| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
ततः प्रज्वलिते शुक्रे शार्ङ्गकास्ते सुदुःखिताः । व्यथिताः परमोद्विग्ना नाधिजग्मुः परायणम् ॥१॥
ततस् प्रज्वलिते शुक्रे शार्ङ्गकाः ते सु दुःखिताः । व्यथिताः परम-उद्विग्नाः न अधिजग्मुः परायणम् ॥१॥
tatas prajvalite śukre śārṅgakāḥ te su duḥkhitāḥ . vyathitāḥ parama-udvignāḥ na adhijagmuḥ parāyaṇam ..1..
निशाम्य पुत्रकान्बालान्माता तेषां तपस्विनी । जरिता दुःखसन्तप्ता विललाप नरेश्वर ॥२॥
निशाम्य पुत्रकान् बालान् माता तेषाम् तपस्विनी । जरिता दुःख-सन्तप्ता विललाप नरेश्वर ॥२॥
niśāmya putrakān bālān mātā teṣām tapasvinī . jaritā duḥkha-santaptā vilalāpa nareśvara ..2..
अयमग्निर्दहन्कक्षमित आयाति भीषणः । जगत्संदीपयन्भीमो मम दुःखविवर्धनः ॥३॥
अयम् अग्निः दहन् कक्ष-मितः आयाति भीषणः । जगत् संदीपयन् भीमः मम दुःख-विवर्धनः ॥३॥
ayam agniḥ dahan kakṣa-mitaḥ āyāti bhīṣaṇaḥ . jagat saṃdīpayan bhīmaḥ mama duḥkha-vivardhanaḥ ..3..
इमे च मां कर्षयन्ति शिशवो मन्दचेतसः । अबर्हाश्चरणैर्हीनाः पूर्वेषां नः परायणम् ॥४॥ ( त्रासयंश्चायमायाति लेलिहानो महीरुहान् ॥४॥ )
इमे च माम् कर्षयन्ति शिशवः मन्द-चेतसः । अबर्हाः चरणैः हीनाः पूर्वेषाम् नः परायणम् ॥४॥ ( त्रासयन् च अयम् आयाति लेलिहानः महीरुहान् ॥४॥ )
ime ca mām karṣayanti śiśavaḥ manda-cetasaḥ . abarhāḥ caraṇaiḥ hīnāḥ pūrveṣām naḥ parāyaṇam ..4.. ( trāsayan ca ayam āyāti lelihānaḥ mahīruhān ..4.. )
अशक्तिमत्त्वाच्च सुता न शक्ताः सरणे मम । आदाय च न शक्तास्मि पुत्रान्सरितुमन्यतः ॥५॥
अशक्तिमत्-त्वात् च सुताः न शक्ताः सरणे मम । आदाय च न शक्ता अस्मि पुत्रान् सरितुम् अन्यतस् ॥५॥
aśaktimat-tvāt ca sutāḥ na śaktāḥ saraṇe mama . ādāya ca na śaktā asmi putrān saritum anyatas ..5..
न च त्यक्तुमहं शक्ता हृदयं दूयतीव मे । कं नु जह्यामहं पुत्रं कमादाय व्रजाम्यहम् ॥६॥
न च त्यक्तुम् अहम् शक्ता हृदयम् दूयति इव मे । कम् नु जह्याम् अहम् पुत्रम् कम् आदाय व्रजामि अहम् ॥६॥
na ca tyaktum aham śaktā hṛdayam dūyati iva me . kam nu jahyām aham putram kam ādāya vrajāmi aham ..6..
किं नु मे स्यात्कृतं कृत्वा मन्यध्वं पुत्रकाः कथम् । चिन्तयाना विमोक्षं वो नाधिगच्छामि किञ्चन ॥७॥ ( छादयित्वा च वो गात्रैः करिष्ये मरणं सह ॥७॥ )
किम् नु मे स्यात् कृतम् कृत्वा मन्यध्वम् पुत्रकाः कथम् । चिन्तयाना विमोक्षम् वः न अधिगच्छामि किञ्चन ॥७॥ ( छादयित्वा च वः गात्रैः करिष्ये मरणम् सह ॥७॥ )
kim nu me syāt kṛtam kṛtvā manyadhvam putrakāḥ katham . cintayānā vimokṣam vaḥ na adhigacchāmi kiñcana ..7.. ( chādayitvā ca vaḥ gātraiḥ kariṣye maraṇam saha ..7.. )
जरितारौ कुलं हीदं ज्येष्ठत्वेन प्रतिष्ठितम् । सारिसृक्वः प्रजायेत पितृणां कुलवर्धनः ॥८॥
जरितारौ कुलम् हि इदम् ज्येष्ठ-त्वेन प्रतिष्ठितम् । सारिसृक्वः प्रजायेत पितृणाम् कुल-वर्धनः ॥८॥
jaritārau kulam hi idam jyeṣṭha-tvena pratiṣṭhitam . sārisṛkvaḥ prajāyeta pitṛṇām kula-vardhanaḥ ..8..
स्तम्बमित्रस्तपः कुर्याद्द्रोणो ब्रह्मविदुत्तमः । इत्येवमुक्त्वा प्रययौ पिता वो निर्घृणः पुरा ॥९॥
स्तम्बमित्रः तपः कुर्यात् द्रोणः ब्रह्म-विद् उत्तमः । इति एवम् उक्त्वा प्रययौ पिता वः निर्घृणः पुरा ॥९॥
stambamitraḥ tapaḥ kuryāt droṇaḥ brahma-vid uttamaḥ . iti evam uktvā prayayau pitā vaḥ nirghṛṇaḥ purā ..9..
कमुपादाय शक्येत गन्तुं कस्यापदुत्तमा । किं नु कृत्वा कृतं कार्यं भवेदिति च विह्वला ॥१०॥
कम् उपादाय शक्येत गन्तुम् कस्य आपद् उत्तमा । किम् नु कृत्वा कृतम् कार्यम् भवेत् इति च विह्वला ॥१०॥
kam upādāya śakyeta gantum kasya āpad uttamā . kim nu kṛtvā kṛtam kāryam bhavet iti ca vihvalā ..10..
नापश्यत्स्वधिया मोक्षं स्वसुतानां तदानलात् । एवं ब्रुवन्तीं शार्ङ्गास्ते प्रत्यूचुरथ मातरम् ॥११॥
न अपश्यत् स्व-धिया मोक्षम् स्व-सुतानाम् तदा अनलात् । एवम् ब्रुवन्तीम् शार्ङ्गाः ते प्रत्यूचुः अथ मातरम् ॥११॥
na apaśyat sva-dhiyā mokṣam sva-sutānām tadā analāt . evam bruvantīm śārṅgāḥ te pratyūcuḥ atha mātaram ..11..
स्नेहमुत्सृज्य मातस्त्वं पत यत्र न हव्यवाट् । अस्मासु हि विनष्टेषु भवितारः सुतास्तव ॥१२॥ ( त्वयि मातर्विनष्टायां न नः स्यात्कुलसन्ततिः ॥१२॥ )
स्नेहम् उत्सृज्य मातर् त्वम् पत यत्र न हव्यवाट् । अस्मासु हि विनष्टेषु भवितारः सुताः तव ॥१२॥ ( त्वयि मातर् विनष्टायाम् न नः स्यात् कुल-सन्ततिः ॥१२॥ )
sneham utsṛjya mātar tvam pata yatra na havyavāṭ . asmāsu hi vinaṣṭeṣu bhavitāraḥ sutāḥ tava ..12.. ( tvayi mātar vinaṣṭāyām na naḥ syāt kula-santatiḥ ..12.. )
अन्ववेक्ष्यैतदुभयं क्षमं स्याद्यत्कुलस्य नः । तद्वै कर्तुं परः कालो मातरेष भवेत्तव ॥१३॥
अन्ववेक्ष्य एतत् उभयम् क्षमम् स्यात् यत् कुलस्य नः । तत् वै कर्तुम् परः कालः मातर् एष भवेत् तव ॥१३॥
anvavekṣya etat ubhayam kṣamam syāt yat kulasya naḥ . tat vai kartum paraḥ kālaḥ mātar eṣa bhavet tava ..13..
मा वै कुलविनाशाय स्नेहं कार्षीः सुतेषु नः । न हीदं कर्म मोघं स्याल्लोककामस्य नः पितुः ॥१४॥
मा वै कुल-विनाशाय स्नेहम् कार्षीः सुतेषु नः । न हि इदम् कर्म मोघम् स्यात् लोक-कामस्य नः पितुः ॥१४॥
mā vai kula-vināśāya sneham kārṣīḥ suteṣu naḥ . na hi idam karma mogham syāt loka-kāmasya naḥ pituḥ ..14..
जरितोवाच॥
इदमाखोर्बिलं भूमौ वृक्षस्यास्य समीपतः । तदाविशध्वं त्वरिता वह्नेरत्र न वो भयम् ॥१५॥
इदम् आखोः बिलम् भूमौ वृक्षस्य अस्य समीपतस् । तत् आविशध्वम् त्वरिताः वह्नेः अत्र न वः भयम् ॥१५॥
idam ākhoḥ bilam bhūmau vṛkṣasya asya samīpatas . tat āviśadhvam tvaritāḥ vahneḥ atra na vaḥ bhayam ..15..
ततोऽहं पांसुना छिद्रमपिधास्यामि पुत्रकाः । एवं प्रतिकृतं मन्ये ज्वलतः कृष्णवर्त्मनः ॥१६॥
ततस् अहम् पांसुना छिद्रम् अपिधास्यामि पुत्रकाः । एवम् प्रतिकृतम् मन्ये ज्वलतः कृष्णवर्त्मनः ॥१६॥
tatas aham pāṃsunā chidram apidhāsyāmi putrakāḥ . evam pratikṛtam manye jvalataḥ kṛṣṇavartmanaḥ ..16..
तत एष्याम्यतीतेऽग्नौ विहर्तुं पांसुसञ्चयम् । रोचतामेष वोपायो विमोक्षाय हुताशनात् ॥१७॥
ततस् एष्यामि अतीते अग्नौ विहर्तुम् पांसु-सञ्चयम् । रोचताम् एष वा उपायः विमोक्षाय हुताशनात् ॥१७॥
tatas eṣyāmi atīte agnau vihartum pāṃsu-sañcayam . rocatām eṣa vā upāyaḥ vimokṣāya hutāśanāt ..17..
शार्ङ्गका ऊचुः॥
अबर्हान्मांसभूतान्नः क्रव्यादाखुर्विनाशयेत् । पश्यमाना भयमिदं न शक्ष्यामो निषेवितुम् ॥१८॥
अबर्हान् मांस-भूतान् नः क्रव्याद-आखुः विनाशयेत् । पश्यमानाः भयम् इदम् न शक्ष्यामः निषेवितुम् ॥१८॥
abarhān māṃsa-bhūtān naḥ kravyāda-ākhuḥ vināśayet . paśyamānāḥ bhayam idam na śakṣyāmaḥ niṣevitum ..18..
कथमग्निर्न नो दह्यात्कथमाखुर्न भक्षयेत् । कथं न स्यात्पिता मोघः कथं माता ध्रियेत नः ॥१९॥
कथम् अग्निः न नः दह्यात् कथम् आखुः न भक्षयेत् । कथम् न स्यात् पिता मोघः कथम् माता ध्रियेत नः ॥१९॥
katham agniḥ na naḥ dahyāt katham ākhuḥ na bhakṣayet . katham na syāt pitā moghaḥ katham mātā dhriyeta naḥ ..19..
बिल आखोर्विनाशः स्यादग्नेराकाशचारिणाम् । अन्ववेक्ष्यैतदुभयं श्रेयान्दाहो न भक्षणम् ॥२०॥
बिले आखोः विनाशः स्यात् अग्नेः आकाशचारिणाम् । अन्ववेक्ष्य एतत् उभयम् श्रेयान् दाहः न भक्षणम् ॥२०॥
bile ākhoḥ vināśaḥ syāt agneḥ ākāśacāriṇām . anvavekṣya etat ubhayam śreyān dāhaḥ na bhakṣaṇam ..20..
गर्हितं मरणं नः स्यादाखुना खादता बिले । शिष्टादिष्टः परित्यागः शरीरस्य हुताशनात् ॥२१॥1.229.22
गर्हितम् मरणम् नः स्यात् आखुना खादता बिले । शिष्ट-आदिष्टः परित्यागः शरीरस्य हुताशनात् ॥२१॥१।२२९।२२
garhitam maraṇam naḥ syāt ākhunā khādatā bile . śiṣṭa-ādiṣṭaḥ parityāgaḥ śarīrasya hutāśanāt ..21..1.229.22

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In