| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
तस्याभिवर्षतो वारि पाण्डवः प्रत्यवारयत् । शरवर्षेण बीभत्सुरुत्तमास्त्राणि दर्शयन् ॥१॥
तस्य अभिवर्षतः वारि पाण्डवः प्रत्यवारयत् । शर-वर्षेण बीभत्सुः उत्तम-अस्त्राणि दर्शयन् ॥१॥
tasya abhivarṣataḥ vāri pāṇḍavaḥ pratyavārayat . śara-varṣeṇa bībhatsuḥ uttama-astrāṇi darśayan ..1..
शरैः समन्ततः सर्वं खाण्डवं चापि पाण्डवः । छादयामास तद्वर्षमपकृष्य ततो वनात् ॥२॥
शरैः समन्ततः सर्वम् खाण्डवम् च अपि पाण्डवः । छादयामास तत् वर्षम् अपकृष्य ततस् वनात् ॥२॥
śaraiḥ samantataḥ sarvam khāṇḍavam ca api pāṇḍavaḥ . chādayāmāsa tat varṣam apakṛṣya tatas vanāt ..2..
न च स्म किञ्चिच्छक्नोति भूतं निश्चरितुं ततः । सञ्छाद्यमाने खगमैरस्यता सव्यसाचिना ॥३॥
न च स्म किञ्चिद् शक्नोति भूतम् निश्चरितुम् ततस् । सञ्छाद्यमाने खगमैः अस्यता सव्यसाचिना ॥३॥
na ca sma kiñcid śaknoti bhūtam niścaritum tatas . sañchādyamāne khagamaiḥ asyatā savyasācinā ..3..
तक्षकस्तु न तत्रासीत्सर्पराजो महाबलः । दह्यमाने वने तस्मिन्कुरुक्षेत्रेऽभवत्तदा ॥४॥
तक्षकः तु न तत्र आसीत् सर्प-राजः महा-बलः । दह्यमाने वने तस्मिन् कुरुक्षेत्रे अभवत् तदा ॥४॥
takṣakaḥ tu na tatra āsīt sarpa-rājaḥ mahā-balaḥ . dahyamāne vane tasmin kurukṣetre abhavat tadā ..4..
अश्वसेनस्तु तत्रासीत्तक्षकस्य सुतो बली । स यत्नमकरोत्तीव्रं मोक्षार्थं हव्यवाहनात् ॥५॥
अश्वसेनः तु तत्र आसीत् तक्षकस्य सुतः बली । स यत्नम् अकरोत् तीव्रम् मोक्ष-अर्थम् हव्यवाहनात् ॥५॥
aśvasenaḥ tu tatra āsīt takṣakasya sutaḥ balī . sa yatnam akarot tīvram mokṣa-artham havyavāhanāt ..5..
न शशाक विनिर्गन्तुं कौन्तेयशरपीडितः । मोक्षयामास तं माता निगीर्य भुजगात्मजा ॥६॥
न शशाक विनिर्गन्तुम् कौन्तेय-शर-पीडितः । मोक्षयामास तम् माता निगीर्य भुजग-आत्मजा ॥६॥
na śaśāka vinirgantum kaunteya-śara-pīḍitaḥ . mokṣayāmāsa tam mātā nigīrya bhujaga-ātmajā ..6..
तस्य पूर्वं शिरो ग्रस्तं पुच्छमस्य निगीर्यते । ऊर्ध्वमाचक्रमे सा तु पन्नगी पुत्रगृद्धिनी ॥७॥
तस्य पूर्वम् शिरः ग्रस्तम् पुच्छम् अस्य निगीर्यते । ऊर्ध्वम् आचक्रमे सा तु पन्नगी पुत्र-गृद्धिनी ॥७॥
tasya pūrvam śiraḥ grastam puccham asya nigīryate . ūrdhvam ācakrame sā tu pannagī putra-gṛddhinī ..7..
तस्यास्तीक्ष्णेन भल्लेन पृथुधारेण पाण्डवः । शिरश्चिच्छेद गच्छन्त्यास्तामपश्यत्सुरेश्वरः ॥८॥
तस्याः तीक्ष्णेन भल्लेन पृथु-धारेण पाण्डवः । शिरः चिच्छेद गच्छन्त्याः ताम् अपश्यत् सुरेश्वरः ॥८॥
tasyāḥ tīkṣṇena bhallena pṛthu-dhāreṇa pāṇḍavaḥ . śiraḥ ciccheda gacchantyāḥ tām apaśyat sureśvaraḥ ..8..
तं मुमोचयिषुर्वज्री वातवर्षेण पाण्डवम् । मोहयामास तत्कालमश्वसेनस्त्वमुच्यत ॥९॥
तम् मुमोचयिषुः वज्री वात-वर्षेण पाण्डवम् । मोहयामास तद्-कालम् अश्वसेनः तु अमुच्यत ॥९॥
tam mumocayiṣuḥ vajrī vāta-varṣeṇa pāṇḍavam . mohayāmāsa tad-kālam aśvasenaḥ tu amucyata ..9..
तां च मायां तदा दृष्ट्वा घोरां नागेन वञ्चितः । द्विधा त्रिधा च चिच्छेद खगतानेव भारत ॥१०॥
ताम् च मायाम् तदा दृष्ट्वा घोराम् नागेन वञ्चितः । द्विधा त्रिधा च चिच्छेद ख-गतान् एव भारत ॥१०॥
tām ca māyām tadā dṛṣṭvā ghorām nāgena vañcitaḥ . dvidhā tridhā ca ciccheda kha-gatān eva bhārata ..10..
शशाप तं च सङ्क्रुद्धो बीभत्सुर्जिह्मगामिनम् । पावको वासुदेवश्च अप्रतिष्ठो भवेदिति ॥११॥
शशाप तम् च सङ्क्रुद्धः बीभत्सुः जिह्म-गामिनम् । पावकः वासुदेवः च अप्रतिष्ठः भवेत् इति ॥११॥
śaśāpa tam ca saṅkruddhaḥ bībhatsuḥ jihma-gāminam . pāvakaḥ vāsudevaḥ ca apratiṣṭhaḥ bhavet iti ..11..
ततो जिष्णुः सहस्राक्षं खं वितत्येषुभिः शितैः । योधयामास सङ्क्रुद्धो वञ्चनां तामनुस्मरन् ॥१२॥
ततस् जिष्णुः सहस्राक्षम् खम् वितत्य इषुभिः शितैः । योधयामास सङ्क्रुद्धः वञ्चनाम् ताम् अनुस्मरन् ॥१२॥
tatas jiṣṇuḥ sahasrākṣam kham vitatya iṣubhiḥ śitaiḥ . yodhayāmāsa saṅkruddhaḥ vañcanām tām anusmaran ..12..
देवराडपि तं दृष्ट्वा संरब्धमिव फल्गुनम् । स्वमस्त्रमसृजद्दीप्तं यत्ततानाखिलं नभः ॥१३॥
देवराज् अपि तम् दृष्ट्वा संरब्धम् इव फल्गुनम् । स्वम् अस्त्रम् असृजत् दीप्तम् यत् ततान अखिलम् नभः ॥१३॥
devarāj api tam dṛṣṭvā saṃrabdham iva phalgunam . svam astram asṛjat dīptam yat tatāna akhilam nabhaḥ ..13..
ततो वायुर्महाघोषः क्षोभयन्सर्वसागरान् । वियत्स्थोऽजनयन्मेघाञ्जलधारामुचोऽऽकुलान् ॥१४॥
ततस् वायुः महा-घोषः क्षोभयन् सर्व-सागरान् । वियत्-स्थः अजनयत् मेघान् जल-धारा-मुचः आकुलान् ॥१४॥
tatas vāyuḥ mahā-ghoṣaḥ kṣobhayan sarva-sāgarān . viyat-sthaḥ ajanayat meghān jala-dhārā-mucaḥ ākulān ..14..
तद्विघातार्थमसृजदर्जुनोऽप्यस्त्रमुत्तमम् । वायव्यमेवाभिमन्त्र्य प्रतिपत्तिविशारदः ॥१५॥
तद्-विघात-अर्थम् असृजत् अर्जुनः अपि अस्त्रम् उत्तमम् । वायव्यम् एव अभिमन्त्र्य प्रतिपत्ति-विशारदः ॥१५॥
tad-vighāta-artham asṛjat arjunaḥ api astram uttamam . vāyavyam eva abhimantrya pratipatti-viśāradaḥ ..15..
तेनेन्द्राशनिमेघानां वीर्यौजस्तद्विनाशितम् । जलधाराश्च ताः शोषं जग्मुर्नेशुश्च विद्युतः ॥१६॥
तेन इन्द्र-अशनि-मेघानाम् वीर्य-ओजः तत् विनाशितम् । जल-धाराः च ताः शोषम् जग्मुः नेशुः च विद्युतः ॥१६॥
tena indra-aśani-meghānām vīrya-ojaḥ tat vināśitam . jala-dhārāḥ ca tāḥ śoṣam jagmuḥ neśuḥ ca vidyutaḥ ..16..
क्षणेन चाभवद्व्योम सम्प्रशान्तरजस्तमः । सुखशीतानिलगुणं प्रकृतिस्थार्कमण्डलम् ॥१७॥
क्षणेन च अभवत् व्योम सम्प्रशान्त-रजः-तमः । ॥१७॥
kṣaṇena ca abhavat vyoma sampraśānta-rajaḥ-tamaḥ . ..17..
निष्प्रतीकारहृष्टश्च हुतभुग्विविधाकृतिः । प्रजज्वालातुलार्चिष्मान्स्वनादैः पूरयञ्जगत् ॥१८॥
निष्प्रतीकार-हृष्टः च हुतभुज् विविध-आकृतिः । प्रजज्वाल अतुल-अर्चिष्मान् स्व-नादैः पूरयन् जगत् ॥१८॥
niṣpratīkāra-hṛṣṭaḥ ca hutabhuj vividha-ākṛtiḥ . prajajvāla atula-arciṣmān sva-nādaiḥ pūrayan jagat ..18..
कृष्णाभ्यां रक्षितं दृष्ट्वा तं च दावमहङ्कृताः । समुत्पेतुरथाकाशं सुपर्णाद्याः पतत्रिणः ॥१९॥
कृष्णाभ्याम् रक्षितम् दृष्ट्वा तम् च दावम् अहङ्कृताः । समुत्पेतुः अथ आकाशम् सुपर्ण-आद्याः पतत्रिणः ॥१९॥
kṛṣṇābhyām rakṣitam dṛṣṭvā tam ca dāvam ahaṅkṛtāḥ . samutpetuḥ atha ākāśam suparṇa-ādyāḥ patatriṇaḥ ..19..
गरुडा वज्रसदृशैः पक्षतुण्डनखैस्तथा । प्रहर्तुकामाः सम्पेतुराकाशात्कृष्णपाण्डवौ ॥२०॥
गरुडाः वज्र-सदृशैः पक्ष-तुण्ड-नखैः तथा । प्रहर्तु-कामाः सम्पेतुः आकाशात् कृष्ण-पाण्डवौ ॥२०॥
garuḍāḥ vajra-sadṛśaiḥ pakṣa-tuṇḍa-nakhaiḥ tathā . prahartu-kāmāḥ sampetuḥ ākāśāt kṛṣṇa-pāṇḍavau ..20..
तथैवोरगसङ्घाताः पाण्डवस्य समीपतः । उत्सृजन्तो विषं घोरं निश्चेरुर्ज्वलिताननाः ॥२१॥
तथा एव उरग-सङ्घाताः पाण्डवस्य समीपतस् । उत्सृजन्तः विषम् घोरम् निश्चेरुः ज्वलित-आननाः ॥२१॥
tathā eva uraga-saṅghātāḥ pāṇḍavasya samīpatas . utsṛjantaḥ viṣam ghoram niśceruḥ jvalita-ānanāḥ ..21..
तांश्चकर्त शरैः पार्थः सरोषान्दृश्य खेचरान् । विवशाश्चापतन्दीप्तं देहाभावाय पावकम् ॥२२॥
तान् चकर्त शरैः पार्थः स रोषान् दृश्य खेचरान् । विवशाः च अपतन् दीप्तम् देह-अभावाय पावकम् ॥२२॥
tān cakarta śaraiḥ pārthaḥ sa roṣān dṛśya khecarān . vivaśāḥ ca apatan dīptam deha-abhāvāya pāvakam ..22..
ततः सुराः सगन्धर्वा यक्षराक्षसपन्नगाः । उत्पेतुर्नादमतुलमुत्सृजन्तो रणार्थिणः ॥२३॥
ततस् सुराः स गन्धर्वाः यक्ष-राक्षस-पन्नगाः । उत्पेतुः नादम् अतुलम् उत्सृजन्तः रण-अर्थिणः ॥२३॥
tatas surāḥ sa gandharvāḥ yakṣa-rākṣasa-pannagāḥ . utpetuḥ nādam atulam utsṛjantaḥ raṇa-arthiṇaḥ ..23..
अयःकणपचक्राश्मभुशुण्ड्युद्यतबाहवः । कृष्णपार्थौ जिघांसन्तः क्रोधसंमूर्च्छितौजसः ॥२४॥
अयःकणप-चक्राश्म-भुशुण्डि-उद्यत-बाहवः । कृष्ण-पार्थौ जिघांसन्तः क्रोध-संमूर्च्छित-ओजसः ॥२४॥
ayaḥkaṇapa-cakrāśma-bhuśuṇḍi-udyata-bāhavaḥ . kṛṣṇa-pārthau jighāṃsantaḥ krodha-saṃmūrcchita-ojasaḥ ..24..
तेषामभिव्याहरतां शस्त्रवर्षं च मुञ्चताम् । प्रममाथोत्तमाङ्गानि बीभत्सुर्निशितैः शरैः ॥२५॥
तेषाम् अभिव्याहरताम् शस्त्र-वर्षम् च मुञ्चताम् । प्रममाथ उत्तमाङ्गानि बीभत्सुः निशितैः शरैः ॥२५॥
teṣām abhivyāharatām śastra-varṣam ca muñcatām . pramamātha uttamāṅgāni bībhatsuḥ niśitaiḥ śaraiḥ ..25..
कृष्णश्च सुमहातेजाश्चक्रेणारिनिहा तदा । दैत्यदानवसङ्घानां चकार कदनं महत् ॥२६॥
कृष्णः च सु महा-तेजाः चक्रेण अरि-निहा तदा । दैत्य-दानव-सङ्घानाम् चकार कदनम् महत् ॥२६॥
kṛṣṇaḥ ca su mahā-tejāḥ cakreṇa ari-nihā tadā . daitya-dānava-saṅghānām cakāra kadanam mahat ..26..
अथापरे शरैर्विद्धाश्चक्रवेगेरितास्तदा । वेलामिव समासाद्य व्यातिष्ठन्त महौजसः ॥२७॥
अथ अपरे शरैः विद्धाः चक्र-वेग-ईरिताः तदा । वेलाम् इव समासाद्य व्यातिष्ठन्त महा-ओजसः ॥२७॥
atha apare śaraiḥ viddhāḥ cakra-vega-īritāḥ tadā . velām iva samāsādya vyātiṣṭhanta mahā-ojasaḥ ..27..
ततः शक्रोऽभिसङ्क्रुद्धस्त्रिदशानां महेश्वरः । पाण्डुरं गजमास्थाय तावुभौ समभिद्रवत् ॥२८॥
ततस् शक्रः अभिसङ्क्रुद्धः त्रिदशानाम् महेश्वरः । पाण्डुरम् गजम् आस्थाय तौ उभौ समभिद्रवत् ॥२८॥
tatas śakraḥ abhisaṅkruddhaḥ tridaśānām maheśvaraḥ . pāṇḍuram gajam āsthāya tau ubhau samabhidravat ..28..
अशनिं गृह्य तरसा वज्रमस्त्रमवासृजत् । हतावेताविति प्राह सुरानसुरसूदनः ॥२९॥
अशनिम् गृह्य तरसा वज्रम् अस्त्रम् अवासृजत् । हतौ एतौ इति प्राह सुरान् असुरसूदनः ॥२९॥
aśanim gṛhya tarasā vajram astram avāsṛjat . hatau etau iti prāha surān asurasūdanaḥ ..29..
ततः समुद्यतां दृष्ट्वा देवेन्द्रेण महाशनिम् । जगृहुः सर्वशस्त्राणि स्वानि स्वानि सुरास्तदा ॥३०॥
ततस् समुद्यताम् दृष्ट्वा देवेन्द्रेण महा-अशनिम् । जगृहुः सर्व-शस्त्राणि स्वानि स्वानि सुराः तदा ॥३०॥
tatas samudyatām dṛṣṭvā devendreṇa mahā-aśanim . jagṛhuḥ sarva-śastrāṇi svāni svāni surāḥ tadā ..30..
कालदण्डं यमो राजा शिबिकां च धनेश्वरः । पाशं च वरुणस्तत्र विचक्रं च तथा शिवः ॥३१॥
काल-दण्डम् यमः राजा शिबिकाम् च धनेश्वरः । पाशम् च वरुणः तत्र विचक्रम् च तथा शिवः ॥३१॥
kāla-daṇḍam yamaḥ rājā śibikām ca dhaneśvaraḥ . pāśam ca varuṇaḥ tatra vicakram ca tathā śivaḥ ..31..
ओषधीर्दीप्यमानाश्च जगृहातेऽश्विनावपि । जगृहे च धनुर्धाता मुसलं च जयस्तथा ॥३२॥
ओषधीः दीप्यमानाः च जगृहाते अश्विनौ अपि । जगृहे च धनुः धाता मुसलम् च जयः तथा ॥३२॥
oṣadhīḥ dīpyamānāḥ ca jagṛhāte aśvinau api . jagṛhe ca dhanuḥ dhātā musalam ca jayaḥ tathā ..32..
पर्वतं चापि जग्राह क्रुद्धस्त्वष्टा महाबलः । अंशस्तु शक्तिं जग्राह मृत्युर्देवः परश्वधम् ॥३३॥
पर्वतम् च अपि जग्राह क्रुद्धः त्वष्टा महा-बलः । अंशः तु शक्तिम् जग्राह मृत्युः देवः परश्वधम् ॥३३॥
parvatam ca api jagrāha kruddhaḥ tvaṣṭā mahā-balaḥ . aṃśaḥ tu śaktim jagrāha mṛtyuḥ devaḥ paraśvadham ..33..
प्रगृह्य परिघं घोरं विचचारार्यमा अपि । मित्रश्च क्षुरपर्यन्तं चक्रं गृह्य व्यतिष्ठत ॥३४॥
प्रगृह्य परिघम् घोरम् विचचार अर्यमा अपि । मित्रः च क्षुर-पर्यन्तम् चक्रम् गृह्य व्यतिष्ठत ॥३४॥
pragṛhya parigham ghoram vicacāra aryamā api . mitraḥ ca kṣura-paryantam cakram gṛhya vyatiṣṭhata ..34..
पूषा भगश्च सङ्क्रुद्धः सविता च विशां पते । आत्तकार्मुकनिस्त्रिंशाः कृष्णपार्थावभिद्रुताः ॥३५॥
पूषा भगः च सङ्क्रुद्धः सविता च विशाम् पते । आत्त-कार्मुक-निस्त्रिंशाः कृष्ण-पार्थौ अभिद्रुताः ॥३५॥
pūṣā bhagaḥ ca saṅkruddhaḥ savitā ca viśām pate . ātta-kārmuka-nistriṃśāḥ kṛṣṇa-pārthau abhidrutāḥ ..35..
रुद्राश्च वसवश्चैव मरुतश्च महाबलाः । विश्वेदेवास्तथा साध्या दीप्यमानाः स्वतेजसा ॥३६॥
रुद्राः च वसवः च एव मरुतः च महा-बलाः । विश्वेदेवाः तथा साध्याः दीप्यमानाः स्व-तेजसा ॥३६॥
rudrāḥ ca vasavaḥ ca eva marutaḥ ca mahā-balāḥ . viśvedevāḥ tathā sādhyāḥ dīpyamānāḥ sva-tejasā ..36..
एते चान्ये च बहवो देवास्तौ पुरुषोत्तमौ । कृष्णपार्थौ जिघांसन्तः प्रतीयुर्विविधायुधाः ॥३७॥
एते च अन्ये च बहवः देवाः तौ पुरुष-उत्तमौ । कृष्ण-पार्थौ जिघांसन्तः प्रतीयुः विविध-आयुधाः ॥३७॥
ete ca anye ca bahavaḥ devāḥ tau puruṣa-uttamau . kṛṣṇa-pārthau jighāṃsantaḥ pratīyuḥ vividha-āyudhāḥ ..37..
तत्राद्भुतान्यदृश्यन्त निमित्तानि महाहवे । युगान्तसमरूपाणि भूतोत्सादाय भारत ॥३८॥
तत्र अद्भुतानि अदृश्यन्त निमित्तानि महा-आहवे । युगान्त-सम-रूपाणि भूत-उत्सादाय भारत ॥३८॥
tatra adbhutāni adṛśyanta nimittāni mahā-āhave . yugānta-sama-rūpāṇi bhūta-utsādāya bhārata ..38..
तथा तु दृष्ट्वा संरब्धं शक्रं देवैः सहाच्युतौ । अभीतौ युधि दुर्धर्षौ तस्थतुः सज्जकार्मुकौ ॥३९॥
तथा तु दृष्ट्वा संरब्धम् शक्रम् देवैः सह अच्युतौ । अभीतौ युधि दुर्धर्षौ तस्थतुः सज्ज-कार्मुकौ ॥३९॥
tathā tu dṛṣṭvā saṃrabdham śakram devaiḥ saha acyutau . abhītau yudhi durdharṣau tasthatuḥ sajja-kārmukau ..39..
आगतांश्चैव तान्दृष्ट्वा देवानेकैकशस्ततः । न्यवारयेतां सङ्क्रुद्धौ बाणैर्वज्रोपमैस्तदा ॥४०॥
आगतान् च एव तान् दृष्ट्वा देवान् एक-एकशस् ततस् । न्यवारयेताम् सङ्क्रुद्धौ बाणैः वज्र-उपमैः तदा ॥४०॥
āgatān ca eva tān dṛṣṭvā devān eka-ekaśas tatas . nyavārayetām saṅkruddhau bāṇaiḥ vajra-upamaiḥ tadā ..40..
असकृद्भग्नसङ्कल्पाः सुराश्च बहुशः कृताः । भयाद्रणं परित्यज्य शक्रमेवाभिशिश्रियुः ॥४१॥
असकृत् भग्न-सङ्कल्पाः सुराः च बहुशस् कृताः । भयात् रणम् परित्यज्य शक्रम् एव अभिशिश्रियुः ॥४१॥
asakṛt bhagna-saṅkalpāḥ surāḥ ca bahuśas kṛtāḥ . bhayāt raṇam parityajya śakram eva abhiśiśriyuḥ ..41..
दृष्ट्वा निवारितान्देवान्माधवेनार्जुनेन च । आश्चर्यमगमंस्तत्र मुनयो दिवि विष्ठिताः ॥४२॥
दृष्ट्वा निवारितान् देवान् माधवेन अर्जुनेन च । आश्चर्यम् अगमन् तत्र मुनयः दिवि विष्ठिताः ॥४२॥
dṛṣṭvā nivāritān devān mādhavena arjunena ca . āścaryam agaman tatra munayaḥ divi viṣṭhitāḥ ..42..
शक्रश्चापि तयोर्वीर्यमुपलभ्यासकृद्रणे । बभूव परमप्रीतो भूयश्चैतावयोधयत् ॥४३॥
शक्रः च अपि तयोः वीर्यम् उपलभ्य असकृत् रणे । बभूव परम-प्रीतः भूयस् च एतौ अयोधयत् ॥४३॥
śakraḥ ca api tayoḥ vīryam upalabhya asakṛt raṇe . babhūva parama-prītaḥ bhūyas ca etau ayodhayat ..43..
ततोऽश्मवर्षं सुमहद्व्यसृजत्पाकशासनः । भूय एव तदा वीर्यं जिज्ञासुः सव्यसाचिनः ॥४४॥ ( तच्छरैरर्जुनो वर्षं प्रतिजघ्नेऽत्यमर्षणः ॥४४॥ )
ततस् अश्म-वर्षम् सु महत् व्यसृजत् पाकशासनः । भूयः एव तदा वीर्यम् जिज्ञासुः सव्यसाचिनः ॥४४॥ ( तत् शरैः अर्जुनः वर्षम् प्रतिजघ्ने अत्यमर्षणः ॥४४॥ )
tatas aśma-varṣam su mahat vyasṛjat pākaśāsanaḥ . bhūyaḥ eva tadā vīryam jijñāsuḥ savyasācinaḥ ..44.. ( tat śaraiḥ arjunaḥ varṣam pratijaghne atyamarṣaṇaḥ ..44.. )
विफलं क्रियमाणं तत्सम्प्रेक्ष्य च शतक्रतुः । भूयः संवर्धयामास तद्वर्षं देवराडथ ॥४५॥
विफलम् क्रियमाणम् तत् सम्प्रेक्ष्य च शतक्रतुः । भूयस् संवर्धयामास तत् वर्षम् देवराज् अथ ॥४५॥
viphalam kriyamāṇam tat samprekṣya ca śatakratuḥ . bhūyas saṃvardhayāmāsa tat varṣam devarāj atha ..45..
सोऽश्मवर्षं महावेगैरिषुभिः पाकशासनिः । विलयं गमयामास हर्षयन्पितरं तदा ॥४६॥
सः अश्म-वर्षम् महा-वेगैः इषुभिः पाकशासनः । विलयम् गमयामास हर्षयन् पितरम् तदा ॥४६॥
saḥ aśma-varṣam mahā-vegaiḥ iṣubhiḥ pākaśāsanaḥ . vilayam gamayāmāsa harṣayan pitaram tadā ..46..
समुत्पाट्य तु पाणिभ्यां मन्दराच्छिखरं महत् । सद्रुमं व्यसृजच्छक्रो जिघांसुः पाण्डुनन्दनम् ॥४७॥
समुत्पाट्य तु पाणिभ्याम् मन्दरात् शिखरम् महत् । स द्रुमम् व्यसृजत् शक्रः जिघांसुः पाण्डु-नन्दनम् ॥४७॥
samutpāṭya tu pāṇibhyām mandarāt śikharam mahat . sa drumam vyasṛjat śakraḥ jighāṃsuḥ pāṇḍu-nandanam ..47..
ततोऽर्जुनो वेगवद्भिर्ज्वलिताग्रैरजिह्मगैः । बाणैर्विध्वंसयामास गिरेः शृङ्गं सहस्रधा ॥४८॥
ततस् अर्जुनः वेगवद्भिः ज्वलित-अग्रैः अजिह्मगैः । बाणैः विध्वंसयामास गिरेः शृङ्गम् सहस्रधा ॥४८॥
tatas arjunaḥ vegavadbhiḥ jvalita-agraiḥ ajihmagaiḥ . bāṇaiḥ vidhvaṃsayāmāsa gireḥ śṛṅgam sahasradhā ..48..
गिरेर्विशीर्यमाणस्य तस्य रूपं तदा बभौ । सार्कचन्द्रग्रहस्येव नभसः प्रविशीर्यतः ॥४९॥
गिरेः विशीर्यमाणस्य तस्य रूपम् तदा बभौ । स अर्क-चन्द्र-ग्रहस्य इव नभसः प्रविशीर्यतः ॥४९॥
gireḥ viśīryamāṇasya tasya rūpam tadā babhau . sa arka-candra-grahasya iva nabhasaḥ praviśīryataḥ ..49..
तेनावाक्पतता दावे शैलेन महता भृशम् । भूय एव हतास्तत्र प्राणिनः खाण्डवालयाः ॥५०॥1.226.52
तेन अवाक् पतता दावे शैलेन महता भृशम् । भूयस् एव हताः तत्र प्राणिनः खाण्डव-आलयाः ॥५०॥१।२२६।५२
tena avāk patatā dāve śailena mahatā bhṛśam . bhūyas eva hatāḥ tatra prāṇinaḥ khāṇḍava-ālayāḥ ..50..1.226.52

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In