| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

जरितोवाच॥
अस्माद्बिलान्निष्पतितं श्येन आखुं जहार तम् । क्षुद्रं गृहीत्वा पादाभ्यां भयं न भविता ततः ॥१॥
अस्मात् बिलात् निष्पतितम् श्येनः आखुम् जहार तम् । क्षुद्रम् गृहीत्वा पादाभ्याम् भयम् न भविता ततस् ॥१॥
asmāt bilāt niṣpatitam śyenaḥ ākhum jahāra tam . kṣudram gṛhītvā pādābhyām bhayam na bhavitā tatas ..1..
शार्ङ्गका ऊचुः॥
न हृतं तं वयं विद्मः श्येनेनाखुं कथञ्चन । अन्येऽपि भवितारोऽत्र तेभ्योऽपि भयमेव नः ॥२॥
न हृतम् तम् वयम् विद्मः श्येनेन आखुम् कथञ्चन । अन्ये अपि भवितारः अत्र तेभ्यः अपि भयम् एव नः ॥२॥
na hṛtam tam vayam vidmaḥ śyenena ākhum kathañcana . anye api bhavitāraḥ atra tebhyaḥ api bhayam eva naḥ ..2..
संशयो ह्यग्निरागच्छेद्दृष्टं वायोर्निवर्तनम् । मृत्युर्नो बिलवासिभ्यो भवेन्मातरसंशयम् ॥३॥
संशयः हि अग्निः आगच्छेत् दृष्टम् वायोः निवर्तनम् । मृत्युः नः बिल-वासिभ्यः भवेत् मातर् असंशयम् ॥३॥
saṃśayaḥ hi agniḥ āgacchet dṛṣṭam vāyoḥ nivartanam . mṛtyuḥ naḥ bila-vāsibhyaḥ bhavet mātar asaṃśayam ..3..
निःसंशयात्संशयितो मृत्युर्मातर्विशिष्यते । चर खे त्वं यथान्यायं पुत्रान्वेत्स्यसि शोभनान् ॥४॥
निःसंशयात् संशयितः मृत्युः मातर् विशिष्यते । चर खे त्वम् यथान्यायम् पुत्रान् वेत्स्यसि शोभनान् ॥४॥
niḥsaṃśayāt saṃśayitaḥ mṛtyuḥ mātar viśiṣyate . cara khe tvam yathānyāyam putrān vetsyasi śobhanān ..4..
जरितोवाच॥
अहं वै श्येनमायान्तमद्राक्षं बिलमन्तिकात् । सञ्चरन्तं समादाय जहाराखुं बिलाद्बली ॥५॥
अहम् वै श्येनम् आयान्तम् अद्राक्षम् बिलम् अन्तिकात् । सञ्चरन्तम् समादाय जहार आखुम् बिलात् बली ॥५॥
aham vai śyenam āyāntam adrākṣam bilam antikāt . sañcarantam samādāya jahāra ākhum bilāt balī ..5..
तं पतन्तमहं श्येनं त्वरिता पृष्ठतोऽन्वगाम् । आशिषोऽस्य प्रयुञ्जाना हरतो मूषकं बिलात् ॥६॥
तम् पतन्तम् अहम् श्येनम् त्वरिता पृष्ठतस् अन्वगाम् । आशिषः अस्य प्रयुञ्जाना हरतः मूषकम् बिलात् ॥६॥
tam patantam aham śyenam tvaritā pṛṣṭhatas anvagām . āśiṣaḥ asya prayuñjānā harataḥ mūṣakam bilāt ..6..
यो नो द्वेष्टारमादाय श्येनराज प्रधावसि । भव त्वं दिवमास्थाय निरमित्रो हिरण्मयः ॥७॥
यः नः द्वेष्टारम् आदाय श्येन-राज प्रधावसि । भव त्वम् दिवम् आस्थाय निरमित्रः हिरण्मयः ॥७॥
yaḥ naḥ dveṣṭāram ādāya śyena-rāja pradhāvasi . bhava tvam divam āsthāya niramitraḥ hiraṇmayaḥ ..7..
यदा स भक्षितस्तेन क्षुधितेन पतत्रिणा । तदाहं तमनुज्ञाप्य प्रत्युपायां गृहान्प्रति ॥८॥
यदा स भक्षितः तेन क्षुधितेन पतत्रिणा । तदा अहम् तम् अनुज्ञाप्य प्रत्युपायाम् गृहान् प्रति ॥८॥
yadā sa bhakṣitaḥ tena kṣudhitena patatriṇā . tadā aham tam anujñāpya pratyupāyām gṛhān prati ..8..
प्रविशध्वं बिलं पुत्रा विश्रब्धा नास्ति वो भयम् । श्येनेन मम पश्यन्त्या हृत आखुर्न संशयः ॥९॥
प्रविशध्वम् बिलम् पुत्राः विश्रब्धाः ना अस्ति वः भयम् । श्येनेन मम पश्यन्त्याः हृतः आखुः न संशयः ॥९॥
praviśadhvam bilam putrāḥ viśrabdhāḥ nā asti vaḥ bhayam . śyenena mama paśyantyāḥ hṛtaḥ ākhuḥ na saṃśayaḥ ..9..
शार्ङ्गका ऊचुः॥
न विद्म वै वयं मातर्हृतमाखुमितः पुरा । अविज्ञाय न शक्ष्यामो बिलमाविशतुं वयम् ॥१०॥
न विद्म वै वयम् मातर् हृतम् आखुम् इतस् पुरा । अ विज्ञाय न शक्ष्यामः बिलम् आविशतुम् वयम् ॥१०॥
na vidma vai vayam mātar hṛtam ākhum itas purā . a vijñāya na śakṣyāmaḥ bilam āviśatum vayam ..10..
जरितोवाच॥
अहं हि तं प्रजानामि हृतं श्येनेन मूषकम् । अत एव भयं नास्ति क्रियतां वचनं मम ॥११॥
अहम् हि तम् प्रजानामि हृतम् श्येनेन मूषकम् । अतस् एव भयम् ना अस्ति क्रियताम् वचनम् मम ॥११॥
aham hi tam prajānāmi hṛtam śyenena mūṣakam . atas eva bhayam nā asti kriyatām vacanam mama ..11..
शार्ङ्गका ऊचुः॥
न त्वं मिथ्योपचारेण मोक्षयेथा भयं महत् । समाकुलेषु ज्ञानेषु न बुद्धिकृतमेव तत् ॥१२॥
न त्वम् मिथ्योपचारेण मोक्षयेथाः भयम् महत् । समाकुलेषु ज्ञानेषु न बुद्धि-कृतम् एव तत् ॥१२॥
na tvam mithyopacāreṇa mokṣayethāḥ bhayam mahat . samākuleṣu jñāneṣu na buddhi-kṛtam eva tat ..12..
न चोपकृतमस्माभिर्न चास्मान्वेत्थ ये वयम् । पीड्यमाना भरस्यस्मान्का सती के वयं तव ॥१३॥
न च उपकृतम् अस्माभिः न च अस्मान् वेत्थ ये वयम् । पीड्यमाना भरसि अस्मान् का सती के वयम् तव ॥१३॥
na ca upakṛtam asmābhiḥ na ca asmān vettha ye vayam . pīḍyamānā bharasi asmān kā satī ke vayam tava ..13..
तरुणी दर्शनीयासि समर्था भर्तुरेषणे । अनुगच्छ स्वभर्तारं पुत्रानाप्स्यसि शोभनान् ॥१४॥
तरुणी दर्शनीया असि समर्था भर्तुः एषणे । अनुगच्छ स्व-भर्तारम् पुत्रान् आप्स्यसि शोभनान् ॥१४॥
taruṇī darśanīyā asi samarthā bhartuḥ eṣaṇe . anugaccha sva-bhartāram putrān āpsyasi śobhanān ..14..
वयमप्यग्निमाविश्य लोकान्प्राप्स्यामहे शुभान् । अथास्मान्न दहेदग्निरायास्त्वं पुनरेव नः ॥१५॥
वयम् अपि अग्निम् आविश्य लोकान् प्राप्स्यामहे शुभान् । अथ अस्मान् न दहेत् अग्निः आयाः त्वम् पुनर् एव नः ॥१५॥
vayam api agnim āviśya lokān prāpsyāmahe śubhān . atha asmān na dahet agniḥ āyāḥ tvam punar eva naḥ ..15..
वैशम्पायन उवाच॥
एवमुक्ता ततः शार्ङ्गी पुत्रानुत्सृज्य खाण्डवे । जगाम त्वरिता देशं क्षेममग्नेरनाश्रयम् ॥१६॥
एवम् उक्ता ततस् शार्ङ्गी पुत्रान् उत्सृज्य खाण्डवे । जगाम त्वरिता देशम् क्षेमम् अग्नेः अनाश्रयम् ॥१६॥
evam uktā tatas śārṅgī putrān utsṛjya khāṇḍave . jagāma tvaritā deśam kṣemam agneḥ anāśrayam ..16..
ततस्तीक्ष्णार्चिरभ्यागाज्ज्वलितो हव्यवाहनः । यत्र शार्ङ्गा बभूवुस्ते मन्दपालस्य पुत्रकाः ॥१७॥
ततस् तीक्ष्ण-अर्चिः अभ्यागात् ज्वलितः हव्यवाहनः । यत्र शार्ङ्गाः बभूवुः ते मन्दपालस्य पुत्रकाः ॥१७॥
tatas tīkṣṇa-arciḥ abhyāgāt jvalitaḥ havyavāhanaḥ . yatra śārṅgāḥ babhūvuḥ te mandapālasya putrakāḥ ..17..
ते शार्ङ्गा ज्वलनं दृष्ट्वा ज्वलितं स्वेन तेजसा । जरितारिस्ततो वाचं श्रावयामास पावकम् ॥१८॥1.230.18
ते शार्ङ्गाः ज्वलनम् दृष्ट्वा ज्वलितम् स्वेन तेजसा । जरितारिः ततस् वाचम् श्रावयामास पावकम् ॥१८॥१।२३०।१८
te śārṅgāḥ jvalanam dṛṣṭvā jvalitam svena tejasā . jaritāriḥ tatas vācam śrāvayāmāsa pāvakam ..18..1.230.18

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In