| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
ततः समुद्रे तीर्थानि दक्षिणे भरतर्षभः । अभ्यगच्छत्सुपुण्यानि शोभितानि तपस्विभिः ॥१॥
ततस् समुद्रे तीर्थानि दक्षिणे भरत-ऋषभः । अभ्यगच्छत् सु पुण्यानि शोभितानि तपस्विभिः ॥१॥
tatas samudre tīrthāni dakṣiṇe bharata-ṛṣabhaḥ . abhyagacchat su puṇyāni śobhitāni tapasvibhiḥ ..1..
वर्जयन्ति स्म तीर्थानि पञ्च तत्र तु तापसाः । आचीर्णानि तु यान्यासन्पुरस्तात्तु तपस्विभिः ॥२॥
वर्जयन्ति स्म तीर्थानि पञ्च तत्र तु तापसाः । आचीर्णानि तु यानि आसन् पुरस्तात् तु तपस्विभिः ॥२॥
varjayanti sma tīrthāni pañca tatra tu tāpasāḥ . ācīrṇāni tu yāni āsan purastāt tu tapasvibhiḥ ..2..
अगस्त्यतीर्थं सौभद्रं पौलोमं च सुपावनम् । कारन्धमं प्रसन्नं च हयमेधफलं च यत् ॥३॥ ( भारद्वाजस्य तीर्थं च पापप्रशमनं महत् ॥३॥ )
अगस्त्यतीर्थम् सौभद्रम् पौलोमम् च सु पावनम् । कारन्धमम् प्रसन्नम् च हयमेध-फलम् च यत् ॥३॥ ( भारद्वाजस्य तीर्थम् च पाप-प्रशमनम् महत् ॥३॥ )
agastyatīrtham saubhadram paulomam ca su pāvanam . kārandhamam prasannam ca hayamedha-phalam ca yat ..3.. ( bhāradvājasya tīrtham ca pāpa-praśamanam mahat ..3.. )
विविक्तान्युपलक्ष्याथ तानि तीर्थानि पाण्डवः । दृष्ट्वा च वर्ज्यमानानि मुनिभिर्धर्मबुद्धिभिः ॥४॥
विविक्तानि उपलक्ष्य अथ तानि तीर्थानि पाण्डवः । दृष्ट्वा च वर्ज्यमानानि मुनिभिः धर्म-बुद्धिभिः ॥४॥
viviktāni upalakṣya atha tāni tīrthāni pāṇḍavaḥ . dṛṣṭvā ca varjyamānāni munibhiḥ dharma-buddhibhiḥ ..4..
तपस्विनस्ततोऽपृच्छत्प्राज्ञलिः कुरुनन्दनः । तीर्थानीमानि वर्ज्यन्ते किमर्थं ब्रह्मवादिभिः ॥५॥
तपस्विनः ततस् अपृच्छत् प्राज्ञलिः कुरु-नन्दनः । तीर्थानि इमानि वर्ज्यन्ते किमर्थम् ब्रह्म-वादिभिः ॥५॥
tapasvinaḥ tatas apṛcchat prājñaliḥ kuru-nandanaḥ . tīrthāni imāni varjyante kimartham brahma-vādibhiḥ ..5..
तापसा ऊचुः॥
ग्राहाः पञ्च वसन्त्येषु हरन्ति च तपोधनान् । अत एतानि वर्ज्यन्ते तीर्थानि कुरुनन्दन ॥६॥
ग्राहाः पञ्च वसन्ति एषु हरन्ति च तपोधनान् । अतस् एतानि वर्ज्यन्ते तीर्थानि कुरु-नन्दन ॥६॥
grāhāḥ pañca vasanti eṣu haranti ca tapodhanān . atas etāni varjyante tīrthāni kuru-nandana ..6..
वैशम्पायन उवाच॥
तेषां श्रुत्वा महाबाहुर्वार्यमाणस्तपोधनैः । जगाम तानि तीर्थानि द्रष्टुं पुरुषसत्तमः ॥७॥
तेषाम् श्रुत्वा महा-बाहुः वार्यमाणः तपोधनैः । जगाम तानि तीर्थानि द्रष्टुम् पुरुष-सत्तमः ॥७॥
teṣām śrutvā mahā-bāhuḥ vāryamāṇaḥ tapodhanaiḥ . jagāma tāni tīrthāni draṣṭum puruṣa-sattamaḥ ..7..
ततः सौभद्रमासाद्य महर्षेस्तीर्थमुत्तमम् । विगाह्य तरसा शूरः स्नानं चक्रे परन्तपः ॥८॥
ततस् सौभद्रम् आसाद्य महा-ऋषेः तीर्थम् उत्तमम् । विगाह्य तरसा शूरः स्नानम् चक्रे परन्तपः ॥८॥
tatas saubhadram āsādya mahā-ṛṣeḥ tīrtham uttamam . vigāhya tarasā śūraḥ snānam cakre parantapaḥ ..8..
अथ तं पुरुषव्याघ्रमन्तर्जलचरो महान् । निजग्राह जले ग्राहः कुन्तीपुत्रं धनञ्जयम् ॥९॥
अथ तम् पुरुष-व्याघ्रम् अन्तर् जलचरः महान् । निजग्राह जले ग्राहः कुन्ती-पुत्रम् धनञ्जयम् ॥९॥
atha tam puruṣa-vyāghram antar jalacaraḥ mahān . nijagrāha jale grāhaḥ kuntī-putram dhanañjayam ..9..
स तमादाय कौन्तेयो विस्फुरन्तं जलेचरम् । उदतिष्ठन्महाबाहुर्बलेन बलिनां वरः ॥१०॥
स तम् आदाय कौन्तेयः विस्फुरन्तम् जलेचरम् । उदतिष्ठत् महा-बाहुः बलेन बलिनाम् वरः ॥१०॥
sa tam ādāya kaunteyaḥ visphurantam jalecaram . udatiṣṭhat mahā-bāhuḥ balena balinām varaḥ ..10..
उत्कृष्ट एव तु ग्राहः सोऽर्जुनेन यशस्विना । बभूव नारी कल्याणी सर्वाभरणभूषिता ॥११॥ ( दीप्यमाना श्रिया राजन्दिव्यरूपा मनोरमा ॥११॥ )
उत्कृष्टः एव तु ग्राहः सः अर्जुनेन यशस्विना । बभूव नारी कल्याणी सर्व-आभरण-भूषिता ॥११॥ ( दीप्यमाना श्रिया राजन् दिव्य-रूपा मनोरमा ॥११॥ )
utkṛṣṭaḥ eva tu grāhaḥ saḥ arjunena yaśasvinā . babhūva nārī kalyāṇī sarva-ābharaṇa-bhūṣitā ..11.. ( dīpyamānā śriyā rājan divya-rūpā manoramā ..11.. )
तदद्भुतं महद्दृष्ट्वा कुन्तीपुत्रो धनञ्जयः । तां स्त्रियं परमप्रीत इदं वचनमब्रवीत् ॥१२॥
तत् अद्भुतम् महत् दृष्ट्वा कुन्ती-पुत्रः धनञ्जयः । ताम् स्त्रियम् परम-प्रीतः इदम् वचनम् अब्रवीत् ॥१२॥
tat adbhutam mahat dṛṣṭvā kuntī-putraḥ dhanañjayaḥ . tām striyam parama-prītaḥ idam vacanam abravīt ..12..
का वै त्वमसि कल्याणि कुतो वासि जलेचरी । किमर्थं च महत्पापमिदं कृतवती पुरा ॥१३॥
का वै त्वम् असि कल्याणि कुतस् वा असि जलेचरी । किमर्थम् च महत् पापम् इदम् कृतवती पुरा ॥१३॥
kā vai tvam asi kalyāṇi kutas vā asi jalecarī . kimartham ca mahat pāpam idam kṛtavatī purā ..13..
नार्युवाच॥
अप्सरास्मि महाबाहो देवारण्यविचारिणी । इष्टा धनपतेर्नित्यं वर्गा नाम महाबल ॥१४॥
अप्सराः अस्मि महा-बाहो देव-अरण्य-विचारिणी । इष्टाः धनपतेः नित्यम् वर्गाः नाम महा-बल ॥१४॥
apsarāḥ asmi mahā-bāho deva-araṇya-vicāriṇī . iṣṭāḥ dhanapateḥ nityam vargāḥ nāma mahā-bala ..14..
मम सख्यश्चतस्रोऽन्याः सर्वाः कामगमाः शुभाः । ताभिः सार्धं प्रयातास्मि लोकपालनिवेशनम् ॥१५॥
मम सख्यः चतस्रः अन्याः सर्वाः काम-गमाः शुभाः । ताभिः सार्धम् प्रयातास्मि लोकपाल-निवेशनम् ॥१५॥
mama sakhyaḥ catasraḥ anyāḥ sarvāḥ kāma-gamāḥ śubhāḥ . tābhiḥ sārdham prayātāsmi lokapāla-niveśanam ..15..
ततः पश्यामहे सर्वा ब्राह्मणं संशितव्रतम् । रूपवन्तमधीयानमेकमेकान्तचारिणम् ॥१६॥
ततस् पश्यामहे सर्वाः ब्राह्मणम् संशित-व्रतम् । रूपवन्तम् अधीयानम् एकम् एकान्त-चारिणम् ॥१६॥
tatas paśyāmahe sarvāḥ brāhmaṇam saṃśita-vratam . rūpavantam adhīyānam ekam ekānta-cāriṇam ..16..
तस्य वै तपसा राजंस्तद्वनं तेजसावृतम् । आदित्य इव तं देशं कृत्स्नं स व्यवभासयत् ॥१७॥
तस्य वै तपसा राजन् तत् वनम् तेजसा आवृतम् । आदित्यः इव तम् देशम् कृत्स्नम् स व्यवभासयत् ॥१७॥
tasya vai tapasā rājan tat vanam tejasā āvṛtam . ādityaḥ iva tam deśam kṛtsnam sa vyavabhāsayat ..17..
तस्य दृष्ट्वा तपस्तादृग्रूपं चाद्भुतदर्शनम् । अवतीर्णाः स्म तं देशं तपोविघ्नचिकीर्षया ॥१८॥
तस्य दृष्ट्वा तपः तादृश्-रूपम् च अद्भुत-दर्शनम् । अवतीर्णाः स्म तम् देशम् तपः-विघ्न-चिकीर्षया ॥१८॥
tasya dṛṣṭvā tapaḥ tādṛś-rūpam ca adbhuta-darśanam . avatīrṇāḥ sma tam deśam tapaḥ-vighna-cikīrṣayā ..18..
अहं च सौरभेयी च समीची बुद्बुदा लता । यौगपद्येन तं विप्रमभ्यगच्छाम भारत ॥१९॥
अहम् च सौरभेयी च समीची बुद्बुदा लता । यौगपद्येन तम् विप्रम् अभ्यगच्छाम भारत ॥१९॥
aham ca saurabheyī ca samīcī budbudā latā . yaugapadyena tam vipram abhyagacchāma bhārata ..19..
गायन्त्यो वै हसन्त्यश्च लोभयन्त्यश्च तं द्विजम् । स च नास्मासु कृतवान्मनो वीर कथञ्चन ॥२०॥ ( नाकम्पत महातेजाः स्थितस्तपसि निर्मले ॥२०॥ )
गायन्त्यः वै हसन्त्यः च लोभयन्त्यः च तम् द्विजम् । स च ना अस्मासु कृतवान् मनः वीर कथञ्चन ॥२०॥ ( न अकम्पत महा-तेजाः स्थितः तपसि निर्मले ॥२०॥ )
gāyantyaḥ vai hasantyaḥ ca lobhayantyaḥ ca tam dvijam . sa ca nā asmāsu kṛtavān manaḥ vīra kathañcana ..20.. ( na akampata mahā-tejāḥ sthitaḥ tapasi nirmale ..20.. )
सोऽशपत्कुपितोऽस्मांस्तु ब्राह्मणः क्षत्रियर्षभ । ग्राहभूता जले यूयं चरिष्यध्वं शतं समाः ॥२१॥1.215.23
सः अशपत् कुपितः अस्मान् तु ब्राह्मणः क्षत्रिय-ऋषभ । ग्राह-भूताः जले यूयम् चरिष्यध्वम् शतम् समाः ॥२१॥१।२१५।२३
saḥ aśapat kupitaḥ asmān tu brāhmaṇaḥ kṣatriya-ṛṣabha . grāha-bhūtāḥ jale yūyam cariṣyadhvam śatam samāḥ ..21..1.215.23

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In