| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच॥
ततः कामगमः पक्षी महावीर्यो महाबलः । मातुरन्तिकमागच्छत्परं तीरं महोदधेः ॥१॥
ततस् काम-गमः पक्षी महा-वीर्यः महा-बलः । मातुः अन्तिकम् आगच्छत् परम् तीरम् महोदधेः ॥१॥
tatas kāma-gamaḥ pakṣī mahā-vīryaḥ mahā-balaḥ . mātuḥ antikam āgacchat param tīram mahodadheḥ ..1..
यत्र सा विनता तस्मिन्पणितेन पराजिता । अतीव दुःखसन्तप्ता दासीभावमुपागता ॥२॥
यत्र सा विनता तस्मिन् पणितेन पराजिता । अतीव दुःख-सन्तप्ता दासी-भावम् उपागता ॥२॥
yatra sā vinatā tasmin paṇitena parājitā . atīva duḥkha-santaptā dāsī-bhāvam upāgatā ..2..
ततः कदाचिद्विनतां प्रवणां पुत्रसंनिधौ । काल आहूय वचनं कद्रूरिदमभाषत ॥३॥
ततस् कदाचिद् विनताम् प्रवणाम् पुत्र-संनिधौ । काले आहूय वचनम् कद्रूः इदम् अभाषत ॥३॥
tatas kadācid vinatām pravaṇām putra-saṃnidhau . kāle āhūya vacanam kadrūḥ idam abhāṣata ..3..
नागानामालयं भद्रे सुरम्यं रमणीयकम् । समुद्रकुक्षावेकान्ते तत्र मां विनते वह ॥४॥
नागानाम् आलयम् भद्रे सु रम्यम् रमणीयकम् । समुद्र-कुक्षौ एकान्ते तत्र माम् विनते वह ॥४॥
nāgānām ālayam bhadre su ramyam ramaṇīyakam . samudra-kukṣau ekānte tatra mām vinate vaha ..4..
ततः सुपर्णमाता तामवहत्सर्पमातरम् । पन्नगान्गरुडश्चापि मातुर्वचनचोदितः ॥५॥
ततस् सुपर्ण-माता ताम् अवहत् सर्प-मातरम् । पन्नगान् गरुडः च अपि मातुः वचन-चोदितः ॥५॥
tatas suparṇa-mātā tām avahat sarpa-mātaram . pannagān garuḍaḥ ca api mātuḥ vacana-coditaḥ ..5..
स सूर्यस्याभितो याति वैनतेयो विहङ्गमः । सूर्यरश्मिपरीताश्च मूर्च्छिताः पन्नगाभवन् ॥६॥ ( तदवस्थान्सुतान्दृष्ट्वा कद्रूः शक्रमथास्तुवत् ॥६॥ )
स सूर्यस्य अभितस् याति वैनतेयः विहङ्गमः । सूर्य-रश्मि-परीताः च मूर्च्छिताः पन्नगाः अभवन् ॥६॥ ( तद्-अवस्थान् सुतान् दृष्ट्वा कद्रूः शक्रम् अथ अस्तुवत् ॥६॥ )
sa sūryasya abhitas yāti vainateyaḥ vihaṅgamaḥ . sūrya-raśmi-parītāḥ ca mūrcchitāḥ pannagāḥ abhavan ..6.. ( tad-avasthān sutān dṛṣṭvā kadrūḥ śakram atha astuvat ..6.. )
नमस्ते देवदेवेश नमस्ते बलसूदन । नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते ॥७॥
नमः ते देवदेवेश नमः ते बलसूदन । नमुचि-घ्न नमः ते अस्तु सहस्राक्ष शचीपते ॥७॥
namaḥ te devadeveśa namaḥ te balasūdana . namuci-ghna namaḥ te astu sahasrākṣa śacīpate ..7..
सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव । त्वमेव परमं त्राणमस्माकममरोत्तम ॥८॥
सर्पाणाम् सूर्य-तप्तानाम् वारिणा त्वम् प्लवः भव । त्वम् एव परमम् त्राणम् अस्माकम् अमर-उत्तम ॥८॥
sarpāṇām sūrya-taptānām vāriṇā tvam plavaḥ bhava . tvam eva paramam trāṇam asmākam amara-uttama ..8..
ईशो ह्यसि पयः स्रष्टुं त्वमनल्पं पुरंदर । त्वमेव मेघस्त्वं वायुस्त्वमग्निर्वैद्युतोऽम्बरे ॥९॥
ईशः हि असि पयः स्रष्टुम् त्वम् अनल्पम् पुरंदर । त्वम् एव मेघः त्वम् वायुः त्वम् अग्निः वैद्युतः अम्बरे ॥९॥
īśaḥ hi asi payaḥ sraṣṭum tvam analpam puraṃdara . tvam eva meghaḥ tvam vāyuḥ tvam agniḥ vaidyutaḥ ambare ..9..
त्वमभ्रघनविक्षेप्ता त्वामेवाहुः पुनर्घनम् । त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः ॥१०॥
त्वम् अभ्र-घन-विक्षेप्ता त्वाम् एव आहुः पुनर् घनम् । त्वम् वज्रम् अतुलम् घोरम् घोषवान् त्वम् बलाहकः ॥१०॥
tvam abhra-ghana-vikṣeptā tvām eva āhuḥ punar ghanam . tvam vajram atulam ghoram ghoṣavān tvam balāhakaḥ ..10..
स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः । त्वं ज्योतिः सर्वभूतानां त्वमादित्यो विभावसुः ॥११॥
स्रष्टा त्वम् एव लोकानाम् संहर्ता च अपराजितः । त्वम् ज्योतिः सर्व-भूतानाम् त्वम् आदित्यः विभावसुः ॥११॥
sraṣṭā tvam eva lokānām saṃhartā ca aparājitaḥ . tvam jyotiḥ sarva-bhūtānām tvam ādityaḥ vibhāvasuḥ ..11..
त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः । त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम् ॥१२॥
त्वम् महत् भूतम् आश्चर्यम् त्वम् राजा त्वम् सुर-उत्तमः । त्वम् विष्णुः त्वम् सहस्राक्षः त्वम् देवः त्वम् परायणम् ॥१२॥
tvam mahat bhūtam āścaryam tvam rājā tvam sura-uttamaḥ . tvam viṣṇuḥ tvam sahasrākṣaḥ tvam devaḥ tvam parāyaṇam ..12..
त्वं सर्वममृतं देव त्वं सोमः परमार्चितः । त्वं मुहूर्तस्तिथिश्च त्वं लवस्त्वं वै पुनः क्षणः ॥१३॥
त्वम् सर्वम् अमृतम् देव त्वम् सोमः परम-अर्चितः । त्वम् मुहूर्तः तिथिः च त्वम् लवः त्वम् वै पुनर् क्षणः ॥१३॥
tvam sarvam amṛtam deva tvam somaḥ parama-arcitaḥ . tvam muhūrtaḥ tithiḥ ca tvam lavaḥ tvam vai punar kṣaṇaḥ ..13..
शुक्लस्त्वं बहुलश्चैव कला काष्ठा त्रुटिस्तथा । संवत्सरर्तवो मासा रजन्यश्च दिनानि च ॥१४॥
शुक्लः त्वम् बहुलः च एव कला काष्ठा त्रुटिः तथा । संवत्सर-ऋतवः मासाः रजन्यः च दिनानि च ॥१४॥
śuklaḥ tvam bahulaḥ ca eva kalā kāṣṭhā truṭiḥ tathā . saṃvatsara-ṛtavaḥ māsāḥ rajanyaḥ ca dināni ca ..14..
त्वमुत्तमा सगिरिवना वसुन्धरा; सभास्करं वितिमिरमम्बरं तथा । महोदधिः सतिमितिमिङ्गिलस्तथा; महोर्मिमान्बहुमकरो झषालयः ॥१५॥
त्वम् उत्तमा स गिरि-वना वसुन्धरा; स भास्करम् वितिमिरम् अम्बरम् तथा । महोदधिः सतिमि-तिमिङ्गिलः तथा; महा-ऊर्मिमान् बहु-मकरः झष-आलयः ॥१५॥
tvam uttamā sa giri-vanā vasundharā; sa bhāskaram vitimiram ambaram tathā . mahodadhiḥ satimi-timiṅgilaḥ tathā; mahā-ūrmimān bahu-makaraḥ jhaṣa-ālayaḥ ..15..
महद्यशस्त्वमिति सदाभिपूज्यसे; मनीषिभिर्मुदितमना महर्षिभिः । अभिष्टुतः पिबसि च सोममध्वरे; वषट्कृतान्यपि च हवींषि भूतये ॥१६॥
महत् यशः त्वम् इति सदा अभिपूज्यसे; मनीषिभिः मुदित-मनाः महा-ऋषिभिः । अभिष्टुतः पिबसि च सोमम् अध्वरे; वषट्कृतानि अपि च हवींषि भूतये ॥१६॥
mahat yaśaḥ tvam iti sadā abhipūjyase; manīṣibhiḥ mudita-manāḥ mahā-ṛṣibhiḥ . abhiṣṭutaḥ pibasi ca somam adhvare; vaṣaṭkṛtāni api ca havīṃṣi bhūtaye ..16..
त्वं विप्रैः सततमिहेज्यसे फलार्थं; वेदाङ्गेष्वतुलबलौघ गीयसे च । त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा; वेदाङ्गान्यभिगमयन्ति सर्ववेदैः ॥१७॥ 1.25.17
त्वम् विप्रैः सततम् इह इज्यसे फल-अर्थम्; वेदाङ्गेषु अतुल-बल-ओघ गीयसे च । त्वद्-हेतोः यजन-परायणा द्विजेन्द्रा; वेदाङ्गानि अभिगमयन्ति सर्व-वेदैः ॥१७॥ १।२५।१७
tvam vipraiḥ satatam iha ijyase phala-artham; vedāṅgeṣu atula-bala-ogha gīyase ca . tvad-hetoḥ yajana-parāyaṇā dvijendrā; vedāṅgāni abhigamayanti sarva-vedaiḥ ..17.. 1.25.17

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In