| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
तौ रथाभ्यां नरव्याघ्रौ दावस्योभयतः स्थितौ । दिक्षु सर्वासु भूतानां चक्राते कदनं महत् ॥१॥
तौ रथाभ्याम् नर-व्याघ्रौ दावस्य उभयतस् स्थितौ । दिक्षु सर्वासु भूतानाम् चक्राते कदनम् महत् ॥१॥
tau rathābhyām nara-vyāghrau dāvasya ubhayatas sthitau . dikṣu sarvāsu bhūtānām cakrāte kadanam mahat ..1..
यत्र यत्र हि दृश्यन्ते प्राणिनः खाण्डवालयाः । पलायन्तस्तत्र तत्र तौ वीरौ पर्यधावताम् ॥२॥
यत्र यत्र हि दृश्यन्ते प्राणिनः खाण्डव-आलयाः । पलायन्तः तत्र तत्र तौ वीरौ पर्यधावताम् ॥२॥
yatra yatra hi dṛśyante prāṇinaḥ khāṇḍava-ālayāḥ . palāyantaḥ tatra tatra tau vīrau paryadhāvatām ..2..
छिद्रं हि न प्रपश्यन्ति रथयोराशुविक्रमात् । आविद्धाविव दृश्येते रथिनौ तौ रथोत्तमौ ॥३॥
छिद्रम् हि न प्रपश्यन्ति रथयोः आशु-विक्रमात् । आविद्धौ इव दृश्येते रथिनौ तौ रथ-उत्तमौ ॥३॥
chidram hi na prapaśyanti rathayoḥ āśu-vikramāt . āviddhau iva dṛśyete rathinau tau ratha-uttamau ..3..
खाण्डवे दह्यमाने तु भूतान्यथ सहस्रशः । उत्पेतुर्भैरवान्नादान्विनदन्तो दिशो दश ॥४॥
खाण्डवे दह्यमाने तु भूतानि अथ सहस्रशस् । उत्पेतुः भैरवान् नादान् विनदन्तः दिशः दश ॥४॥
khāṇḍave dahyamāne tu bhūtāni atha sahasraśas . utpetuḥ bhairavān nādān vinadantaḥ diśaḥ daśa ..4..
दग्धैकदेशा बहवो निष्टप्ताश्च तथापरे । स्फुटिताक्षा विशीर्णाश्च विप्लुताश्च विचेतसः ॥५॥
दग्ध-एक-देशाः बहवः निष्टप्ताः च तथा अपरे । स्फुटित-अक्षाः विशीर्णाः च विप्लुताः च विचेतसः ॥५॥
dagdha-eka-deśāḥ bahavaḥ niṣṭaptāḥ ca tathā apare . sphuṭita-akṣāḥ viśīrṇāḥ ca viplutāḥ ca vicetasaḥ ..5..
समालिङ्ग्य सुतानन्ये पितृन्मातृंस्तथापरे । त्यक्तुं न शेकुः स्नेहेन तथैव निधनं गताः ॥६॥
समालिङ्ग्य सुतान् अन्ये पितृन् मातृन् तथा अपरे । त्यक्तुम् न शेकुः स्नेहेन तथा एव निधनम् गताः ॥६॥
samāliṅgya sutān anye pitṛn mātṛn tathā apare . tyaktum na śekuḥ snehena tathā eva nidhanam gatāḥ ..6..
विकृतैर्दर्शनैरन्ये समुत्पेतुः सहस्रशः । तत्र तत्र विघूर्णन्तः पुनरग्नौ प्रपेदिरे ॥७॥
विकृतैः दर्शनैः अन्ये समुत्पेतुः सहस्रशस् । तत्र तत्र विघूर्णन्तः पुनर् अग्नौ प्रपेदिरे ॥७॥
vikṛtaiḥ darśanaiḥ anye samutpetuḥ sahasraśas . tatra tatra vighūrṇantaḥ punar agnau prapedire ..7..
दग्धपक्षाक्षिचरणा विचेष्टन्तो महीतले । तत्र तत्र स्म दृश्यन्ते विनश्यन्तः शरीरिणः ॥८॥
दग्ध-पक्ष-अक्षि-चरणाः विचेष्टन्तः मही-तले । तत्र तत्र स्म दृश्यन्ते विनश्यन्तः शरीरिणः ॥८॥
dagdha-pakṣa-akṣi-caraṇāḥ viceṣṭantaḥ mahī-tale . tatra tatra sma dṛśyante vinaśyantaḥ śarīriṇaḥ ..8..
जलस्थानेषु सर्वेषु क्वाथ्यमानेषु भारत । गतसत्त्वाः स्म दृश्यन्ते कूर्ममत्स्याः सहस्रशः ॥९॥
जल-स्थानेषु सर्वेषु क्वाथ्यमानेषु भारत । गतसत्त्वाः स्म दृश्यन्ते कूर्म-मत्स्याः सहस्रशस् ॥९॥
jala-sthāneṣu sarveṣu kvāthyamāneṣu bhārata . gatasattvāḥ sma dṛśyante kūrma-matsyāḥ sahasraśas ..9..
शरीरैः सम्प्रदीप्तैश्च देहवन्त इवाग्नयः । अदृश्यन्त वने तस्मिन्प्राणिनः प्राणसङ्क्षये ॥१०॥
शरीरैः सम्प्रदीप्तैः च देहवन्तः इव अग्नयः । अदृश्यन्त वने तस्मिन् प्राणिनः प्राण-सङ्क्षये ॥१०॥
śarīraiḥ sampradīptaiḥ ca dehavantaḥ iva agnayaḥ . adṛśyanta vane tasmin prāṇinaḥ prāṇa-saṅkṣaye ..10..
तांस्तथोत्पततः पार्थः शरैः सञ्छिद्य खण्डशः । दीप्यमाने ततः प्रास्यत्प्रहसन्कृष्णवर्त्मनि ॥११॥
तान् तथा उत्पततः पार्थः शरैः सञ्छिद्य खण्डशस् । दीप्यमाने ततस् प्रास्यत् प्रहसन् कृष्णवर्त्मनि ॥११॥
tān tathā utpatataḥ pārthaḥ śaraiḥ sañchidya khaṇḍaśas . dīpyamāne tatas prāsyat prahasan kṛṣṇavartmani ..11..
ते शराचितसर्वाङ्गा विनदन्तो महारवान् । ऊर्ध्वमुत्पत्य वेगेन निपेतुः पावके पुनः ॥१२॥
ते शर-आचित-सर्व-अङ्गाः विनदन्तः महा-रवान् । ऊर्ध्वम् उत्पत्य वेगेन निपेतुः पावके पुनर् ॥१२॥
te śara-ācita-sarva-aṅgāḥ vinadantaḥ mahā-ravān . ūrdhvam utpatya vegena nipetuḥ pāvake punar ..12..
शरैरभ्याहतानां च दह्यतां च वनौकसाम् । विरावः श्रूयते ह स्म समुद्रस्येव मथ्यतः ॥१३॥
शरैः अभ्याहतानाम् च दह्यताम् च वनौकसाम् । विरावः श्रूयते ह स्म समुद्रस्य इव मथ्यतः ॥१३॥
śaraiḥ abhyāhatānām ca dahyatām ca vanaukasām . virāvaḥ śrūyate ha sma samudrasya iva mathyataḥ ..13..
वह्नेश्चापि प्रहृष्टस्य खमुत्पेतुर्महार्चिषः । जनयामासुरुद्वेगं सुमहान्तं दिवौकसाम् ॥१४॥
वह्नेः च अपि प्रहृष्टस्य खम् उत्पेतुः महा-अर्चिषः । जनयामासुः उद्वेगम् सु महान्तम् दिवौकसाम् ॥१४॥
vahneḥ ca api prahṛṣṭasya kham utpetuḥ mahā-arciṣaḥ . janayāmāsuḥ udvegam su mahāntam divaukasām ..14..
ततो जग्मुर्महात्मानः सर्व एव दिवौकसः । शरणं देवराजानं सहस्राक्षं पुरंदरम् ॥१५॥
ततस् जग्मुः महात्मानः सर्वे एव दिवौकसः । शरणम् देव-राजानम् सहस्राक्षम् पुरंदरम् ॥१५॥
tatas jagmuḥ mahātmānaḥ sarve eva divaukasaḥ . śaraṇam deva-rājānam sahasrākṣam puraṃdaram ..15..
देवा ऊचुः॥
किं न्विमे मानवाः सर्वे दह्यन्ते कृष्णवर्त्मना । कच्चिन्न सङ्क्षयः प्राप्तो लोकानाममरेश्वर ॥१६॥
किम् नु इमे मानवाः सर्वे दह्यन्ते कृष्णवर्त्मना । कच्चित् न सङ्क्षयः प्राप्तः लोकानाम् अमर-ईश्वर ॥१६॥
kim nu ime mānavāḥ sarve dahyante kṛṣṇavartmanā . kaccit na saṅkṣayaḥ prāptaḥ lokānām amara-īśvara ..16..
वैशम्पायन उवाच॥
तच्छ्रुत्वा वृत्रहा तेभ्यः स्वयमेवान्ववेक्ष्य च । खाण्डवस्य विमोक्षार्थं प्रययौ हरिवाहनः ॥१७॥
तत् श्रुत्वा वृत्रहा तेभ्यः स्वयम् एव अन्ववेक्ष्य च । खाण्डवस्य विमोक्ष-अर्थम् प्रययौ हरिवाहनः ॥१७॥
tat śrutvā vṛtrahā tebhyaḥ svayam eva anvavekṣya ca . khāṇḍavasya vimokṣa-artham prayayau harivāhanaḥ ..17..
महता मेघजालेन नानारूपेण वज्रभृत् । आकाशं समवस्तीर्य प्रववर्ष सुरेश्वरः ॥१८॥
महता मेघ-जालेन नाना रूपेण वज्रभृत् । आकाशम् समवस्तीर्य प्रववर्ष सुरेश्वरः ॥१८॥
mahatā megha-jālena nānā rūpeṇa vajrabhṛt . ākāśam samavastīrya pravavarṣa sureśvaraḥ ..18..
ततोऽक्षमात्रा विसृजन्धाराः शतसहस्रशः । अभ्यवर्षत्सहस्राक्षः पावकं खाण्डवं प्रति ॥१९॥
ततस् अक्ष-मात्राः विसृजन् धाराः शत-सहस्रशस् । अभ्यवर्षत् सहस्राक्षः पावकम् खाण्डवम् प्रति ॥१९॥
tatas akṣa-mātrāḥ visṛjan dhārāḥ śata-sahasraśas . abhyavarṣat sahasrākṣaḥ pāvakam khāṇḍavam prati ..19..
असम्प्राप्तास्तु ता धारास्तेजसा जातवेदसः । ख एव समशुष्यन्त न काश्चित्पावकं गताः ॥२०॥
असम्प्राप्ताः तु ताः धाराः तेजसा जातवेदसः । खे एव समशुष्यन्त न काश्चिद् पावकम् गताः ॥२०॥
asamprāptāḥ tu tāḥ dhārāḥ tejasā jātavedasaḥ . khe eva samaśuṣyanta na kāścid pāvakam gatāḥ ..20..
ततो नमुचिहा क्रुद्धो भृशमर्चिष्मतस्तदा । पुनरेवाभ्यवर्षत्तमम्भः प्रविसृजन्बहु ॥२१॥
ततस् नमुचि-हा क्रुद्धः भृशम् अर्चिष्मतः तदा । पुनर् एव अभ्यवर्षत् तम् अम्भः प्रविसृजन् बहु ॥२१॥
tatas namuci-hā kruddhaḥ bhṛśam arciṣmataḥ tadā . punar eva abhyavarṣat tam ambhaḥ pravisṛjan bahu ..21..
अर्चिर्धाराभिसम्बद्धं धूमविद्युत्समाकुलम् । बभूव तद्वनं घोरं स्तनयित्नुसघोषवत् ॥२२॥1.225.22
अर्चिः-धारा-अभिसम्बद्धम् धूम-विद्युत्-समाकुलम् । बभूव तत् वनम् घोरम् स्तनयित्नु-स घोष-वत् ॥२२॥१।२२५।२२
arciḥ-dhārā-abhisambaddham dhūma-vidyut-samākulam . babhūva tat vanam ghoram stanayitnu-sa ghoṣa-vat ..22..1.225.22

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In