| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
सोऽपरान्तेषु तीर्थानि पुण्यान्यायतनानि च । सर्वाण्येवानुपूर्व्येण जगामामितविक्रमः ॥१॥
सः अपर-अन्तेषु तीर्थानि पुण्यानि आयतनानि च । सर्वाणि एव आनुपूर्व्येण जगाम अमित-विक्रमः ॥१॥
saḥ apara-anteṣu tīrthāni puṇyāni āyatanāni ca . sarvāṇi eva ānupūrvyeṇa jagāma amita-vikramaḥ ..1..
समुद्रे पश्चिमे यानि तीर्थान्यायतनानि च । तानि सर्वाणि गत्वा स प्रभासमुपजग्मिवान् ॥२॥
समुद्रे पश्चिमे यानि तीर्थानि आयतनानि च । तानि सर्वाणि गत्वा स प्रभासम् उपजग्मिवान् ॥२॥
samudre paścime yāni tīrthāni āyatanāni ca . tāni sarvāṇi gatvā sa prabhāsam upajagmivān ..2..
प्रभासदेशं सम्प्राप्तं बीभत्सुमपराजितम् । तीर्थान्यनुचरन्तं च शुश्राव मधुसूदनः ॥३॥
प्रभास-देशम् सम्प्राप्तम् बीभत्सुम् अपराजितम् । तीर्थानि अनुचरन्तम् च शुश्राव मधुसूदनः ॥३॥
prabhāsa-deśam samprāptam bībhatsum aparājitam . tīrthāni anucarantam ca śuśrāva madhusūdanaḥ ..3..
ततोऽभ्यगच्छत्कौन्तेयमज्ञातो नाम माधवः । ददृशाते तदान्योन्यं प्रभासे कृष्णपाण्डवौ ॥४॥
ततस् अभ्यगच्छत् कौन्तेयम् अज्ञातः नाम माधवः । ददृशाते तदा अन्योन्यम् प्रभासे कृष्ण-पाण्डवौ ॥४॥
tatas abhyagacchat kaunteyam ajñātaḥ nāma mādhavaḥ . dadṛśāte tadā anyonyam prabhāse kṛṣṇa-pāṇḍavau ..4..
तावन्योन्यं समाश्लिष्य पृष्ट्वा च कुशलं वने । आस्तां प्रियसखायौ तौ नरनारायणावृषी ॥५॥
तौ अन्योन्यम् समाश्लिष्य पृष्ट्वा च कुशलम् वने । आस्ताम् प्रिय-सखायौ तौ नर-नारायणौ ऋषी ॥५॥
tau anyonyam samāśliṣya pṛṣṭvā ca kuśalam vane . āstām priya-sakhāyau tau nara-nārāyaṇau ṛṣī ..5..
ततोऽर्जुनं वासुदेवस्तां चर्यां पर्यपृच्छत । किमर्थं पाण्डवेमानि तीर्थान्यनुचरस्युत ॥६॥
ततस् अर्जुनम् वासुदेवः ताम् चर्याम् पर्यपृच्छत । किमर्थम् पाण्डव इमानि तीर्थानि अनुचरसि उत ॥६॥
tatas arjunam vāsudevaḥ tām caryām paryapṛcchata . kimartham pāṇḍava imāni tīrthāni anucarasi uta ..6..
ततोऽर्जुनो यथावृत्तं सर्वमाख्यातवांस्तदा । श्रुत्वोवाच च वार्ष्णेय एवमेतदिति प्रभुः ॥७॥
ततस् अर्जुनः यथावृत्तम् सर्वम् आख्यातवान् तदा । श्रुत्वा उवाच च वार्ष्णेयः एवम् एतत् इति प्रभुः ॥७॥
tatas arjunaḥ yathāvṛttam sarvam ākhyātavān tadā . śrutvā uvāca ca vārṣṇeyaḥ evam etat iti prabhuḥ ..7..
तौ विहृत्य यथाकामं प्रभासे कृष्णपाण्डवौ । महीधरं रैवतकं वासायैवाभिजग्मतुः ॥८॥
तौ विहृत्य यथाकामम् प्रभासे कृष्ण-पाण्डवौ । महीधरम् रैवतकम् वासाय एव अभिजग्मतुः ॥८॥
tau vihṛtya yathākāmam prabhāse kṛṣṇa-pāṇḍavau . mahīdharam raivatakam vāsāya eva abhijagmatuḥ ..8..
पूर्वमेव तु कृष्णस्य वचनात्तं महीधरम् । पुरुषाः समलञ्चक्रुरुपजह्रुश्च भोजनम् ॥९॥
पूर्वम् एव तु कृष्णस्य वचनात् तम् महीधरम् । पुरुषाः समलञ्चक्रुः उपजह्रुः च भोजनम् ॥९॥
pūrvam eva tu kṛṣṇasya vacanāt tam mahīdharam . puruṣāḥ samalañcakruḥ upajahruḥ ca bhojanam ..9..
प्रतिगृह्यार्जुनः सर्वमुपभुज्य च पाण्डवः । सहैव वासुदेवेन दृष्टवान्नटनर्तकान् ॥१०॥
प्रतिगृह्य अर्जुनः सर्वम् उपभुज्य च पाण्डवः । सह एव वासुदेवेन दृष्टवान् नट-नर्तकान् ॥१०॥
pratigṛhya arjunaḥ sarvam upabhujya ca pāṇḍavaḥ . saha eva vāsudevena dṛṣṭavān naṭa-nartakān ..10..
अभ्यनुज्ञाप्य तान्सर्वानर्चयित्वा च पाण्डवः । सत्कृतं शयनं दिव्यमभ्यगच्छन्महाद्युतिः ॥११॥
अभ्यनुज्ञाप्य तान् सर्वान् अर्चयित्वा च पाण्डवः । सत्कृतम् शयनम् दिव्यम् अभ्यगच्छत् महा-द्युतिः ॥११॥
abhyanujñāpya tān sarvān arcayitvā ca pāṇḍavaḥ . satkṛtam śayanam divyam abhyagacchat mahā-dyutiḥ ..11..
तीर्थानां दर्शनं चैव पर्वतानां च भारत । आपगानां वनानां च कथयामास सात्वते ॥१२॥
तीर्थानाम् दर्शनम् च एव पर्वतानाम् च भारत । आपगानाम् वनानाम् च कथयामास सात्वते ॥१२॥
tīrthānām darśanam ca eva parvatānām ca bhārata . āpagānām vanānām ca kathayāmāsa sātvate ..12..
स कथाः कथयन्नेव निद्रया जनमेजय । कौन्तेयोऽपहृतस्तस्मिञ्शयने स्वर्गसंमिते ॥१३॥
स कथाः कथयन् एव निद्रया जनमेजय । कौन्तेयः अपहृतः तस्मिन् शयने स्वर्ग-संमिते ॥१३॥
sa kathāḥ kathayan eva nidrayā janamejaya . kaunteyaḥ apahṛtaḥ tasmin śayane svarga-saṃmite ..13..
मधुरेण स गीतेन वीणाशब्देन चानघ । प्रबोध्यमानो बुबुधे स्तुतिभिर्मङ्गलैस्तथा ॥१४॥
मधुरेण स गीतेन वीणा-शब्देन च अनघ । प्रबोध्यमानः बुबुधे स्तुतिभिः मङ्गलैः तथा ॥१४॥
madhureṇa sa gītena vīṇā-śabdena ca anagha . prabodhyamānaḥ bubudhe stutibhiḥ maṅgalaiḥ tathā ..14..
स कृत्वावश्यकार्याणि वार्ष्णेयेनाभिनन्दितः । रथेन काञ्चनाङ्गेन द्वारकामभिजग्मिवान् ॥१५॥
स कृत्वा अवश्य-कार्याणि वार्ष्णेयेन अभिनन्दितः । रथेन काञ्चन-अङ्गेन द्वारकाम् अभिजग्मिवान् ॥१५॥
sa kṛtvā avaśya-kāryāṇi vārṣṇeyena abhinanditaḥ . rathena kāñcana-aṅgena dvārakām abhijagmivān ..15..
अलङ्कृता द्वारका तु बभूव जनमेजय । कुन्तीसुतस्य पूजार्थमपि निष्कुटकेष्वपि ॥१६॥
अलङ्कृता द्वारका तु बभूव जनमेजय । कुन्ती-सुतस्य पूजा-अर्थम् अपि निष्कुटकेषु अपि ॥१६॥
alaṅkṛtā dvārakā tu babhūva janamejaya . kuntī-sutasya pūjā-artham api niṣkuṭakeṣu api ..16..
दिदृक्षवश्च कौन्तेयं द्वारकावासिनो जनाः । नरेन्द्रमार्गमाजग्मुस्तूर्णं शतसहस्रशः ॥१७॥
दिदृक्षवः च कौन्तेयम् द्वारका-वासिनः जनाः । नरेन्द्र-मार्गम् आजग्मुः तूर्णम् शत-सहस्रशस् ॥१७॥
didṛkṣavaḥ ca kaunteyam dvārakā-vāsinaḥ janāḥ . narendra-mārgam ājagmuḥ tūrṇam śata-sahasraśas ..17..
अवलोकेषु नारीणां सहस्राणि शतानि च । भोजवृष्ण्यन्धकानां च समवायो महानभूत् ॥१८॥
अवलोकेषु नारीणाम् सहस्राणि शतानि च । भोज-वृष्णि-अन्धकानाम् च समवायः महान् अभूत् ॥१८॥
avalokeṣu nārīṇām sahasrāṇi śatāni ca . bhoja-vṛṣṇi-andhakānām ca samavāyaḥ mahān abhūt ..18..
स तथा सत्कृतः सर्वैर्भोजवृष्ण्यन्धकात्मजैः । अभिवाद्याभिवाद्यांश्च सर्वैश्च प्रतिनन्दितः ॥१९॥
स तथा सत्कृतः सर्वैः भोज-वृष्णि-अन्धक-आत्मजैः । अभिवाद्य अभिवाद्यान् च सर्वैः च प्रतिनन्दितः ॥१९॥
sa tathā satkṛtaḥ sarvaiḥ bhoja-vṛṣṇi-andhaka-ātmajaiḥ . abhivādya abhivādyān ca sarvaiḥ ca pratinanditaḥ ..19..
कुमारैः सर्वशो वीरः सत्कारेणाभिवादितः । समानवयसः सर्वानाश्लिष्य स पुनः पुनः ॥२०॥
कुमारैः सर्वशस् वीरः सत्कारेण अभिवादितः । समान-वयसः सर्वान् आश्लिष्य स पुनर् पुनर् ॥२०॥
kumāraiḥ sarvaśas vīraḥ satkāreṇa abhivāditaḥ . samāna-vayasaḥ sarvān āśliṣya sa punar punar ..20..
कृष्णस्य भवने रम्ये रत्नभोज्यसमावृते । उवास सह कृष्णेन बहुलास्तत्र शर्वरीः ॥२१॥ 1.217.21
कृष्णस्य भवने रम्ये रत्न-भोज्य-समावृते । उवास सह कृष्णेन बहुलाः तत्र शर्वरीः ॥२१॥ १।२१७।२१
kṛṣṇasya bhavane ramye ratna-bhojya-samāvṛte . uvāsa saha kṛṣṇena bahulāḥ tatra śarvarīḥ ..21.. 1.217.21

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In