| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
सोऽब्रवीदर्जुनं चैव वासुदेवं च सात्वतम् । लोकप्रवीरौ तिष्ठन्तौ खाण्डवस्य समीपतः ॥१॥
सः अब्रवीत् अर्जुनम् च एव वासुदेवम् च सात्वतम् । लोक-प्रवीरौ तिष्ठन्तौ खाण्डवस्य समीपतस् ॥१॥
saḥ abravīt arjunam ca eva vāsudevam ca sātvatam . loka-pravīrau tiṣṭhantau khāṇḍavasya samīpatas ..1..
ब्राह्मणो बहुभोक्तास्मि भुञ्जेऽपरिमितं सदा । भिक्षे वार्ष्णेयपार्थौ वामेकां तृप्तिं प्रयच्छताम् ॥२॥
ब्राह्मणः बहु-भोक्ता अस्मि भुञ्जे अपरिमितम् सदा । भिक्षे वार्ष्णेय-पार्थौ वाम् एकाम् तृप्तिम् प्रयच्छताम् ॥२॥
brāhmaṇaḥ bahu-bhoktā asmi bhuñje aparimitam sadā . bhikṣe vārṣṇeya-pārthau vām ekām tṛptim prayacchatām ..2..
एवमुक्तौ तमब्रूतां ततस्तौ कृष्णपाण्डवौ । केनान्नेन भवांस्तृप्येत्तस्यान्नस्य यतावहे ॥३॥
एवम् उक्तौ तम् अब्रूताम् ततस् तौ कृष्ण-पाण्डवौ । केन अन्नेन भवान् तृप्येत् तस्य अन्नस्य यतावहे ॥३॥
evam uktau tam abrūtām tatas tau kṛṣṇa-pāṇḍavau . kena annena bhavān tṛpyet tasya annasya yatāvahe ..3..
एवमुक्तः स भगवानब्रवीत्तावुभौ ततः । भाषमाणौ तदा वीरौ किमन्नं क्रियतामिति ॥४॥
एवम् उक्तः स भगवान् अब्रवीत् तौ उभौ ततस् । भाषमाणौ तदा वीरौ किम् अन्नम् क्रियताम् इति ॥४॥
evam uktaḥ sa bhagavān abravīt tau ubhau tatas . bhāṣamāṇau tadā vīrau kim annam kriyatām iti ..4..
नाहमन्नं बुभुक्षे वै पावकं मां निबोधतम् । यदन्नमनुरूपं मे तद्युवां सम्प्रयच्छतम् ॥५॥
न अहम् अन्नम् बुभुक्षे वै पावकम् माम् निबोधतम् । यत् अन्नम् अनुरूपम् मे तत् युवाम् सम्प्रयच्छतम् ॥५॥
na aham annam bubhukṣe vai pāvakam mām nibodhatam . yat annam anurūpam me tat yuvām samprayacchatam ..5..
इदमिन्द्रः सदा दावं खाण्डवं परिरक्षति । तं न शक्नोम्यहं दग्धुं रक्ष्यमाणं महात्मना ॥६॥
इदम् इन्द्रः सदा दावम् खाण्डवम् परिरक्षति । तम् न शक्नोमि अहम् दग्धुम् रक्ष्यमाणम् महात्मना ॥६॥
idam indraḥ sadā dāvam khāṇḍavam parirakṣati . tam na śaknomi aham dagdhum rakṣyamāṇam mahātmanā ..6..
वसत्यत्र सखा तस्य तक्षकः पन्नगः सदा । सगणस्तत्कृते दावं परिरक्षति वज्रभृत् ॥७॥
वसति अत्र सखा तस्य तक्षकः पन्नगः सदा । स गणः तद्-कृते दावम् परिरक्षति वज्रभृत् ॥७॥
vasati atra sakhā tasya takṣakaḥ pannagaḥ sadā . sa gaṇaḥ tad-kṛte dāvam parirakṣati vajrabhṛt ..7..
तत्र भूतान्यनेकानि रक्ष्यन्ते स्म प्रसङ्गतः । तं दिधक्षुर्न शक्नोमि दग्धुं शक्रस्य तेजसा ॥८॥
तत्र भूतानि अनेकानि रक्ष्यन्ते स्म प्रसङ्गतः । तम् दिधक्षुः न शक्नोमि दग्धुम् शक्रस्य तेजसा ॥८॥
tatra bhūtāni anekāni rakṣyante sma prasaṅgataḥ . tam didhakṣuḥ na śaknomi dagdhum śakrasya tejasā ..8..
स मां प्रज्वलितं दृष्ट्वा मेघाम्भोभिः प्रवर्षति । ततो दग्धुं न शक्नोमि दिधक्षुर्दावमीप्सितम् ॥९॥
स माम् प्रज्वलितम् दृष्ट्वा मेघ-अम्भोभिः प्रवर्षति । ततस् दग्धुम् न शक्नोमि दिधक्षुः दावम् ईप्सितम् ॥९॥
sa mām prajvalitam dṛṣṭvā megha-ambhobhiḥ pravarṣati . tatas dagdhum na śaknomi didhakṣuḥ dāvam īpsitam ..9..
स युवाभ्यां सहायाभ्यामस्त्रविद्भ्यां समागतः । दहेयं खाण्डवं दावमेतदन्नं वृतं मया ॥१०॥
स युवाभ्याम् सहायाभ्याम् अस्त्र-विद्भ्याम् समागतः । दहेयम् खाण्डवम् दावम् एतत् अन्नम् वृतम् मया ॥१०॥
sa yuvābhyām sahāyābhyām astra-vidbhyām samāgataḥ . daheyam khāṇḍavam dāvam etat annam vṛtam mayā ..10..
युवां ह्युदकधारास्ता भूतानि च समन्ततः । उत्तमास्त्रविदो सम्यक्सर्वतो वारयिष्यथः ॥११॥
युवाम् हि उदक-धाराः ताः भूतानि च समन्ततः । उत्तम-अस्त्र-विदः सम्यक् सर्वतस् वारयिष्यथः ॥११॥
yuvām hi udaka-dhārāḥ tāḥ bhūtāni ca samantataḥ . uttama-astra-vidaḥ samyak sarvatas vārayiṣyathaḥ ..11..
एवमुक्ते प्रत्युवाच बीभत्सुर्जातवेदसम् । दिधक्षुं खाण्डवं दावमकामस्य शतक्रतोः ॥१२॥
एवम् उक्ते प्रत्युवाच बीभत्सुः जातवेदसम् । दिधक्षुम् खाण्डवम् दावम् अकामस्य शतक्रतोः ॥१२॥
evam ukte pratyuvāca bībhatsuḥ jātavedasam . didhakṣum khāṇḍavam dāvam akāmasya śatakratoḥ ..12..
उत्तमास्त्राणि मे सन्ति दिव्यानि च बहूनि च । यैरहं शक्नुयां योद्धुमपि वज्रधरान्बहून् ॥१३॥
उत्तम-अस्त्राणि मे सन्ति दिव्यानि च बहूनि च । यैः अहम् शक्नुयाम् योद्धुम् अपि वज्रधरान् बहून् ॥१३॥
uttama-astrāṇi me santi divyāni ca bahūni ca . yaiḥ aham śaknuyām yoddhum api vajradharān bahūn ..13..
धनुर्मे नास्ति भगवन्बाहुवीर्येण संमितम् । कुर्वतः समरे यत्नं वेगं यद्विषहेत मे ॥१४॥
धनुः मे न अस्ति भगवन् बाहु-वीर्येण संमितम् । कुर्वतः समरे यत्नम् वेगम् यत् विषहेत मे ॥१४॥
dhanuḥ me na asti bhagavan bāhu-vīryeṇa saṃmitam . kurvataḥ samare yatnam vegam yat viṣaheta me ..14..
शरैश्च मेऽर्थो बहुभिरक्षयैः क्षिप्रमस्यतः । न हि वोढुं रथः शक्तः शरान्मम यथेप्सितान् ॥१५॥
शरैः च मे अर्थः बहुभिः अक्षयैः क्षिप्रम् अस्यतः । न हि वोढुम् रथः शक्तः शरान् मम यथा ईप्सितान् ॥१५॥
śaraiḥ ca me arthaḥ bahubhiḥ akṣayaiḥ kṣipram asyataḥ . na hi voḍhum rathaḥ śaktaḥ śarān mama yathā īpsitān ..15..
अश्वांश्च दिव्यानिच्छेयं पाण्डुरान्वातरंहसः । रथं च मेघनिर्घोषं सूर्यप्रतिमतेजसम् ॥१६॥
अश्वान् च दिव्यान् इच्छेयम् पाण्डुरान् वात-रंहसः । रथम् च मेघ-निर्घोषम् सूर्य-प्रतिम-तेजसम् ॥१६॥
aśvān ca divyān iccheyam pāṇḍurān vāta-raṃhasaḥ . ratham ca megha-nirghoṣam sūrya-pratima-tejasam ..16..
तथा कृष्णस्य वीर्येण नायुधं विद्यते समम् । येन नागान्पिशाचांश्च निहन्यान्माधवो रणे ॥१७॥
तथा कृष्णस्य वीर्येण न आयुधम् विद्यते समम् । येन नागान् पिशाचान् च निहन्यात् माधवः रणे ॥१७॥
tathā kṛṣṇasya vīryeṇa na āyudham vidyate samam . yena nāgān piśācān ca nihanyāt mādhavaḥ raṇe ..17..
उपायं कर्मणः सिद्धौ भगवन्वक्तुमर्हसि । निवारयेयं येनेन्द्रं वर्षमाणं महावने ॥१८॥
उपायम् कर्मणः सिद्धौ भगवन् वक्तुम् अर्हसि । निवारयेयम् येन इन्द्रम् वर्षमाणम् महा-वने ॥१८॥
upāyam karmaṇaḥ siddhau bhagavan vaktum arhasi . nivārayeyam yena indram varṣamāṇam mahā-vane ..18..
पौरुषेण तु यत्कार्यं तत्कर्तारौ स्व पावक । करणानि समर्थानि भगवन्दातुमर्हसि ॥१९॥1.223.21
पौरुषेण तु यत् कार्यम् तत् कर्तारौ पावक । करणानि समर्थानि भगवन् दातुम् अर्हसि ॥१९॥१।२२३।२१
pauruṣeṇa tu yat kāryam tat kartārau pāvaka . karaṇāni samarthāni bhagavan dātum arhasi ..19..1.223.21

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In