| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
ततः संवादिते तस्मिन्ननुज्ञातो धनञ्जयः । गतां रैवतके कन्यां विदित्वा जनमेजय ॥१॥
ततस् संवादिते तस्मिन् अनुज्ञातः धनञ्जयः । गताम् रैवतके कन्याम् विदित्वा जनमेजय ॥१॥
tatas saṃvādite tasmin anujñātaḥ dhanañjayaḥ . gatām raivatake kanyām viditvā janamejaya ..1..
वासुदेवाभ्यनुज्ञातः कथयित्वेतिकृत्यताम् । कृष्णस्य मतमाज्ञाय प्रययौ भरतर्षभः ॥२॥
वासुदेव-अभ्यनुज्ञातः कथयित्वा इतिकृत्यताम् । कृष्णस्य मतम् आज्ञाय प्रययौ भरत-ऋषभः ॥२॥
vāsudeva-abhyanujñātaḥ kathayitvā itikṛtyatām . kṛṣṇasya matam ājñāya prayayau bharata-ṛṣabhaḥ ..2..
रथेन काञ्चनाङ्गेन कल्पितेन यथाविधि । सैन्यसुग्रीवयुक्तेन किङ्किणीजालमालिना ॥३॥
रथेन काञ्चन-अङ्गेन कल्पितेन यथाविधि । सैन्य-सुग्रीव-युक्तेन किङ्किणी-जाल-मालिना ॥३॥
rathena kāñcana-aṅgena kalpitena yathāvidhi . sainya-sugrīva-yuktena kiṅkiṇī-jāla-mālinā ..3..
सर्वशस्त्रोपपन्नेन जीमूतरवनादिना । ज्वलिताग्निप्रकाशेन द्विषतां हर्षघातिना ॥४॥
सर्व-शस्त्र-उपपन्नेन जीमूत-रव-नादिना । ज्वलित-अग्नि-प्रकाशेन द्विषताम् हर्ष-घातिना ॥४॥
sarva-śastra-upapannena jīmūta-rava-nādinā . jvalita-agni-prakāśena dviṣatām harṣa-ghātinā ..4..
संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् । मृगयाव्यपदेशेन यौगपद्येन भारत ॥५॥
संनद्धः कवची खड्गी बद्ध-गोधा-अङ्गुलित्रवान् । मृगया-व्यपदेशेन यौगपद्येन भारत ॥५॥
saṃnaddhaḥ kavacī khaḍgī baddha-godhā-aṅgulitravān . mṛgayā-vyapadeśena yaugapadyena bhārata ..5..
सुभद्रा त्वथ शैलेन्द्रमभ्यर्च्य सह रैवतम् । दैवतानि च सर्वाणि ब्राह्मणान्स्वस्ति वाच्य च ॥६॥
सुभद्रा तु अथ शैल-इन्द्रम् अभ्यर्च्य सह रैवतम् । दैवतानि च सर्वाणि ब्राह्मणान् स्वस्ति वाच्य च ॥६॥
subhadrā tu atha śaila-indram abhyarcya saha raivatam . daivatāni ca sarvāṇi brāhmaṇān svasti vācya ca ..6..
प्रदक्षिणं गिरिं कृत्वा प्रययौ द्वारकां प्रति । तामभिद्रुत्य कौन्तेयः प्रसह्यारोपयद्रथम् ॥७॥
प्रदक्षिणम् गिरिम् कृत्वा प्रययौ द्वारकाम् प्रति । ताम् अभिद्रुत्य कौन्तेयः प्रसह्य आरोपयत् रथम् ॥७॥
pradakṣiṇam girim kṛtvā prayayau dvārakām prati . tām abhidrutya kaunteyaḥ prasahya āropayat ratham ..7..
ततः स पुरुषव्याघ्रस्तामादाय शुचिस्मिताम् । रथेनाकाशगेनैव प्रययौ स्वपुरं प्रति ॥८॥
ततस् स पुरुष-व्याघ्रः ताम् आदाय शुचि-स्मिताम् । रथेन आकाश-गेन एव प्रययौ स्व-पुरम् प्रति ॥८॥
tatas sa puruṣa-vyāghraḥ tām ādāya śuci-smitām . rathena ākāśa-gena eva prayayau sva-puram prati ..8..
ह्रियमाणां तु तां दृष्ट्वा सुभद्रां सैनिको जनः । विक्रोशन्प्राद्रवत्सर्वो द्वारकामभितः पुरीम् ॥९॥
ह्रियमाणाम् तु ताम् दृष्ट्वा सुभद्राम् सैनिकः जनः । विक्रोशन् प्राद्रवत् सर्वः द्वारकाम् अभितस् पुरीम् ॥९॥
hriyamāṇām tu tām dṛṣṭvā subhadrām sainikaḥ janaḥ . vikrośan prādravat sarvaḥ dvārakām abhitas purīm ..9..
ते समासाद्य सहिताः सुधर्मामभितः सभाम् । सभापालस्य तत्सर्वमाचख्युः पार्थविक्रमम् ॥१०॥
ते समासाद्य सहिताः सुधर्माम् अभितस् सभाम् । सभापालस्य तत् सर्वम् आचख्युः पार्थ-विक्रमम् ॥१०॥
te samāsādya sahitāḥ sudharmām abhitas sabhām . sabhāpālasya tat sarvam ācakhyuḥ pārtha-vikramam ..10..
तेषां श्रुत्वा सभापालो भेरीं सांनाहिकीं ततः । समाजघ्ने महाघोषां जाम्बूनदपरिष्कृताम् ॥११॥
तेषाम् श्रुत्वा सभापालः भेरीम् सांनाहिकीम् ततस् । समाजघ्ने महा-घोषाम् जाम्बूनद-परिष्कृताम् ॥११॥
teṣām śrutvā sabhāpālaḥ bherīm sāṃnāhikīm tatas . samājaghne mahā-ghoṣām jāmbūnada-pariṣkṛtām ..11..
क्षुब्धास्तेनाथ शब्देन भोजवृष्ण्यन्धकास्तदा । अन्नपानमपास्याथ समापेतुः सभां ततः ॥१२॥
क्षुब्धाः तेन अथ शब्देन भोज-वृष्णि-अन्धकाः तदा । अन्न-पानम् अपास्य अथ समापेतुः सभाम् ततस् ॥१२॥
kṣubdhāḥ tena atha śabdena bhoja-vṛṣṇi-andhakāḥ tadā . anna-pānam apāsya atha samāpetuḥ sabhām tatas ..12..
ततो जाम्बूनदाङ्गानि स्पर्ध्यास्तरणवन्ति च । मणिविद्रुमचित्राणि ज्वलिताग्निप्रभाणि च ॥१३॥
ततस् जाम्बूनद-अङ्गानि स्पर्ध्य-आस्तरणवन्ति च । मणि-विद्रुम-चित्राणि ज्वलित-अग्नि-प्रभाणि च ॥१३॥
tatas jāmbūnada-aṅgāni spardhya-āstaraṇavanti ca . maṇi-vidruma-citrāṇi jvalita-agni-prabhāṇi ca ..13..
भेजिरे पुरुषव्याघ्रा वृष्ण्यन्धकमहारथाः । सिंहासनानि शतशो धिष्ण्यानीव हुताशनाः ॥१४॥
भेजिरे पुरुष-व्याघ्राः वृष्णि-अन्धक-महा-रथाः । सिंहासनानि शतशस् धिष्ण्यानि इव हुताशनाः ॥१४॥
bhejire puruṣa-vyāghrāḥ vṛṣṇi-andhaka-mahā-rathāḥ . siṃhāsanāni śataśas dhiṣṇyāni iva hutāśanāḥ ..14..
तेषां समुपविष्टानां देवानामिव संनये । आचख्यौ चेष्टितं जिष्णोः सभापालः सहानुगः ॥१५॥
तेषाम् समुपविष्टानाम् देवानाम् इव संनये । आचख्यौ चेष्टितम् जिष्णोः सभापालः सह अनुगः ॥१५॥
teṣām samupaviṣṭānām devānām iva saṃnaye . ācakhyau ceṣṭitam jiṣṇoḥ sabhāpālaḥ saha anugaḥ ..15..
तच्छ्रुत्वा वृष्णिवीरास्ते मदरक्तान्तलोचनाः । अमृष्यमाणाः पार्थस्य समुत्पेतुरहङ्कृताः ॥१६॥
तत् श्रुत्वा वृष्णि-वीराः ते मद-रक्त-अन्त-लोचनाः । अमृष्यमाणाः पार्थस्य समुत्पेतुः अहङ्कृताः ॥१६॥
tat śrutvā vṛṣṇi-vīrāḥ te mada-rakta-anta-locanāḥ . amṛṣyamāṇāḥ pārthasya samutpetuḥ ahaṅkṛtāḥ ..16..
योजयध्वं रथानाशु प्रासानाहरतेति च । धनूंषि च महार्हाणि कवचानि बृहन्ति च ॥१७॥
योजयध्वम् रथान् आशु प्रासान् आहरत इति च । धनूंषि च महार्हाणि कवचानि बृहन्ति च ॥१७॥
yojayadhvam rathān āśu prāsān āharata iti ca . dhanūṃṣi ca mahārhāṇi kavacāni bṛhanti ca ..17..
सूतानुच्चुक्रुशुः केच्चिद्रथान्योजयतेति च । स्वयं च तुरगान्केचिन्निन्युर्हेमविभूषितान् ॥१८॥
सूतान् उच्चुक्रुशुः केच्चिद् रथान् योजयत इति च । स्वयम् च तुरगान् केचिद् निन्युः हेम-विभूषितान् ॥१८॥
sūtān uccukruśuḥ keccid rathān yojayata iti ca . svayam ca turagān kecid ninyuḥ hema-vibhūṣitān ..18..
रथेष्वानीयमानेषु कवचेषु ध्वजेषु च । अभिक्रन्दे नृवीराणां तदासीत्सङ्कुलं महत् ॥१९॥
रथेषु आनीयमानेषु कवचेषु ध्वजेषु च । अभिक्रन्दे नृ-वीराणाम् तदा आसीत् सङ्कुलम् महत् ॥१९॥
ratheṣu ānīyamāneṣu kavaceṣu dhvajeṣu ca . abhikrande nṛ-vīrāṇām tadā āsīt saṅkulam mahat ..19..
वनमाली ततः क्षीबः कैलासशिखरोपमः । नीलवासा मदोत्सिक्त इदं वचनमब्रवीत् ॥२०॥
वनमाली ततस् क्षीबः कैलास-शिखर-उपमः । नील-वासाः मद-उत्सिक्तः इदम् वचनम् अब्रवीत् ॥२०॥
vanamālī tatas kṣībaḥ kailāsa-śikhara-upamaḥ . nīla-vāsāḥ mada-utsiktaḥ idam vacanam abravīt ..20..
किमिदं कुरुथाप्रज्ञास्तूष्णीं भूते जनार्दने । अस्य भावमविज्ञाय सङ्क्रुद्धा मोघगर्जिताः ॥२१॥
किम् इदम् कुरुथ अप्रज्ञाः तूष्णीम् भूते जनार्दने । अस्य भावम् अ विज्ञाय सङ्क्रुद्धाः मोघ-गर्जिताः ॥२१॥
kim idam kurutha aprajñāḥ tūṣṇīm bhūte janārdane . asya bhāvam a vijñāya saṅkruddhāḥ mogha-garjitāḥ ..21..
एष तावदभिप्रायमाख्यातु स्वं महामतिः । यदस्य रुचितं कर्तुं तत्कुरुध्वमतन्द्रिताः ॥२२॥
एष तावत् अभिप्रायम् आख्यातु स्वम् महामतिः । यत् अस्य रुचितम् कर्तुम् तत् कुरुध्वम् अतन्द्रिताः ॥२२॥
eṣa tāvat abhiprāyam ākhyātu svam mahāmatiḥ . yat asya rucitam kartum tat kurudhvam atandritāḥ ..22..
ततस्ते तद्वचः श्रुत्वा ग्राह्यरूपं हलायुधात् । तूष्णीं भूतास्ततः सर्वे साधु साध्विति चाब्रुवन् ॥२३॥
ततस् ते तद्-वचः श्रुत्वा ग्राह्य-रूपम् हलायुधात् । तूष्णीम् भूताः ततस् सर्वे साधु साधु इति च ब्रुवन् ॥२३॥
tatas te tad-vacaḥ śrutvā grāhya-rūpam halāyudhāt . tūṣṇīm bhūtāḥ tatas sarve sādhu sādhu iti ca bruvan ..23..
समं वचो निशम्येति बलदेवस्य धीमतः । पुनरेव सभामध्ये सर्वे तु समुपाविशन् ॥२४॥
समम् वचः निशम्य इति बलदेवस्य धीमतः । पुनर् एव सभा-मध्ये सर्वे तु समुपाविशन् ॥२४॥
samam vacaḥ niśamya iti baladevasya dhīmataḥ . punar eva sabhā-madhye sarve tu samupāviśan ..24..
ततोऽब्रवीत्कामपालो वासुदेवं परन्तपम् । किमवागुपविष्टोऽसि प्रेक्षमाणो जनार्दन ॥२५॥
ततस् अब्रवीत् कामपालः वासुदेवम् परन्तपम् । किम् अवाक् उपविष्टः असि प्रेक्षमाणः जनार्दन ॥२५॥
tatas abravīt kāmapālaḥ vāsudevam parantapam . kim avāk upaviṣṭaḥ asi prekṣamāṇaḥ janārdana ..25..
सत्कृतस्त्वत्कृते पार्थः सर्वैरस्माभिरच्युत । न च सोऽर्हति तां पूजां दुर्बुद्धिः कुलपांसनः ॥२६॥
सत्कृतः त्वद्-कृते पार्थः सर्वैः अस्माभिः अच्युत । न च सः अर्हति ताम् पूजाम् दुर्बुद्धिः कुल-पांसनः ॥२६॥
satkṛtaḥ tvad-kṛte pārthaḥ sarvaiḥ asmābhiḥ acyuta . na ca saḥ arhati tām pūjām durbuddhiḥ kula-pāṃsanaḥ ..26..
को हि तत्रैव भुक्त्वान्नं भाजनं भेत्तुमर्हति । मन्यमानः कुले जातमात्मानं पुरुषः क्वचित् ॥२७॥
कः हि तत्र एव भुक्त्वा अन्नम् भाजनम् भेत्तुम् अर्हति । मन्यमानः कुले जातम् आत्मानम् पुरुषः क्वचिद् ॥२७॥
kaḥ hi tatra eva bhuktvā annam bhājanam bhettum arhati . manyamānaḥ kule jātam ātmānam puruṣaḥ kvacid ..27..
ईप्समानश्च सम्बन्धं कृतपूर्वं च मानयन् । को हि नाम भवेनार्थी साहसेन समाचरेत् ॥२८॥
ईप्समानः च सम्बन्धम् कृत-पूर्वम् च मानयन् । कः हि नाम भवेन अर्थी साहसेन समाचरेत् ॥२८॥
īpsamānaḥ ca sambandham kṛta-pūrvam ca mānayan . kaḥ hi nāma bhavena arthī sāhasena samācaret ..28..
सोऽवमन्य च नामास्माननादृत्य च केशवम् । प्रसह्य हृतवानद्य सुभद्रां मृत्युमात्मनः ॥२९॥
सः अवमन्य च नाम अस्मान् अन् आदृत्य च केशवम् । प्रसह्य हृतवान् अद्य सुभद्राम् मृत्युम् आत्मनः ॥२९॥
saḥ avamanya ca nāma asmān an ādṛtya ca keśavam . prasahya hṛtavān adya subhadrām mṛtyum ātmanaḥ ..29..
कथं हि शिरसो मध्ये पदं तेन कृतं मम । मर्षयिष्यामि गोविन्द पादस्पर्शमिवोरगः ॥३०॥
कथम् हि शिरसः मध्ये पदम् तेन कृतम् मम । मर्षयिष्यामि गोविन्द पाद-स्पर्शम् इव उरगः ॥३०॥
katham hi śirasaḥ madhye padam tena kṛtam mama . marṣayiṣyāmi govinda pāda-sparśam iva uragaḥ ..30..
अद्य निष्कौरवामेकः करिष्यामि वसुन्धराम् । न हि मे मर्षणीयोऽयमर्जुनस्य व्यतिक्रमः ॥३१॥
अद्य निष्कौरवाम् एकः करिष्यामि वसुन्धराम् । न हि मे मर्षणीयः अयम् अर्जुनस्य व्यतिक्रमः ॥३१॥
adya niṣkauravām ekaḥ kariṣyāmi vasundharām . na hi me marṣaṇīyaḥ ayam arjunasya vyatikramaḥ ..31..
तं तथा गर्जमानं तु मेघदुन्दुभिनिःस्वनम् । अन्वपद्यन्त ते सर्वे भोजवृष्ण्यन्धकास्तदा ॥३२॥1.219.32
तम् तथा गर्जमानम् तु मेघ-दुन्दुभि-निःस्वनम् । अन्वपद्यन्त ते सर्वे भोज-वृष्णि-अन्धकाः तदा ॥३२॥१।२१९।३२
tam tathā garjamānam tu megha-dundubhi-niḥsvanam . anvapadyanta te sarve bhoja-vṛṣṇi-andhakāḥ tadā ..32..1.219.32

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In