| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
तथा शैलनिपातेन भीषिताः खाण्डवालयाः । दानवा राक्षसा नागास्तरक्ष्वृक्षवनौकसः ॥१॥ ( द्विपाः प्रभिन्नाः शार्दूलाः सिंहाः केसरिणस्तथा ॥१॥ )
तथा शैल-निपातेन भीषिताः खाण्डव-आलयाः । दानवाः राक्षसाः नागाः तरक्षु-ऋक्ष-वनौकसः ॥१॥ ( द्विपाः प्रभिन्नाः शार्दूलाः सिंहाः केसरिणः तथा ॥१॥ )
tathā śaila-nipātena bhīṣitāḥ khāṇḍava-ālayāḥ . dānavāḥ rākṣasāḥ nāgāḥ tarakṣu-ṛkṣa-vanaukasaḥ ..1.. ( dvipāḥ prabhinnāḥ śārdūlāḥ siṃhāḥ kesariṇaḥ tathā ..1.. )
मृगाश्च महिषाश्चैव शतशः पक्षिणस्तथा । समुद्विग्ना विससृपुस्तथान्या भूतजातयः ॥२॥
मृगाः च महिषाः च एव शतशस् पक्षिणः तथा । समुद्विग्नाः विससृपुः तथा अन्याः भूत-जातयः ॥२॥
mṛgāḥ ca mahiṣāḥ ca eva śataśas pakṣiṇaḥ tathā . samudvignāḥ visasṛpuḥ tathā anyāḥ bhūta-jātayaḥ ..2..
तं दावं समुदीक्षन्तः कृष्णौ चाभ्युद्यतायुधौ । उत्पातनादशब्देन सन्त्रासित इवाभवन् ॥३॥
तम् दावम् समुदीक्षन्तः कृष्णौ च अभ्युद्यत-आयुधौ । उत्पात-नाद-शब्देन इव अभवन् ॥३॥
tam dāvam samudīkṣantaḥ kṛṣṇau ca abhyudyata-āyudhau . utpāta-nāda-śabdena iva abhavan ..3..
स्वतेजोभास्वरं चक्रमुत्ससर्ज जनार्दनः । तेन ता जातयः क्षुद्राः सदानवनिशाचराः ॥४॥ ( निकृत्ताः शतशः सर्वा निपेतुरनलं क्षणात् ॥४॥ )
स्व-तेजः-भास्वरम् चक्रम् उत्ससर्ज जनार्दनः । तेन ताः जातयः क्षुद्राः स दानव-निशाचराः ॥४॥ ( निकृत्ताः शतशस् सर्वाः निपेतुः अनलम् क्षणात् ॥४॥ )
sva-tejaḥ-bhāsvaram cakram utsasarja janārdanaḥ . tena tāḥ jātayaḥ kṣudrāḥ sa dānava-niśācarāḥ ..4.. ( nikṛttāḥ śataśas sarvāḥ nipetuḥ analam kṣaṇāt ..4.. )
अदृश्यन्राक्षसास्तत्र कृष्णचक्रविदारिताः । वसारुधिरसम्पृक्ताः सन्ध्यायामिव तोयदाः ॥५॥
अदृश्यन् राक्षसाः तत्र कृष्ण-चक्र-विदारिताः । वसा-रुधिर-सम्पृक्ताः सन्ध्यायाम् इव तोयदाः ॥५॥
adṛśyan rākṣasāḥ tatra kṛṣṇa-cakra-vidāritāḥ . vasā-rudhira-sampṛktāḥ sandhyāyām iva toyadāḥ ..5..
पिशाचान्पक्षिणो नागान्पशूंश्चापि सहस्रशः । निघ्नंश्चरति वार्ष्णेयः कालवत्तत्र भारत ॥६॥
पिशाचान् पक्षिणः नागान् पशून् च अपि सहस्रशस् । निघ्नन् चरति वार्ष्णेयः काल-वत् तत्र भारत ॥६॥
piśācān pakṣiṇaḥ nāgān paśūn ca api sahasraśas . nighnan carati vārṣṇeyaḥ kāla-vat tatra bhārata ..6..
क्षिप्तं क्षिप्तं हि तच्चक्रं कृष्णस्यामित्रघातिनः । हत्वानेकानि सत्त्वानि पाणिमेति पुनः पुनः ॥७॥
क्षिप्तम् क्षिप्तम् हि तत् चक्रम् कृष्णस्य अमित्र-घातिनः । हत्वा अनेकानि सत्त्वानि पाणिम् एति पुनर् पुनर् ॥७॥
kṣiptam kṣiptam hi tat cakram kṛṣṇasya amitra-ghātinaḥ . hatvā anekāni sattvāni pāṇim eti punar punar ..7..
तथा तु निघ्नतस्तस्य सर्वसत्त्वानि भारत । बभूव रूपमत्युग्रं सर्वभूतात्मनस्तदा ॥८॥
तथा तु निघ्नतः तस्य सर्व-सत्त्वानि भारत । बभूव रूपम् अति उग्रम् सर्व-भूत-आत्मनः तदा ॥८॥
tathā tu nighnataḥ tasya sarva-sattvāni bhārata . babhūva rūpam ati ugram sarva-bhūta-ātmanaḥ tadā ..8..
समेतानां च देवानां दानवानां च सर्वशः । विजेता नाभवत्कश्चित्कृष्णपाण्डवयोर्मृधे ॥९॥
समेतानाम् च देवानाम् दानवानाम् च सर्वशस् । विजेता न अभवत् कश्चिद् कृष्ण-पाण्डवयोः मृधे ॥९॥
sametānām ca devānām dānavānām ca sarvaśas . vijetā na abhavat kaścid kṛṣṇa-pāṇḍavayoḥ mṛdhe ..9..
तयोर्बलात्परित्रातुं तं दावं तु यदा सुराः । नाशक्नुवञ्शमयितुं तदाभूवन्पराङ्मुखाः ॥१०॥
तयोः बलात् परित्रातुम् तम् दावम् तु यदा सुराः । न अशक्नुवन् शमयितुम् तदा अभूवन् पराङ्मुखाः ॥१०॥
tayoḥ balāt paritrātum tam dāvam tu yadā surāḥ . na aśaknuvan śamayitum tadā abhūvan parāṅmukhāḥ ..10..
शतक्रतुश्च सम्प्रेक्ष्य विमुखान्देवतागणान् । बभूवावस्थितः प्रीतः प्रशंसन्कृष्णपाण्डवौ ॥११॥
शतक्रतुः च सम्प्रेक्ष्य विमुखान् देवता-गणान् । बभूव अवस्थितः प्रीतः प्रशंसन् कृष्ण-पाण्डवौ ॥११॥
śatakratuḥ ca samprekṣya vimukhān devatā-gaṇān . babhūva avasthitaḥ prītaḥ praśaṃsan kṛṣṇa-pāṇḍavau ..11..
निवृत्तेषु तु देवेषु वागुवाचाशरीरिणी । शतक्रतुमभिप्रेक्ष्य महागम्भीरनिःस्वना ॥१२॥
निवृत्तेषु तु देवेषु वाच् उवाच अशरीरिणी । शतक्रतुम् अभिप्रेक्ष्य महा-गम्भीर-निःस्वना ॥१२॥
nivṛtteṣu tu deveṣu vāc uvāca aśarīriṇī . śatakratum abhiprekṣya mahā-gambhīra-niḥsvanā ..12..
न ते सखा संनिहितस्तक्षकः पन्नगोत्तमः । दाहकाले खाण्डवस्य कुरुक्षेत्रं गतो ह्यसौ ॥१३॥
न ते सखा संनिहितः तक्षकः पन्नग-उत्तमः । दाह-काले खाण्डवस्य कुरुक्षेत्रम् गतः हि असौ ॥१३॥
na te sakhā saṃnihitaḥ takṣakaḥ pannaga-uttamaḥ . dāha-kāle khāṇḍavasya kurukṣetram gataḥ hi asau ..13..
न च शक्यौ त्वया जेतुं युद्धेऽस्मिन्समवस्थितौ । वासुदेवार्जुनौ शक्र निबोधेदं वचो मम ॥१४॥
न च शक्यौ त्वया जेतुम् युद्धे अस्मिन् समवस्थितौ । वासुदेव-अर्जुनौ शक्र निबोध इदम् वचः मम ॥१४॥
na ca śakyau tvayā jetum yuddhe asmin samavasthitau . vāsudeva-arjunau śakra nibodha idam vacaḥ mama ..14..
नरनारायणौ देवौ तावेतौ विश्रुतौ दिवि । भवानप्यभिजानाति यद्वीर्यौ यत्पराक्रमौ ॥१५॥
नर-नारायणौ देवौ तौ एतौ विश्रुतौ दिवि । भवान् अपि अभिजानाति यद्-वीर्यौ यद्-पराक्रमौ ॥१५॥
nara-nārāyaṇau devau tau etau viśrutau divi . bhavān api abhijānāti yad-vīryau yad-parākramau ..15..
नैतौ शक्यौ दुराधर्षौ विजेतुमजितौ युधि । अपि सर्वेषु लोकेषु पुराणावृषिसत्तमौ ॥१६॥
न एतौ शक्यौ दुराधर्षौ विजेतुम् अजितौ युधि । अपि सर्वेषु लोकेषु पुराणौ ऋषि-सत्तमौ ॥१६॥
na etau śakyau durādharṣau vijetum ajitau yudhi . api sarveṣu lokeṣu purāṇau ṛṣi-sattamau ..16..
पूजनीयतमावेतावपि सर्वैः सुरासुरैः । सयक्षरक्षोगन्धर्वनरकिंनरपन्नगैः ॥१७॥
पूजनीयतमौ एतौ अपि सर्वैः सुर-असुरैः । स यक्ष-रक्षः-गन्धर्व-नर-किंनर-पन्नगैः ॥१७॥
pūjanīyatamau etau api sarvaiḥ sura-asuraiḥ . sa yakṣa-rakṣaḥ-gandharva-nara-kiṃnara-pannagaiḥ ..17..
तस्मादितः सुरैः सार्धं गन्तुमर्हसि वासव । दिष्टं चाप्यनुपश्यैतत्खाण्डवस्य विनाशनम् ॥१८॥
तस्मात् इतस् सुरैः सार्धम् गन्तुम् अर्हसि वासव । दिष्टम् च अपि अनुपश्य एतत् खाण्डवस्य विनाशनम् ॥१८॥
tasmāt itas suraiḥ sārdham gantum arhasi vāsava . diṣṭam ca api anupaśya etat khāṇḍavasya vināśanam ..18..
इति वाचमभिश्रुत्य तथ्यमित्यमरेश्वरः । कोपामर्षौ समुत्सृज्य सम्प्रतस्थे दिवं तदा ॥१९॥
इति वाचम् अभिश्रुत्य तथ्यम् इति अमर-ईश्वरः । कोप-अमर्षौ समुत्सृज्य सम्प्रतस्थे दिवम् तदा ॥१९॥
iti vācam abhiśrutya tathyam iti amara-īśvaraḥ . kopa-amarṣau samutsṛjya sampratasthe divam tadā ..19..
तं प्रस्थितं महात्मानं समवेक्ष्य दिवौकसः । त्वरिताः सहिता राजन्ननुजग्मुः शतक्रतुम् ॥२०॥
तम् प्रस्थितम् महात्मानम् समवेक्ष्य दिवौकसः । त्वरिताः सहिताः राजन् अनुजग्मुः शतक्रतुम् ॥२०॥
tam prasthitam mahātmānam samavekṣya divaukasaḥ . tvaritāḥ sahitāḥ rājan anujagmuḥ śatakratum ..20..
देवराजं तदा यान्तं सह देवैरुदीक्ष्य तु । वासुदेवार्जुनौ वीरौ सिंहनादं विनेदतुः ॥२१॥
देवराजम् तदा यान्तम् सह देवैः उदीक्ष्य तु । वासुदेव-अर्जुनौ वीरौ सिंह-नादम् विनेदतुः ॥२१॥
devarājam tadā yāntam saha devaiḥ udīkṣya tu . vāsudeva-arjunau vīrau siṃha-nādam vinedatuḥ ..21..
देवराजे गते राजन्प्रहृष्टौ कृष्णपाण्डवौ । निर्विशङ्कं पुनर्दावं दाहयामासतुस्तदा ॥२२॥
देवराजे गते राजन् प्रहृष्टौ कृष्ण-पाण्डवौ । निर्विशङ्कम् पुनर् दावम् दाहयामासतुः तदा ॥२२॥
devarāje gate rājan prahṛṣṭau kṛṣṇa-pāṇḍavau . nirviśaṅkam punar dāvam dāhayāmāsatuḥ tadā ..22..
स मारुत इवाभ्राणि नाशयित्वार्जुनः सुरान् । व्यधमच्छरसम्पातैः प्राणिनः खाण्डवालयान् ॥२३॥
स मारुतः इव अभ्राणि नाशयित्वा अर्जुनः सुरान् । व्यधमत् शर-सम्पातैः प्राणिनः खाण्डव-आलयान् ॥२३॥
sa mārutaḥ iva abhrāṇi nāśayitvā arjunaḥ surān . vyadhamat śara-sampātaiḥ prāṇinaḥ khāṇḍava-ālayān ..23..
न च स्म किञ्चिच्छक्नोति भूतं निश्चरितुं ततः । सञ्छिद्यमानमिषुभिरस्यता सव्यसाचिना ॥२४॥
न च स्म किञ्चिद् शक्नोति भूतम् निश्चरितुम् ततस् । सञ्छिद्यमानम् इषुभिः अस्यता सव्यसाचिना ॥२४॥
na ca sma kiñcid śaknoti bhūtam niścaritum tatas . sañchidyamānam iṣubhiḥ asyatā savyasācinā ..24..
नाशकंस्तत्र भूतानि महान्त्यपि रणेऽर्जुनम् । निरीक्षितुममोघेषुं करिष्यन्ति कुतो रणम् ॥२५॥
न अशकन् तत्र भूतानि महान्ति अपि रणे अर्जुनम् । निरीक्षितुम् अमोघ-इषुम् करिष्यन्ति कुतस् रणम् ॥२५॥
na aśakan tatra bhūtāni mahānti api raṇe arjunam . nirīkṣitum amogha-iṣum kariṣyanti kutas raṇam ..25..
शतेनैकं च विव्याध शतं चैकेन पत्रिणा । व्यसवस्तेऽपतन्नग्नौ साक्षात्कालहता इव ॥२६॥
शतेन एकम् च विव्याध शतम् च एकेन पत्रिणा । व्यसवः ते अपतन् अग्नौ साक्षात् काल-हताः इव ॥२६॥
śatena ekam ca vivyādha śatam ca ekena patriṇā . vyasavaḥ te apatan agnau sākṣāt kāla-hatāḥ iva ..26..
न चालभन्त ते शर्म रोधःसु विषमेषु च । पितृदेवनिवासेषु सन्तापश्चाप्यजायत ॥२७॥
न च अलभन्त ते शर्म रोधःसु विषमेषु च । पितृ-देव-निवासेषु सन्तापः च अपि अजायत ॥२७॥
na ca alabhanta te śarma rodhaḥsu viṣameṣu ca . pitṛ-deva-nivāseṣu santāpaḥ ca api ajāyata ..27..
भूतसङ्घसहस्राश्च दीनाश्चक्रुर्महास्वनम् । रुरुवुर्वारणाश्चैव तथैव मृगपक्षिणः ॥२८॥ ( तेन शब्देन वित्रेसुर्गङ्गोदधिचरा झषाः ॥२८॥ )
भूत-सङ्घ-सहस्राः च दीनाः चक्रुः महा-स्वनम् । रुरुवुः वारणाः च एव तथा एव मृग-पक्षिणः ॥२८॥ ( तेन शब्देन वित्रेसुः गङ्गा-उदधि-चराः झषाः ॥२८॥ )
bhūta-saṅgha-sahasrāḥ ca dīnāḥ cakruḥ mahā-svanam . ruruvuḥ vāraṇāḥ ca eva tathā eva mṛga-pakṣiṇaḥ ..28.. ( tena śabdena vitresuḥ gaṅgā-udadhi-carāḥ jhaṣāḥ ..28.. )
न ह्यर्जुनं महाबाहुं नापि कृष्णं महाबलम् । निरीक्षितुं वै शक्नोति कश्चिद्योद्धुं कुतः पुनः ॥२९॥
न हि अर्जुनम् महा-बाहुम् न अपि कृष्णम् महा-बलम् । निरीक्षितुम् वै शक्नोति कश्चिद् योद्धुम् कुतस् पुनर् ॥२९॥
na hi arjunam mahā-bāhum na api kṛṣṇam mahā-balam . nirīkṣitum vai śaknoti kaścid yoddhum kutas punar ..29..
एकायनगता येऽपि निष्पतन्त्यत्र केचन । राक्षसान्दानवान्नागाञ्जघ्ने चक्रेण तान्हरिः ॥३०॥
एकायन-गताः ये अपि निष्पतन्ति अत्र केचन । राक्षसान् दानवान् नागान् जघ्ने चक्रेण तान् हरिः ॥३०॥
ekāyana-gatāḥ ye api niṣpatanti atra kecana . rākṣasān dānavān nāgān jaghne cakreṇa tān hariḥ ..30..
ते विभिन्नशिरोदेहाश्चक्रवेगाद्गतासवः । पेतुरास्ये महाकाया दीप्तस्य वसुरेतसः ॥३१॥
ते विभिन्न-शिरः-देहाः चक्र-वेगात् गतासवः । पेतुः आस्ये महा-कायाः दीप्तस्य वसुरेतसः ॥३१॥
te vibhinna-śiraḥ-dehāḥ cakra-vegāt gatāsavaḥ . petuḥ āsye mahā-kāyāḥ dīptasya vasuretasaḥ ..31..
स मांसरुधिरौघैश्च मेदौघैश्च समीरितः । उपर्याकाशगो वह्निर्विधूमः समदृश्यत ॥३२॥
स मांस-रुधिर-ओघैः च मेदा-ओघैः च समीरितः । उपरि आकाश-गः वह्निः विधूमः समदृश्यत ॥३२॥
sa māṃsa-rudhira-oghaiḥ ca medā-oghaiḥ ca samīritaḥ . upari ākāśa-gaḥ vahniḥ vidhūmaḥ samadṛśyata ..32..
दीप्ताक्षो दीप्तजिह्वश्च दीप्तव्यात्तमहाननः । दीप्तोर्ध्वकेशः पिङ्गाक्षः पिबन्प्राणभृतां वसाम् ॥३३॥
दीप्त-अक्षः दीप्त-जिह्वः च दीप्त-व्यात्त-महा-आननः । दीप्त-ऊर्ध्व-केशः पिङ्ग-अक्षः पिबन् प्राणभृताम् वसाम् ॥३३॥
dīpta-akṣaḥ dīpta-jihvaḥ ca dīpta-vyātta-mahā-ānanaḥ . dīpta-ūrdhva-keśaḥ piṅga-akṣaḥ piban prāṇabhṛtām vasām ..33..
तां स कृष्णार्जुनकृतां सुधां प्राप्य हुताशनः । बभूव मुदितस्तृप्तः परां निर्वृतिमागतः ॥३४॥
ताम् स कृष्ण-अर्जुन-कृताम् सुधाम् प्राप्य हुताशनः । बभूव मुदितः तृप्तः पराम् निर्वृतिम् आगतः ॥३४॥
tām sa kṛṣṇa-arjuna-kṛtām sudhām prāpya hutāśanaḥ . babhūva muditaḥ tṛptaḥ parām nirvṛtim āgataḥ ..34..
अथासुरं मयं नाम तक्षकस्य निवेशनात् । विप्रद्रवन्तं सहसा ददर्श मधुसूदनः ॥३५॥
अथ असुरम् मयम् नाम तक्षकस्य निवेशनात् । विप्रद्रवन्तम् सहसा ददर्श मधुसूदनः ॥३५॥
atha asuram mayam nāma takṣakasya niveśanāt . vipradravantam sahasā dadarśa madhusūdanaḥ ..35..
तमग्निः प्रार्थयामास दिधक्षुर्वातसारथिः । देहवान्वै जटी भूत्वा नदंश्च जलदो यथा ॥३६॥ ( जिघांसुर्वासुदेवश्च चक्रमुद्यम्य विष्ठितः ॥३६॥ )
तम् अग्निः प्रार्थयामास दिधक्षुः वातसारथिः । देहवान् वै जटी भूत्वा नदन् च जलदः यथा ॥३६॥ ( जिघांसुः वासुदेवः च चक्रम् उद्यम्य विष्ठितः ॥३६॥ )
tam agniḥ prārthayāmāsa didhakṣuḥ vātasārathiḥ . dehavān vai jaṭī bhūtvā nadan ca jaladaḥ yathā ..36.. ( jighāṃsuḥ vāsudevaḥ ca cakram udyamya viṣṭhitaḥ ..36.. )
स चक्रमुद्यतं दृष्ट्वा दिधक्षुं च हुताशनम् । अभिधावार्जुनेत्येवं मयश्चुक्रोश भारत ॥३७॥
स चक्रम् उद्यतम् दृष्ट्वा दिधक्षुम् च हुताशनम् । अभिधाव अर्जुन इति एवम् मयः चुक्रोश भारत ॥३७॥
sa cakram udyatam dṛṣṭvā didhakṣum ca hutāśanam . abhidhāva arjuna iti evam mayaḥ cukrośa bhārata ..37..
तस्य भीतस्वनं श्रुत्वा मा भैरिति धनञ्जयः । प्रत्युवाच मयं पार्थो जीवयन्निव भारत ॥३८॥
तस्य भीत-स्वनम् श्रुत्वा मा भैः इति धनञ्जयः । प्रत्युवाच मयम् पार्थः जीवयन् इव भारत ॥३८॥
tasya bhīta-svanam śrutvā mā bhaiḥ iti dhanañjayaḥ . pratyuvāca mayam pārthaḥ jīvayan iva bhārata ..38..
तं पार्थेनाभये दत्ते नमुचेर्भ्रातरं मयम् । न हन्तुमैच्छद्दाशार्हः पावको न ददाह च ॥३९॥
तम् पार्थेन अभये दत्ते नमुचेः भ्रातरम् मयम् । न हन्तुम् ऐच्छत् दाशार्हः पावकः न ददाह च ॥३९॥
tam pārthena abhaye datte namuceḥ bhrātaram mayam . na hantum aicchat dāśārhaḥ pāvakaḥ na dadāha ca ..39..
तस्मिन्वने दह्यमाने षडग्निर्न ददाह च । अश्वसेनं मयं चापि चतुरः शार्ङ्गकानिति ॥४०॥1.227.47
तस्मिन् वने दह्यमाने षष्-अग्निः न ददाह च । अश्वसेनम् मयम् च अपि चतुरः शार्ङ्गकान् इति ॥४०॥१।२२७।४७
tasmin vane dahyamāne ṣaṣ-agniḥ na dadāha ca . aśvasenam mayam ca api caturaḥ śārṅgakān iti ..40..1.227.47

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In