| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
उक्तवन्तो यदा वाक्यमसकृत्सर्ववृष्णयः । ततोऽब्रवीद्वासुदेवो वाक्यं धर्मार्थसंहितम् ॥१॥
उक्तवन्तः यदा वाक्यम् असकृत् सर्व-वृष्णयः । ततस् अब्रवीत् वासुदेवः वाक्यम् धर्म-अर्थ-संहितम् ॥१॥
uktavantaḥ yadā vākyam asakṛt sarva-vṛṣṇayaḥ . tatas abravīt vāsudevaḥ vākyam dharma-artha-saṃhitam ..1..
नावमानं कुलस्यास्य गुडाकेशः प्रयुक्तवान् । संमानोऽभ्यधिकस्तेन प्रयुक्तोऽयमसंशयम् ॥२॥
न अवमानम् कुलस्य अस्य गुडाकेशः प्रयुक्तवान् । संमानः अभ्यधिकः तेन प्रयुक्तः अयम् असंशयम् ॥२॥
na avamānam kulasya asya guḍākeśaḥ prayuktavān . saṃmānaḥ abhyadhikaḥ tena prayuktaḥ ayam asaṃśayam ..2..
अर्थलुब्धान्न वः पार्थो मन्यते सात्वतान्सदा । स्वयंवरमनाधृष्यं मन्यते चापि पाण्डवः ॥३॥
अर्थ-लुब्धान् न वः पार्थः मन्यते सात्वतान् सदा । स्वयंवरम् अनाधृष्यम् मन्यते च अपि पाण्डवः ॥३॥
artha-lubdhān na vaḥ pārthaḥ manyate sātvatān sadā . svayaṃvaram anādhṛṣyam manyate ca api pāṇḍavaḥ ..3..
प्रदानमपि कन्यायाः पशुवत्कोऽनुमंस्यते । विक्रयं चाप्यपत्यस्य कः कुर्यात्पुरुषो भुवि ॥४॥
प्रदानम् अपि कन्यायाः पशु-वत् कः अनुमंस्यते । विक्रयम् च अपि अपत्यस्य कः कुर्यात् पुरुषः भुवि ॥४॥
pradānam api kanyāyāḥ paśu-vat kaḥ anumaṃsyate . vikrayam ca api apatyasya kaḥ kuryāt puruṣaḥ bhuvi ..4..
एतान्दोषांश्च कौन्तेयो दृष्टवानिति मे मतिः । अतः प्रसह्य हृतवान्कन्यां धर्मेण पाण्डवः ॥५॥
एतान् दोषान् च कौन्तेयः दृष्टवान् इति मे मतिः । अतस् प्रसह्य हृतवान् कन्याम् धर्मेण पाण्डवः ॥५॥
etān doṣān ca kaunteyaḥ dṛṣṭavān iti me matiḥ . atas prasahya hṛtavān kanyām dharmeṇa pāṇḍavaḥ ..5..
उचितश्चैव सम्बन्धः सुभद्रा च यशस्विनी । एष चापीदृशः पार्थः प्रसह्य हृतवानिति ॥६॥
उचितः च एव सम्बन्धः सुभद्रा च यशस्विनी । एष च अपि ईदृशः पार्थः प्रसह्य हृतवान् इति ॥६॥
ucitaḥ ca eva sambandhaḥ subhadrā ca yaśasvinī . eṣa ca api īdṛśaḥ pārthaḥ prasahya hṛtavān iti ..6..
भरतस्यान्वये जातं शन्तनोश्च महात्मनः । कुन्तिभोजात्मजापुत्रं को बुभूषेत नार्जुनम् ॥७॥
भरतस्य अन्वये जातम् शन्तनोः च महात्मनः । कुन्तिभोज-आत्मजा-पुत्रम् कः बुभूषेत न अर्जुनम् ॥७॥
bharatasya anvaye jātam śantanoḥ ca mahātmanaḥ . kuntibhoja-ātmajā-putram kaḥ bubhūṣeta na arjunam ..7..
न च पश्यामि यः पार्थं विक्रमेण पराजयेत् । अपि सर्वेषु लोकेषु सेन्द्ररुद्रेषु मारिष ॥८॥
न च पश्यामि यः पार्थम् विक्रमेण पराजयेत् । अपि सर्वेषु लोकेषु स इन्द्र-रुद्रेषु मारिष ॥८॥
na ca paśyāmi yaḥ pārtham vikrameṇa parājayet . api sarveṣu lokeṣu sa indra-rudreṣu māriṣa ..8..
स च नाम रथस्तादृङ्मदीयास्ते च वाजिनः । योद्धा पार्थश्च शीघ्रास्त्रः को नु तेन समो भवेत् ॥९॥
स च नाम रथः तादृश् मदीयाः ते च वाजिनः । योद्धा पार्थः च शीघ्र-अस्त्रः कः नु तेन समः भवेत् ॥९॥
sa ca nāma rathaḥ tādṛś madīyāḥ te ca vājinaḥ . yoddhā pārthaḥ ca śīghra-astraḥ kaḥ nu tena samaḥ bhavet ..9..
तमनुद्रुत्य सान्त्वेन परमेण धनञ्जयम् । निवर्तयध्वं संहृष्टा ममैषा परमा मतिः ॥१०॥
तम् अनुद्रुत्य सान्त्वेन परमेण धनञ्जयम् । निवर्तयध्वम् संहृष्टाः मम एषा परमा मतिः ॥१०॥
tam anudrutya sāntvena parameṇa dhanañjayam . nivartayadhvam saṃhṛṣṭāḥ mama eṣā paramā matiḥ ..10..
यदि निर्जित्य वः पार्थो बलाद्गच्छेत्स्वकं पुरम् । प्रणश्येद्वो यशः सद्यो न तु सान्त्वे पराजयः ॥११॥
यदि निर्जित्य वः पार्थः बलात् गच्छेत् स्वकम् पुरम् । प्रणश्येत् वः यशः सद्यस् न तु सान्त्वे पराजयः ॥११॥
yadi nirjitya vaḥ pārthaḥ balāt gacchet svakam puram . praṇaśyet vaḥ yaśaḥ sadyas na tu sāntve parājayaḥ ..11..
तच्छ्रुत्वा वासुदेवस्य तथा चक्रुर्जनाधिप । निवृत्तश्चार्जुनस्तत्र विवाहं कृतवांस्ततः ॥१२॥
तत् श्रुत्वा वासुदेवस्य तथा चक्रुः जनाधिप । निवृत्तः च अर्जुनः तत्र विवाहम् कृतवान् ततस् ॥१२॥
tat śrutvā vāsudevasya tathā cakruḥ janādhipa . nivṛttaḥ ca arjunaḥ tatra vivāham kṛtavān tatas ..12..
उषित्वा तत्र कौन्तेयः संवत्सरपराः क्षपाः । पुष्करेषु ततः शिष्टं कालं वर्तितवान्प्रभुः ॥१३॥ ( पूर्णे तु द्वादशे वर्षे खाण्डवप्रस्थमाविशत् ॥१३॥ )
उषित्वा तत्र कौन्तेयः संवत्सर-पराः क्षपाः । पुष्करेषु ततस् शिष्टम् कालम् वर्तितवान् प्रभुः ॥१३॥ ( पूर्णे तु द्वादशे वर्षे खाण्डवप्रस्थम् आविशत् ॥१३॥ )
uṣitvā tatra kaunteyaḥ saṃvatsara-parāḥ kṣapāḥ . puṣkareṣu tatas śiṣṭam kālam vartitavān prabhuḥ ..13.. ( pūrṇe tu dvādaśe varṣe khāṇḍavaprastham āviśat ..13.. )
अभिगम्य स राजानं विनयेन समाहितः । अभ्यर्च्य ब्राह्मणान्पार्थो द्रौपदीमभिजग्मिवान् ॥१४॥
अभिगम्य स राजानम् विनयेन समाहितः । अभ्यर्च्य ब्राह्मणान् पार्थः द्रौपदीम् अभिजग्मिवान् ॥१४॥
abhigamya sa rājānam vinayena samāhitaḥ . abhyarcya brāhmaṇān pārthaḥ draupadīm abhijagmivān ..14..
तं द्रौपदी प्रत्युवाच प्रणयात्कुरुनन्दनम् । तत्रैव गच्छ कौन्तेय यत्र सा सात्वतात्मजा ॥१५॥ ( सुबद्धस्यापि भारस्य पूर्वबन्धः श्लथायते ॥१५॥ )
तम् द्रौपदी प्रत्युवाच प्रणयात् कुरु-नन्दनम् । तत्र एव गच्छ कौन्तेय यत्र सा सात्वत-आत्मजा ॥१५॥ ( सु बद्धस्य अपि भारस्य पूर्व-बन्धः श्लथायते ॥१५॥ )
tam draupadī pratyuvāca praṇayāt kuru-nandanam . tatra eva gaccha kaunteya yatra sā sātvata-ātmajā ..15.. ( su baddhasya api bhārasya pūrva-bandhaḥ ślathāyate ..15.. )
तथा बहुविधं कृष्णां विलपन्तीं धनञ्जयः । सान्त्वयामास भूयश्च क्षमयामास चासकृत् ॥१६॥
तथा बहुविधम् कृष्णाम् विलपन्तीम् धनञ्जयः । सान्त्वयामास भूयस् च क्षमयामास च असकृत् ॥१६॥
tathā bahuvidham kṛṣṇām vilapantīm dhanañjayaḥ . sāntvayāmāsa bhūyas ca kṣamayāmāsa ca asakṛt ..16..
सुभद्रां त्वरमाणश्च रक्तकौशेयवाससम् । पार्थः प्रस्थापयामास कृत्वा गोपालिकावपुः ॥१७॥
सुभद्राम् त्वरमाणः च रक्त-कौशेय-वाससम् । पार्थः प्रस्थापयामास कृत्वा गोपालिका-वपुः ॥१७॥
subhadrām tvaramāṇaḥ ca rakta-kauśeya-vāsasam . pārthaḥ prasthāpayāmāsa kṛtvā gopālikā-vapuḥ ..17..
साधिकं तेन रूपेण शोभमाना यशस्विनी । भवनं श्रेष्ठमासाद्य वीरपत्नी वराङ्गना ॥१८॥ ( ववन्दे पृथुताम्राक्षी पृथां भद्रा यशस्विनी ॥१८॥ )
सा अधिकम् तेन रूपेण शोभमाना यशस्विनी । भवनम् श्रेष्ठम् आसाद्य वीर-पत्नी वर-अङ्गना ॥१८॥ ( ववन्दे पृथु-ताम्र-अक्षी पृथाम् भद्रा यशस्विनी ॥१८॥ )
sā adhikam tena rūpeṇa śobhamānā yaśasvinī . bhavanam śreṣṭham āsādya vīra-patnī vara-aṅganā ..18.. ( vavande pṛthu-tāmra-akṣī pṛthām bhadrā yaśasvinī ..18.. )
ततोऽभिगम्य त्वरिता पूर्णेन्दुसदृशानना । ववन्दे द्रौपदीं भद्रा प्रेष्याहमिति चाब्रवीत् ॥१९॥
ततस् अभिगम्य त्वरिता पूर्ण-इन्दु-सदृश-आनना । ववन्दे द्रौपदीम् भद्रा प्रेष्या अहम् इति च अब्रवीत् ॥१९॥
tatas abhigamya tvaritā pūrṇa-indu-sadṛśa-ānanā . vavande draupadīm bhadrā preṣyā aham iti ca abravīt ..19..
प्रत्युत्थाय च तां कृष्णा स्वसारं माधवस्य ताम् । सस्वजे चावदत्प्रीता निःसपत्नोऽस्तु ते पतिः ॥२०॥ ( तथैव मुदिता भद्रा तामुवाचैवमस्त्विति ॥२०॥ )
प्रत्युत्थाय च ताम् कृष्णा स्वसारम् माधवस्य ताम् । सस्वजे च अवदत् प्रीता निःसपत्नः अस्तु ते पतिः ॥२०॥ ( तथा एव मुदिता भद्रा ताम् उवाच एवम् अस्तु इति ॥२०॥ )
pratyutthāya ca tām kṛṣṇā svasāram mādhavasya tām . sasvaje ca avadat prītā niḥsapatnaḥ astu te patiḥ ..20.. ( tathā eva muditā bhadrā tām uvāca evam astu iti ..20.. )
ततस्ते हृष्टमनसः पाण्डवेया महारथाः । कुन्ती च परमप्रीता बभूव जनमेजय ॥२१॥
ततस् ते हृष्ट-मनसः पाण्डवेयाः महा-रथाः । कुन्ती च परम-प्रीता बभूव जनमेजय ॥२१॥
tatas te hṛṣṭa-manasaḥ pāṇḍaveyāḥ mahā-rathāḥ . kuntī ca parama-prītā babhūva janamejaya ..21..
श्रुत्वा तु पुण्डरीकाक्षः सम्प्राप्तं स्वपुरोत्तमम् । अर्जुनं पाण्डवश्रेष्ठमिन्द्रप्रस्थगतं तदा ॥२२॥
श्रुत्वा तु पुण्डरीकाक्षः सम्प्राप्तम् स्व-पुर-उत्तमम् । अर्जुनम् पाण्डव-श्रेष्ठम् इन्द्रप्रस्थ-गतम् तदा ॥२२॥
śrutvā tu puṇḍarīkākṣaḥ samprāptam sva-pura-uttamam . arjunam pāṇḍava-śreṣṭham indraprastha-gatam tadā ..22..
आजगाम विशुद्धात्मा सह रामेण केशवः । वृष्ण्यन्धकमहामात्रैः सह वीरैर्महारथैः ॥२३॥
आजगाम विशुद्ध-आत्मा सह रामेण केशवः । वृष्णि-अन्धक-महामात्रैः सह वीरैः महा-रथैः ॥२३॥
ājagāma viśuddha-ātmā saha rāmeṇa keśavaḥ . vṛṣṇi-andhaka-mahāmātraiḥ saha vīraiḥ mahā-rathaiḥ ..23..
भ्रातृभिश्च कुमारैश्च योधैश्च शतशो वृतः । सैन्येन महता शौरिरभिगुप्तः परन्तपः ॥२४॥
भ्रातृभिः च कुमारैः च योधैः च शतशस् वृतः । सैन्येन महता शौरिः अभिगुप्तः परन्तपः ॥२४॥
bhrātṛbhiḥ ca kumāraiḥ ca yodhaiḥ ca śataśas vṛtaḥ . sainyena mahatā śauriḥ abhiguptaḥ parantapaḥ ..24..
तत्र दानपतिर्धीमानाजगाम महायशाः । अक्रूरो वृष्णिवीराणां सेनापतिररिंदमः ॥२५॥
तत्र दानपतिः धीमान् आजगाम महा-यशाः । अक्रूरः वृष्णि-वीराणाम् सेनापतिः अरिंदमः ॥२५॥
tatra dānapatiḥ dhīmān ājagāma mahā-yaśāḥ . akrūraḥ vṛṣṇi-vīrāṇām senāpatiḥ ariṃdamaḥ ..25..
अनाधृष्टिर्महातेजा उद्धवश्च महायशाः । साक्षाद्बृहस्पतेः शिष्यो महाबुद्धिर्महायशाः ॥२६॥
अनाधृष्टिः महा-तेजाः उद्धवः च महा-यशाः । साक्षात् बृहस्पतेः शिष्यः महा-बुद्धिः महा-यशाः ॥२६॥
anādhṛṣṭiḥ mahā-tejāḥ uddhavaḥ ca mahā-yaśāḥ . sākṣāt bṛhaspateḥ śiṣyaḥ mahā-buddhiḥ mahā-yaśāḥ ..26..
सत्यकः सात्यकिश्चैव कृतवर्मा च सात्वतः । प्रद्युम्नश्चैव साम्बश्च निशठः शङ्कुरेव च ॥२७॥
सत्यकः सात्यकिः च एव कृतवर्मा च सात्वतः । प्रद्युम्नः च एव साम्बः च निशठः शङ्कुः एव च ॥२७॥
satyakaḥ sātyakiḥ ca eva kṛtavarmā ca sātvataḥ . pradyumnaḥ ca eva sāmbaḥ ca niśaṭhaḥ śaṅkuḥ eva ca ..27..
चारुदेष्णश्च विक्रान्तो झिल्ली विपृथुरेव च । सारणश्च महाबाहुर्गदश्च विदुषां वरः ॥२८॥
चारुदेष्णः च विक्रान्तः झिल्ली विपृथुः एव च । सारणः च महा-बाहुः गदः च विदुषाम् वरः ॥२८॥
cārudeṣṇaḥ ca vikrāntaḥ jhillī vipṛthuḥ eva ca . sāraṇaḥ ca mahā-bāhuḥ gadaḥ ca viduṣām varaḥ ..28..
एते चान्ये च बहवो वृष्णिभोजान्धकास्तथा । आजग्मुः खाण्डवप्रस्थमादाय हरणं बहु ॥२९॥
एते च अन्ये च बहवः वृष्णि-भोज-अन्धकाः तथा । आजग्मुः खाण्डवप्रस्थम् आदाय हरणम् बहु ॥२९॥
ete ca anye ca bahavaḥ vṛṣṇi-bhoja-andhakāḥ tathā . ājagmuḥ khāṇḍavaprastham ādāya haraṇam bahu ..29..
ततो युधिष्ठिरो राजा श्रुत्वा माधवमागतम् । प्रतिग्रहार्थं कृष्णस्य यमौ प्रास्थापयत्तदा ॥३०॥
ततस् युधिष्ठिरः राजा श्रुत्वा माधवम् आगतम् । प्रतिग्रह-अर्थम् कृष्णस्य यमौ प्रास्थापयत् तदा ॥३०॥
tatas yudhiṣṭhiraḥ rājā śrutvā mādhavam āgatam . pratigraha-artham kṛṣṇasya yamau prāsthāpayat tadā ..30..
ताभ्यां प्रतिगृहीतं तद्वृष्णिचक्रं समृद्धिमत् । विवेश खाण्डवप्रस्थं पताकाध्वजशोभितम् ॥३१॥
ताभ्याम् प्रतिगृहीतम् तत् वृष्णि-चक्रम् समृद्धिमत् । विवेश खाण्डवप्रस्थम् पताका-ध्वज-शोभितम् ॥३१॥
tābhyām pratigṛhītam tat vṛṣṇi-cakram samṛddhimat . viveśa khāṇḍavaprastham patākā-dhvaja-śobhitam ..31..
सिक्तसंमृष्टपन्थानं पुष्पप्रकरशोभितम् । चन्दनस्य रसैः शीतैः पुण्यगन्धैर्निषेवितम् ॥३२॥
सिक्त-संमृष्ट-पन्थानम् पुष्प-प्रकर-शोभितम् । चन्दनस्य रसैः शीतैः पुण्य-गन्धैः निषेवितम् ॥३२॥
sikta-saṃmṛṣṭa-panthānam puṣpa-prakara-śobhitam . candanasya rasaiḥ śītaiḥ puṇya-gandhaiḥ niṣevitam ..32..
दह्यतागुरुणा चैव देशे देशे सुगन्धिना । सुसंमृष्टजनाकीर्णं वणिग्भिरुपशोभितम् ॥३३॥
दह्यता अगुरुणा च एव देशे देशे सुगन्धिना । सु संमृष्ट-जन-आकीर्णम् वणिग्भिः उपशोभितम् ॥३३॥
dahyatā aguruṇā ca eva deśe deśe sugandhinā . su saṃmṛṣṭa-jana-ākīrṇam vaṇigbhiḥ upaśobhitam ..33..
प्रतिपेदे महाबाहुः सह रामेण केशवः । वृष्ण्यन्धकमहाभोजैः संवृतः पुरुषोत्तमः ॥३४॥
प्रतिपेदे महा-बाहुः सह रामेण केशवः । वृष्णि-अन्धक-महा-भोजैः संवृतः पुरुषोत्तमः ॥३४॥
pratipede mahā-bāhuḥ saha rāmeṇa keśavaḥ . vṛṣṇi-andhaka-mahā-bhojaiḥ saṃvṛtaḥ puruṣottamaḥ ..34..
सम्पूज्यमानः पौरैश्च ब्राह्मणैश्च सहस्रशः । विवेश भवनं राज्ञः पुरंदरगृहोपमम् ॥३५॥
सम्पूज्यमानः पौरैः च ब्राह्मणैः च सहस्रशस् । विवेश भवनम् राज्ञः पुरंदर-गृह-उपमम् ॥३५॥
sampūjyamānaḥ pauraiḥ ca brāhmaṇaiḥ ca sahasraśas . viveśa bhavanam rājñaḥ puraṃdara-gṛha-upamam ..35..
युधिष्ठिरस्तु रामेण समागच्छद्यथाविधि । मूर्ध्नि केशवमाघ्राय पर्यष्वजत बाहुना ॥३६॥
युधिष्ठिरः तु रामेण समागच्छत् यथाविधि । मूर्ध्नि केशवम् आघ्राय पर्यष्वजत बाहुना ॥३६॥
yudhiṣṭhiraḥ tu rāmeṇa samāgacchat yathāvidhi . mūrdhni keśavam āghrāya paryaṣvajata bāhunā ..36..
तं प्रीयमाणं कृष्णस्तु विनयेनाभ्यपूजयत् । भीमं च पुरुषव्याघ्रं विधिवत्प्रत्यपूजयत् ॥३७॥
तम् प्रीयमाणम् कृष्णः तु विनयेन अभ्यपूजयत् । भीमम् च पुरुष-व्याघ्रम् विधिवत् प्रत्यपूजयत् ॥३७॥
tam prīyamāṇam kṛṣṇaḥ tu vinayena abhyapūjayat . bhīmam ca puruṣa-vyāghram vidhivat pratyapūjayat ..37..
तांश्च वृष्ण्यन्धकश्रेष्ठान्धर्मराजो युधिष्ठिरः । प्रतिजग्राह सत्कारैर्यथाविधि यथोपगम् ॥३८॥
तान् च वृष्णि-अन्धक-श्रेष्ठान् धर्मराजः युधिष्ठिरः । प्रतिजग्राह सत्कारैः यथाविधि यथा उपगम् ॥३८॥
tān ca vṛṣṇi-andhaka-śreṣṭhān dharmarājaḥ yudhiṣṭhiraḥ . pratijagrāha satkāraiḥ yathāvidhi yathā upagam ..38..
गुरुवत्पूजयामास कांश्चित्कांश्चिद्वयस्यवत् । कांश्चिदभ्यवदत्प्रेम्णा कैश्चिदप्यभिवादितः ॥३९॥
गुरु-वत् पूजयामास कांश्चिद् कांश्चिद् वयस्य-वत् । कांश्चिद् अभ्यवदत् प्रेम्णा कैश्चिद् अपि अभिवादितः ॥३९॥
guru-vat pūjayāmāsa kāṃścid kāṃścid vayasya-vat . kāṃścid abhyavadat premṇā kaiścid api abhivāditaḥ ..39..
ततो ददौ वासुदेवो जन्यार्थे धनमुत्तमम् । हरणं वै सुभद्राया ज्ञातिदेयं महायशाः ॥४०॥
ततस् ददौ वासुदेवः जन्या-अर्थे धनम् उत्तमम् । हरणम् वै सुभद्रायाः ज्ञाति-देयम् महा-यशाः ॥४०॥
tatas dadau vāsudevaḥ janyā-arthe dhanam uttamam . haraṇam vai subhadrāyāḥ jñāti-deyam mahā-yaśāḥ ..40..
रथानां काञ्चनाङ्गानां किङ्किणीजालमालिनाम् । चतुर्युजामुपेतानां सूतैः कुशलसंमतैः ॥४१॥ ( सहस्रं प्रददौ कृष्णो गवामयुतमेव च ॥४१॥ )
रथानाम् काञ्चन-अङ्गानाम् किङ्किणी-जाल-मालिनाम् । चतुर्-युजाम् उपेतानाम् सूतैः कुशल-संमतैः ॥४१॥ ( सहस्रम् प्रददौ कृष्णः गवाम् अयुतम् एव च ॥४१॥ )
rathānām kāñcana-aṅgānām kiṅkiṇī-jāla-mālinām . catur-yujām upetānām sūtaiḥ kuśala-saṃmataiḥ ..41.. ( sahasram pradadau kṛṣṇaḥ gavām ayutam eva ca ..41.. )
श्रीमान्माथुरदेश्यानां दोग्ध्रीणां पुण्यवर्चसाम् । वडवानां च शुभ्राणां चन्द्रांशुसमवर्चसाम् ॥४२॥ ( ददौ जनार्दनः प्रीत्या सहस्रं हेमभूषणम् ॥४२॥ )
श्रीमान् माथुर-देश्यानाम् दोग्ध्रीणाम् पुण्य-वर्चसाम् । वडवानाम् च शुभ्राणाम् चन्द्र-अंशु-सम-वर्चसाम् ॥४२॥ ( ददौ जनार्दनः प्रीत्या सहस्रम् हेम-भूषणम् ॥४२॥ )
śrīmān māthura-deśyānām dogdhrīṇām puṇya-varcasām . vaḍavānām ca śubhrāṇām candra-aṃśu-sama-varcasām ..42.. ( dadau janārdanaḥ prītyā sahasram hema-bhūṣaṇam ..42.. )
तथैवाश्वतरीणां च दान्तानां वातरंहसाम् । शतान्यञ्जनकेशीनां श्वेतानां पञ्च पञ्च च ॥४३॥
तथा एव अश्वतरीणाम् च दान्तानाम् वात-रंहसाम् । शतानि अञ्जन-केशीनाम् श्वेतानाम् पञ्च पञ्च च ॥४३॥
tathā eva aśvatarīṇām ca dāntānām vāta-raṃhasām . śatāni añjana-keśīnām śvetānām pañca pañca ca ..43..
स्नापनोत्सादने चैव सुयुक्तं वयसान्वितम् । स्त्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम् ॥४४॥
स्नापन-उत्सादने च एव सु युक्तम् वयसा अन्वितम् । स्त्रीणाम् सहस्रम् गौरीणाम् सु वेषाणाम् सु वर्चसाम् ॥४४॥
snāpana-utsādane ca eva su yuktam vayasā anvitam . strīṇām sahasram gaurīṇām su veṣāṇām su varcasām ..44..
सुवर्णशतकण्ठीनामरोगाणां सुवाससाम् । परिचर्यासु दक्षाणां प्रददौ पुष्करेक्षणः ॥४५॥
सुवर्ण-शत-कण्ठीनाम् अरोगाणाम् सु वाससाम् । परिचर्यासु दक्षाणाम् प्रददौ पुष्करेक्षणः ॥४५॥
suvarṇa-śata-kaṇṭhīnām arogāṇām su vāsasām . paricaryāsu dakṣāṇām pradadau puṣkarekṣaṇaḥ ..45..
कृताकृतस्य मुख्यस्य कनकस्याग्निवर्चसः । मनुष्यभारान्दाशार्हो ददौ दश जनार्दनः ॥४६॥
कृत-अकृतस्य मुख्यस्य कनकस्य अग्नि-वर्चसः । मनुष्य-भारान् दाशार्हः ददौ दश जनार्दनः ॥४६॥
kṛta-akṛtasya mukhyasya kanakasya agni-varcasaḥ . manuṣya-bhārān dāśārhaḥ dadau daśa janārdanaḥ ..46..
गजानां तु प्रभिन्नानां त्रिधा प्रस्रवतां मदम् । गिरिकूटनिकाशानां समरेष्वनिवर्तिनाम् ॥४७॥
गजानाम् तु प्रभिन्नानाम् त्रिधा प्रस्रवताम् मदम् । गिरि-कूट-निकाशानाम् समरेषु अनिवर्तिनाम् ॥४७॥
gajānām tu prabhinnānām tridhā prasravatām madam . giri-kūṭa-nikāśānām samareṣu anivartinām ..47..
कॢप्तानां पटुघण्टानां वराणां हेममालिनाम् । हस्त्यारोहैरुपेतानां सहस्रं साहसप्रियः ॥४८॥
कॢप्तानाम् पटु-घण्टानाम् वराणाम् हेम-मालिनाम् । हस्ति-आरोहैः उपेतानाम् सहस्रम् साहस-प्रियः ॥४८॥
kḷptānām paṭu-ghaṇṭānām varāṇām hema-mālinām . hasti-ārohaiḥ upetānām sahasram sāhasa-priyaḥ ..48..
रामः पादग्राहणिकं ददौ पार्थाय लाङ्गली । प्रीयमाणो हलधरः सम्बन्धप्रीतिमावहन् ॥४९॥
रामः ददौ पार्थाय लाङ्गली । प्रीयमाणः हलधरः सम्बन्ध-प्रीतिम् आवहन् ॥४९॥
rāmaḥ dadau pārthāya lāṅgalī . prīyamāṇaḥ haladharaḥ sambandha-prītim āvahan ..49..
स महाधनरत्नौघो वस्त्रकम्बलफेनवान् । महागजमहाग्राहः पताकाशैवलाकुलः ॥५०॥
स महा-धन-रत्न-ओघः वस्त्र-कम्बल-फेनवान् । ॥५०॥
sa mahā-dhana-ratna-oghaḥ vastra-kambala-phenavān . ..50..
पाण्डुसागरमाविद्धः प्रविवेश महानदः । पूर्णमापूरयंस्तेषां द्विषच्छोकावहोऽभवत् ॥५१॥
पाण्डु-सागरम् आविद्धः प्रविवेश महा-नदः । पूर्णम् आपूरयन् तेषाम् द्विषत्-शोक-आवहः अभवत् ॥५१॥
pāṇḍu-sāgaram āviddhaḥ praviveśa mahā-nadaḥ . pūrṇam āpūrayan teṣām dviṣat-śoka-āvahaḥ abhavat ..51..
प्रतिजग्राह तत्सर्वं धर्मराजो युधिष्ठिरः । पूजयामास तांश्चैव वृष्ण्यन्धकमहारथान् ॥५२॥
प्रतिजग्राह तत् सर्वम् धर्मराजः युधिष्ठिरः । पूजयामास तान् च एव वृष्णि-अन्धक-महा-रथान् ॥५२॥
pratijagrāha tat sarvam dharmarājaḥ yudhiṣṭhiraḥ . pūjayāmāsa tān ca eva vṛṣṇi-andhaka-mahā-rathān ..52..
ते समेता महात्मानः कुरुवृष्ण्यन्धकोत्तमाः । विजह्रुरमरावासे नराः सुकृतिनो यथा ॥५३॥
ते समेताः महात्मानः कुरु-वृष्णि-अन्धक-उत्तमाः । विजह्रुः अमर-आवासे नराः सुकृतिनः यथा ॥५३॥
te sametāḥ mahātmānaḥ kuru-vṛṣṇi-andhaka-uttamāḥ . vijahruḥ amara-āvāse narāḥ sukṛtinaḥ yathā ..53..
तत्र तत्र महापानैरुत्कृष्टतलनादितैः । यथायोगं यथाप्रीति विजह्रुः कुरुवृष्णयः ॥५४॥
तत्र तत्र महा-पानैः उत्कृष्ट-तल-नादितैः । यथायोगम् यथाप्रीति विजह्रुः कुरु-वृष्णयः ॥५४॥
tatra tatra mahā-pānaiḥ utkṛṣṭa-tala-nāditaiḥ . yathāyogam yathāprīti vijahruḥ kuru-vṛṣṇayaḥ ..54..
एवमुत्तमवीर्यास्ते विहृत्य दिवसान्बहून् । पूजिताः कुरुभिर्जग्मुः पुनर्द्वारवतीं पुरीम् ॥५५॥
एवम् उत्तम-वीर्याः ते विहृत्य दिवसान् बहून् । पूजिताः कुरुभिः जग्मुः पुनर् द्वारवतीम् पुरीम् ॥५५॥
evam uttama-vīryāḥ te vihṛtya divasān bahūn . pūjitāḥ kurubhiḥ jagmuḥ punar dvāravatīm purīm ..55..
रामं पुरस्कृत्य ययुर्वृष्ण्यन्धकमहारथाः । रत्नान्यादाय शुभ्राणि दत्तानि कुरुसत्तमैः ॥५६॥
रामम् पुरस्कृत्य ययुः वृष्णि-अन्धक-महा-रथाः । रत्नानि आदाय शुभ्राणि दत्तानि कुरु-सत्तमैः ॥५६॥
rāmam puraskṛtya yayuḥ vṛṣṇi-andhaka-mahā-rathāḥ . ratnāni ādāya śubhrāṇi dattāni kuru-sattamaiḥ ..56..
वासुदेवस्तु पार्थेन तत्रैव सह भारत । उवास नगरे रम्ये शक्रप्रस्थे महामनाः ॥५७॥ ( व्यचरद्यमुनाकूले पार्थेन सह भारत ॥५७॥ )
वासुदेवः तु पार्थेन तत्र एव सह भारत । उवास नगरे रम्ये शक्रप्रस्थे महामनाः ॥५७॥ ( व्यचरत् यमुना-कूले पार्थेन सह भारत ॥५७॥ )
vāsudevaḥ tu pārthena tatra eva saha bhārata . uvāsa nagare ramye śakraprasthe mahāmanāḥ ..57.. ( vyacarat yamunā-kūle pārthena saha bhārata ..57.. )
ततः सुभद्रा सौभद्रं केशवस्य प्रिया स्वसा । जयन्तमिव पौलोमी द्युतिमन्तमजीजनत् ॥५८॥
ततस् सुभद्रा सौभद्रम् केशवस्य प्रिया स्वसा । जयन्तम् इव पौलोमी द्युतिमन्तम् अजीजनत् ॥५८॥
tatas subhadrā saubhadram keśavasya priyā svasā . jayantam iva paulomī dyutimantam ajījanat ..58..
दीर्घबाहुं महासत्त्वमृषभाक्षमरिंदमम् । सुभद्रा सुषुवे वीरमभिमन्युं नरर्षभम् ॥५९॥
दीर्घ-बाहुम् महासत्त्वम् ऋषभ-अक्षम् अरिंदमम् । सुभद्रा सुषुवे वीरम् अभिमन्युम् नर-ऋषभम् ॥५९॥
dīrgha-bāhum mahāsattvam ṛṣabha-akṣam ariṃdamam . subhadrā suṣuve vīram abhimanyum nara-ṛṣabham ..59..
अभीश्च मन्युमांश्चैव ततस्तमरिमर्दनम् । अभिमन्युमिति प्राहुरार्जुनिं पुरुषर्षभम् ॥६०॥
अभीः च मन्युमान् च एव ततस् तम् अरि-मर्दनम् । अभिमन्युम् इति प्राहुः आर्जुनिम् पुरुष-ऋषभम् ॥६०॥
abhīḥ ca manyumān ca eva tatas tam ari-mardanam . abhimanyum iti prāhuḥ ārjunim puruṣa-ṛṣabham ..60..
स सात्वत्यामतिरथः सम्बभूव धनञ्जयात् । मखे निर्मथ्यमानाद्वा शमीगर्भाद्धुताशनः ॥६१॥
स सात्वत्याम् अतिरथः सम्बभूव धनञ्जयात् । मखे निर्मथ्यमानात् वा शमीगर्भात् हुताशनः ॥६१॥
sa sātvatyām atirathaḥ sambabhūva dhanañjayāt . makhe nirmathyamānāt vā śamīgarbhāt hutāśanaḥ ..61..
यस्मिञ्जाते महाबाहुः कुन्तीपुत्रो युधिष्ठिरः । अयुतं गा द्विजातिभ्यः प्रादान्निष्कांश्च तावतः ॥६२॥
यस्मिन् जाते महा-बाहुः कुन्ती-पुत्रः युधिष्ठिरः । अयुतम् गाः द्विजातिभ्यः प्रादात् निष्कान् च तावतः ॥६२॥
yasmin jāte mahā-bāhuḥ kuntī-putraḥ yudhiṣṭhiraḥ . ayutam gāḥ dvijātibhyaḥ prādāt niṣkān ca tāvataḥ ..62..
दयितो वासुदेवस्य बाल्यात्प्रभृति चाभवत् । पितृणां चैव सर्वेषां प्रजानामिव चन्द्रमाः ॥६३॥
दयितः वासुदेवस्य बाल्यात् प्रभृति च अभवत् । पितृणाम् च एव सर्वेषाम् प्रजानाम् इव चन्द्रमाः ॥६३॥
dayitaḥ vāsudevasya bālyāt prabhṛti ca abhavat . pitṛṇām ca eva sarveṣām prajānām iva candramāḥ ..63..
जन्मप्रभृति कृष्णश्च चक्रे तस्य क्रियाः शुभाः । स चापि ववृधे बालः शुक्लपक्षे यथा शशी ॥६४॥
जन्म-प्रभृति कृष्णः च चक्रे तस्य क्रियाः शुभाः । स च अपि ववृधे बालः शुक्लपक्षे यथा शशी ॥६४॥
janma-prabhṛti kṛṣṇaḥ ca cakre tasya kriyāḥ śubhāḥ . sa ca api vavṛdhe bālaḥ śuklapakṣe yathā śaśī ..64..
चतुष्पादं दशविधं धनुर्वेदमरिंदमः । अर्जुनाद्वेद वेदज्ञात्सकलं दिव्यमानुषम् ॥६५॥
चतुष्पादम् दशविधम् धनुर्वेदम् अरिंदमः । अर्जुनात् वेद वेद-ज्ञात् सकलम् दिव्य-मानुषम् ॥६५॥
catuṣpādam daśavidham dhanurvedam ariṃdamaḥ . arjunāt veda veda-jñāt sakalam divya-mānuṣam ..65..
विज्ञानेष्वपि चास्त्राणां सौष्ठवे च महाबलः । क्रियास्वपि च सर्वासु विशेषानभ्यशिक्षयत् ॥६६॥
विज्ञानेषु अपि च अस्त्राणाम् सौष्ठवे च महा-बलः । क्रियासु अपि च सर्वासु विशेषान् अभ्यशिक्षयत् ॥६६॥
vijñāneṣu api ca astrāṇām sauṣṭhave ca mahā-balaḥ . kriyāsu api ca sarvāsu viśeṣān abhyaśikṣayat ..66..
आगमे च प्रयोगे च चक्रे तुल्यमिवात्मनः । तुतोष पुत्रं सौभद्रं प्रेक्षमाणो धनञ्जयः ॥६७॥
आगमे च प्रयोगे च चक्रे तुल्यम् इव आत्मनः । तुतोष पुत्रम् सौभद्रम् प्रेक्षमाणः धनञ्जयः ॥६७॥
āgame ca prayoge ca cakre tulyam iva ātmanaḥ . tutoṣa putram saubhadram prekṣamāṇaḥ dhanañjayaḥ ..67..
सर्वसंहननोपेतं सर्वलक्षणलक्षितम् । दुर्धर्षमृषभस्कन्धं व्यात्ताननमिवोरगम् ॥६८॥
सर्व-संहनन-उपेतम् सर्व-लक्षण-लक्षितम् । दुर्धर्षम् ऋषभ-स्कन्धम् व्यात्त-आननम् इव उरगम् ॥६८॥
sarva-saṃhanana-upetam sarva-lakṣaṇa-lakṣitam . durdharṣam ṛṣabha-skandham vyātta-ānanam iva uragam ..68..
सिंहदर्पं महेष्वासं मत्तमातङ्गविक्रमम् । मेघदुन्दुभिनिर्घोषं पूर्णचन्द्रनिभाननम् ॥६९॥
सिंह-दर्पम् महा-इष्वासम् मत्त-मातङ्ग-विक्रमम् । मेघ-दुन्दुभि-निर्घोषम् पूर्ण-चन्द्र-निभ-आननम् ॥६९॥
siṃha-darpam mahā-iṣvāsam matta-mātaṅga-vikramam . megha-dundubhi-nirghoṣam pūrṇa-candra-nibha-ānanam ..69..
कृष्णस्य सदृशं शौर्ये वीर्ये रूपे तथाकृतौ । ददर्श पुत्रं बीभत्सुर्मघवानिव तं यथा ॥७०॥
कृष्णस्य सदृशम् शौर्ये वीर्ये रूपे तथा आकृतौ । ददर्श पुत्रम् बीभत्सुः मघवान् इव तम् यथा ॥७०॥
kṛṣṇasya sadṛśam śaurye vīrye rūpe tathā ākṛtau . dadarśa putram bībhatsuḥ maghavān iva tam yathā ..70..
पाञ्चाल्यपि च पञ्चभ्यः पतिभ्यः शुभलक्षणा । लेभे पञ्च सुतान्वीराञ्शुभान्पञ्चाचलानिव ॥७१॥
पाञ्चाली अपि च पञ्चभ्यः पतिभ्यः शुभ-लक्षणा । लेभे पञ्च सुतान् वीरान् शुभान् पञ्च-अचलान् इव ॥७१॥
pāñcālī api ca pañcabhyaḥ patibhyaḥ śubha-lakṣaṇā . lebhe pañca sutān vīrān śubhān pañca-acalān iva ..71..
युधिष्ठिरात्प्रतिविन्ध्यं सुतसोमं वृकोदरात् । अर्जुनाच्छ्रुतकर्माणं शतानीकं च नाकुलिम् ॥७२॥
युधिष्ठिरात् प्रतिविन्ध्यम् सुतसोमम् वृकोदरात् । अर्जुनात् श्रुतकर्माणम् शतानीकम् च नाकुलिम् ॥७२॥
yudhiṣṭhirāt prativindhyam sutasomam vṛkodarāt . arjunāt śrutakarmāṇam śatānīkam ca nākulim ..72..
सहदेवाच्छ्रुतसेनमेतान्पञ्च महारथान् । पाञ्चाली सुषुवे वीरानादित्यानदितिर्यथा ॥७३॥
सहदेवात् श्रुतसेनम् एतान् पञ्च महा-रथान् । पाञ्चाली सुषुवे वीरान् आदित्यान् अदितिः यथा ॥७३॥
sahadevāt śrutasenam etān pañca mahā-rathān . pāñcālī suṣuve vīrān ādityān aditiḥ yathā ..73..
शास्त्रतः प्रतिविन्ध्यं तमूचुर्विप्रा युधिष्ठिरम् । परप्रहरणज्ञाने प्रतिविन्ध्यो भवत्वयम् ॥७४॥
शास्त्रतः प्रतिविन्ध्यम् तम् ऊचुः विप्राः युधिष्ठिरम् । पर-प्रहरण-ज्ञाने प्रतिविन्ध्यः भवतु अयम् ॥७४॥
śāstrataḥ prativindhyam tam ūcuḥ viprāḥ yudhiṣṭhiram . para-praharaṇa-jñāne prativindhyaḥ bhavatu ayam ..74..
सुते सोमसहस्रे तु सोमार्कसमतेजसम् । सुतसोमं महेष्वासं सुषुवे भीमसेनतः ॥७५॥
सुते सोम-सहस्रे तु सोम-अर्क-सम-तेजसम् । सुतसोमम् महा-इष्वासम् सुषुवे भीमसेनतः ॥७५॥
sute soma-sahasre tu soma-arka-sama-tejasam . sutasomam mahā-iṣvāsam suṣuve bhīmasenataḥ ..75..
श्रुतं कर्म महत्कृत्वा निवृत्तेन किरीटिना । जातः पुत्रस्तवेत्येवं श्रुतकर्मा ततोऽभवत् ॥७६॥
श्रुतम् कर्म महत् कृत्वा निवृत्तेन किरीटिना । जातः पुत्रः तव इति एवम् श्रुतकर्मा ततस् अभवत् ॥७६॥
śrutam karma mahat kṛtvā nivṛttena kirīṭinā . jātaḥ putraḥ tava iti evam śrutakarmā tatas abhavat ..76..
शतानीकस्य राजर्षेः कौरव्यः कुरुनन्दनः । चक्रे पुत्रं सनामानं नकुलः कीर्तिवर्धनम् ॥७७॥
शतानीकस्य राजर्षेः कौरव्यः कुरु-नन्दनः । चक्रे पुत्रम् सनामानम् नकुलः कीर्ति-वर्धनम् ॥७७॥
śatānīkasya rājarṣeḥ kauravyaḥ kuru-nandanaḥ . cakre putram sanāmānam nakulaḥ kīrti-vardhanam ..77..
ततस्त्वजीजनत्कृष्णा नक्षत्रे वह्निदैवते । सहदेवात्सुतं तस्माच्छ्रुतसेनेति तं विदुः ॥७८॥
ततस् तु अजीजनत् कृष्णा नक्षत्रे वह्नि-दैवते । सहदेवात् सुतम् तस्मात् श्रुतसेनः इति तम् विदुः ॥७८॥
tatas tu ajījanat kṛṣṇā nakṣatre vahni-daivate . sahadevāt sutam tasmāt śrutasenaḥ iti tam viduḥ ..78..
एकवर्षान्तरास्त्वेव द्रौपदेया यशस्विनः । अन्वजायन्त राजेन्द्र परस्परहिते रताः ॥७९॥
एक-वर्ष-अन्तराः तु एव द्रौपदेयाः यशस्विनः । अन्वजायन्त राज-इन्द्र परस्पर-हिते रताः ॥७९॥
eka-varṣa-antarāḥ tu eva draupadeyāḥ yaśasvinaḥ . anvajāyanta rāja-indra paraspara-hite ratāḥ ..79..
जातकर्माण्यानुपूर्व्याच्चूडोपनयनानि च । चकार विधिवद्धौम्यस्तेषां भरतसत्तम ॥८०॥
जातकर्माणि आनुपूर्व्यात् चूड-उपनयनानि च । चकार विधिवत् धौम्यः तेषाम् भरत-सत्तम ॥८०॥
jātakarmāṇi ānupūrvyāt cūḍa-upanayanāni ca . cakāra vidhivat dhaumyaḥ teṣām bharata-sattama ..80..
कृत्वा च वेदाध्ययनं ततः सुचरितव्रताः । जगृहुः सर्वमिष्वस्त्रमर्जुनाद्दिव्यमानुषम् ॥८१॥
कृत्वा च वेद-अध्ययनम् ततस् सु चरित-व्रताः । जगृहुः सर्वम् इषु-अस्त्रम् अर्जुनात् दिव्य-मानुषम् ॥८१॥
kṛtvā ca veda-adhyayanam tatas su carita-vratāḥ . jagṛhuḥ sarvam iṣu-astram arjunāt divya-mānuṣam ..81..
देवगर्भोपमैः पुत्रैर्व्यूढोरस्कैर्महाबलैः । अन्विता राजशार्दूल पाण्डवा मुदमाप्नुवन् ॥८२॥1.220.89
देव-गर्भ-उपमैः पुत्रैः व्यूढ-उरस्कैः महा-बलैः । अन्विताः राज-शार्दूल पाण्डवाः मुदम् आप्नुवन् ॥८२॥१।२२०।८९
deva-garbha-upamaiḥ putraiḥ vyūḍha-uraskaiḥ mahā-balaiḥ . anvitāḥ rāja-śārdūla pāṇḍavāḥ mudam āpnuvan ..82..1.220.89

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In