाण्डवाः ॥७॥
ह्रियते गो-धनम् क्षुद्रैः नृशंसैः अकृतात्मभिः । प्रसह्य वः अस्मात् विषयात् अभिधावत पाण्डवाः ॥७॥
hriyate go-dhanam kṣudraiḥ nṛśaṃsaiḥ akṛtātmabhiḥ . prasahya vaḥ asmāt viṣayāt abhidhāvata pāṇḍavāḥ ..7..
ब्राह्मणस्य प्रमत्तस्य हविर्ध्वाङ्क्षैर्विलुप्यते । शार्दूलस्य गुहां शून्यां नीचः क्रोष्टाभिमर्शति ॥८॥
ब्राह्मणस्य प्रमत्तस्य हविः-ध्वाङ्क्षैः विलुप्यते । शार्दूलस्य गुहाम् शून्याम् नीचः क्रोष्टा अभिमर्शति ॥८॥
brāhmaṇasya pramattasya haviḥ-dhvāṅkṣaiḥ vilupyate . śārdūlasya guhām śūnyām nīcaḥ kroṣṭā abhimarśati ..8..
ब्राह्मणस्वे हृते चोरैर्धर्मार्थे च विलोपिते । रोरूयमाणे च मयि क्रियतामस्त्रधारणम् ॥९॥
ब्राह्मण-स्वे हृते चोरैः धर्म-अर्थे च विलोपिते । रोरूयमाणे च मयि क्रियताम् अस्त्र-धारणम् ॥९॥
brāhmaṇa-sve hṛte coraiḥ dharma-arthe ca vilopite . rorūyamāṇe ca mayi kriyatām astra-dhāraṇam ..9..
रोरूयमाणस्याभ्याशे तस्य विप्रस्य पाण्डवः । तानि वाक्यानि शुश्राव कुन्तीपुत्रो धनञ्जयः ॥१०॥
रोरूयमाणस्य अभ्याशे तस्य विप्रस्य पाण्डवः । तानि वाक्यानि शुश्राव कुन्ती-पुत्रः धनञ्जयः ॥१०॥
rorūyamāṇasya abhyāśe tasya viprasya pāṇḍavaḥ . tāni vākyāni śuśrāva kuntī-putraḥ dhanañjayaḥ ..10..
श्रुत्वा चैव महाबाहुर्मा भैरित्याह तं द्विजम् । आयुधानि च यत्रासन्पाण्डवानां महात्मनाम् ॥११॥ ( कृष्णया सह तत्रासीद्धर्मराजो युधिष्ठिरः ॥११॥ )
श्रुत्वा च एव महा-बाहुः मा भैः इति आह तम् द्विजम् । आयुधानि च यत्र आसन् पाण्डवानाम् महात्मनाम् ॥११॥ ( कृष्णया सह तत्र आसीत् धर्मराजः युधिष्ठिरः ॥११॥ )
śrutvā ca eva mahā-bāhuḥ mā bhaiḥ iti āha tam dvijam . āyudhāni ca yatra āsan pāṇḍavānām mahātmanām ..11.. ( kṛṣṇayā saha tatra āsīt dharmarājaḥ yudhiṣṭhiraḥ ..11.. )
स प्रवेशाय चाशक्तो गमनाय च पाण्डवः । तस्य चार्तस्य तैर्वाक्यैश्चोद्यमानः पुनः पुनः ॥१२॥ ( आक्रन्दे तत्र कौन्तेयश्चिन्तयामास दुःखितः ॥१२॥ )
स प्रवेशाय च अशक्तः गमनाय च पाण्डवः । तस्य च आर्तस्य तैः वाक्यैः चोद्यमानः पुनर् पुनर् ॥१२॥ ( आक्रन्दे तत्र कौन्तेयः चिन्तयामास दुःखितः ॥१२॥ )
sa praveśāya ca aśaktaḥ gamanāya ca pāṇḍavaḥ . tasya ca ārtasya taiḥ vākyaiḥ codyamānaḥ punar punar ..12.. ( ākrande tatra kaunteyaḥ cintayāmāsa duḥkhitaḥ ..12.. )
ह्रियमाणे धने तस्मिन्ब्राह्मणस्य तपस्विनः । अश्रुप्रमार्जनं तस्य कर्तव्यमिति निश्चितः ॥१३॥
ह्रियमाणे धने तस्मिन् ब्राह्मणस्य तपस्विनः । अश्रु-प्रमार्जनम् तस्य कर्तव्यम् इति निश्चितः ॥१३॥
hriyamāṇe dhane tasmin brāhmaṇasya tapasvinaḥ . aśru-pramārjanam tasya kartavyam iti niścitaḥ ..13..
उपप्रेक्षणजोऽधर्मः सुमहान्स्यान्महीपतेः । यद्यस्य रुदतो द्वारि न करोम्यद्य रक्षणम् ॥१४॥
उपप्रेक्षण-जः अधर्मः सु महान् स्यात् महीपतेः । यदि अस्य रुदतः द्वारि न करोमि अद्य रक्षणम् ॥१४॥
upaprekṣaṇa-jaḥ adharmaḥ su mahān syāt mahīpateḥ . yadi asya rudataḥ dvāri na karomi adya rakṣaṇam ..14..
अनास्तिक्यं च सर्वेषामस्माकमपि रक्षणे । प्रतितिष्ठेत लोकेऽस्मिन्नधर्मश्चैव नो भवेत् ॥१५॥
अनास्तिक्यम् च सर्वेषाम् अस्माकम् अपि रक्षणे । प्रतितिष्ठेत लोके अस्मिन् अधर्मः च एव नः भवेत् ॥१५॥
anāstikyam ca sarveṣām asmākam api rakṣaṇe . pratitiṣṭheta loke asmin adharmaḥ ca eva naḥ bhavet ..15..
अनापृच्छ्य च राजानं गते मयि न संशयः । अजातशत्रोर्नृपतेर्मम चैवाप्रियं भवेत् ॥१६॥
अन् आपृच्छ्य च राजानम् गते मयि न संशयः । अजातशत्रोः नृपतेः मम च एव अप्रियम् भवेत् ॥१६॥
an āpṛcchya ca rājānam gate mayi na saṃśayaḥ . ajātaśatroḥ nṛpateḥ mama ca eva apriyam bhavet ..16..
अनुप्रवेशे राज्ञस्तु वनवासो भवेन्मम । अधर्मो वा महानस्तु वने वा मरणं मम ॥१७॥ ( शरीरस्यापि नाशेन धर्म एव विशिष्यते ॥१७॥ )
अनुप्रवेशे राज्ञः तु वन-वासः भवेत् मम । अधर्मः वा महान् अस्तु वने वा मरणम् मम ॥१७॥ ( शरीरस्य अपि नाशेन धर्मः एव विशिष्यते ॥१७॥ )
anupraveśe rājñaḥ tu vana-vāsaḥ bhavet mama . adharmaḥ vā mahān astu vane vā maraṇam mama ..17.. ( śarīrasya api nāśena dharmaḥ eva viśiṣyate ..17.. )
एवं विनिश्चित्य ततः कुन्तीपुत्रो धनञ्जयः । अनुप्रविश्य राजानमापृच्छ्य च विशां पते ॥१८॥
एवम् विनिश्चित्य ततस् कुन्ती-पुत्रः धनञ्जयः । अनुप्रविश्य राजानम् आपृच्छ्य च विशाम् पते ॥१८॥
evam viniścitya tatas kuntī-putraḥ dhanañjayaḥ . anupraviśya rājānam āpṛcchya ca viśām pate ..18..
धनुरादाय संहृष्टो ब्राह्मणं प्रत्यभाषत । ब्राह्मणागम्यतां शीघ्रं यावत्परधनैषिणः ॥१९॥
धनुः आदाय संहृष्टः ब्राह्मणम् प्रत्यभाषत । ब्राह्मण आगम्यताम् शीघ्रम् यावत् पर-धन-एषिणः ॥१९॥
dhanuḥ ādāya saṃhṛṣṭaḥ brāhmaṇam pratyabhāṣata . brāhmaṇa āgamyatām śīghram yāvat para-dhana-eṣiṇaḥ ..19..
न दूरे ते गताः क्षुद्रास्तावद्गच्छामहे सह । यावदावर्तयाम्यद्य चोरहस्ताद्धनं तव ॥२०॥
न दूरे ते गताः क्षुद्राः तावत् गच्छामहे सह । यावत् आवर्तयामि अद्य चोर-हस्तात् धनम् तव ॥२०॥
na dūre te gatāḥ kṣudrāḥ tāvat gacchāmahe saha . yāvat āvartayāmi adya cora-hastāt dhanam tava ..20..
सोऽनुसृत्य महाबाहुर्धन्वी वर्मी रथी ध्वजी । शरैर्विध्वंसितांश्चोरानवजित्य च तद्धनम् ॥२१॥
सः अनुसृत्य महा-बाहुः धन्वी वर्मी रथी ध्वजी । शरैः विध्वंसितान् चोरान् अवजित्य च तत् धनम् ॥२१॥
saḥ anusṛtya mahā-bāhuḥ dhanvī varmī rathī dhvajī . śaraiḥ vidhvaṃsitān corān avajitya ca tat dhanam ..21..
ब्राह्मणस्य उपाहृत्य यशः पीत्वा च पाण्डवः । आजगाम पुरं वीरः सव्यसाची परन्तपः ॥२२॥
ब्राह्मणस्य उपाहृत्य यशः पीत्वा च पाण्डवः । आजगाम पुरम् वीरः सव्यसाची परन्तपः ॥२२॥
brāhmaṇasya upāhṛtya yaśaḥ pītvā ca pāṇḍavaḥ . ājagāma puram vīraḥ savyasācī parantapaḥ ..22..
सोऽभिवाद्य गुरून्सर्वांस्तैश्चापि प्रतिनन्दितः । धर्मराजमुवाचेदं व्रतमादिश्यतां मम ॥२३॥
सः अभिवाद्य गुरून् सर्वान् तैः च अपि प्रतिनन्दितः । धर्मराजम् उवाच इदम् व्रतम् आदिश्यताम् मम ॥२३॥
saḥ abhivādya gurūn sarvān taiḥ ca api pratinanditaḥ . dharmarājam uvāca idam vratam ādiśyatām mama ..23..
समयः समतिक्रान्तो भवत्संदर्शनान्मया । वनवासं गमिष्यामि समयो ह्येष नः कृतः ॥२४॥
समयः समतिक्रान्तः भवत्-संदर्शनात् मया । वन-वासम् गमिष्यामि समयः हि एष नः कृतः ॥२४॥
samayaḥ samatikrāntaḥ bhavat-saṃdarśanāt mayā . vana-vāsam gamiṣyāmi samayaḥ hi eṣa naḥ kṛtaḥ ..24..
इत्युक्तो धर्मराजस्तु सहसा वाक्यमप्रियम् । कथमित्यब्रवीद्वाचा शोकार्तः सज्जमानया ॥२५॥ ( युधिष्ठिरो गुडाकेशं भ्राता भ्रातरमच्युतम् ॥२५॥ )
इति उक्तः धर्मराजः तु सहसा वाक्यम् अप्रियम् । कथम् इति अब्रवीत् वाचा शोक-आर्तः सज्जमानया ॥२५॥ ( युधिष्ठिरः गुडाकेशम् भ्राता भ्रातरम् अच्युतम् ॥२५॥ )
iti uktaḥ dharmarājaḥ tu sahasā vākyam apriyam . katham iti abravīt vācā śoka-ārtaḥ sajjamānayā ..25.. ( yudhiṣṭhiraḥ guḍākeśam bhrātā bhrātaram acyutam ..25.. )
प्रमाणमस्मि यदि ते मत्तः शृणु वचोऽनघ । अनुप्रवेशे यद्वीर कृतवांस्त्वं ममाप्रियम् ॥२६॥ ( सर्वं तदनुजानामि व्यलीकं न च मे हृदि ॥२६॥ )
प्रमाणम् अस्मि यदि ते मत्तः शृणु वचः अनघ । अनुप्रवेशे यत् वीर कृतवान् त्वम् मम अप्रियम् ॥२६॥ ( सर्वम् तत् अनुजानामि व्यलीकम् न च मे हृदि ॥२६॥ )
pramāṇam asmi yadi te mattaḥ śṛṇu vacaḥ anagha . anupraveśe yat vīra kṛtavān tvam mama apriyam ..26.. ( sarvam tat anujānāmi vyalīkam na ca me hṛdi ..26.. )
गुरोरनुप्रवेशो हि नोपघातो यवीयसः । यवीयसोऽनुप्रवेशो ज्येष्ठस्य विधिलोपकः ॥२७॥
गुरोः अनुप्रवेशः हि न उपघातः यवीयसः । यवीयसः अनुप्रवेशः ज्येष्ठस्य विधि-लोपकः ॥२७॥
guroḥ anupraveśaḥ hi na upaghātaḥ yavīyasaḥ . yavīyasaḥ anupraveśaḥ jyeṣṭhasya vidhi-lopakaḥ ..27..
निवर्तस्व महाबाहो कुरुष्व वचनं मम । न हि ते धर्मलोपोऽस्ति न च मे धर्षणा कृता ॥२८॥
निवर्तस्व महा-बाहो कुरुष्व वचनम् मम । न हि ते धर्म-लोपः अस्ति न च मे धर्षणा कृता ॥२८॥
nivartasva mahā-bāho kuruṣva vacanam mama . na hi te dharma-lopaḥ asti na ca me dharṣaṇā kṛtā ..28..
अर्जुन उवाच॥
न व्याजेन चरेद्धर्ममिति मे भवतः श्रुतम् । न सत्याद्विचलिष्यामि सत्येनायुधमालभे ॥२९॥
न व्याजेन चरेत् धर्मम् इति मे भवतः श्रुतम् । न सत्यात् विचलिष्यामि सत्येन आयुधम् आलभे ॥२९॥
na vyājena caret dharmam iti me bhavataḥ śrutam . na satyāt vicaliṣyāmi satyena āyudham ālabhe ..29..
वैशम्पायन उवाच॥
सोऽभ्यनुज्ञाप्य राजानं ब्रह्मचर्याय दीक्षितः । वने द्वादश वर्षाणि वासायोपजगाम ह ॥३०॥1.212.35
सः अभ्यनुज्ञाप्य राजानम् ब्रह्मचर्याय दीक्षितः । वने द्वादश वर्षाणि वासाय उपजगाम ह ॥३०॥१।२१२।३५
saḥ abhyanujñāpya rājānam brahmacaryāya dīkṣitaḥ . vane dvādaśa varṣāṇi vāsāya upajagāma ha ..30..1.212.35

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In