| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

वैशम्पायन उवाच॥
मन्दपालोऽपि कौरव्य चिन्तयानः सुतांस्तदा । उक्तवानप्यशीतांशुं नैव स स्म न तप्यते ॥१॥
मन्दपालः अपि कौरव्य चिन्तयानः सुतान् तदा । उक्तवान् अपि अशीतांशुम् ना एव स स्म न तप्यते ॥१॥
mandapālaḥ api kauravya cintayānaḥ sutān tadā . uktavān api aśītāṃśum nā eva sa sma na tapyate ..1..
स तप्यमानः पुत्रार्थे लपितामिदमब्रवीत् । कथं न्वशक्ताः प्लवने लपिते मम पुत्रकाः ॥२॥
स तप्यमानः पुत्र-अर्थे लपिताम् इदम् अब्रवीत् । कथम् नु अशक्ताः प्लवने लपिते मम पुत्रकाः ॥२॥
sa tapyamānaḥ putra-arthe lapitām idam abravīt . katham nu aśaktāḥ plavane lapite mama putrakāḥ ..2..
वर्धमाने हुतवहे वाते शीघ्रं प्रवायति । असमर्था विमोक्षाय भविष्यन्ति ममात्मजाः ॥३॥
वर्धमाने हुतवहे वाते शीघ्रम् प्रवायति । असमर्थाः विमोक्षाय भविष्यन्ति मम आत्मजाः ॥३॥
vardhamāne hutavahe vāte śīghram pravāyati . asamarthāḥ vimokṣāya bhaviṣyanti mama ātmajāḥ ..3..
कथं न्वशक्ता त्राणाय माता तेषां तपस्विनी । भविष्यत्यसुखाविष्टा पुत्रत्राणमपश्यती ॥४॥
कथम् नु अशक्ता त्राणाय माता तेषाम् तपस्विनी । भविष्यति असुख-आविष्टा पुत्र-त्राणम् अपश्यती ॥४॥
katham nu aśaktā trāṇāya mātā teṣām tapasvinī . bhaviṣyati asukha-āviṣṭā putra-trāṇam apaśyatī ..4..
कथं नु सरणेऽशक्तान्पतने च ममात्मजान् । सन्तप्यमाना अभितो वाशमानाभिधावती ॥५॥
कथम् नु सरणे अशक्तान् पतने च मम आत्मजान् । सन्तप्यमाना अभितस् वाशमाना अभिधावती ॥५॥
katham nu saraṇe aśaktān patane ca mama ātmajān . santapyamānā abhitas vāśamānā abhidhāvatī ..5..
जरितारिः कथं पुत्रः सारिसृक्वः कथं च मे । स्तम्बमित्रः कथं द्रोणः कथं सा च तपस्विनी ॥६॥
जरितारिः कथम् पुत्रः सारिसृक्वः कथम् च मे । स्तम्बमित्रः कथम् द्रोणः कथम् सा च तपस्विनी ॥६॥
jaritāriḥ katham putraḥ sārisṛkvaḥ katham ca me . stambamitraḥ katham droṇaḥ katham sā ca tapasvinī ..6..
लालप्यमानं तमृषिं मन्दपालं तथा वने । लपिता प्रत्युवाचेदं सासूयमिव भारत ॥७॥
लालप्यमानम् तम् ऋषिम् मन्दपालम् तथा वने । लपिता प्रत्युवाच इदम् स असूयम् इव भारत ॥७॥
lālapyamānam tam ṛṣim mandapālam tathā vane . lapitā pratyuvāca idam sa asūyam iva bhārata ..7..
न ते सुतेष्ववेक्षास्ति तानृषीनुक्तवानसि । तेजस्विनो वीर्यवन्तो न तेषां ज्वलनाद्भयम् ॥८॥
न ते सुतेषु अवेक्षा अस्ति तान् ऋषीन् उक्तवान् असि । तेजस्विनः वीर्यवन्तः न तेषाम् ज्वलनात् भयम् ॥८॥
na te suteṣu avekṣā asti tān ṛṣīn uktavān asi . tejasvinaḥ vīryavantaḥ na teṣām jvalanāt bhayam ..8..
तथाग्नौ ते परीत्ताश्च त्वया हि मम संनिधौ । प्रतिश्रुतं तथा चेति ज्वलनेन महात्मना ॥९॥
तथा अग्नौ ते परीत्ताः च त्वया हि मम संनिधौ । प्रतिश्रुतम् तथा च इति ज्वलनेन महात्मना ॥९॥
tathā agnau te parīttāḥ ca tvayā hi mama saṃnidhau . pratiśrutam tathā ca iti jvalanena mahātmanā ..9..
लोकपालोऽनृतां वाचं न तु वक्ता कथञ्चन । समर्थास्ते च वक्तारो न ते तेष्वस्ति मानसम् ॥१०॥
लोकपालः अनृताम् वाचम् न तु वक्ता कथञ्चन । समर्थाः ते च वक्तारः न ते तेषु अस्ति मानसम् ॥१०॥
lokapālaḥ anṛtām vācam na tu vaktā kathañcana . samarthāḥ te ca vaktāraḥ na te teṣu asti mānasam ..10..
तामेव तु ममामित्रीं चिन्तयन्परितप्यसे । ध्रुवं मयि न ते स्नेहो यथा तस्यां पुराभवत् ॥११॥
ताम् एव तु मम अमित्रीम् चिन्तयन् परितप्यसे । ध्रुवम् मयि न ते स्नेहः यथा तस्याम् पुरा भवत् ॥११॥
tām eva tu mama amitrīm cintayan paritapyase . dhruvam mayi na te snehaḥ yathā tasyām purā bhavat ..11..
न हि पक्षवता न्याय्यं निःस्नेहेन सुहृज्जने । पीड्यमान उपद्रष्टुं शक्तेनात्मा कथञ्चन ॥१२॥
न हि पक्षवता न्याय्यम् निःस्नेहेन सुहृद्-जने । पीड्यमानः उपद्रष्टुम् शक्तेन आत्मा कथञ्चन ॥१२॥
na hi pakṣavatā nyāyyam niḥsnehena suhṛd-jane . pīḍyamānaḥ upadraṣṭum śaktena ātmā kathañcana ..12..
गच्छ त्वं जरितामेव यदर्थं परितप्यसे । चरिष्याम्यहमप्येका यथा कापुरुषे तथा ॥१३॥
गच्छ त्वम् जरिताम् एव यद्-अर्थम् परितप्यसे । चरिष्यामि अहम् अपि एका यथा कापुरुषे तथा ॥१३॥
gaccha tvam jaritām eva yad-artham paritapyase . cariṣyāmi aham api ekā yathā kāpuruṣe tathā ..13..
मन्दपाल उवाच॥
नाहमेवं चरे लोके यथा त्वमभिमन्यसे । अपत्यहेतोर्विचरे तच्च कृच्छ्रगतं मम ॥१४॥
न अहम् एवम् चरे लोके यथा त्वम् अभिमन्यसे । अपत्य-हेतोः विचरे तत् च कृच्छ्र-गतम् मम ॥१४॥
na aham evam care loke yathā tvam abhimanyase . apatya-hetoḥ vicare tat ca kṛcchra-gatam mama ..14..
भूतं हित्वा भविष्येऽर्थे योऽवलम्बेत मन्दधीः । अवमन्येत तं लोको यथेच्छसि तथा कुरु ॥१५॥
भूतम् हित्वा भविष्ये अर्थे यः अवलम्बेत मन्द-धीः । अवमन्येत तम् लोकः यथा इच्छसि तथा कुरु ॥१५॥
bhūtam hitvā bhaviṣye arthe yaḥ avalambeta manda-dhīḥ . avamanyeta tam lokaḥ yathā icchasi tathā kuru ..15..
एष हि ज्वलमानोऽग्निर्लेलिहानो महीरुहान् । द्वेष्यं हि हृदि सन्तापं जनयत्यशिवं मम ॥१६॥
एष हि ज्वलमानः अग्निः लेलिहानः महीरुहान् । द्वेष्यम् हि हृदि सन्तापम् जनयति अशिवम् मम ॥१६॥
eṣa hi jvalamānaḥ agniḥ lelihānaḥ mahīruhān . dveṣyam hi hṛdi santāpam janayati aśivam mama ..16..
वैशम्पायन उवाच॥
तस्माद्देशादतिक्रान्ते ज्वलने जरिता ततः । जगाम पुत्रकानेव त्वरिता पुत्रगृद्धिनी ॥१७॥
तस्मात् देशात् अतिक्रान्ते ज्वलने जरिता ततस् । जगाम पुत्रकान् एव त्वरिता पुत्र-गृद्धिनी ॥१७॥
tasmāt deśāt atikrānte jvalane jaritā tatas . jagāma putrakān eva tvaritā putra-gṛddhinī ..17..
सा तान्कुशलिनः सर्वान्निर्मुक्ताञ्जातवेदसः । रोरूयमाणा कृपणा सुतान्दृष्टवती वने ॥१८॥
सा तान् कुशलिनः सर्वान् निर्मुक्तान् जातवेदसः । रोरूयमाणा कृपणा सुतान् दृष्टवती वने ॥१८॥
sā tān kuśalinaḥ sarvān nirmuktān jātavedasaḥ . rorūyamāṇā kṛpaṇā sutān dṛṣṭavatī vane ..18..
अश्रद्धेयतमं तेषां दर्शनं सा पुनः पुनः । एकैकशश्च तान्पुत्रान्क्रोशमानान्वपद्यत ॥१९॥
अश्रद्धेयतमम् तेषाम् दर्शनम् सा पुनर् पुनर् । एकैकशस् च तान् पुत्रान् क्रोशमाना वपद्यत ॥१९॥
aśraddheyatamam teṣām darśanam sā punar punar . ekaikaśas ca tān putrān krośamānā vapadyata ..19..
ततोऽभ्यगच्छत्सहसा मन्दपालोऽपि भारत । अथ ते सर्व एवैनं नाभ्यनन्दन्त वै सुताः ॥२०॥
ततस् अभ्यगच्छत् सहसा मन्दपालः अपि भारत । अथ ते सर्वे एव एनम् न अभ्यनन्दन्त वै सुताः ॥२०॥
tatas abhyagacchat sahasā mandapālaḥ api bhārata . atha te sarve eva enam na abhyanandanta vai sutāḥ ..20..
लालप्यमानमेकैकं जरितां च पुनः पुनः । नोचुस्ते वचनं किञ्चित्तमृषिं साध्वसाधु वा ॥२१॥
लालप्यमानम् एकैकम् जरिताम् च पुनर् पुनर् । न ऊचुः ते वचनम् किञ्चिद् तम् ऋषिम् साधु असाधु वा ॥२१॥
lālapyamānam ekaikam jaritām ca punar punar . na ūcuḥ te vacanam kiñcid tam ṛṣim sādhu asādhu vā ..21..
मन्दपाल उवाच॥
ज्येष्ठः सुतस्ते कतमः कतमस्तदनन्तरः । मध्यमः कतमः पुत्रः कनिष्ठः कतमश्च ते ॥२२॥
ज्येष्ठः सुतः ते कतमः कतमः तद्-अनन्तरः । मध्यमः कतमः पुत्रः कनिष्ठः कतमः च ते ॥२२॥
jyeṣṭhaḥ sutaḥ te katamaḥ katamaḥ tad-anantaraḥ . madhyamaḥ katamaḥ putraḥ kaniṣṭhaḥ katamaḥ ca te ..22..
एवं ब्रुवन्तं दुःखार्तं किं मां न प्रतिभाषसे । कृतवानस्मि हव्याशे नैव शान्तिमितो लभे ॥२३॥
एवम् ब्रुवन्तम् दुःख-आर्तम् किम् माम् न प्रतिभाषसे । कृतवान् अस्मि हव्य-आशे ना एव शान्तिम् इतस् लभे ॥२३॥
evam bruvantam duḥkha-ārtam kim mām na pratibhāṣase . kṛtavān asmi havya-āśe nā eva śāntim itas labhe ..23..
जरितोवाच॥
किं ते ज्येष्ठे सुते कार्यं किमनन्तरजेन वा । किं च ते मध्यमे कार्यं किं कनिष्ठे तपस्विनि ॥२४॥
किम् ते ज्येष्ठे सुते कार्यम् किम् अनन्तरजेन वा । किम् च ते मध्यमे कार्यम् किम् कनिष्ठे तपस्विनि ॥२४॥
kim te jyeṣṭhe sute kāryam kim anantarajena vā . kim ca te madhyame kāryam kim kaniṣṭhe tapasvini ..24..
यस्त्वं मां सर्वशो हीनामुत्सृज्यासि गतः पुरा । तामेव लपितां गच्छ तरुणीं चारुहासिनीम् ॥२५॥
यः त्वम् माम् सर्वशस् हीनाम् उत्सृज्य असि गतः पुरा । ताम् एव लपिताम् गच्छ तरुणीम् चारु-हासिनीम् ॥२५॥
yaḥ tvam mām sarvaśas hīnām utsṛjya asi gataḥ purā . tām eva lapitām gaccha taruṇīm cāru-hāsinīm ..25..
मन्दपाल उवाच॥
न स्त्रीणां विद्यते किञ्चिदन्यत्र पुरुषान्तरात् । सापत्नकमृते लोके भवितव्यं हि तत्तथा ॥२६॥
न स्त्रीणाम् विद्यते किञ्चिद् अन्यत्र पुरुष-अन्तरात् । सापत्नकम् ऋते लोके भवितव्यम् हि तत् तथा ॥२६॥
na strīṇām vidyate kiñcid anyatra puruṣa-antarāt . sāpatnakam ṛte loke bhavitavyam hi tat tathā ..26..
सुव्रतापि हि कल्याणी सर्वलोकपरिश्रुता । अरुन्धती पर्यशङ्कद्वसिष्ठमृषिसत्तमम् ॥२७॥
सुव्रता अपि हि कल्याणी सर्व-लोक-परिश्रुता । अरुन्धती पर्यशङ्कत् वसिष्ठम् ऋषि-सत्तमम् ॥२७॥
suvratā api hi kalyāṇī sarva-loka-pariśrutā . arundhatī paryaśaṅkat vasiṣṭham ṛṣi-sattamam ..27..
विशुद्धभावमत्यन्तं सदा प्रियहिते रतम् । सप्तर्षिमध्यगं वीरमवमेने च तं मुनिम् ॥२८॥
विशुद्ध-भावम् अत्यन्तम् सदा प्रिय-हिते रतम् । सप्तर्षि-मध्य-गम् वीरम् अवमेने च तम् मुनिम् ॥२८॥
viśuddha-bhāvam atyantam sadā priya-hite ratam . saptarṣi-madhya-gam vīram avamene ca tam munim ..28..
अपध्यानेन सा तेन धूमारुणसमप्रभा । लक्ष्यालक्ष्या नाभिरूपा निमित्तमिव लक्ष्यते ॥२९॥
अपध्यानेन सा तेन धूम-अरुण-सम-प्रभा । लक्ष्यालक्ष्या न अभिरूपा निमित्तम् इव लक्ष्यते ॥२९॥
apadhyānena sā tena dhūma-aruṇa-sama-prabhā . lakṣyālakṣyā na abhirūpā nimittam iva lakṣyate ..29..
अपत्यहेतोः सम्प्राप्तं तथा त्वमपि मामिह । इष्टमेवङ्गते हित्वा सा तथैव च वर्तसे ॥३०॥
अपत्य-हेतोः सम्प्राप्तम् तथा त्वम् अपि माम् इह । इष्टम् एवङ्गते हित्वा सा तथा एव च वर्तसे ॥३०॥
apatya-hetoḥ samprāptam tathā tvam api mām iha . iṣṭam evaṅgate hitvā sā tathā eva ca vartase ..30..
नैव भार्येति विश्वासः कार्यः पुंसा कथञ्चन । न हि कार्यमनुध्याति भार्या पुत्रवती सती ॥३१॥
न एव भार्या इति विश्वासः कार्यः पुंसा कथञ्चन । न हि कार्यम् अनुध्याति भार्या पुत्रवती सती ॥३१॥
na eva bhāryā iti viśvāsaḥ kāryaḥ puṃsā kathañcana . na hi kāryam anudhyāti bhāryā putravatī satī ..31..
वैशम्पायन उवाच॥
ततस्ते सर्व एवैनं पुत्राः सम्यगुपासिरे । स च तानात्मजान्राजन्नाश्वासयितुमारभत् ॥३२॥1.232.32
ततस् ते सर्वे एव एनम् पुत्राः सम्यक् उपासिरे । स च तान् आत्मजान् राजन् आश्वासयितुम् आरभत् ॥३२॥१।२३२।३२
tatas te sarve eva enam putrāḥ samyak upāsire . sa ca tān ātmajān rājan āśvāsayitum ārabhat ..32..1.232.32

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In