| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
तं प्रयान्तं महाबाहुं कौरवाणां यशस्करम् । अनुजग्मुर्महात्मानो ब्राह्मणा वेदपारगाः ॥१॥
तम् प्रयान्तम् महा-बाहुम् कौरवाणाम् यशस्करम् । अनुजग्मुः महात्मानः ब्राह्मणाः वेदपारगाः ॥१॥
tam prayāntam mahā-bāhum kauravāṇām yaśaskaram . anujagmuḥ mahātmānaḥ brāhmaṇāḥ vedapāragāḥ ..1..
वेदवेदाङ्गविद्वांसस्तथैवाध्यात्मचिन्तकाः । चौक्षाश्च भगवद्भक्ताः सूताः पौराणिकाश्च ये ॥२॥
वेद-वेदाङ्ग-विद्वांसः तथा एव अध्यात्म-चिन्तकाः । चौक्षाः च भगवत्-भक्ताः सूताः पौराणिकाः च ये ॥२॥
veda-vedāṅga-vidvāṃsaḥ tathā eva adhyātma-cintakāḥ . caukṣāḥ ca bhagavat-bhaktāḥ sūtāḥ paurāṇikāḥ ca ye ..2..
कथकाश्चापरे राजञ्श्रमणाश्च वनौकसः । दिव्याख्यानानि ये चापि पठन्ति मधुरं द्विजाः ॥३॥
कथकाः च अपरे राजन् श्रमणाः च वनौकसः । दिव्य-आख्यानानि ये च अपि पठन्ति मधुरम् द्विजाः ॥३॥
kathakāḥ ca apare rājan śramaṇāḥ ca vanaukasaḥ . divya-ākhyānāni ye ca api paṭhanti madhuram dvijāḥ ..3..
एतैश्चान्यैश्च बहुभिः सहायैः पाण्डुनन्दनः । वृतः श्लक्ष्णकथैः प्रायान्मरुद्भिरिव वासवः ॥४॥
एतैः च अन्यैः च बहुभिः सहायैः पाण्डु-नन्दनः । वृतः श्लक्ष्ण-कथैः प्रायात् मरुद्भिः इव वासवः ॥४॥
etaiḥ ca anyaiḥ ca bahubhiḥ sahāyaiḥ pāṇḍu-nandanaḥ . vṛtaḥ ślakṣṇa-kathaiḥ prāyāt marudbhiḥ iva vāsavaḥ ..4..
रमणीयानि चित्राणि वनानि च सरांसि च । सरितः सागरांश्चैव देशानपि च भारत ॥५॥
रमणीयानि चित्राणि वनानि च सरांसि च । सरितः सागरान् च एव देशान् अपि च भारत ॥५॥
ramaṇīyāni citrāṇi vanāni ca sarāṃsi ca . saritaḥ sāgarān ca eva deśān api ca bhārata ..5..
पुण्यानि चैव तीर्थानि ददर्श भरतर्षभ । स गङ्गाद्वारमासाद्य निवेशमकरोत्प्रभुः ॥६॥
पुण्यानि च एव तीर्थानि ददर्श भरत-ऋषभ । स गङ्गाद्वारम् आसाद्य निवेशम् अकरोत् प्रभुः ॥६॥
puṇyāni ca eva tīrthāni dadarśa bharata-ṛṣabha . sa gaṅgādvāram āsādya niveśam akarot prabhuḥ ..6..
तत्र तस्याद्भुतं कर्म शृणु मे जनमेजय । कृतवान्यद्विशुद्धात्मा पाण्डूनां प्रवरो रथी ॥७॥
तत्र तस्य अद्भुतम् कर्म शृणु मे जनमेजय । कृतवान् यत् विशुद्ध-आत्मा पाण्डूनाम् प्रवरः रथी ॥७॥
tatra tasya adbhutam karma śṛṇu me janamejaya . kṛtavān yat viśuddha-ātmā pāṇḍūnām pravaraḥ rathī ..7..
निविष्टे तत्र कौन्तेये ब्राह्मणेषु च भारत । अग्निहोत्राणि विप्रास्ते प्रादुश्चक्रुरनेकशः ॥८॥
निविष्टे तत्र कौन्तेये ब्राह्मणेषु च भारत । अग्निहोत्राणि विप्राः ते प्रादुश्चक्रुः अनेकशस् ॥८॥
niviṣṭe tatra kaunteye brāhmaṇeṣu ca bhārata . agnihotrāṇi viprāḥ te prāduścakruḥ anekaśas ..8..
तेषु प्रबोध्यमानेषु ज्वलितेषु हुतेषु च । कृतपुष्पोपहारेषु तीरान्तरगतेषु च ॥९॥
तेषु प्रबोध्यमानेषु ज्वलितेषु हुतेषु च । कृत-पुष्प-उपहारेषु तीर-अन्तर-गतेषु च ॥९॥
teṣu prabodhyamāneṣu jvaliteṣu huteṣu ca . kṛta-puṣpa-upahāreṣu tīra-antara-gateṣu ca ..9..
कृताभिषेकैर्विद्वद्भिर्नियतैः सत्पथि स्थितैः । शुशुभेऽतीव तद्राजन्गङ्गाद्वारं महात्मभिः ॥१०॥
कृत-अभिषेकैः विद्वद्भिः नियतैः सत्-पथि स्थितैः । शुशुभे अतीव तत् राजन् गङ्गाद्वारम् महात्मभिः ॥१०॥
kṛta-abhiṣekaiḥ vidvadbhiḥ niyataiḥ sat-pathi sthitaiḥ . śuśubhe atīva tat rājan gaṅgādvāram mahātmabhiḥ ..10..
तथा पर्याकुले तस्मिन्निवेशे पाण्डुनन्दनः । अभिषेकाय कौन्तेयो गङ्गामवततार ह ॥११॥
तथा पर्याकुले तस्मिन् निवेशे पाण्डु-नन्दनः । अभिषेकाय कौन्तेयः गङ्गाम् अवततार ह ॥११॥
tathā paryākule tasmin niveśe pāṇḍu-nandanaḥ . abhiṣekāya kaunteyaḥ gaṅgām avatatāra ha ..11..
तत्राभिषेकं कृत्वा स तर्पयित्वा पितामहान् । उत्तितीर्षुर्जलाद्राजन्नग्निकार्यचिकीर्षया ॥१२॥
तत्र अभिषेकम् कृत्वा स तर्पयित्वा पितामहान् । उत्तितीर्षुः जलात् राजन् अग्नि-कार्य-चिकीर्षया ॥१२॥
tatra abhiṣekam kṛtvā sa tarpayitvā pitāmahān . uttitīrṣuḥ jalāt rājan agni-kārya-cikīrṣayā ..12..
अपकृष्टो महाबाहुर्नागराजस्य कन्यया । अन्तर्जले महाराज उलूप्या कामयानया ॥१३॥
अपकृष्टः महा-बाहुः नाग-राजस्य कन्यया । अन्तर् जले महा-राज उलूप्या कामयानया ॥१३॥
apakṛṣṭaḥ mahā-bāhuḥ nāga-rājasya kanyayā . antar jale mahā-rāja ulūpyā kāmayānayā ..13..
ददर्श पाण्डवस्तत्र पावकं सुसमाहितम् । कौरव्यस्याथ नागस्य भवने परमार्चिते ॥१४॥
ददर्श पाण्डवः तत्र पावकम् सु समाहितम् । कौरव्यस्य अथ नागस्य भवने परम-अर्चिते ॥१४॥
dadarśa pāṇḍavaḥ tatra pāvakam su samāhitam . kauravyasya atha nāgasya bhavane parama-arcite ..14..
तत्राग्निकार्यं कृतवान्कुन्तीपुत्रो धनञ्जयः । अशङ्कमानेन हुतस्तेनातुष्यद्धुताशनः ॥१५॥
तत्र अग्नि-कार्यम् कृतवान् कुन्ती-पुत्रः धनञ्जयः । अ शङ्कमानेन हुतः तेन अतुष्यत् हुताशनः ॥१५॥
tatra agni-kāryam kṛtavān kuntī-putraḥ dhanañjayaḥ . a śaṅkamānena hutaḥ tena atuṣyat hutāśanaḥ ..15..
अग्निकार्यं स कृत्वा तु नागराजसुतां तदा । प्रहसन्निव कौन्तेय इदं वचनमब्रवीत् ॥१६॥
अग्नि-कार्यम् स कृत्वा तु नाग-राज-सुताम् तदा । प्रहसन् इव कौन्तेयः इदम् वचनम् अब्रवीत् ॥१६॥
agni-kāryam sa kṛtvā tu nāga-rāja-sutām tadā . prahasan iva kaunteyaḥ idam vacanam abravīt ..16..
किमिदं साहसं भीरु कृतवत्यसि भामिनि । कश्चायं सुभगो देशः का च त्वं कस्य चात्मजा ॥१७॥
किम् इदम् साहसम् भीरु कृतवती असि भामिनि । कः च अयम् सुभगः देशः का च त्वम् कस्य च आत्मजा ॥१७॥
kim idam sāhasam bhīru kṛtavatī asi bhāmini . kaḥ ca ayam subhagaḥ deśaḥ kā ca tvam kasya ca ātmajā ..17..
उलूप्युवाच॥
ऐरावतकुले जातः कौरव्यो नाम पन्नगः । तस्यास्मि दुहिता पार्थ उलूपी नाम पन्नगी ॥१८॥
ऐरावत-कुले जातः कौरव्यः नाम पन्नगः । तस्य अस्मि दुहिता पार्थ उलूपी नाम पन्नगी ॥१८॥
airāvata-kule jātaḥ kauravyaḥ nāma pannagaḥ . tasya asmi duhitā pārtha ulūpī nāma pannagī ..18..
साहं त्वामभिषेकार्थमवतीर्णं समुद्रगाम् । दृष्टवत्येव कौन्तेय कन्दर्पेणास्मि मूर्च्छिता ॥१९॥
सा अहम् त्वाम् अभिषेक-अर्थम् अवतीर्णम् समुद्रगाम् । दृष्टवती एव कौन्तेय कन्दर्पेण अस्मि मूर्च्छिता ॥१९॥
sā aham tvām abhiṣeka-artham avatīrṇam samudragām . dṛṣṭavatī eva kaunteya kandarpeṇa asmi mūrcchitā ..19..
तां मामनङ्गमथितां त्वत्कृते कुरुनन्दन । अनन्यां नन्दयस्वाद्य प्रदानेनात्मनो रहः ॥२०॥
ताम् माम् अनङ्ग-मथिताम् त्वद्-कृते कुरु-नन्दन । अनन्याम् नन्दयस्व अद्य प्रदानेन आत्मनः रहः ॥२०॥
tām mām anaṅga-mathitām tvad-kṛte kuru-nandana . ananyām nandayasva adya pradānena ātmanaḥ rahaḥ ..20..
अर्जुन उवाच॥
ब्रह्मचर्यमिदं भद्रे मम द्वादशवार्षिकम् । धर्मराजेन चादिष्टं नाहमस्मि स्वयंवशः ॥२१॥
ब्रह्मचर्यम् इदम् भद्रे मम द्वादश-वार्षिकम् । धर्मराजेन च आदिष्टम् न अहम् अस्मि स्वयंवशः ॥२१॥
brahmacaryam idam bhadre mama dvādaśa-vārṣikam . dharmarājena ca ādiṣṭam na aham asmi svayaṃvaśaḥ ..21..
तव चापि प्रियं कर्तुमिच्छामि जलचारिणि । अनृतं नोक्तपूर्वं च मया किञ्चन कर्हिचित् ॥२२॥
तव च अपि प्रियम् कर्तुम् इच्छामि जलचारिणि । अनृतम् न उक्त-पूर्वम् च मया किञ्चन कर्हिचित् ॥२२॥
tava ca api priyam kartum icchāmi jalacāriṇi . anṛtam na ukta-pūrvam ca mayā kiñcana karhicit ..22..
कथं च नानृतं तत्स्यात्तव चापि प्रियं भवेत् । न च पीड्येत मे धर्मस्तथा कुर्यां भुजङ्गमे ॥२३॥
कथम् च ना अनृतम् तत् स्यात् तव च अपि प्रियम् भवेत् । न च पीड्येत मे धर्मः तथा कुर्याम् भुजङ्गमे ॥२३॥
katham ca nā anṛtam tat syāt tava ca api priyam bhavet . na ca pīḍyeta me dharmaḥ tathā kuryām bhujaṅgame ..23..
उलूप्युवाच॥
जानाम्यहं पाण्डवेय यथा चरसि मेदिनीम् । यथा च ते ब्रह्मचर्यमिदमादिष्टवान्गुरुः ॥२४॥
जानामि अहम् पाण्डवेय यथा चरसि मेदिनीम् । यथा च ते ब्रह्मचर्यम् इदम् आदिष्टवान् गुरुः ॥२४॥
jānāmi aham pāṇḍaveya yathā carasi medinīm . yathā ca te brahmacaryam idam ādiṣṭavān guruḥ ..24..
परस्परं वर्तमानान्द्रुपदस्यात्मजां प्रति । यो नोऽनुप्रविशेन्मोहात्स नो द्वादशवार्षिकम् ॥२५॥ ( वने चरेद्ब्रह्मचर्यमिति वः समयः कृतः ॥२५॥ )
परस्परम् वर्तमानान् द्रुपदस्य आत्मजाम् प्रति । यः नः अनुप्रविशेत् मोहात् स नः द्वादश-वार्षिकम् ॥२५॥ ( वने चरेत् ब्रह्मचर्यम् इति वः समयः कृतः ॥२५॥ )
parasparam vartamānān drupadasya ātmajām prati . yaḥ naḥ anupraviśet mohāt sa naḥ dvādaśa-vārṣikam ..25.. ( vane caret brahmacaryam iti vaḥ samayaḥ kṛtaḥ ..25.. )
तदिदं द्रौपदीहेतोरन्योन्यस्य प्रवासनम् । कृतं वस्तत्र धर्मार्थमत्र धर्मो न दुष्यति ॥२६॥
तत् इदम् द्रौपदी-हेतोः अन्योन्यस्य प्रवासनम् । कृतम् वः तत्र धर्म-अर्थम् अत्र धर्मः न दुष्यति ॥२६॥
tat idam draupadī-hetoḥ anyonyasya pravāsanam . kṛtam vaḥ tatra dharma-artham atra dharmaḥ na duṣyati ..26..
परित्राणं च कर्तव्यमार्तानां पृथुलोचन । कृत्वा मम परित्राणं तव धर्मो न लुप्यते ॥२७॥
परित्राणम् च कर्तव्यम् आर्तानाम् पृथु-लोचन । कृत्वा मम परित्राणम् तव धर्मः न लुप्यते ॥२७॥
paritrāṇam ca kartavyam ārtānām pṛthu-locana . kṛtvā mama paritrāṇam tava dharmaḥ na lupyate ..27..
यदि वाप्यस्य धर्मस्य सूक्ष्मोऽपि स्याद्व्यतिक्रमः । स च ते धर्म एव स्याद्दात्त्वा प्राणान्ममार्जुन ॥२८॥
यदि वा अपि अस्य धर्मस्य सूक्ष्मः अपि स्यात् व्यतिक्रमः । स च ते धर्मः एव स्यात् दात् त्वा प्राणान् मम अर्जुन ॥२८॥
yadi vā api asya dharmasya sūkṣmaḥ api syāt vyatikramaḥ . sa ca te dharmaḥ eva syāt dāt tvā prāṇān mama arjuna ..28..
भक्तां भजस्व मां पार्थ सतामेतन्मतं प्रभो । न करिष्यसि चेदेवं मृतां मामुपधारय ॥२९॥
भक्ताम् भजस्व माम् पार्थ सताम् एतत् मतम् प्रभो । न करिष्यसि चेद् एवम् मृताम् माम् उपधारय ॥२९॥
bhaktām bhajasva mām pārtha satām etat matam prabho . na kariṣyasi ced evam mṛtām mām upadhāraya ..29..
प्राणदानान्महाबाहो चर धर्ममनुत्तमम् । शरणं च प्रपन्नास्मि त्वामद्य पुरुषोत्तम ॥३०॥
प्राण-दानात् महा-बाहो चर धर्मम् अनुत्तमम् । शरणम् च प्रपन्ना अस्मि त्वाम् अद्य पुरुषोत्तम ॥३०॥
prāṇa-dānāt mahā-bāho cara dharmam anuttamam . śaraṇam ca prapannā asmi tvām adya puruṣottama ..30..
दीनाननाथान्कौन्तेय परिरक्षसि नित्यशः । साहं शरणमभ्येमि रोरवीमि च दुःखिता ॥३१॥
दीनान् अनाथान् कौन्तेय परिरक्षसि नित्यशस् । सा अहम् शरणम् अभ्येमि रोरवीमि च दुःखिता ॥३१॥
dīnān anāthān kaunteya parirakṣasi nityaśas . sā aham śaraṇam abhyemi roravīmi ca duḥkhitā ..31..
याचे त्वामभिकामाहं तस्मात्कुरु मम प्रियम् । स त्वमात्मप्रदानेन सकामां कर्तुमर्हसि ॥३२॥
याचे त्वाम् अभिकामा अहम् तस्मात् कुरु मम प्रियम् । स त्वम् आत्म-प्रदानेन स कामाम् कर्तुम् अर्हसि ॥३२॥
yāce tvām abhikāmā aham tasmāt kuru mama priyam . sa tvam ātma-pradānena sa kāmām kartum arhasi ..32..
वैशम्पायन उवाच॥
एवमुक्तस्तु कौन्तेयः पन्नगेश्वरकन्यया । कृतवांस्तत्तथा सर्वं धर्ममुद्दिश्य कारणम् ॥३३॥
एवम् उक्तः तु कौन्तेयः पन्नग-ईश्वर-कन्यया । कृतवान् तत् तथा सर्वम् धर्मम् उद्दिश्य कारणम् ॥३३॥
evam uktaḥ tu kaunteyaḥ pannaga-īśvara-kanyayā . kṛtavān tat tathā sarvam dharmam uddiśya kāraṇam ..33..
स नागभवने रात्रिं तामुषित्वा प्रतापवान् । उदितेऽभ्युत्थितः सूर्ये कौरव्यस्य निवेशनात् ॥३४॥ 1.213.34
स नाग-भवने रात्रिम् ताम् उषित्वा प्रतापवान् । उदिते अभ्युत्थितः सूर्ये कौरव्यस्य निवेशनात् ॥३४॥ १।२१३।३४
sa nāga-bhavane rātrim tām uṣitvā pratāpavān . udite abhyutthitaḥ sūrye kauravyasya niveśanāt ..34.. 1.213.34

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In