| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मन्दपाल उवाच॥
युष्माकं परिरक्षार्थं विज्ञप्तो ज्वलनो मया । अग्निना च तथेत्येवं पूर्वमेव प्रतिश्रुतम् ॥१॥
युष्माकम् परिरक्षा-अर्थम् विज्ञप्तः ज्वलनः मया । अग्निना च तथा इति एवम् पूर्वम् एव प्रतिश्रुतम् ॥१॥
yuṣmākam parirakṣā-artham vijñaptaḥ jvalanaḥ mayā . agninā ca tathā iti evam pūrvam eva pratiśrutam ..1..
अग्नेर्वचनमाज्ञाय मातुर्धर्मज्ञतां च वः । युष्माकं च परं वीर्यं नाहं पूर्वमिहागतः ॥२॥
अग्नेः वचनम् आज्ञाय मातुः धर्म-ज्ञ-ताम् च वः । युष्माकम् च परम् वीर्यम् न अहम् पूर्वम् इह आगतः ॥२॥
agneḥ vacanam ājñāya mātuḥ dharma-jña-tām ca vaḥ . yuṣmākam ca param vīryam na aham pūrvam iha āgataḥ ..2..
न सन्तापो हि वः कार्यः पुत्रका मरणं प्रति । ऋषीन्वेद हुताशोऽपि ब्रह्म तद्विदितं च वः ॥३॥
न सन्तापः हि वः कार्यः पुत्रकाः मरणम् प्रति । ऋषीन् वेद हुताशः अपि ब्रह्म तत् विदितम् च वः ॥३॥
na santāpaḥ hi vaḥ kāryaḥ putrakāḥ maraṇam prati . ṛṣīn veda hutāśaḥ api brahma tat viditam ca vaḥ ..3..
वैशम्पायन उवाच॥
एवमाश्वास्य पुत्रान्स भार्यां चादाय भारत । मन्दपालस्ततो देशादन्यं देशं जगाम ह ॥४॥
एवम् आश्वास्य पुत्रान् स भार्याम् च आदाय भारत । मन्दपालः ततस् देशात् अन्यम् देशम् जगाम ह ॥४॥
evam āśvāsya putrān sa bhāryām ca ādāya bhārata . mandapālaḥ tatas deśāt anyam deśam jagāma ha ..4..
भगवानपि तिग्मांशुः समिद्धं खाण्डवं वनम् । ददाह सह कृष्णाभ्यां जनयञ्जगतोऽभयम् ॥५॥
भगवान् अपि तिग्मांशुः समिद्धम् खाण्डवम् वनम् । ददाह सह कृष्णाभ्याम् जनयन् जगतः अभयम् ॥५॥
bhagavān api tigmāṃśuḥ samiddham khāṇḍavam vanam . dadāha saha kṛṣṇābhyām janayan jagataḥ abhayam ..5..
वसामेदोवहाः कुल्यास्तत्र पीत्वा च पावकः । अगच्छत्परमां तृप्तिं दर्शयामास चार्जुनम् ॥६॥
वसा-मेदः-वहाः कुल्याः तत्र पीत्वा च पावकः । अगच्छत् परमाम् तृप्तिम् दर्शयामास च अर्जुनम् ॥६॥
vasā-medaḥ-vahāḥ kulyāḥ tatra pītvā ca pāvakaḥ . agacchat paramām tṛptim darśayāmāsa ca arjunam ..6..
ततोऽन्तरिक्षाद्भगवानवतीर्य सुरेश्वरः । मरुद्गणवृतः पार्थं माधवं चाब्रवीदिदम् ॥७॥
ततस् अन्तरिक्षात् भगवान् अवतीर्य सुरेश्वरः । मरुत्-गण-वृतः पार्थम् माधवम् च अब्रवीत् इदम् ॥७॥
tatas antarikṣāt bhagavān avatīrya sureśvaraḥ . marut-gaṇa-vṛtaḥ pārtham mādhavam ca abravīt idam ..7..
कृतं युवाभ्यां कर्मेदममरैरपि दुष्करम् । वरान्वृणीतं तुष्टोऽस्मि दुर्लभानप्यमानुषान् ॥८॥
कृतम् युवाभ्याम् कर्म इदम् अमरैः अपि दुष्करम् । वरान् वृणीतम् तुष्टः अस्मि दुर्लभान् अपि अमानुषान् ॥८॥
kṛtam yuvābhyām karma idam amaraiḥ api duṣkaram . varān vṛṇītam tuṣṭaḥ asmi durlabhān api amānuṣān ..8..
पार्थस्तु वरयामास शक्रादस्त्राणि सर्वशः । ग्रहीतुं तच्च शक्रोऽस्य तदा कालं चकार ह ॥९॥
पार्थः तु वरयामास शक्रात् अस्त्राणि सर्वशस् । ग्रहीतुम् तत् च शक्रः अस्य तदा कालम् चकार ह ॥९॥
pārthaḥ tu varayāmāsa śakrāt astrāṇi sarvaśas . grahītum tat ca śakraḥ asya tadā kālam cakāra ha ..9..
यदा प्रसन्नो भगवान्महादेवो भविष्यति । तुभ्यं तदा प्रदास्यामि पाण्डवास्त्राणि सर्वशः ॥१०॥
यदा प्रसन्नः भगवान् महादेवः भविष्यति । तुभ्यम् तदा प्रदास्यामि पाण्डव-अस्त्राणि सर्वशस् ॥१०॥
yadā prasannaḥ bhagavān mahādevaḥ bhaviṣyati . tubhyam tadā pradāsyāmi pāṇḍava-astrāṇi sarvaśas ..10..
अहमेव च तं कालं वेत्स्यामि कुरुनन्दन । तपसा महता चापि दास्यामि तव तान्यहम् ॥११॥
अहम् एव च तम् कालम् वेत्स्यामि कुरु-नन्दन । तपसा महता च अपि दास्यामि तव तानि अहम् ॥११॥
aham eva ca tam kālam vetsyāmi kuru-nandana . tapasā mahatā ca api dāsyāmi tava tāni aham ..11..
आग्नेयानि च सर्वाणि वायव्यानि तथैव च । मदीयानि च सर्वाणि ग्रहीष्यसि धनञ्जय ॥१२॥
आग्नेयानि च सर्वाणि वायव्यानि तथा एव च । मदीयानि च सर्वाणि ग्रहीष्यसि धनञ्जय ॥१२॥
āgneyāni ca sarvāṇi vāyavyāni tathā eva ca . madīyāni ca sarvāṇi grahīṣyasi dhanañjaya ..12..
वासुदेवोऽपि जग्राह प्रीतिं पार्थेन शाश्वतीम् । ददौ च तस्मै देवेन्द्रस्तं वरं प्रीतिमांस्तदा ॥१३॥
वासुदेवः अपि जग्राह प्रीतिम् पार्थेन शाश्वतीम् । ददौ च तस्मै देव-इन्द्रः तम् वरम् प्रीतिमान् तदा ॥१३॥
vāsudevaḥ api jagrāha prītim pārthena śāśvatīm . dadau ca tasmai deva-indraḥ tam varam prītimān tadā ..13..
दत्त्वा ताभ्यां वरं प्रीतः सह देवैर्मरुत्पतिः । हुताशनमनुज्ञाप्य जगाम त्रिदिवं पुनः ॥१४॥
दत्त्वा ताभ्याम् वरम् प्रीतः सह देवैः मरुत्पतिः । हुताशनम् अनुज्ञाप्य जगाम त्रिदिवम् पुनर् ॥१४॥
dattvā tābhyām varam prītaḥ saha devaiḥ marutpatiḥ . hutāśanam anujñāpya jagāma tridivam punar ..14..
पावकश्चापि तं दावं दग्ध्वा समृगपक्षिणम् । अहानि पञ्च चैकं च विरराम सुतर्पितः ॥१५॥
पावकः च अपि तम् दावम् दग्ध्वा स मृग-पक्षिणम् । अहानि पञ्च च एकम् च विरराम सु तर्पितः ॥१५॥
pāvakaḥ ca api tam dāvam dagdhvā sa mṛga-pakṣiṇam . ahāni pañca ca ekam ca virarāma su tarpitaḥ ..15..
जग्ध्वा मांसानि पीत्वा च मेदांसि रुधिराणि च । युक्तः परमया प्रीत्या तावुवाच विशां पते ॥१६॥
जग्ध्वा मांसानि पीत्वा च मेदांसि रुधिराणि च । युक्तः परमया प्रीत्या तौ उवाच विशाम् पते ॥१६॥
jagdhvā māṃsāni pītvā ca medāṃsi rudhirāṇi ca . yuktaḥ paramayā prītyā tau uvāca viśām pate ..16..
युवाभ्यां पुरुषाग्र्याभ्यां तर्पितोऽस्मि यथासुखम् । अनुजानामि वां वीरौ चरतं यत्र वाञ्छितम् ॥१७॥
युवाभ्याम् पुरुष-अग्र्याभ्याम् तर्पितः अस्मि यथासुखम् । अनुजानामि वाम् वीरौ चरतम् यत्र वाञ्छितम् ॥१७॥
yuvābhyām puruṣa-agryābhyām tarpitaḥ asmi yathāsukham . anujānāmi vām vīrau caratam yatra vāñchitam ..17..
एवं तौ समनुज्ञातौ पावकेन महात्मना । अर्जुनो वासुदेवश्च दानवश्च मयस्तथा ॥१८॥
एवम् तौ समनुज्ञातौ पावकेन महात्मना । अर्जुनः वासुदेवः च दानवः च मयः तथा ॥१८॥
evam tau samanujñātau pāvakena mahātmanā . arjunaḥ vāsudevaḥ ca dānavaḥ ca mayaḥ tathā ..18..
परिक्रम्य ततः सर्वे त्रयोऽपि भरतर्षभ । रमणीये नदीकूले सहिताः समुपाविशन् ॥१९॥1.233.19
परिक्रम्य ततस् सर्वे त्रयः अपि भरत-ऋषभ । रमणीये नदी-कूले सहिताः समुपाविशन् ॥१९॥१।२३३।१९
parikramya tatas sarve trayaḥ api bharata-ṛṣabha . ramaṇīye nadī-kūle sahitāḥ samupāviśan ..19..1.233.19

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In