| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
कथयित्वा तु तत्सर्वं ब्राह्मणेभ्यः स भारत । प्रययौ हिमवत्पार्श्वं ततो वज्रधरात्मजः ॥१॥
कथयित्वा तु तत् सर्वम् ब्राह्मणेभ्यः स भारत । प्रययौ हिमवत्-पार्श्वम् ततस् वज्रधर-आत्मजः ॥१॥
kathayitvā tu tat sarvam brāhmaṇebhyaḥ sa bhārata . prayayau himavat-pārśvam tatas vajradhara-ātmajaḥ ..1..
अगस्त्यवटमासाद्य वसिष्ठस्य च पर्वतम् । भृगुतुङ्गे च कौन्तेयः कृतवाञ्शौचमात्मनः ॥२॥
अगस्त्य-वटम् आसाद्य वसिष्ठस्य च पर्वतम् । भृगुतुङ्गे च कौन्तेयः कृतवान् शौचम् आत्मनः ॥२॥
agastya-vaṭam āsādya vasiṣṭhasya ca parvatam . bhṛgutuṅge ca kaunteyaḥ kṛtavān śaucam ātmanaḥ ..2..
प्रददौ गोसहस्राणि तीर्थेष्वायतनेषु च । निवेशांश्च द्विजातिभ्यः सोऽददत्कुरुसत्तमः ॥३॥
प्रददौ गो-सहस्राणि तीर्थेषु आयतनेषु च । निवेशान् च द्विजातिभ्यः सः अददत् कुरुसत्तमः ॥३॥
pradadau go-sahasrāṇi tīrtheṣu āyataneṣu ca . niveśān ca dvijātibhyaḥ saḥ adadat kurusattamaḥ ..3..
हिरण्यबिन्दोस्तीर्थे च स्नात्वा पुरुषसत्तमः । दृष्टवान्पर्वतश्रेष्ठं पुण्यान्यायतनानि च ॥४॥
हिरण्यबिन्दोः तीर्थे च स्नात्वा पुरुष-सत्तमः । दृष्टवान् पर्वत-श्रेष्ठम् पुण्यानि आयतनानि च ॥४॥
hiraṇyabindoḥ tīrthe ca snātvā puruṣa-sattamaḥ . dṛṣṭavān parvata-śreṣṭham puṇyāni āyatanāni ca ..4..
अवतीर्य नरश्रेष्ठो ब्राह्मणैः सह भारत । प्राचीं दिशमभिप्रेप्सुर्जगाम भरतर्षभः ॥५॥
अवतीर्य नर-श्रेष्ठः ब्राह्मणैः सह भारत । प्राचीम् दिशम् अभिप्रेप्सुः जगाम भरत-ऋषभः ॥५॥
avatīrya nara-śreṣṭhaḥ brāhmaṇaiḥ saha bhārata . prācīm diśam abhiprepsuḥ jagāma bharata-ṛṣabhaḥ ..5..
आनुपूर्व्येण तीर्थानि दृष्टवान्कुरुसत्तमः । नदीं चोत्पलिनीं रम्यामरण्यं नैमिषं प्रति ॥६॥
आनुपूर्व्येण तीर्थानि दृष्टवान् कुरुसत्तमः । नदीम् च उत्पलिनीम् रम्याम् अरण्यम् नैमिषम् प्रति ॥६॥
ānupūrvyeṇa tīrthāni dṛṣṭavān kurusattamaḥ . nadīm ca utpalinīm ramyām araṇyam naimiṣam prati ..6..
नन्दामपरनन्दां च कौशिकीं च यशस्विनीम् । महानदीं गयां चैव गङ्गामपि च भारत ॥७॥
नन्दाम् अपर-नन्दाम् च कौशिकीम् च यशस्विनीम् । महानदीम् गयाम् च एव गङ्गाम् अपि च भारत ॥७॥
nandām apara-nandām ca kauśikīm ca yaśasvinīm . mahānadīm gayām ca eva gaṅgām api ca bhārata ..7..
एवं सर्वाणि तीर्थानि पश्यमानस्तथाश्रमान् । आत्मनः पावनं कुर्वन्ब्राह्मणेभ्यो ददौ वसु ॥८॥
एवम् सर्वाणि तीर्थानि पश्यमानः तथा आश्रमान् । आत्मनः पावनम् कुर्वन् ब्राह्मणेभ्यः ददौ वसु ॥८॥
evam sarvāṇi tīrthāni paśyamānaḥ tathā āśramān . ātmanaḥ pāvanam kurvan brāhmaṇebhyaḥ dadau vasu ..8..
अङ्गवङ्गकलिङ्गेषु यानि पुण्यानि कानिचित् । जगाम तानि सर्वाणि तीर्थान्यायतनानि च ॥९॥ ( दृष्ट्वा च विधिवत्तानि धनं चापि ददौ ततः ॥९॥ )
अङ्ग-वङ्ग-कलिङ्गेषु यानि पुण्यानि कानिचिद् । जगाम तानि सर्वाणि तीर्थानि आयतनानि च ॥९॥ ( दृष्ट्वा च विधिवत् तानि धनम् च अपि ददौ ततस् ॥९॥ )
aṅga-vaṅga-kaliṅgeṣu yāni puṇyāni kānicid . jagāma tāni sarvāṇi tīrthāni āyatanāni ca ..9.. ( dṛṣṭvā ca vidhivat tāni dhanam ca api dadau tatas ..9.. )
कलिङ्गराष्ट्रद्वारेषु ब्राह्मणाः पाण्डवानुगाः । अभ्यनुज्ञाय कौन्तेयमुपावर्तन्त भारत ॥१०॥
कलिङ्ग-राष्ट्र-द्वारेषु ब्राह्मणाः पाण्डव-अनुगाः । अभ्यनुज्ञाय कौन्तेयम् उपावर्तन्त भारत ॥१०॥
kaliṅga-rāṣṭra-dvāreṣu brāhmaṇāḥ pāṇḍava-anugāḥ . abhyanujñāya kaunteyam upāvartanta bhārata ..10..
स तु तैरभ्यनुज्ञातः कुन्तीपुत्रो धनञ्जयः । सहायैरल्पकैः शूरः प्रययौ येन सागरम् ॥११॥
स तु तैः अभ्यनुज्ञातः कुन्ती-पुत्रः धनञ्जयः । सहायैः अल्पकैः शूरः प्रययौ येन सागरम् ॥११॥
sa tu taiḥ abhyanujñātaḥ kuntī-putraḥ dhanañjayaḥ . sahāyaiḥ alpakaiḥ śūraḥ prayayau yena sāgaram ..11..
स कलिङ्गानतिक्रम्य देशानायतनानि च । धर्म्याणि रमणीयानि प्रेक्षमाणो ययौ प्रभुः ॥१२॥
स कलिङ्गान् अतिक्रम्य देशान् आयतनानि च । धर्म्याणि रमणीयानि प्रेक्षमाणः ययौ प्रभुः ॥१२॥
sa kaliṅgān atikramya deśān āyatanāni ca . dharmyāṇi ramaṇīyāni prekṣamāṇaḥ yayau prabhuḥ ..12..
महेन्द्रपर्वतं दृष्ट्वा तापसैरुपशोभितम् । समुद्रतीरेण शनैर्मणलूरं जगाम ह ॥१३॥
महेन्द्र-पर्वतम् दृष्ट्वा तापसैः उपशोभितम् । समुद्र-तीरेण शनैस् मणलूरम् जगाम ह ॥१३॥
mahendra-parvatam dṛṣṭvā tāpasaiḥ upaśobhitam . samudra-tīreṇa śanais maṇalūram jagāma ha ..13..
तत्र सर्वाणि तीर्थानि पुण्यान्यायतनानि च । अभिगम्य महाबाहुरभ्यगच्छन्महीपतिम् ॥१४॥ ( मणलूरेश्वरं राजन्धर्मज्ञं चित्रवाहनम् ॥१४॥ )
तत्र सर्वाणि तीर्थानि पुण्यानि आयतनानि च । अभिगम्य महा-बाहुः अभ्यगच्छत् महीपतिम् ॥१४॥ ( मणलूर-ईश्वरम् राजन् धर्म-ज्ञम् चित्रवाहनम् ॥१४॥ )
tatra sarvāṇi tīrthāni puṇyāni āyatanāni ca . abhigamya mahā-bāhuḥ abhyagacchat mahīpatim ..14.. ( maṇalūra-īśvaram rājan dharma-jñam citravāhanam ..14.. )
तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना । तां ददर्श पुरे तस्मिन्विचरन्तीं यदृच्छया ॥१५॥
तस्य चित्राङ्गदा नाम दुहिता चारु-दर्शना । ताम् ददर्श पुरे तस्मिन् विचरन्तीम् यदृच्छया ॥१५॥
tasya citrāṅgadā nāma duhitā cāru-darśanā . tām dadarśa pure tasmin vicarantīm yadṛcchayā ..15..
दृष्ट्वा च तां वरारोहां चकमे चैत्रवाहिनीम् । अभिगम्य च राजानं ज्ञापयत्स्वं प्रयोजनम् ॥१६॥ ( तमुवाचाथ राजा स सान्त्वपूर्वमिदं वचः ॥१६॥ )
दृष्ट्वा च ताम् वरारोहाम् चकमे चैत्र-वाहिनीम् । अभिगम्य च राजानम् ज्ञापयत् स्वम् प्रयोजनम् ॥१६॥ ( तम् उवाच अथ राजा स सान्त्व-पूर्वम् इदम् वचः ॥१६॥ )
dṛṣṭvā ca tām varārohām cakame caitra-vāhinīm . abhigamya ca rājānam jñāpayat svam prayojanam ..16.. ( tam uvāca atha rājā sa sāntva-pūrvam idam vacaḥ ..16.. )
राजा प्रभङ्करो नाम कुले अस्मिन्बभूव ह । अपुत्रः प्रसवेनार्थी तपस्तेपे स उत्तमम् ॥१७॥
राजा प्रभङ्करः नाम कुले अस्मिन् बभूव ह । अपुत्रः प्रसवेन अर्थी तपः तेपे सः उत्तमम् ॥१७॥
rājā prabhaṅkaraḥ nāma kule asmin babhūva ha . aputraḥ prasavena arthī tapaḥ tepe saḥ uttamam ..17..
उग्रेण तपसा तेन प्रणिपातेन शङ्करः । ईश्वरस्तोषितस्तेन महादेव उमापतिः ॥१८॥
उग्रेण तपसा तेन प्रणिपातेन शङ्करः । ईश्वरः तोषितः तेन महादेवः उमापतिः ॥१८॥
ugreṇa tapasā tena praṇipātena śaṅkaraḥ . īśvaraḥ toṣitaḥ tena mahādevaḥ umāpatiḥ ..18..
स तस्मै भगवान्प्रादादेकैकं प्रसवं कुले । एकैकः प्रसवस्तस्माद्भवत्यस्मिन्कुले सदा ॥१९॥
स तस्मै भगवान् प्रादात् एकैकम् प्रसवम् कुले । एकैकः प्रसवः तस्मात् भवति अस्मिन् कुले सदा ॥१९॥
sa tasmai bhagavān prādāt ekaikam prasavam kule . ekaikaḥ prasavaḥ tasmāt bhavati asmin kule sadā ..19..
तेषां कुमाराः सर्वेषां पूर्वेषां मम जज्ञिरे । कन्या तु मम जातेयं कुलस्योत्पादनी ध्रुवम् ॥२०॥
तेषाम् कुमाराः सर्वेषाम् पूर्वेषाम् मम जज्ञिरे । कन्या तु मम जाता इयम् कुलस्य उत्पादनी ध्रुवम् ॥२०॥
teṣām kumārāḥ sarveṣām pūrveṣām mama jajñire . kanyā tu mama jātā iyam kulasya utpādanī dhruvam ..20..
पुत्रो ममेयमिति मे भावना पुरुषोत्तम । पुत्रिका हेतुविधिना सञ्ज्ञिता भरतर्षभ ॥२१॥
पुत्रः मम इयम् इति मे भावना पुरुषोत्तम । पुत्रिका हेतु-विधिना सञ्ज्ञिता भरत-ऋषभ ॥२१॥
putraḥ mama iyam iti me bhāvanā puruṣottama . putrikā hetu-vidhinā sañjñitā bharata-ṛṣabha ..21..
एतच्छुल्कं भवत्वस्याः कुलकृज्जायतामिह । एतेन समयेनेमां प्रतिगृह्णीष्व पाण्डव ॥२२॥
एतत् शुल्कम् भवतु अस्याः कुल-कृत् जायताम् इह । एतेन समयेन इमाम् प्रतिगृह्णीष्व पाण्डव ॥२२॥
etat śulkam bhavatu asyāḥ kula-kṛt jāyatām iha . etena samayena imām pratigṛhṇīṣva pāṇḍava ..22..
स तथेति प्रतिज्ञाय कन्यां तां प्रतिगृह्य च । उवास नगरे तस्मिन्कौन्तेयस्त्रिहिमाः समाः ॥२३॥1.214.26
स तथा इति प्रतिज्ञाय कन्याम् ताम् प्रतिगृह्य च । उवास नगरे तस्मिन् कौन्तेयः त्रि-हिमाः समाः ॥२३॥१।२१४।२६
sa tathā iti pratijñāya kanyām tām pratigṛhya ca . uvāsa nagare tasmin kaunteyaḥ tri-himāḥ samāḥ ..23..1.214.26

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In