| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
ततः कतिपयाहस्य तस्मिन्रैवतके गिरौ । वृष्ण्यन्धकानामभवत्सुमहानुत्सवो नृप ॥१॥
ततस् कतिपयाहस्य तस्मिन् रैवतके गिरौ । वृष्णि-अन्धकानाम् अभवत् सु महान् उत्सवः नृप ॥१॥
tatas katipayāhasya tasmin raivatake girau . vṛṣṇi-andhakānām abhavat su mahān utsavaḥ nṛpa ..1..
तत्र दानं ददुर्वीरा ब्राह्मणानां सहस्रशः । भोजवृष्ण्यन्धकाश्चैव महे तस्य गिरेस्तदा ॥२॥
तत्र दानम् ददुः वीराः ब्राह्मणानाम् सहस्रशस् । भोज-वृष्णि-अन्धकाः च एव महे तस्य गिरेः तदा ॥२॥
tatra dānam daduḥ vīrāḥ brāhmaṇānām sahasraśas . bhoja-vṛṣṇi-andhakāḥ ca eva mahe tasya gireḥ tadā ..2..
प्रासादै रत्नचित्रैश्च गिरेस्तस्य समन्ततः । स देशः शोभितो राजन्दीपवृक्षैश्च सर्वशः ॥३॥
प्रासादैः रत्न-चित्रैः च गिरेः तस्य समन्ततः । स देशः शोभितः राजन् दीपवृक्षैः च सर्वशस् ॥३॥
prāsādaiḥ ratna-citraiḥ ca gireḥ tasya samantataḥ . sa deśaḥ śobhitaḥ rājan dīpavṛkṣaiḥ ca sarvaśas ..3..
वादित्राणि च तत्र स्म वादकाः समवादयन् । ननृतुर्नर्तकाश्चैव जगुर्गानानि गायनाः ॥४॥
वादित्राणि च तत्र स्म वादकाः समवादयन् । ननृतुः नर्तकाः च एव जगुः गानानि गायनाः ॥४॥
vāditrāṇi ca tatra sma vādakāḥ samavādayan . nanṛtuḥ nartakāḥ ca eva jaguḥ gānāni gāyanāḥ ..4..
अलङ्कृताः कुमाराश्च वृष्णीनां सुमहौजसः । यानैर्हाटकचित्राङ्गैश्चञ्चूर्यन्ते स्म सर्वशः ॥५॥
अलङ्कृताः कुमाराः च वृष्णीनाम् सु महा-ओजसः । यानैः हाटक-चित्र-अङ्गैः चञ्चूर्यन्ते स्म सर्वशस् ॥५॥
alaṅkṛtāḥ kumārāḥ ca vṛṣṇīnām su mahā-ojasaḥ . yānaiḥ hāṭaka-citra-aṅgaiḥ cañcūryante sma sarvaśas ..5..
पौराश्च पादचारेण यानैरुच्चावचैस्तथा । सदाराः सानुयात्राश्च शतशोऽथ सहस्रशः ॥६॥
पौराः च पाद-चारेण यानैः उच्चावचैः तथा । स दाराः स अनुयात्राः च शतशस् अथ सहस्रशस् ॥६॥
paurāḥ ca pāda-cāreṇa yānaiḥ uccāvacaiḥ tathā . sa dārāḥ sa anuyātrāḥ ca śataśas atha sahasraśas ..6..
ततो हलधरः क्षीबो रेवतीसहितः प्रभुः । अनुगम्यमानो गन्धर्वैरचरत्तत्र भारत ॥७॥
ततस् हलधरः क्षीबः रेवती-सहितः प्रभुः । अनुगम्यमानः गन्धर्वैः अचरत् तत्र भारत ॥७॥
tatas haladharaḥ kṣībaḥ revatī-sahitaḥ prabhuḥ . anugamyamānaḥ gandharvaiḥ acarat tatra bhārata ..7..
तथैव राजा वृष्णीनामुग्रसेनः प्रतापवान् । उपगीयमानो गन्धर्वैः स्त्रीसहस्रसहायवान् ॥८॥
तथा एव राजा वृष्णीनाम् उग्रसेनः प्रतापवान् । उपगीयमानः गन्धर्वैः स्त्री-सहस्र-सहायवान् ॥८॥
tathā eva rājā vṛṣṇīnām ugrasenaḥ pratāpavān . upagīyamānaḥ gandharvaiḥ strī-sahasra-sahāyavān ..8..
रौक्मिणेयश्च साम्बश्च क्षीबौ समरदुर्मदौ । दिव्यमाल्याम्बरधरौ विजह्रातेऽमराविव ॥९॥
रौक्मिणेयः च साम्बः च क्षीबौ समर-दुर्मदौ । दिव्य-माल्य-अम्बर-धरौ विजह्राते अमरौ इव ॥९॥
raukmiṇeyaḥ ca sāmbaḥ ca kṣībau samara-durmadau . divya-mālya-ambara-dharau vijahrāte amarau iva ..9..
अक्रूरः सारणश्चैव गदो भानुर्विडूरथः । निशठश्चारुदेष्णश्च पृथुर्विपृथुरेव च ॥१०॥
अक्रूरः सारणः च एव गदः भानुः विदूरथः । निशठः चारुदेष्णः च पृथुः विपृथुः एव च ॥१०॥
akrūraḥ sāraṇaḥ ca eva gadaḥ bhānuḥ vidūrathaḥ . niśaṭhaḥ cārudeṣṇaḥ ca pṛthuḥ vipṛthuḥ eva ca ..10..
सत्यकः सात्यकिश्चैव भङ्गकारसहाचरौ । हार्दिक्यः कृतवर्मा च ये चान्ये नानुकीर्तिताः ॥११॥
सत्यकः सात्यकिः च एव । हार्दिक्यः कृतवर्मा च ये च अन्ये न अनुकीर्तिताः ॥११॥
satyakaḥ sātyakiḥ ca eva . hārdikyaḥ kṛtavarmā ca ye ca anye na anukīrtitāḥ ..11..
एते परिवृताः स्त्रीभिर्गन्धर्वैश्च पृथक्पृथक् । तमुत्सवं रैवतके शोभयां चक्रिरे तदा ॥१२॥
एते परिवृताः स्त्रीभिः गन्धर्वैः च पृथक् पृथक् । तम् उत्सवम् रैवतके शोभयाम् चक्रिरे तदा ॥१२॥
ete parivṛtāḥ strībhiḥ gandharvaiḥ ca pṛthak pṛthak . tam utsavam raivatake śobhayām cakrire tadā ..12..
तदा कोलाहले तस्मिन्वर्तमाने महाशुभे । वासुदेवश्च पार्थश्च सहितौ परिजग्मतुः ॥१३॥
तदा कोलाहले तस्मिन् वर्तमाने महा-शुभे । वासुदेवः च पार्थः च सहितौ परिजग्मतुः ॥१३॥
tadā kolāhale tasmin vartamāne mahā-śubhe . vāsudevaḥ ca pārthaḥ ca sahitau parijagmatuḥ ..13..
तत्र चङ्क्रम्यमाणौ तौ वासुदेवसुतां शुभाम् । अलङ्कृतां सखीमध्ये भद्रां ददृशतुस्तदा ॥१४॥
तत्र चङ्क्रम्यमाणौ तौ वासुदेव-सुताम् शुभाम् । अलङ्कृताम् सखी-मध्ये भद्राम् ददृशतुः तदा ॥१४॥
tatra caṅkramyamāṇau tau vāsudeva-sutām śubhām . alaṅkṛtām sakhī-madhye bhadrām dadṛśatuḥ tadā ..14..
दृष्ट्वैव तामर्जुनस्य कन्दर्पः समजायत । तं तथैकाग्रमनसं कृष्णः पार्थमलक्षयत् ॥१५॥
दृष्ट्वा एव ताम् अर्जुनस्य कन्दर्पः समजायत । तम् तथा एकाग्र-मनसम् कृष्णः पार्थम् अलक्षयत् ॥१५॥
dṛṣṭvā eva tām arjunasya kandarpaḥ samajāyata . tam tathā ekāgra-manasam kṛṣṇaḥ pārtham alakṣayat ..15..
अथाब्रवीत्पुष्कराक्षः प्रहसन्निव भारत । वनेचरस्य किमिदं कामेनालोड्यते मनः ॥१६॥
अथ अब्रवीत् पुष्कराक्षः प्रहसन् इव भारत । वनेचरस्य किम् इदम् कामेन आलोड्यते मनः ॥१६॥
atha abravīt puṣkarākṣaḥ prahasan iva bhārata . vanecarasya kim idam kāmena āloḍyate manaḥ ..16..
ममैषा भगिनी पार्थ सारणस्य सहोदरा । यदि ते वर्तते बुद्धिर्वक्ष्यामि पितरं स्वयम् ॥१७॥
मम एषा भगिनी पार्थ सारणस्य सहोदरा । यदि ते वर्तते बुद्धिः वक्ष्यामि पितरम् स्वयम् ॥१७॥
mama eṣā bhaginī pārtha sāraṇasya sahodarā . yadi te vartate buddhiḥ vakṣyāmi pitaram svayam ..17..
अर्जुन उवाच॥
दुहिता वसुदेवस्य वासुदेवस्य च स्वसा । रूपेण चैव सम्पन्ना कमिवैषा न मोहयेत् ॥१८॥
दुहिता वसुदेवस्य वासुदेवस्य च स्वसा । रूपेण च एव सम्पन्ना कम् इव एषा न मोहयेत् ॥१८॥
duhitā vasudevasya vāsudevasya ca svasā . rūpeṇa ca eva sampannā kam iva eṣā na mohayet ..18..
कृतमेव तु कल्याणं सर्वं मम भवेद्ध्रुवम् । यदि स्यान्मम वार्ष्णेयी महिषीयं स्वसा तव ॥१९॥
कृतम् एव तु कल्याणम् सर्वम् मम भवेत् ध्रुवम् । यदि स्यात् मम वार्ष्णेयी महिषी इयम् स्वसा तव ॥१९॥
kṛtam eva tu kalyāṇam sarvam mama bhavet dhruvam . yadi syāt mama vārṣṇeyī mahiṣī iyam svasā tava ..19..
प्राप्तौ तु क उपायः स्यात्तद्ब्रवीहि जनार्दन । आस्थास्यामि तथा सर्वं यदि शक्यं नरेण तत् ॥२०॥
प्राप्तौ तु कः उपायः स्यात् तत् ब्रवीहि जनार्दन । आस्थास्यामि तथा सर्वम् यदि शक्यम् नरेण तत् ॥२०॥
prāptau tu kaḥ upāyaḥ syāt tat bravīhi janārdana . āsthāsyāmi tathā sarvam yadi śakyam nareṇa tat ..20..
वासुदेव उवाच॥
स्वयंवरः क्षत्रियाणां विवाहः पुरुषर्षभ । स च संशयितः पार्थ स्वभावस्यानिमित्ततः ॥२१॥
स्वयंवरः क्षत्रियाणाम् विवाहः पुरुष-ऋषभ । स च संशयितः पार्थ स्वभावस्य अनिमित्ततः ॥२१॥
svayaṃvaraḥ kṣatriyāṇām vivāhaḥ puruṣa-ṛṣabha . sa ca saṃśayitaḥ pārtha svabhāvasya animittataḥ ..21..
प्रसह्य हरणं चापि क्षत्रियाणां प्रशस्यते । विवाहहेतोः शूराणामिति धर्मविदो विदुः ॥२२॥
प्रसह्य हरणम् च अपि क्षत्रियाणाम् प्रशस्यते । विवाह-हेतोः शूराणाम् इति धर्म-विदः विदुः ॥२२॥
prasahya haraṇam ca api kṣatriyāṇām praśasyate . vivāha-hetoḥ śūrāṇām iti dharma-vidaḥ viduḥ ..22..
स त्वमर्जुन कल्याणीं प्रसह्य भगिनीं मम । हर स्वयंवरे ह्यस्याः को वै वेद चिकीर्षितम् ॥२३॥
स त्वम् अर्जुन कल्याणीम् प्रसह्य भगिनीम् मम । हर स्वयंवरे हि अस्याः कः वै वेद-चिकीर्षितम् ॥२३॥
sa tvam arjuna kalyāṇīm prasahya bhaginīm mama . hara svayaṃvare hi asyāḥ kaḥ vai veda-cikīrṣitam ..23..
वैशम्पायन उवाच॥
ततोऽर्जुनश्च कृष्णश्च विनिश्चित्येतिकृत्यताम् । शीघ्रगान्पुरुषान्राजन्प्रेषयामासतुस्तदा ॥२४॥
ततस् अर्जुनः च कृष्णः च विनिश्चित्य इति कृत्यताम् । शीघ्र-गान् पुरुषान् राजन् प्रेषयामासतुः तदा ॥२४॥
tatas arjunaḥ ca kṛṣṇaḥ ca viniścitya iti kṛtyatām . śīghra-gān puruṣān rājan preṣayāmāsatuḥ tadā ..24..
धर्मराजाय तत्सर्वमिन्द्रप्रस्थगताय वै । श्रुत्वैव च महाबाहुरनुजज्ञे स पाण्डवः ॥२५॥1.218.25
धर्मराजाय तत् सर्वम् इन्द्रप्रस्थ-गताय वै । श्रुत्वा एव च महा-बाहुः अनुजज्ञे स पाण्डवः ॥२५॥१।२१८।२५
dharmarājāya tat sarvam indraprastha-gatāya vai . śrutvā eva ca mahā-bāhuḥ anujajñe sa pāṇḍavaḥ ..25..1.218.25

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In