| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
इन्द्रप्रस्थे वसन्तस्ते जघ्नुरन्यान्नराधिपान् । शासनाद्धृतराष्ट्रस्य राज्ञः शान्तनवस्य च ॥१॥
इन्द्रप्रस्थे वसन्तः ते जघ्नुः अन्यान् नराधिपान् । शासनात् धृतराष्ट्रस्य राज्ञः शान्तनवस्य च ॥१॥
indraprasthe vasantaḥ te jaghnuḥ anyān narādhipān . śāsanāt dhṛtarāṣṭrasya rājñaḥ śāntanavasya ca ..1..
आश्रित्य धर्मराजानं सर्वलोकोऽवसत्सुखम् । पुण्यलक्षणकर्माणं स्वदेहमिव देहिनः ॥२॥
आश्रित्य धर्मराजानम् सर्व-लोकः अवसत् सुखम् । पुण्य-लक्षण-कर्माणम् स्व-देहम् इव देहिनः ॥२॥
āśritya dharmarājānam sarva-lokaḥ avasat sukham . puṇya-lakṣaṇa-karmāṇam sva-deham iva dehinaḥ ..2..
स समं धर्मकामार्थान्सिषेवे भरतर्षभः । त्रीनिवात्मसमान्बन्धून्बन्धुमानिव मानयन् ॥३॥
स समम् धर्म-काम-अर्थान् सिषेवे भरत-ऋषभः । त्रीन् इव आत्म-समान् बन्धून् बन्धुमान् इव मानयन् ॥३॥
sa samam dharma-kāma-arthān siṣeve bharata-ṛṣabhaḥ . trīn iva ātma-samān bandhūn bandhumān iva mānayan ..3..
तेषां समविभक्तानां क्षितौ देहवतामिव । बभौ धर्मार्थकामानां चतुर्थ इव पार्थिवः ॥४॥
तेषाम् सम-विभक्तानाम् क्षितौ देहवताम् इव । बभौ धर्म-अर्थ-कामानाम् चतुर्थः इव पार्थिवः ॥४॥
teṣām sama-vibhaktānām kṣitau dehavatām iva . babhau dharma-artha-kāmānām caturthaḥ iva pārthivaḥ ..4..
अध्येतारं परं वेदाः प्रयोक्तारं महाध्वराः । रक्षितारं शुभं वर्णा लेभिरे तं जनाधिपम् ॥५॥
अध्येतारम् परम् वेदाः प्रयोक्तारम् महा-अध्वराः । रक्षितारम् शुभम् वर्णाः लेभिरे तम् जनाधिपम् ॥५॥
adhyetāram param vedāḥ prayoktāram mahā-adhvarāḥ . rakṣitāram śubham varṇāḥ lebhire tam janādhipam ..5..
अधिष्ठानवती लक्ष्मीः परायणवती मतिः । बन्धुमानखिलो धर्मस्तेनासीत्पृथिवीक्षिता ॥६॥
अधिष्ठानवती लक्ष्मीः परायणवती मतिः । बन्धुमान् अखिलः धर्मः तेन आसीत् पृथिवीक्षिता ॥६॥
adhiṣṭhānavatī lakṣmīḥ parāyaṇavatī matiḥ . bandhumān akhilaḥ dharmaḥ tena āsīt pṛthivīkṣitā ..6..
भ्रातृभिः सहितो राजा चतुर्भिरधिकं बभौ । प्रयुज्यमानैर्विततो वेदैरिव महाध्वरः ॥७॥
भ्रातृभिः सहितः राजा चतुर्भिः अधिकम् बभौ । प्रयुज्यमानैः विततः वेदैः इव महा-अध्वरः ॥७॥
bhrātṛbhiḥ sahitaḥ rājā caturbhiḥ adhikam babhau . prayujyamānaiḥ vitataḥ vedaiḥ iva mahā-adhvaraḥ ..7..
तं तु धौम्यादयो विप्राः परिवार्योपतस्थिरे । बृहस्पतिसमा मुख्याः प्रजापतिमिवामराः ॥८॥
तम् तु धौम्य-आदयः विप्राः परिवार्य उपतस्थिरे । बृहस्पति-समाः मुख्याः प्रजापतिम् इव अमराः ॥८॥
tam tu dhaumya-ādayaḥ viprāḥ parivārya upatasthire . bṛhaspati-samāḥ mukhyāḥ prajāpatim iva amarāḥ ..8..
धर्मराजे अतिप्रीत्या पूर्णचन्द्र इवामले । प्रजानां रेमिरे तुल्यं नेत्राणि हृदयानि च ॥९॥
धर्मराजे अति प्रीत्या पूर्ण-चन्द्रे इव अमले । प्रजानाम् रेमिरे तुल्यम् नेत्राणि हृदयानि च ॥९॥
dharmarāje ati prītyā pūrṇa-candre iva amale . prajānām remire tulyam netrāṇi hṛdayāni ca ..9..
न तु केवलदैवेन प्रजा भावेन रेमिरे । यद्बभूव मनःकान्तं कर्मणा स चकार तत् ॥१०॥
न तु केवल-दैवेन प्रजाः भावेन रेमिरे । यत् बभूव मनः-कान्तम् कर्मणा स चकार तत् ॥१०॥
na tu kevala-daivena prajāḥ bhāvena remire . yat babhūva manaḥ-kāntam karmaṇā sa cakāra tat ..10..
न ह्ययुक्तं न चासत्यं नानृतं न च विप्रियम् । भाषितं चारुभाषस्य जज्ञे पार्थस्य धीमतः ॥११॥
न हि अयुक्तम् न च असत्यम् न अनृतम् न च विप्रियम् । भाषितम् चारु-भाषस्य जज्ञे पार्थस्य धीमतः ॥११॥
na hi ayuktam na ca asatyam na anṛtam na ca vipriyam . bhāṣitam cāru-bhāṣasya jajñe pārthasya dhīmataḥ ..11..
स हि सर्वस्य लोकस्य हितमात्मन एव च । चिकीर्षुः सुमहातेजा रेमे भरतसत्तमः ॥१२॥
स हि सर्वस्य लोकस्य हितम् आत्मनः एव च । चिकीर्षुः सु महा-तेजाः रेमे भरत-सत्तमः ॥१२॥
sa hi sarvasya lokasya hitam ātmanaḥ eva ca . cikīrṣuḥ su mahā-tejāḥ reme bharata-sattamaḥ ..12..
तथा तु मुदिताः सर्वे पाण्डवा विगतज्वराः । अवसन्पृथिवीपालांस्त्रासयन्तः स्वतेजसा ॥१३॥
तथा तु मुदिताः सर्वे पाण्डवाः विगत-ज्वराः । अवसन् पृथिवीपालान् त्रासयन्तः स्व-तेजसा ॥१३॥
tathā tu muditāḥ sarve pāṇḍavāḥ vigata-jvarāḥ . avasan pṛthivīpālān trāsayantaḥ sva-tejasā ..13..
ततः कतिपयाहस्य बीभत्सुः कृष्णमब्रवीत् । उष्णानि कृष्ण वर्तन्ते गच्छामो यमुनां प्रति ॥१४॥
ततस् कतिपयाहस्य बीभत्सुः कृष्णम् अब्रवीत् । उष्णानि कृष्ण वर्तन्ते गच्छामः यमुनाम् प्रति ॥१४॥
tatas katipayāhasya bībhatsuḥ kṛṣṇam abravīt . uṣṇāni kṛṣṇa vartante gacchāmaḥ yamunām prati ..14..
सुहृज्जनवृतास्तत्र विहृत्य मधुसूदन । सायाह्ने पुनरेष्यामो रोचतां ते जनार्दन ॥१५॥
सुहृद्-जन-वृताः तत्र विहृत्य मधुसूदन । सायाह्ने पुनर् एष्यामः रोचताम् ते जनार्दन ॥१५॥
suhṛd-jana-vṛtāḥ tatra vihṛtya madhusūdana . sāyāhne punar eṣyāmaḥ rocatām te janārdana ..15..
वासुदेव उवाच॥
कुन्तीमातर्ममाप्येतद्रोचते यद्वयं जले । सुहृज्जनवृताः पार्थ विहरेम यथासुखम् ॥१६॥
कुन्ती-मातर् मम अपि एतत् रोचते यत् वयम् जले । सुहृद्-जन-वृताः पार्थ विहरेम यथासुखम् ॥१६॥
kuntī-mātar mama api etat rocate yat vayam jale . suhṛd-jana-vṛtāḥ pārtha viharema yathāsukham ..16..
वैशम्पायन उवाच॥
आमन्त्र्य धर्मराजानमनुज्ञाप्य च भारत । जग्मतुः पार्थगोविन्दौ सुहृज्जनवृतौ ततः ॥१७॥
आमन्त्र्य धर्मराजानम् अनुज्ञाप्य च भारत । जग्मतुः पार्थ-गोविन्दौ सुहृद्-जन-वृतौ ततस् ॥१७॥
āmantrya dharmarājānam anujñāpya ca bhārata . jagmatuḥ pārtha-govindau suhṛd-jana-vṛtau tatas ..17..
विहारदेशं सम्प्राप्य नानाद्रुमवदुत्तमम् । गृहैरुच्चावचैर्युक्तं पुरंदरगृहोपमम् ॥१८॥
विहार-देशम् सम्प्राप्य नाना द्रुम-वत् उत्तमम् । गृहैः उच्चावचैः युक्तम् पुरंदर-गृह-उपमम् ॥१८॥
vihāra-deśam samprāpya nānā druma-vat uttamam . gṛhaiḥ uccāvacaiḥ yuktam puraṃdara-gṛha-upamam ..18..
भक्ष्यैर्भोज्यैश्च पेयैश्च रसवद्भिर्महाधनैः । माल्यैश्च विविधैर्युक्तं युक्तं वार्ष्णेयपार्थयोः ॥१९॥
भक्ष्यैः भोज्यैः च पेयैः च रसवद्भिः महाधनैः । माल्यैः च विविधैः युक्तम् युक्तम् वार्ष्णेय-पार्थयोः ॥१९॥
bhakṣyaiḥ bhojyaiḥ ca peyaiḥ ca rasavadbhiḥ mahādhanaiḥ . mālyaiḥ ca vividhaiḥ yuktam yuktam vārṣṇeya-pārthayoḥ ..19..
आविवेशतुरापूर्णं रत्नैरुच्चावचैः शुभैः । यथोपजोषं सर्वश्च जनश्चिक्रीड भारत ॥२०॥
आविवेश तुरापूर्णम् रत्नैः उच्चावचैः शुभैः । यथोपजोषम् सर्वः च जनः चिक्रीड भारत ॥२०॥
āviveśa turāpūrṇam ratnaiḥ uccāvacaiḥ śubhaiḥ . yathopajoṣam sarvaḥ ca janaḥ cikrīḍa bhārata ..20..
वने काश्चिज्जले काश्चित्काश्चिद्वेश्मसु चाङ्गनाः । यथादेशं यथाप्रीति चिक्रीडुः कृष्णपार्थयोः ॥२१॥
वने काश्चिद् जले काश्चिद् काश्चिद् वेश्मसु च अङ्गनाः । यथादेशम् यथाप्रीति चिक्रीडुः कृष्ण-पार्थयोः ॥२१॥
vane kāścid jale kāścid kāścid veśmasu ca aṅganāḥ . yathādeśam yathāprīti cikrīḍuḥ kṛṣṇa-pārthayoḥ ..21..
द्रौपदी च सुभद्रा च वासांस्याभरणानि च । प्रयच्छेतां महार्हाणि स्त्रीणां ते स्म मदोत्कटे ॥२२॥
द्रौपदी च सुभद्रा च वासांसि आभरणानि च । प्रयच्छेताम् महार्हाणि स्त्रीणाम् ते स्म मद-उत्कटे ॥२२॥
draupadī ca subhadrā ca vāsāṃsi ābharaṇāni ca . prayacchetām mahārhāṇi strīṇām te sma mada-utkaṭe ..22..
काश्चित्प्रहृष्टा ननृतुश्चुक्रुशुश्च तथापराः । जहसुश्चापरा नार्यः पपुश्चान्या वरासवम् ॥२३॥
काश्चिद् प्रहृष्टाः ननृतुः चुक्रुशुः च तथा अपराः । जहसुः च अपराः नार्यः पपुः च अन्याः वर-आसवम् ॥२३॥
kāścid prahṛṣṭāḥ nanṛtuḥ cukruśuḥ ca tathā aparāḥ . jahasuḥ ca aparāḥ nāryaḥ papuḥ ca anyāḥ vara-āsavam ..23..
रुरुदुश्चापरास्तत्र प्रजघ्नुश्च परस्परम् । मन्त्रयामासुरन्याश्च रहस्यानि परस्परम् ॥२४॥
रुरुदुः च अपराः तत्र प्रजघ्नुः च परस्परम् । मन्त्रयामासुः अन्याः च रहस्यानि परस्परम् ॥२४॥
ruruduḥ ca aparāḥ tatra prajaghnuḥ ca parasparam . mantrayāmāsuḥ anyāḥ ca rahasyāni parasparam ..24..
वेणुवीणामृदङ्गानां मनोज्ञानां च सर्वशः । शब्देनापूर्यते ह स्म तद्वनं सुसमृद्धिमत् ॥२५॥
वेणु-वीणा-मृदङ्गानाम् मनोज्ञानाम् च सर्वशस् । शब्देन आपूर्यते ह स्म तत् वनम् सु समृद्धिमत् ॥२५॥
veṇu-vīṇā-mṛdaṅgānām manojñānām ca sarvaśas . śabdena āpūryate ha sma tat vanam su samṛddhimat ..25..
तस्मिंस्तथा वर्तमाने कुरुदाशार्हनन्दनौ । समीपे जग्मतुः कञ्चिदुद्देशं सुमनोहरम् ॥२६॥
तस्मिन् तथा वर्तमाने कुरु-दाशार्ह-नन्दनौ । समीपे जग्मतुः कञ्चिद् उद्देशम् सु मनोहरम् ॥२६॥
tasmin tathā vartamāne kuru-dāśārha-nandanau . samīpe jagmatuḥ kañcid uddeśam su manoharam ..26..
तत्र गत्वा महात्मानौ कृष्णौ परपुरञ्जयौ । महार्हासनयो राजंस्ततस्तौ संनिषीदतुः ॥२७॥
तत्र गत्वा महात्मानौ कृष्णौ परपुरञ्जयौ । राजन् ततस् तौ संनिषीदतुः ॥२७॥
tatra gatvā mahātmānau kṛṣṇau parapurañjayau . rājan tatas tau saṃniṣīdatuḥ ..27..
तत्र पूर्वव्यतीतानि विक्रान्तानि रतानि च । बहूनि कथयित्वा तौ रेमाते पार्थमाधवौ ॥२८॥
तत्र पूर्व-व्यतीतानि विक्रान्तानि रतानि च । बहूनि कथयित्वा तौ रेमाते पार्थ-माधवौ ॥२८॥
tatra pūrva-vyatītāni vikrāntāni ratāni ca . bahūni kathayitvā tau remāte pārtha-mādhavau ..28..
तत्रोपविष्टौ मुदितौ नाकपृष्ठेऽश्विनाविव । अभ्यगच्छत्तदा विप्रो वासुदेवधनञ्जयौ ॥२९॥
तत्र उपविष्टौ मुदितौ नाक-पृष्ठे अश्विनौ इव । अभ्यगच्छत् तदा विप्रः वासुदेव-धनञ्जयौ ॥२९॥
tatra upaviṣṭau muditau nāka-pṛṣṭhe aśvinau iva . abhyagacchat tadā vipraḥ vāsudeva-dhanañjayau ..29..
बृहच्छालप्रतीकाशः प्रतप्तकनकप्रभः । हरिपिङ्गो हरिश्मश्रुः प्रमाणायामतः समः ॥३०॥
बृहत्-शाल-प्रतीकाशः प्रतप्त-कनक-प्रभः । हरि-पिङ्गः हरि-श्मश्रुः प्रमाण-आयामतः समः ॥३०॥
bṛhat-śāla-pratīkāśaḥ pratapta-kanaka-prabhaḥ . hari-piṅgaḥ hari-śmaśruḥ pramāṇa-āyāmataḥ samaḥ ..30..
तरुणादित्यसङ्काशः कृष्णवासा जटाधरः । पद्मपत्राननः पिङ्गस्तेजसा प्रज्वलन्निव ॥३१॥
। पद्म-पत्र-आननः पिङ्गः तेजसा प्रज्वलन् इव ॥३१॥
. padma-patra-ānanaḥ piṅgaḥ tejasā prajvalan iva ..31..
उपसृष्टं तु तं कृष्णौ भ्राजमानं द्विजोत्तमम् । अर्जुनो वासुदेवश्च तूर्णमुत्पत्य तस्थतुः ॥३२॥1.221.33
उपसृष्टम् तु तम् कृष्णौ भ्राजमानम् द्विजोत्तमम् । अर्जुनः वासुदेवः च तूर्णम् उत्पत्य तस्थतुः ॥३२॥१।२२१।३३
upasṛṣṭam tu tam kṛṣṇau bhrājamānam dvijottamam . arjunaḥ vāsudevaḥ ca tūrṇam utpatya tasthatuḥ ..32..1.221.33

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In