| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
एवमुक्तस्तु भगवान्धूमकेतुर्हुताशनः । चिन्तयामास वरुणं लोकपालं दिदृक्षया ॥१॥ ( आदित्यमुदके देवं निवसन्तं जलेश्वरम् ॥१॥ )
एवम् उक्तः तु भगवान् धूमकेतुः हुताशनः । चिन्तयामास वरुणम् लोकपालम् दिदृक्षया ॥१॥ ( आदित्यम् उदके देवम् निवसन्तम् जलेश्वरम् ॥१॥ )
evam uktaḥ tu bhagavān dhūmaketuḥ hutāśanaḥ . cintayāmāsa varuṇam lokapālam didṛkṣayā ..1.. ( ādityam udake devam nivasantam jaleśvaram ..1.. )
स च तच्चिन्तितं ज्ञात्वा दर्शयामास पावकम् । तमब्रवीद्धूमकेतुः प्रतिपूज्य जलेश्वरम् ॥२॥ ( चतुर्थं लोकपालानां रक्षितारं महेश्वरम् ॥२॥ )
स च तत् चिन्तितम् ज्ञात्वा दर्शयामास पावकम् । तम् अब्रवीत् धूमकेतुः प्रतिपूज्य जलेश्वरम् ॥२॥ ( चतुर्थम् लोकपालानाम् रक्षितारम् महेश्वरम् ॥२॥ )
sa ca tat cintitam jñātvā darśayāmāsa pāvakam . tam abravīt dhūmaketuḥ pratipūjya jaleśvaram ..2.. ( caturtham lokapālānām rakṣitāram maheśvaram ..2.. )
सोमेन राज्ञा यद्दत्तं धनुश्चैवेषुधी च ते । तत्प्रयच्छोभयं शीघ्रं रथं च कपिलक्षणम् ॥३॥
सोमेन राज्ञा यत् दत्तम् धनुः च एव इषुधी च ते । तत् प्रयच्छ उभयम् शीघ्रम् रथम् च कपि-लक्षणम् ॥३॥
somena rājñā yat dattam dhanuḥ ca eva iṣudhī ca te . tat prayaccha ubhayam śīghram ratham ca kapi-lakṣaṇam ..3..
कार्यं हि सुमहत्पार्थो गाण्डीवेन करिष्यति । चक्रेण वासुदेवश्च तन्मदर्थे प्रदीयताम् ॥४॥ ( ददानीत्येव वरुणः पावकं प्रत्यभाषत ॥४॥ )
कार्यम् हि सु महत् पार्थः गाण्डीवेन करिष्यति । चक्रेण वासुदेवः च तत् मद्-अर्थे प्रदीयताम् ॥४॥ ( ददानि इति एव वरुणः पावकम् प्रत्यभाषत ॥४॥ )
kāryam hi su mahat pārthaḥ gāṇḍīvena kariṣyati . cakreṇa vāsudevaḥ ca tat mad-arthe pradīyatām ..4.. ( dadāni iti eva varuṇaḥ pāvakam pratyabhāṣata ..4.. )
ततोऽद्भुतं महावीर्यं यशःकीर्तिविवर्धनम् । सर्वशस्त्रैरनाधृष्यं सर्वशस्त्रप्रमाथि च ॥५॥ ( सर्वायुधमहामात्रं परसेनाप्रधर्षणम् ॥५॥ )
ततस् अद्भुतम् महा-वीर्यम् यशः-कीर्ति-विवर्धनम् । सर्व-शस्त्रैः अनाधृष्यम् सर्व-शस्त्र-प्रमाथि च ॥५॥ ( सर्व-आयुध-महामात्रम् पर-सेना-प्रधर्षणम् ॥५॥ )
tatas adbhutam mahā-vīryam yaśaḥ-kīrti-vivardhanam . sarva-śastraiḥ anādhṛṣyam sarva-śastra-pramāthi ca ..5.. ( sarva-āyudha-mahāmātram para-senā-pradharṣaṇam ..5.. )
एकं शतसहस्रेण संमितं राष्ट्रवर्धनम् । चित्रमुच्चावचैर्वर्णैः शोभितं श्लक्ष्णमव्रणम् ॥६॥
एकम् शत-सहस्रेण संमितम् राष्ट्र-वर्धनम् । चित्रम् उच्चावचैः वर्णैः शोभितम् श्लक्ष्णम् अव्रणम् ॥६॥
ekam śata-sahasreṇa saṃmitam rāṣṭra-vardhanam . citram uccāvacaiḥ varṇaiḥ śobhitam ślakṣṇam avraṇam ..6..
देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः । प्रादाद्वै धनुरत्नं तदक्षय्यौ च महेषुधी ॥७॥
देव-दानव-गन्धर्वैः पूजितम् शाश्वतीः समाः । प्रादात् वै धनु-रत्नम् तत् अक्षय्यौ च महा-इषुधी ॥७॥
deva-dānava-gandharvaiḥ pūjitam śāśvatīḥ samāḥ . prādāt vai dhanu-ratnam tat akṣayyau ca mahā-iṣudhī ..7..
रथं च दिव्याश्वयुजं कपिप्रवरकेतनम् । उपेतं राजतैरश्वैर्गान्धर्वैर्हेममालिभिः ॥८॥ ( पाण्डुराभ्रप्रतीकाशैर्मनोवायुसमैर्जवे ॥८॥ )
रथम् च दिव्य-अश्व-युजम् कपि-प्रवर-केतनम् । उपेतम् राजतैः अश्वैः गान्धर्वैः हेम-मालिभिः ॥८॥ ( पाण्डुर-अभ्र-प्रतीकाशैः मनः-वायु-समैः जवे ॥८॥ )
ratham ca divya-aśva-yujam kapi-pravara-ketanam . upetam rājataiḥ aśvaiḥ gāndharvaiḥ hema-mālibhiḥ ..8.. ( pāṇḍura-abhra-pratīkāśaiḥ manaḥ-vāyu-samaiḥ jave ..8.. )
सर्वोपकरणैर्युक्तमजय्यं देवदानवैः । भानुमन्तं महाघोषं सर्वभूतमनोहरम् ॥९॥
सर्व-उपकरणैः युक्तम् अजय्यम् देव-दानवैः । भानुमन्तम् महा-घोषम् सर्व-भूत-मनोहरम् ॥९॥
sarva-upakaraṇaiḥ yuktam ajayyam deva-dānavaiḥ . bhānumantam mahā-ghoṣam sarva-bhūta-manoharam ..9..
ससर्ज यत्स्वतपसा भौवनो भुवनप्रभुः । प्रजापतिरनिर्देश्यं यस्य रूपं रवेरिव ॥१०॥
ससर्ज यत् स्व-तपसा भौवनः भुवन-प्रभुः । प्रजापतिः अनिर्देश्यम् यस्य रूपम् रवेः इव ॥१०॥
sasarja yat sva-tapasā bhauvanaḥ bhuvana-prabhuḥ . prajāpatiḥ anirdeśyam yasya rūpam raveḥ iva ..10..
यं स्म सोमः समारुह्य दानवानजयत्प्रभुः । नगमेघप्रतीकाशं ज्वलन्तमिव च श्रिया ॥११॥
यम् स्म सोमः समारुह्य दानवान् अजयत् प्रभुः । नग-मेघ-प्रतीकाशम् ज्वलन्तम् इव च श्रिया ॥११॥
yam sma somaḥ samāruhya dānavān ajayat prabhuḥ . naga-megha-pratīkāśam jvalantam iva ca śriyā ..11..
आश्रिता तं रथश्रेष्ठं शक्रायुधसमा शुभा । तापनीया सुरुचिरा ध्वजयष्टिरनुत्तमा ॥१२॥
आश्रिता तम् रथ-श्रेष्ठम् शक्र-आयुध-समा शुभा । तापनीया सु रुचिरा ध्वज-यष्टिः अनुत्तमा ॥१२॥
āśritā tam ratha-śreṣṭham śakra-āyudha-samā śubhā . tāpanīyā su rucirā dhvaja-yaṣṭiḥ anuttamā ..12..
तस्यां तु वानरो दिव्यः सिंहशार्दूललक्षणः । विनर्दन्निव तत्रस्थः संस्थितो मूर्ध्न्यशोभत ॥१३॥
तस्याम् तु वानरः दिव्यः सिंह-शार्दूल-लक्षणः । विनर्दन् इव तत्रस्थः संस्थितः मूर्ध्नि अशोभत ॥१३॥
tasyām tu vānaraḥ divyaḥ siṃha-śārdūla-lakṣaṇaḥ . vinardan iva tatrasthaḥ saṃsthitaḥ mūrdhni aśobhata ..13..
ध्वजे भूतानि तत्रासन्विविधानि महान्ति च । नादेन रिपुसैन्यानां येषां सञ्ज्ञा प्रणश्यति ॥१४॥
ध्वजे भूतानि तत्र आसन् विविधानि महान्ति च । नादेन रिपु-सैन्यानाम् येषाम् सञ्ज्ञा प्रणश्यति ॥१४॥
dhvaje bhūtāni tatra āsan vividhāni mahānti ca . nādena ripu-sainyānām yeṣām sañjñā praṇaśyati ..14..
स तं नानापताकाभिः शोभितं रथमुत्तमम् । प्रदक्षिणमुपावृत्य दैवतेभ्यः प्रणम्य च ॥१५॥
स तम् नाना पताकाभिः शोभितम् रथम् उत्तमम् । प्रदक्षिणम् उपावृत्य दैवतेभ्यः प्रणम्य च ॥१५॥
sa tam nānā patākābhiḥ śobhitam ratham uttamam . pradakṣiṇam upāvṛtya daivatebhyaḥ praṇamya ca ..15..
संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् । आरुरोह रथं पार्थो विमानं सुकृती यथा ॥१६॥
संनद्धः कवची खड्गी बद्ध-गोधा-अङ्गुलित्रवान् । आरुरोह रथम् पार्थः विमानम् सुकृती यथा ॥१६॥
saṃnaddhaḥ kavacī khaḍgī baddha-godhā-aṅgulitravān . āruroha ratham pārthaḥ vimānam sukṛtī yathā ..16..
तच्च दिव्यं धनुःश्रेष्ठं ब्रह्मणा निर्मितं पुरा । गाण्डीवमुपसङ्गृह्य बभूव मुदितोऽर्जुनः ॥१७॥
तत् च दिव्यम् धनुः-श्रेष्ठम् ब्रह्मणा निर्मितम् पुरा । गाण्डीवम् उपसङ्गृह्य बभूव मुदितः अर्जुनः ॥१७॥
tat ca divyam dhanuḥ-śreṣṭham brahmaṇā nirmitam purā . gāṇḍīvam upasaṅgṛhya babhūva muditaḥ arjunaḥ ..17..
हुताशनं नमस्कृत्य ततस्तदपि वीर्यवान् । जग्राह बलमास्थाय ज्यया च युयुजे धनुः ॥१८॥
हुताशनम् नमस्कृत्य ततस् तत् अपि वीर्यवान् । जग्राह बलम् आस्थाय ज्यया च युयुजे धनुः ॥१८॥
hutāśanam namaskṛtya tatas tat api vīryavān . jagrāha balam āsthāya jyayā ca yuyuje dhanuḥ ..18..
मौर्व्यां तु युज्यमानायां बलिना पाण्डवेन ह । येऽशृण्वन्कूजितं तत्र तेषां वै व्यथितं मनः ॥१९॥
मौर्व्याम् तु युज्यमानायाम् बलिना पाण्डवेन ह । ये अशृण्वन् कूजितम् तत्र तेषाम् वै व्यथितम् मनः ॥१९॥
maurvyām tu yujyamānāyām balinā pāṇḍavena ha . ye aśṛṇvan kūjitam tatra teṣām vai vyathitam manaḥ ..19..
लब्ध्वा रथं धनुश्चैव तथाक्षय्यौ महेषुधी । बभूव कल्यः कौन्तेयः प्रहृष्टः साह्यकर्मणि ॥२०॥
लब्ध्वा रथम् धनुः च एव तथा अक्षय्यौ महा-इषुधी । बभूव कल्यः कौन्तेयः प्रहृष्टः साह्य-कर्मणि ॥२०॥
labdhvā ratham dhanuḥ ca eva tathā akṣayyau mahā-iṣudhī . babhūva kalyaḥ kaunteyaḥ prahṛṣṭaḥ sāhya-karmaṇi ..20..
वज्रनाभं ततश्चक्रं ददौ कृष्णाय पावकः । आग्नेयमस्त्रं दयितं स च कल्योऽभवत्तदा ॥२१॥
वज्रनाभम् ततस् चक्रम् ददौ कृष्णाय पावकः । आग्नेयम् अस्त्रम् दयितम् स च कल्यः अभवत् तदा ॥२१॥
vajranābham tatas cakram dadau kṛṣṇāya pāvakaḥ . āgneyam astram dayitam sa ca kalyaḥ abhavat tadā ..21..
अब्रवीत्पावकश्चैनमेतेन मधुसूदन । अमानुषानपि रणे विजेष्यसि न संशयः ॥२२॥
अब्रवीत् पावकः च एनम् एतेन मधुसूदन । अमानुषान् अपि रणे विजेष्यसि न संशयः ॥२२॥
abravīt pāvakaḥ ca enam etena madhusūdana . amānuṣān api raṇe vijeṣyasi na saṃśayaḥ ..22..
अनेन त्वं मनुष्याणां देवानामपि चाहवे । रक्षःपिशाचदैत्यानां नागानां चाधिकः सदा ॥२३॥ ( भविष्यसि न संदेहः प्रवरारिनिबर्हणे ॥२३॥ )
अनेन त्वम् मनुष्याणाम् देवानाम् अपि च आहवे । रक्षः-पिशाच-दैत्यानाम् नागानाम् च अधिकः सदा ॥२३॥ ( भविष्यसि न संदेहः प्रवर-अरि-निबर्हणे ॥२३॥ )
anena tvam manuṣyāṇām devānām api ca āhave . rakṣaḥ-piśāca-daityānām nāgānām ca adhikaḥ sadā ..23.. ( bhaviṣyasi na saṃdehaḥ pravara-ari-nibarhaṇe ..23.. )
क्षिप्तं क्षिप्तं रणे चैतत्त्वया माधव शत्रुषु । हत्वाप्रतिहतं सङ्ख्ये पाणिमेष्यति ते पुनः ॥२४॥
क्षिप्तम् क्षिप्तम् रणे च एतत् त्वया माधव शत्रुषु । हत्वा अप्रतिहतम् सङ्ख्ये पाणिम् एष्यति ते पुनर् ॥२४॥
kṣiptam kṣiptam raṇe ca etat tvayā mādhava śatruṣu . hatvā apratihatam saṅkhye pāṇim eṣyati te punar ..24..
वरुणश्च ददौ तस्मै गदामशनिनिःस्वनाम् । दैत्यान्तकरणीं घोरां नाम्ना कौमोदकीं हरेः ॥२५॥
वरुणः च ददौ तस्मै गदाम् अशनि-निःस्वनाम् । दैत्य-अन्त-करणीम् घोराम् नाम्ना कौमोदकीम् हरेः ॥२५॥
varuṇaḥ ca dadau tasmai gadām aśani-niḥsvanām . daitya-anta-karaṇīm ghorām nāmnā kaumodakīm hareḥ ..25..
ततः पावकमब्रूतां प्रहृष्टौ कृष्णपाण्डवौ । कृतास्त्रौ शस्त्रसम्पन्नौ रथिनौ ध्वजिनावपि ॥२६॥
ततस् पावकम् अब्रूताम् प्रहृष्टौ कृष्ण-पाण्डवौ । कृतास्त्रौ शस्त्र-सम्पन्नौ रथिनौ ध्वजिनौ अपि ॥२६॥
tatas pāvakam abrūtām prahṛṣṭau kṛṣṇa-pāṇḍavau . kṛtāstrau śastra-sampannau rathinau dhvajinau api ..26..
कल्यौ स्वो भगवन्योद्धुमपि सर्वैः सुरासुरैः । किं पुनर्वज्रिणैकेन पन्नगार्थे युयुत्सुना ॥२७॥
कल्यौ स्वः भगवन् योद्धुम् अपि सर्वैः सुर-असुरैः । किम् पुनर् वज्रिणा एकेन पन्नग-अर्थे युयुत्सुना ॥२७॥
kalyau svaḥ bhagavan yoddhum api sarvaiḥ sura-asuraiḥ . kim punar vajriṇā ekena pannaga-arthe yuyutsunā ..27..
अर्जुन उवाच॥
चक्रमस्त्रं च वार्ष्णेयो विसृजन्युधि वीर्यवान् । त्रिषु लोकेषु तन्नास्ति यन्न जीयाज्जनार्दनः ॥२८॥
चक्रम् अस्त्रम् च वार्ष्णेयः विसृजन् युधि वीर्यवान् । त्रिषु लोकेषु तत् न अस्ति यत् न जीयात् जनार्दनः ॥२८॥
cakram astram ca vārṣṇeyaḥ visṛjan yudhi vīryavān . triṣu lokeṣu tat na asti yat na jīyāt janārdanaḥ ..28..
गाण्डीवं धनुरादाय तथाक्षय्यौ महेषुधी । अहमप्युत्सहे लोकान्विजेतुं युधि पावक ॥२९॥
गाण्डीवम् धनुः आदाय तथा अक्षय्यौ महा-इषुधी । अहम् अपि उत्सहे लोकान् विजेतुम् युधि पावक ॥२९॥
gāṇḍīvam dhanuḥ ādāya tathā akṣayyau mahā-iṣudhī . aham api utsahe lokān vijetum yudhi pāvaka ..29..
सर्वतः परिवार्यैनं दावेन महता प्रभो । कामं सम्प्रज्वलाद्यैव कल्यौ स्वः साह्यकर्मणि ॥३०॥
सर्वतस् परिवार्य एनम् दावेन महता प्रभो । कामम् सम्प्रज्वल अद्य एव कल्यौ स्वः साह्य-कर्मणि ॥३०॥
sarvatas parivārya enam dāvena mahatā prabho . kāmam samprajvala adya eva kalyau svaḥ sāhya-karmaṇi ..30..
वैशम्पायन उवाच॥
एवमुक्तः स भगवान्दाशार्हेणार्जुनेन च । तैजसं रूपमास्थाय दावं दग्धुं प्रचक्रमे ॥३१॥
एवम् उक्तः स भगवान् दाशार्हेण अर्जुनेन च । तैजसम् रूपम् आस्थाय दावम् दग्धुम् प्रचक्रमे ॥३१॥
evam uktaḥ sa bhagavān dāśārheṇa arjunena ca . taijasam rūpam āsthāya dāvam dagdhum pracakrame ..31..
सर्वतः परिवार्याथ सप्तार्चिर्ज्वलनस्तदा । ददाह खाण्डवं क्रुद्धो युगान्तमिव दर्शयन् ॥३२॥
सर्वतस् परिवार्य अथ सप्तार्चिः ज्वलनः तदा । ददाह खाण्डवम् क्रुद्धः युग-अन्तम् इव दर्शयन् ॥३२॥
sarvatas parivārya atha saptārciḥ jvalanaḥ tadā . dadāha khāṇḍavam kruddhaḥ yuga-antam iva darśayan ..32..
परिगृह्य समाविष्टस्तद्वनं भरतर्षभ । मेघस्तनितनिर्घोषं सर्वभूतानि निर्दहन् ॥३३॥
परिगृह्य समाविष्टः तत् वनम् भरत-ऋषभ । मेघ-स्तनित-निर्घोषम् सर्व-भूतानि निर्दहन् ॥३३॥
parigṛhya samāviṣṭaḥ tat vanam bharata-ṛṣabha . megha-stanita-nirghoṣam sarva-bhūtāni nirdahan ..33..
दह्यतस्तस्य विबभौ रूपं दावस्य भारत । मेरोरिव नगेन्द्रस्य काञ्चनस्य महाद्युतेः ॥३४॥1.224.37
दह्यतः तस्य विबभौ रूपम् दावस्य भारत । मेरोः इव नग-इन्द्रस्य काञ्चनस्य महा-द्युतेः ॥३४॥१।२२४।३७
dahyataḥ tasya vibabhau rūpam dāvasya bhārata . meroḥ iva naga-indrasya kāñcanasya mahā-dyuteḥ ..34..1.224.37

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In