| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

जनमेजय उवाच॥
किमर्थं शार्ङ्गकानग्निर्न ददाह तथागते । तस्मिन्वने दह्यमाने ब्रह्मन्नेतद्वदाशु मे ॥१॥
किमर्थम् शार्ङ्गकान् अग्निः न ददाह तथागते । तस्मिन् वने दह्यमाने ब्रह्मन् एतत् वद आशु मे ॥१॥
kimartham śārṅgakān agniḥ na dadāha tathāgate . tasmin vane dahyamāne brahman etat vada āśu me ..1..
अदाहे ह्यश्वसेनस्य दानवस्य मयस्य च । कारणं कीर्तितं ब्रह्मञ्शार्ङ्गकानां न कीर्तितम् ॥२॥
अदाहे हि अश्वसेनस्य दानवस्य मयस्य च । कारणम् कीर्तितम् ब्रह्मन् शार्ङ्गकानाम् न कीर्तितम् ॥२॥
adāhe hi aśvasenasya dānavasya mayasya ca . kāraṇam kīrtitam brahman śārṅgakānām na kīrtitam ..2..
तदेतदद्भुतं ब्रह्मञ्शार्ङ्गानामविनाशनम् । कीर्तयस्वाग्निसंमर्दे कथं ते न विनाशिताः ॥३॥
तत् एतत् अद्भुतम् ब्रह्मन् शार्ङ्गानाम् अविनाशनम् । कीर्तयस्व अग्नि-संमर्दे कथम् ते न विनाशिताः ॥३॥
tat etat adbhutam brahman śārṅgānām avināśanam . kīrtayasva agni-saṃmarde katham te na vināśitāḥ ..3..
वैशम्पायन उवाच॥
यदर्थं शार्ङ्गकानग्निर्न ददाह तथागते । तत्ते सर्वं यथावृत्तं कथयिष्यामि भारत ॥४॥
यद्-अर्थम् शार्ङ्गकान् अग्निः न ददाह तथागते । तत् ते सर्वम् यथावृत्तम् कथयिष्यामि भारत ॥४॥
yad-artham śārṅgakān agniḥ na dadāha tathāgate . tat te sarvam yathāvṛttam kathayiṣyāmi bhārata ..4..
धर्मज्ञानां मुख्यतमस्तपस्वी संशितव्रतः । आसीन्महर्षिः श्रुतवान्मन्दपाल इति श्रुतः ॥५॥
धर्म-ज्ञानाम् मुख्यतमः तपस्वी संशित-व्रतः । आसीत् महा-ऋषिः श्रुतवान् मन्दपालः इति श्रुतः ॥५॥
dharma-jñānām mukhyatamaḥ tapasvī saṃśita-vrataḥ . āsīt mahā-ṛṣiḥ śrutavān mandapālaḥ iti śrutaḥ ..5..
स मार्गमास्थितो राजन्नृषीणामूर्ध्वरेतसाम् । स्वाध्यायवान्धर्मरतस्तपस्वी विजितेन्द्रियः ॥६॥
स मार्गम् आस्थितः राजन् ऋषीणाम् ऊर्ध्वरेतसाम् । स्वाध्यायवान् धर्म-रतः तपस्वी विजित-इन्द्रियः ॥६॥
sa mārgam āsthitaḥ rājan ṛṣīṇām ūrdhvaretasām . svādhyāyavān dharma-rataḥ tapasvī vijita-indriyaḥ ..6..
स गत्वा तपसः पारं देहमुत्सृज्य भारत । जगाम पितृलोकाय न लेभे तत्र तत्फलम् ॥७॥
स गत्वा तपसः पारम् देहम् उत्सृज्य भारत । जगाम पितृ-लोकाय न लेभे तत्र तत् फलम् ॥७॥
sa gatvā tapasaḥ pāram deham utsṛjya bhārata . jagāma pitṛ-lokāya na lebhe tatra tat phalam ..7..
स लोकानफलान्दृष्ट्वा तपसा निर्जितानपि । पप्रच्छ धर्मराजस्य समीपस्थान्दिवौकसः ॥८॥
स लोकान् अफलान् दृष्ट्वा तपसा निर्जितान् अपि । पप्रच्छ धर्मराजस्य समीप-स्थान् दिवौकसः ॥८॥
sa lokān aphalān dṛṣṭvā tapasā nirjitān api . papraccha dharmarājasya samīpa-sthān divaukasaḥ ..8..
किमर्थमावृता लोका ममैते तपसार्जिताः । किं मया न कृतं तत्र यस्येदं कर्मणः फलम् ॥९॥
किमर्थम् आवृताः लोकाः मम एते तपसा अर्जिताः । किम् मया न कृतम् तत्र यस्य इदम् कर्मणः फलम् ॥९॥
kimartham āvṛtāḥ lokāḥ mama ete tapasā arjitāḥ . kim mayā na kṛtam tatra yasya idam karmaṇaḥ phalam ..9..
तत्राहं तत्करिष्यामि यदर्थमिदमावृतम् । फलमेतस्य तपसः कथयध्वं दिवौकसः ॥१०॥
तत्र अहम् तत् करिष्यामि यद्-अर्थम् इदम् आवृतम् । फलम् एतस्य तपसः कथयध्वम् दिवौकसः ॥१०॥
tatra aham tat kariṣyāmi yad-artham idam āvṛtam . phalam etasya tapasaḥ kathayadhvam divaukasaḥ ..10..
देवा ऊचुः॥
ऋणिनो मानवा ब्रह्मञ्जायन्ते येन तच्छृणु । क्रियाभिर्ब्रह्मचर्येण प्रजया च न संशयः ॥११॥
ऋणिनः मानवाः ब्रह्मन् जायन्ते येन तत् शृणु । क्रियाभिः ब्रह्मचर्येण प्रजया च न संशयः ॥११॥
ṛṇinaḥ mānavāḥ brahman jāyante yena tat śṛṇu . kriyābhiḥ brahmacaryeṇa prajayā ca na saṃśayaḥ ..11..
तदपाक्रियते सर्वं यज्ञेन तपसा सुतैः । तपस्वी यज्ञकृच्चासि न तु ते विद्यते प्रजा ॥१२॥
तत् अपाक्रियते सर्वम् यज्ञेन तपसा सुतैः । तपस्वी यज्ञ-कृत् च असि न तु ते विद्यते प्रजा ॥१२॥
tat apākriyate sarvam yajñena tapasā sutaiḥ . tapasvī yajña-kṛt ca asi na tu te vidyate prajā ..12..
त इमे प्रसवस्यार्थे तव लोकाः समावृताः । प्रजायस्व ततो लोकानुपभोक्तासि शाश्वतान् ॥१३॥
ते इमे प्रसवस्य अर्थे तव लोकाः समावृताः । प्रजायस्व ततस् लोकान् उपभोक्तासि शाश्वतान् ॥१३॥
te ime prasavasya arthe tava lokāḥ samāvṛtāḥ . prajāyasva tatas lokān upabhoktāsi śāśvatān ..13..
पुन्नाम्नो नरकात्पुत्रस्त्रातीति पितरं मुने । तस्मादपत्यसन्ताने यतस्व द्विजसत्तम ॥१४॥
पुत्-नाम्नः नरकात् पुत्रः त्राति इति पितरम् मुने । तस्मात् अपत्य-सन्ताने यतस्व द्विजसत्तम ॥१४॥
put-nāmnaḥ narakāt putraḥ trāti iti pitaram mune . tasmāt apatya-santāne yatasva dvijasattama ..14..
वैशम्पायन उवाच॥
तच्छ्रुत्वा मन्दपालस्तु तेषां वाक्यं दिवौकसाम् । क्व नु शीघ्रमपत्यं स्याद्बहुलं चेत्यचिन्तयत् ॥१५॥
तत् श्रुत्वा मन्दपालः तु तेषाम् वाक्यम् दिवौकसाम् । क्व नु शीघ्रम् अपत्यम् स्यात् बहुलम् च इति अचिन्तयत् ॥१५॥
tat śrutvā mandapālaḥ tu teṣām vākyam divaukasām . kva nu śīghram apatyam syāt bahulam ca iti acintayat ..15..
स चिन्तयन्नभ्यगच्छद्बहुलप्रसवान्खगान् । शार्ङ्गिकां शार्ङ्गको भूत्वा जरितां समुपेयिवान् ॥१६॥
स चिन्तयन् अभ्यगच्छत् बहुल-प्रसवान् खगान् । शार्ङ्गिकाम् शार्ङ्गकः भूत्वा जरिताम् समुपेयिवान् ॥१६॥
sa cintayan abhyagacchat bahula-prasavān khagān . śārṅgikām śārṅgakaḥ bhūtvā jaritām samupeyivān ..16..
तस्यां पुत्रानजनयच्चतुरो ब्रह्मवादिनः । तानपास्य स तत्रैव जगाम लपितां प्रति ॥१७॥ ( बालान्सुतानण्डगतान्मात्रा सह मुनिर्वने ॥१७॥)
तस्याम् पुत्रान् अजनयत् चतुरः ब्रह्म-वादिनः । तान् अपास्य स तत्र एव जगाम लपिताम् प्रति ॥१७॥ ( बालान् सुतान् अण्ड-गतान् मात्रा सह मुनिः वने ॥१७॥)
tasyām putrān ajanayat caturaḥ brahma-vādinaḥ . tān apāsya sa tatra eva jagāma lapitām prati ..17.. ( bālān sutān aṇḍa-gatān mātrā saha muniḥ vane ..17..)
तस्मिन्गते महाभागे लपितां प्रति भारत । अपत्यस्नेहसंविग्ना जरिता बह्वचिन्तयत् ॥१८॥
तस्मिन् गते महाभागे लपिताम् प्रति भारत । अपत्य-स्नेह-संविग्ना जरिता बहु अचिन्तयत् ॥१८॥
tasmin gate mahābhāge lapitām prati bhārata . apatya-sneha-saṃvignā jaritā bahu acintayat ..18..
तेन त्यक्तानसन्त्याज्यानृषीनण्डगतान्वने । नाजहत्पुत्रकानार्ता जरिता खाण्डवे नृप ॥१९॥ ( बभार चैतान्सञ्जातान्स्ववृत्त्या स्नेहविक्लवा ॥१९॥ )
तेन त्यक्तान् असत्-त्याज्यान् ऋषीन् अण्ड-गतान् वने । न अजहत् पुत्रका अन् आर्ता जरिता खाण्डवे नृप ॥१९॥ ( बभार च एतान् सञ्जातान् स्व-वृत्त्या स्नेह-विक्लवा ॥१९॥ )
tena tyaktān asat-tyājyān ṛṣīn aṇḍa-gatān vane . na ajahat putrakā an ārtā jaritā khāṇḍave nṛpa ..19.. ( babhāra ca etān sañjātān sva-vṛttyā sneha-viklavā ..19.. )
ततोऽग्निं खाण्डवं दग्धुमायान्तं दृष्टवानृषिः । मन्दपालश्चरंस्तस्मिन्वने लपितया सह ॥२०॥
ततस् अग्निम् खाण्डवम् दग्धुम् आयान्तम् दृष्टवान् ऋषिः । मन्दपालः चरन् तस्मिन् वने लपितया सह ॥२०॥
tatas agnim khāṇḍavam dagdhum āyāntam dṛṣṭavān ṛṣiḥ . mandapālaḥ caran tasmin vane lapitayā saha ..20..
तं सङ्कल्पं विदित्वास्य ज्ञात्वा पुत्रांश्च बालकान् । सोऽभितुष्टाव विप्रर्षिर्ब्राह्मणो जातवेदसम् ॥२१॥ ( पुत्रान्परिददद्भीतो लोकपालं महौजसम् ॥२१॥ )
तम् सङ्कल्पम् विदित्वा अस्य ज्ञात्वा पुत्रान् च बालकान् । सः अभितुष्टाव विप्रर्षिः ब्राह्मणः जातवेदसम् ॥२१॥ ( पुत्रान् परिददत् भीतः लोकपालम् महा-ओजसम् ॥२१॥ )
tam saṅkalpam viditvā asya jñātvā putrān ca bālakān . saḥ abhituṣṭāva viprarṣiḥ brāhmaṇaḥ jātavedasam ..21.. ( putrān paridadat bhītaḥ lokapālam mahā-ojasam ..21.. )
मन्दपाल उवाच॥
त्वमग्ने सर्वदेवानां मुखं त्वमसि हव्यवाट् । त्वमन्तः सर्वभूतानां गूढश्चरसि पावक ॥२२॥
त्वम् अग्ने सर्व-देवानाम् मुखम् त्वम् असि हव्यवाट् । त्वम् अन्तर् सर्व-भूतानाम् गूढः चरसि पावक ॥२२॥
tvam agne sarva-devānām mukham tvam asi havyavāṭ . tvam antar sarva-bhūtānām gūḍhaḥ carasi pāvaka ..22..
त्वामेकमाहुः कवयस्त्वामाहुस्त्रिविधं पुनः । त्वामष्टधा कल्पयित्वा यज्ञवाहमकल्पयन् ॥२३॥
त्वाम् एकम् आहुः कवयः त्वाम् आहुः त्रिविधम् पुनर् । त्वाम् अष्टधा कल्पयित्वा यज्ञवाहम् अकल्पयन् ॥२३॥
tvām ekam āhuḥ kavayaḥ tvām āhuḥ trividham punar . tvām aṣṭadhā kalpayitvā yajñavāham akalpayan ..23..
त्वया सृष्टमिदं विश्वं वदन्ति परमर्षयः । त्वदृते हि जगत्कृत्स्नं सद्यो न स्याद्धुताशन ॥२४॥
त्वया सृष्टम् इदम् विश्वम् वदन्ति परम-ऋषयः । त्वत् ऋते हि जगत् कृत्स्नम् सद्यस् न स्यात् हुताशन ॥२४॥
tvayā sṛṣṭam idam viśvam vadanti parama-ṛṣayaḥ . tvat ṛte hi jagat kṛtsnam sadyas na syāt hutāśana ..24..
तुभ्यं कृत्वा नमो विप्राः स्वकर्मविजितां गतिम् । गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम् ॥२५॥
तुभ्यम् कृत्वा नमः विप्राः स्व-कर्म-विजिताम् गतिम् । गच्छन्ति सह पत्नीभिः सुतैः अपि च शाश्वतीम् ॥२५॥
tubhyam kṛtvā namaḥ viprāḥ sva-karma-vijitām gatim . gacchanti saha patnībhiḥ sutaiḥ api ca śāśvatīm ..25..
त्वामग्ने जलदानाहुः खे विषक्तान्सविद्युतः । दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हायनाः ॥२६॥
त्वाम् अग्ने जलदान् आहुः खे विषक्तान् स विद्युतः । दहन्ति सर्व-भूतानि त्वत्तः निष्क्रम्य हायनाः ॥२६॥
tvām agne jaladān āhuḥ khe viṣaktān sa vidyutaḥ . dahanti sarva-bhūtāni tvattaḥ niṣkramya hāyanāḥ ..26..
जातवेदस्तवैवेयं विश्वसृष्टिर्महाद्युते । तवैव कर्म विहितं भूतं सर्वं चराचरम् ॥२७॥
जातवेदः तव एव इयम् विश्व-सृष्टिः महा-द्युते । तव एव कर्म विहितम् भूतम् सर्वम् चराचरम् ॥२७॥
jātavedaḥ tava eva iyam viśva-sṛṣṭiḥ mahā-dyute . tava eva karma vihitam bhūtam sarvam carācaram ..27..
त्वयापो विहिताः पूर्वं त्वयि सर्वमिदं जगत् । त्वयि हव्यं च कव्यं च यथावत्सम्प्रतिष्ठितम् ॥२८॥
त्वया अपः विहिताः पूर्वम् त्वयि सर्वम् इदम् जगत् । त्वयि हव्यम् च कव्यम् च यथावत् सम्प्रतिष्ठितम् ॥२८॥
tvayā apaḥ vihitāḥ pūrvam tvayi sarvam idam jagat . tvayi havyam ca kavyam ca yathāvat sampratiṣṭhitam ..28..
अग्ने त्वमेव ज्वलनस्त्वं धाता त्वं बृहस्पतिः । त्वमश्विनौ यमौ मित्रः सोमस्त्वमसि चानिलः ॥२९॥
अग्ने त्वम् एव ज्वलनः त्वम् धाता त्वम् बृहस्पतिः । त्वम् अश्विनौ यमौ मित्रः सोमः त्वम् असि च अनिलः ॥२९॥
agne tvam eva jvalanaḥ tvam dhātā tvam bṛhaspatiḥ . tvam aśvinau yamau mitraḥ somaḥ tvam asi ca anilaḥ ..29..
वैशम्पायन उवाच॥
एवं स्तुतस्ततस्तेन मन्दपालेन पावकः । तुतोष तस्य नृपते मुनेरमिततेजसः ॥३०॥ ( उवाच चैनं प्रीतात्मा किमिष्टं करवाणि ते ॥३०॥ )
एवम् स्तुतः ततस् तेन मन्दपालेन पावकः । तुतोष तस्य नृपते मुनेः अमित-तेजसः ॥३०॥ ( उवाच च एनम् प्रीत-आत्मा किम् इष्टम् करवाणि ते ॥३०॥ )
evam stutaḥ tatas tena mandapālena pāvakaḥ . tutoṣa tasya nṛpate muneḥ amita-tejasaḥ ..30.. ( uvāca ca enam prīta-ātmā kim iṣṭam karavāṇi te ..30.. )
तमब्रवीन्मन्दपालः प्राञ्जलिर्हव्यवाहनम् । प्रदहन्खाण्डवं दावं मम पुत्रान्विसर्जय ॥३१॥
तम् अब्रवीत् मन्दपालः प्राञ्जलिः हव्यवाहनम् । प्रदहन् खाण्डवम् दावम् मम पुत्रान् विसर्जय ॥३१॥
tam abravīt mandapālaḥ prāñjaliḥ havyavāhanam . pradahan khāṇḍavam dāvam mama putrān visarjaya ..31..
तथेति तत्प्रतिश्रुत्य भगवान्हव्यवाहनः । खाण्डवे तेन कालेन प्रजज्वाल दिधक्षया ॥३२॥1.228.34
तथा इति तत् प्रतिश्रुत्य भगवान् हव्यवाहनः । खाण्डवे तेन कालेन प्रजज्वाल दिधक्षया ॥३२॥१।२२८।३४
tathā iti tat pratiśrutya bhagavān havyavāhanaḥ . khāṇḍave tena kālena prajajvāla didhakṣayā ..32..1.228.34

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In