| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वर्गोवाच॥
ततो वयं प्रव्यथिताः सर्वा भरतसत्तम । आयाम शरणं विप्रं तं तपोधनमच्युतम् ॥१॥
ततस् वयम् प्रव्यथिताः सर्वाः भरत-सत्तम । आयाम शरणम् विप्रम् तम् तपोधनम् अच्युतम् ॥१॥
tatas vayam pravyathitāḥ sarvāḥ bharata-sattama . āyāma śaraṇam vipram tam tapodhanam acyutam ..1..
रूपेण वयसा चैव कन्दर्पेण च दर्पिताः । अयुक्तं कृतवत्यः स्म क्षन्तुमर्हसि नो द्विज ॥२॥
रूपेण वयसा च एव कन्दर्पेण च दर्पिताः । अयुक्तम् कृतवत्यः स्म क्षन्तुम् अर्हसि नः द्विज ॥२॥
rūpeṇa vayasā ca eva kandarpeṇa ca darpitāḥ . ayuktam kṛtavatyaḥ sma kṣantum arhasi naḥ dvija ..2..
एष एव वधोऽस्माकं सुपर्याप्तस्तपोधन । यद्वयं संशितात्मानं प्रलोब्धुं त्वामिहागताः ॥३॥
एषः एव वधः अस्माकम् सु पर्याप्तः तपोधन । यत् वयम् संशित-आत्मानम् प्रलोब्धुम् त्वाम् इह आगताः ॥३॥
eṣaḥ eva vadhaḥ asmākam su paryāptaḥ tapodhana . yat vayam saṃśita-ātmānam pralobdhum tvām iha āgatāḥ ..3..
अवध्यास्तु स्त्रियः सृष्टा मन्यन्ते धर्मचिन्तकाः । तस्माद्धर्मेण धर्मज्ञ नास्मान्हिंसितुमर्हसि ॥४॥
अवध्याः तु स्त्रियः सृष्टाः मन्यन्ते धर्म-चिन्तकाः । तस्मात् धर्मेण धर्म-ज्ञ न अस्मान् हिंसितुम् अर्हसि ॥४॥
avadhyāḥ tu striyaḥ sṛṣṭāḥ manyante dharma-cintakāḥ . tasmāt dharmeṇa dharma-jña na asmān hiṃsitum arhasi ..4..
सर्वभूतेषु धर्मज्ञ मैत्रो ब्राह्मण उच्यते । सत्यो भवतु कल्याण एष वादो मनीषिणाम् ॥५॥
सर्व-भूतेषु धर्म-ज्ञ मैत्रः ब्राह्मणः उच्यते । सत्यः भवतु कल्याणः एष वादः मनीषिणाम् ॥५॥
sarva-bhūteṣu dharma-jña maitraḥ brāhmaṇaḥ ucyate . satyaḥ bhavatu kalyāṇaḥ eṣa vādaḥ manīṣiṇām ..5..
शरणं च प्रपन्नानां शिष्टाः कुर्वन्ति पालनम् । शरणं त्वां प्रपन्नाः स्म तस्मात्त्वं क्षन्तुमर्हसि ॥६॥
शरणम् च प्रपन्नानाम् शिष्टाः कुर्वन्ति पालनम् । शरणम् त्वाम् प्रपन्नाः स्म तस्मात् त्वम् क्षन्तुम् अर्हसि ॥६॥
śaraṇam ca prapannānām śiṣṭāḥ kurvanti pālanam . śaraṇam tvām prapannāḥ sma tasmāt tvam kṣantum arhasi ..6..
वैशम्पायन उवाच॥
एवमुक्तस्तु धर्मात्मा ब्राह्मणः शुभकर्मकृत् । प्रसादं कृतवान्वीर रविसोमसमप्रभः ॥७॥
एवम् उक्तः तु धर्म-आत्मा ब्राह्मणः शुभ-कर्म-कृत् । प्रसादम् कृतवान् वीर रवि-सोम-सम-प्रभः ॥७॥
evam uktaḥ tu dharma-ātmā brāhmaṇaḥ śubha-karma-kṛt . prasādam kṛtavān vīra ravi-soma-sama-prabhaḥ ..7..
ब्राह्मण उवाच॥
शतं सहस्रं विश्वं च सर्वमक्षयवाचकम् । परिमाणं शतं त्वेतन्नैतदक्षयवाचकम् ॥८॥
शतम् सहस्रम् विश्वम् च सर्वम् अक्षय-वाचकम् । परिमाणम् शतम् तु एतत् न एतत् अक्षय-वाचकम् ॥८॥
śatam sahasram viśvam ca sarvam akṣaya-vācakam . parimāṇam śatam tu etat na etat akṣaya-vācakam ..8..
यदा च वो ग्राहभूता गृह्णन्तीः पुरुषाञ्जले । उत्कर्षति जलात्कश्चित्स्थलं पुरुषसत्तमः ॥९॥
यदा च वः ग्राह-भूताः गृह्णन्तीः पुरुष-अञ्जले । उत्कर्षति जलात् कश्चिद् स्थलम् पुरुष-सत्तमः ॥९॥
yadā ca vaḥ grāha-bhūtāḥ gṛhṇantīḥ puruṣa-añjale . utkarṣati jalāt kaścid sthalam puruṣa-sattamaḥ ..9..
तदा यूयं पुनः सर्वाः स्वरूपं प्रतिपत्स्यथ । अनृतं नोक्तपूर्वं मे हसतापि कदाचन ॥१०॥
तदा यूयम् पुनर् सर्वाः स्व-रूपम् प्रतिपत्स्यथ । अनृतम् न उक्त-पूर्वम् मे हसता अपि कदाचन ॥१०॥
tadā yūyam punar sarvāḥ sva-rūpam pratipatsyatha . anṛtam na ukta-pūrvam me hasatā api kadācana ..10..
तानि सर्वाणि तीर्थानि इतः प्रभृति चैव ह । नारीतीर्थानि नाम्नेह ख्यातिं यास्यन्ति सर्वशः ॥११॥ ( पुण्यानि च भविष्यन्ति पावनानि मनीषिणाम् ॥११॥ )
तानि सर्वाणि तीर्थानि इतस् प्रभृति च एव ह । नारीतीर्थानि नाम्ना इह ख्यातिम् यास्यन्ति सर्वशस् ॥११॥ ( पुण्यानि च भविष्यन्ति पावनानि मनीषिणाम् ॥११॥ )
tāni sarvāṇi tīrthāni itas prabhṛti ca eva ha . nārītīrthāni nāmnā iha khyātim yāsyanti sarvaśas ..11.. ( puṇyāni ca bhaviṣyanti pāvanāni manīṣiṇām ..11.. )
वर्गोवाच॥
ततोऽभिवाद्य तं विप्रं कृत्वा चैव प्रदक्षिणम् । अचिन्तयामोपसृत्य तस्माद्देशात्सुदुःखिताः ॥१२॥
ततस् अभिवाद्य तम् विप्रम् कृत्वा च एव प्रदक्षिणम् । अचिन्तयाम उपसृत्य तस्मात् देशात् सु दुःखिताः ॥१२॥
tatas abhivādya tam vipram kṛtvā ca eva pradakṣiṇam . acintayāma upasṛtya tasmāt deśāt su duḥkhitāḥ ..12..
क्व नु नाम वयं सर्वाः कालेनाल्पेन तं नरम् । समागच्छेम यो नस्तद्रूपमापादयेत्पुनः ॥१३॥
क्व नु नाम वयम् सर्वाः कालेन अल्पेन तम् नरम् । समागच्छेम यः नः तद्-रूपम् आपादयेत् पुनर् ॥१३॥
kva nu nāma vayam sarvāḥ kālena alpena tam naram . samāgacchema yaḥ naḥ tad-rūpam āpādayet punar ..13..
ता वयं चिन्तयित्वैवं मुहूर्तादिव भारत । दृष्टवत्यो महाभागं देवर्षिमुत नारदम् ॥१४॥
ताः वयम् चिन्तयित्वा एवम् मुहूर्तात् इव भारत । दृष्टवत्यः महाभागम् देवर्षिम् उत नारदम् ॥१४॥
tāḥ vayam cintayitvā evam muhūrtāt iva bhārata . dṛṣṭavatyaḥ mahābhāgam devarṣim uta nāradam ..14..
सर्वा हृष्टाः स्म तं दृष्ट्वा देवर्षिममितद्युतिम् । अभिवाद्य च तं पार्थ स्थिताः स्म व्यथिताननाः ॥१५॥
सर्वाः हृष्टाः स्म तम् दृष्ट्वा देवर्षिम् अमित-द्युतिम् । अभिवाद्य च तम् पार्थ स्थिताः स्म व्यथित-आननाः ॥१५॥
sarvāḥ hṛṣṭāḥ sma tam dṛṣṭvā devarṣim amita-dyutim . abhivādya ca tam pārtha sthitāḥ sma vyathita-ānanāḥ ..15..
स नोऽपृच्छद्दुःखमूलमुक्तवत्यो वयं च तत् । श्रुत्वा तच्च यथावृत्तमिदं वचनमब्रवीत् ॥१६॥
स नः अपृच्छत् दुःख-मूलम् उक्तवत्यः वयम् च तत् । श्रुत्वा तत् च यथावृत्तम् इदम् वचनम् अब्रवीत् ॥१६॥
sa naḥ apṛcchat duḥkha-mūlam uktavatyaḥ vayam ca tat . śrutvā tat ca yathāvṛttam idam vacanam abravīt ..16..
दक्षिणे सागरानूपे पञ्च तीर्थानि सन्ति वै । पुण्यानि रमणीयानि तानि गच्छत माचिरम् ॥१७॥
दक्षिणे सागर-अनूपे पञ्च तीर्थानि सन्ति वै । पुण्यानि रमणीयानि तानि गच्छत माचिरम् ॥१७॥
dakṣiṇe sāgara-anūpe pañca tīrthāni santi vai . puṇyāni ramaṇīyāni tāni gacchata māciram ..17..
तत्राशु पुरुषव्याघ्रः पाण्डवो वो धनञ्जयः । मोक्षयिष्यति शुद्धात्मा दुःखादस्मान्न संशयः ॥१८॥
तत्र आशु पुरुष-व्याघ्रः पाण्डवः वः धनञ्जयः । मोक्षयिष्यति शुद्ध-आत्मा दुःखात् अस्मात् न संशयः ॥१८॥
tatra āśu puruṣa-vyāghraḥ pāṇḍavaḥ vaḥ dhanañjayaḥ . mokṣayiṣyati śuddha-ātmā duḥkhāt asmāt na saṃśayaḥ ..18..
तस्य सर्वा वयं वीर श्रुत्वा वाक्यमिहागताः । तदिदं सत्यमेवाद्य मोक्षिताहं त्वयानघ ॥१९॥
तस्य सर्वाः वयम् वीर श्रुत्वा वाक्यम् इह आगताः । तत् इदम् सत्यम् एव अद्य मोक्षिता अहम् त्वया अनघ ॥१९॥
tasya sarvāḥ vayam vīra śrutvā vākyam iha āgatāḥ . tat idam satyam eva adya mokṣitā aham tvayā anagha ..19..
एतास्तु मम वै सख्यश्चतस्रोऽन्या जले स्थिताः । कुरु कर्म शुभं वीर एताः सर्वा विमोक्षय ॥२०॥
एताः तु मम वै सख्यः चतस्रः अन्याः जले स्थिताः । कुरु कर्म शुभम् वीरः एताः सर्वाः विमोक्षय ॥२०॥
etāḥ tu mama vai sakhyaḥ catasraḥ anyāḥ jale sthitāḥ . kuru karma śubham vīraḥ etāḥ sarvāḥ vimokṣaya ..20..
वैशम्पायन उवाच॥
ततस्ताः पाण्डवश्रेष्ठः सर्वा एव विशां पते । तस्माच्छापाददीनात्मा मोक्षयामास वीर्यवान् ॥२१॥
ततस् ताः पाण्डव-श्रेष्ठः सर्वाः एव विशाम् पते । तस्मात् शापात् अदीन-आत्मा मोक्षयामास वीर्यवान् ॥२१॥
tatas tāḥ pāṇḍava-śreṣṭhaḥ sarvāḥ eva viśām pate . tasmāt śāpāt adīna-ātmā mokṣayāmāsa vīryavān ..21..
उत्थाय च जलात्तस्मात्प्रतिलभ्य वपुः स्वकम् । तास्तदाप्सरसो राजन्नदृश्यन्त यथा पुरा ॥२२॥
उत्थाय च जलात् तस्मात् प्रतिलभ्य वपुः स्वकम् । ताः तदा अप्सरसः राजन् अदृश्यन्त यथा पुरा ॥२२॥
utthāya ca jalāt tasmāt pratilabhya vapuḥ svakam . tāḥ tadā apsarasaḥ rājan adṛśyanta yathā purā ..22..
तीर्थानि शोधयित्वा तु तथानुज्ञाय ताः प्रभुः । चित्राङ्गदां पुनर्द्रष्टुं मणलूरपुरं ययौ ॥२३॥
तीर्थानि शोधयित्वा तु तथा अनुज्ञाय ताः प्रभुः । चित्राङ्गदाम् पुनर् द्रष्टुम् मणलूर-पुरम् ययौ ॥२३॥
tīrthāni śodhayitvā tu tathā anujñāya tāḥ prabhuḥ . citrāṅgadām punar draṣṭum maṇalūra-puram yayau ..23..
तस्यामजनयत्पुत्रं राजानं बभ्रुवाहनम् । तं दृष्ट्वा पाण्डवो राजन्गोकर्णमभितोऽगमत् ॥२४॥1.216.24
तस्याम् अजनयत् पुत्रम् राजानम् बभ्रुवाहनम् । तम् दृष्ट्वा पाण्डवः राजन् गोकर्णम् अभितस् अगमत् ॥२४॥१।२१६।२४
tasyām ajanayat putram rājānam babhruvāhanam . tam dṛṣṭvā pāṇḍavaḥ rājan gokarṇam abhitas agamat ..24..1.216.24

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In